स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः १७

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ श्रीवेंकटाचलक्षेत्रादिवर्णनम् ।।
।। श्रीसूत उवाच ।। ।।
वेंकटाद्रेस्तु माहात्म्यं भूयोऽपि प्रवदाम्यहम् ।।
युष्माकं सावधानेन शृणुध्वं सुसमाहिताः ।। १ ।।
पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ।।
तानि सर्वाणि वर्तंते वेंकटाह्वयभूधरे ।। २ ।।
तस्मिन्नगोत्तमे पुण्ये वसन्तं पुरुषोत्तमम् ।।
शंखचक्रधरं देवं पीताम्बरधरं शुभम् ।। ३ ।।
कौस्तुभालंकृतोरस्कं भक्तानामभयप्रदम् ।।
देवदेवं विशालाक्षं वेदवेद्यं सनातनम् ।। ।। ४ ।।
अंगकोसलकर्णाटकाशीगुर्जरदेशगाः ।।
चोलकेरलपाण्ड्यादिसर्वदेशसमुद्भवाः ।। ५ ।।
सकुटुंबाश्च सेवार्थमायान्ति प्रतिवत्सरम् ।।
देवाश्च ऋषयः सिद्धा योगिनः सनकादयः ।। ६ ।।
ये भाद्रपदमासे तु वेंकटेशमहोत्सवे ।।
सेवां कुर्वन्ति ते सर्वे निष्पापा उत्तमोत्तमाः ।। ७ ।।
तत्र श्रीवेंकटेशस्य ब्रह्मा लोकपितामहः ।।
चकार कन्यामासे तु ध्वजारोपमहोत्सवम् ।। ८ ।।
प्रतिवर्षं च तत्सेवा निमित्तं सर्वमानवाः ।।
सर्वे देवाश्च गंधर्वाः सिद्धाः साध्या महौजसः ।। ९ ।।
ब्रह्मोत्सवे भगवतः समायांति द्विजोत्तमाः ।।
विद्यानां वेदविद्येव मंत्राणां प्रणवो यथा ।। 2.1.17.१० ।।
प्राणवत्प्रियवस्तूनां धेनूनां कामधेनुवत् ।।
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ।। ११ ।।
शेषवत्सर्वनागानां पक्षिणां गरुडो यथा ।।
देवानां तु यथा विष्णुर्वर्णानां ब्राह्मणो यथा ।। १२ ।।
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ।।
भूरुहाणां सुरतरुर्भार्येव सुहृदां यथा ।। १३ ।।
तीर्थानां तु यथा गंगा तेजसां तु रविर्यथा ।।
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ।।१४।।
आयुधानां यथा वज्रं लोहानां कांचनं यथा ।।
वैष्णवानां यथा रुद्रो रत्नानां कौस्तुभो यथा ।। १५ ।।
तथा वेंकटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ।।
नानेन सदृशो लोके विष्णुप्रीतिविवर्धनः ।। १६ ।।
न माधवसमो मासो न कृतेन समं युगम् ।।
न च वेदसमं शास्त्रं न तीर्थं गंगया समम् ।। १७ ।।
न जलेन समं दानं न सुखं भार्यया समम्।।
न कृषेस्तु समं वित्तं न लाभो जीवितात्परः ।। १८ ।।
न तपोऽनशनादन्यन्न दानात्परमं सुखम् ।।
न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम् ।। १९ ।।
न तृप्तिरशनातुल्या न वाणिज्यं कृषेः समम् ।।
न धर्मेण समं मित्रं न सत्येन समं यशः ।। ।। 2.1.17.२० ।।
यथा तथा भगवतः स्थानेन सदृशं न हि ।। २१ ।।
यत्कीर्तनं सकलपापहरं मुनीन्द्रा यद्वन्दनं सकलसौख्यदमेव लोके ।।
यात्रापि यं प्रति सुरैरपि पूजनीया तादृङ्महान्भवति वेंकटशैलमुख्यः ।। २२ ।।
तस्यानुभावं प्रवदामि भूयः समस्ततीर्थानि वसंति यत्र ।।
एवं समस्तेषु च मुख्यतीर्थं श्रीस्वामिनामास्ति सरोवरं तत् ।। २३ ।।
माहात्म्यमेतस्य मयोच्यते कथं यत्पश्चिमे रोधसि भूवराहः ।।
आलिंग्य कान्तामतिसौम्यमूर्तिर्विराजते विश्वजनोपकारी ।। २४ ।।
श्रीस्वामिपुष्करिण्यां च दक्षिणे वेंकटेश्वरः ।।
आलिंगितवपुर्लक्ष्म्या वरदो वर्तते चिरम् ।। २५ ।।
एवं वः कथितं विप्राः क्षेत्रमाहात्म्यमुत्तमम् ।।
यः शृणोति सदा भक्त्या विष्णुलोके महीयते ।। २६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये क्षेत्रमहिमानुवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।