स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः १४

विकिस्रोतः तः

।। अथ सुमत्याख्यद्विजवृत्तान्तः ।।
।। श्रीसूत उवाच ।। ।।
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ।।
स्वामितीर्थस्य माहात्म्यं भूयोऽपि प्रवदाम्यहम् ।। १ ।।
पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ।।
पीतवान्पुष्करिण्यां स स्नात्वा पापाद्विमोचितः ।। २ ।।
।। ऋषय ऊचुः ।। ।।
सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ ।।
कथं किरात्यासक्तोऽभूत्सूत पौराणिकोत्तम ।। ३ ।।
सर्वेषां विस्तरादेतद्वद त्वं कृपयाधुना ।। ४ ।।
।। श्रीसूत उवाच ।। ।।
महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ।।
यज्ञदेव इति ख्यातो वेदवेदांगपारगः ।। ५ ।।
दयालुरातिथेयश्च शिवनारायणार्चकः ।।
सुमतिर्नामपुत्रोऽभूद्यज्ञदेवस्य तस्य वै ।। ६ ।।
पितरं स परित्यज्य भार्यामपि पतिव्रताम् ।।
प्रययावुत्कले देशे विटगोष्ठीपरायणः ।।७।।
काचित्किराती तद्देशे वसन्ती युवमोहनी ।।
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम् ।।८।।
तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ।।
सुमतिं सा च जग्राह किराती निर्धनं द्विजम् ।। ९ ।।
।।अथ सुमत्याख्यद्विजस्य किरातीसङ्गान्महापातकप्राप्तिः ।।
तया युक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ।।
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ।।2.1.14.१०।।
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः।।
एकेन चषकेणासौ तया सह सुरां पपौ ।। ११ ।।
एवं स बहुकालं वै रममाणस्तया सह ।।
पितरौ निजपत्नीं च नास्मरद्विषयातुरः ।। १२ ।।
स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ।।
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषभृत् ।। १३ ।।
ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ।।
तद्गृहस्वामिनं विप्रं हत्वा खङ्गेन साहसात् ।।१४।।
समादाय बहु द्रव्यं किरातीभवनं ययौ ।।
तं यान्तमनुयाति स्म ब्रह्महत्या भयंकरी ।। १५ ।।
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ।।
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ।। १६ ।।
अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ।।
एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम् ।। १७ ।।
स्वग्रामं प्रययौ भीत्या विप्रबन्धुर्दुरात्मवान्।।
अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ।। १८ ।।
ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ।।
पितरं रक्षरक्षेति सुमतिः शरणं ययौ ।। १९ ।।
मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ।।
तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत ।। 2.1.14.२०।।
।। ब्रह्महत्योवाच।। ।।
मैव त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ।।
असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ।।२१।।
मातृद्रोही पितृद्रोही भार्यात्यागी च पातकी ।।
किरातीसंगदुष्टश्च ह्येनं मुंच दुरात्मकम् ।। २२ ।।
गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ।।
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ।। २३ ।।
भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ।।
इमं त्यजसि चेत्पुत्रं युष्मान्मुचांमि सांप्रतम्।। ।। २४ ।।
नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ।।
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ।। २५ ।।
।। यज्ञदेव उवाच ।। ।।
बाधते मां सुतस्नेहः कथमेनं परित्यजे ।।
ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत ।। २६ ।।
।। ब्रह्महत्योवाच ।। ।।
अयं हि पतितो भूत्वा वर्णाश्रम बहिष्कृतः ।।
पुत्रेस्मिन्मा कुरु स्नेहं निन्दितं चास्य दर्शनम् ।। २७ ।।
इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ।।
तलेन प्रजहारास्य पुत्रं सुमतिनामकम् ।। २८ ।।
रुरोद ताततातेति पितरं प्रब्रुवन्मुहुः ।। २९ ।।
।। अथ सुमतिं प्रति दुर्वासः कथित ब्रह्महत्यामुक्त्युपायः ।। ।।
रुरु दुर्जनको माता भार्यापि सुमतेस्तदा ।।
एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशकः ।। 2.1.14.३० ।।
दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः ।।
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्।। ३१ ।।
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ।।
दुर्वासास्त्वं महायोगिन्साक्षाद्वै शंकरांशकः ।। ।। ३२ ।।
त्वद्दर्शनमपुण्यानां भविता न कदाचन ।।
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ।। ३३ ।।
एनं प्रहर्तुमायाता ब्रह्महत्यापि वर्तते ।।
स्याद्यथा मे पुत्रोऽयं महापातकमोचितः ।। ३४ ।।
घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ।।
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ।। ३५ ।।
अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ।।
अस्मिन्मृते तु वंशो मे समुच्छिद्येत मूलतः ।। ३६ ।।
ततः पितृभ्यः पिण्डानां दातापि न भवेद्ध्रुवम् ।।
ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ।। ३७ ।।
इत्युक्तः स तदोवाच दुर्वासाः शंकरांशकः ।।
ध्यात्वाथसुचिरं कालं यज्ञदेवं द्विजोत्तमम् ।। ३८ ।।
।। दुर्वासा उवाच ।। ।।
यज्ञदेवकृतं षापमतिदूर सुतेन ते ।।
नास्य पापस्य शातिः स्यात्प्रायश्चित्तायुतैरपि ।। ।। ३९ ।।
तथापि ते सुतस्याहं तस्य पापस्य शान्तये ।।
प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज ।। 2.1.14.४० ।।
वेंकटाद्रौ महापुण्ये सर्वपातकनाशने ।।
स्वामिपुष्करिणी चेति वर्तते मंगलप्रदा ।। ४१ ।।
।। अथ सुमतेः स्वामिपुष्करिणीस्नानाद्ब्रह्महत्या विमुक्तिः ।। ।।
स्नाति चेत्तव पुत्रोऽयं पातकान्मुच्यते क्षणात् ।।
एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः ।। ४२ ।।
पुत्रमादाय सुमतिं स्वामिपुष्करिणींगतः ।।
स्नापयामास सुमतिं हत्यया पीडितं सुतम् ।। ४३ ।।
आकाशवाणी तं विप्रमुवाच मधुरस्वरा ।।
यज्ञदेव महाभाग स्नानेनानेन सुव्रत ।। ४४ ।।
पूतोऽभवत्तव सुतः संशयं मा कृथा द्विज ।।
एवंप्रभावं तत्तीर्थं पापवृक्षकुठारकम् ।। ४५ ।।
एवं वः कथितं विप्रा इतिहासं पुरातनम्।।
शृण्वतां पठतां चापि वाजपेयफलं लभेत् ।। ४६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये स्वामिपुष्करिणीतीर्थमहिमानुवर्णनंनाम चतुर्दशोऽध्यायः ।। १४ ।।