स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ रामकृष्णतीर्थमाहात्म्यम् ।।
।। श्रीसूत उवाच ।। ।।
वेंकटाख्ये महापुण्ये सर्वपातकनाशने ।।
कृष्णतीर्थस्य माहात्म्यं शृणुध्वं सुसमाहिताः ।। १ ।।
यत्र मज्जनमात्रेण कृतघ्नोऽपि विमुच्यते ।।
पितॄन्मातॄर्गुरूंश्चावमन्यंते मोहमोहिताः ।। २ ।।
ये चाप्यन्ये दुरात्मानः कृतघ्ना निरपत्रपाः ।।
ते सर्वे कृष्णतीर्थेस्मिञ्छुद्ध्यन्ति स्नानमात्रतः ।। ३ ।।
कृष्णनामा मुनिः पूर्वं वेंकटाहृयभूधरे ।।
अवर्तत तपः कुर्वन्विष्णुं ध्यायन्समाहितः ।। ४ ।।
स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ।।
तत्र स्नात्वा सकृन्मर्त्यः कृतघ्नोऽपि विमुच्यते ।। ५ ।।
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ।।
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात्।। ६ ।।
पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः ।।
सत्यवाञ्छीलवान्वाग्मी सर्वभूतदयान्वितः ।। ७ ।।
शत्रुमित्रसमो दान्तस्तपस्वी विजितेंद्रियः ।।
परे ब्रह्मणि निष्णातो ब्रह्मतत्त्वैकसंश्रयः ।। ८ ।।
एवंप्रभावः स मुनिस्तपस्तेपे सुदारुणम् ।।
स वै निश्चलसर्वांगस्तिष्ठन्सर्वत्र भूतले ।। ९ ।।
परमाण्वन्तरं वापि न स्वस्थानाच्चचाल सः ।।
स्थित्वा तत्र तपस्यंतमनेकशतवत्सरान् ।। 2.1.15.१० ।।
तं चाक्रमत वल्मीकं छादितांगं चकार वै ।।
वल्मीकाक्रान्तदेहोऽपि रामकृष्णो महामुनिः ।।११।।
अकरोत्तप एवासौ वल्मीकं न त्वबुध्यत ।।
तस्मिंश्च तप्यति तपो वासवो मुनिपुंगवे।। १२ ।।
विसृज्य मेघजालानि वर्षयामास वेगवान् ।।
एवं दिनानि सप्तायं ववर्ष च निरन्तरम् ।। १३ ।।
धारावर्षेण महता वृष्यमाणोपि वै मुनिः ।।
तद्वर्षं प्रतिजग्राह निमीलितविलोचनः ।। १४ ।।
महता स्तनितेनाशु तदा बधिरयन्छ्रुतीः ।।
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ।। १५ ।।
तस्मिन्वर्षति पर्जन्ये शीतवातादिदुःसहे ।। १६ ।।
।। अथ रामकृष्णाख्यमहर्षितपःप्रसन्नभगवदाविर्भावः ।। ।।
वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम्।।
तदाप्रादुरभूद्देवः शङ्खचक्रगदाधरः ।। १७ ।।
विनतानन्दनारूढो वनमालाविभूषितः ।।
रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत्।। १८ ।।
तपोनिधे रामकृष्ण वेदशास्त्रार्थपारग ।।
मदाविर्भावदिवसे यः स्नाति मनुजोत्तमः ।। १९ ।।
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ।।
मकरस्थे रवौ विप्र पौर्णमास्यां महातिथौ ।। 2.1.15.२० ।।
पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ।।
तद्दिने स्नाति यो मर्त्यः कृष्णतीर्थं महामतिः ।। २१ ।।
सर्वपापविनिर्मुक्तः सर्वान्कामाँल्लभेत सः ।।
मदाविर्भावदिवसे कृष्णतीर्थजले शुभे ।। २२ ।।
स्नातुं तत्र समायांति स्वपापपरिशुद्धये ।।
देवा मनुष्याः सर्वे च दिक्पालाश्च महौजसः ।। २३ ।।
एते सर्वे महात्मानः कोटिसूर्यसमप्रभाः ।।
ते सर्वे कृष्णतीर्थेस्मिन्स्नानात्पूता भवंति हि ।। २४ ।।
त्वन्नाम्नेदं महातीर्थं लोके प्रख्यातिमेष्यति ।।
इत्युक्त्वा श्रीनिवासश्च तत्रैवान्तरधीयत ।। २५ ।।
एवं प्रभावं तत्तीर्थं महापापविशोधनम् ।।
बुद्धिशुद्धिप्रदं पुसां सर्वैश्वर्यप्रदायकम् ।। २६ ।।
एवं वः कथितं विप्राः कृष्णतीर्थस्य वैभवम् ।।
शृण्वतां पठतां चैव विष्णुलोकप्रदायकम् ।। २७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये रामकृष्णतीर्थमहिमानुवर्णनंनाम पञ्चदशोऽध्यायः ।। १५ ।।