स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ स्वामिपुष्करिणी स्नानात्तामिस्रादिनरकनिस्तारः ।।
।। ऋषय ऊचुः ।। ।।
सूत सर्वार्थतत्त्वज्ञ वेदवेदांगपारग ।।
श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो ।। ।। १ ।।
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ।। २ ।।
।। श्रीसूत उवाच ।। ।।
स्वामितीर्थं प्रशंसन्ति स्नांति वा कथयंति ये ।।
अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ।। ३ ।।
तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।।
कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ।। ४ ।।
कृमिभक्षोऽन्धकूपश्च संदंशः शाल्मली तथा ।।
लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ।। ५ ।।
तथैव वज्रकणकः क्षारकर्दमपातनम् ।।
रक्षोगणाशनं चापि शूलप्रोतनिरोधनम्।। ६ ।।
तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ।।
पूयशोणितभक्षं च विषाग्निपरिपीडनम् ।। ७ ।।
अष्टाविंशतिसंख्यातमेतन्नरकसंचयम्।।
न याति मनुजो विप्राः स्वामितीर्थनिमज्जनात् ।। ८ ।।
वित्तापत्यकलत्राणां योऽन्येषामपहारकः ।।
स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ।। ९ ।।
तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ।।
स्नाति चेत्स्वामितीर्थे स तस्मिन्नासौ निपात्यते ।। 2.1.12.१० ।।
मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ।।
स कालसूत्रनरके विस्तृतायुतयोजने ।। ११ ।।
अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः ।।
खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ।। १२ ।।
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ।।
यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः ।। १३ ।।
सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।। १४ ।।
योऽश्नाति पंक्तिभेदेन पक्वं सूपादिकं नरः ।।
अकृत्वा पंचयज्ञान्वा भुंक्ते मोहेन स द्विजाः ।। १५ ।।
पात्यतेऽयं यमभटैर्नरके कृमिभोजने ।।
भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंचयान् ।। १६ ।।
स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम् ।।
स्नाति चेत्स्वामितीर्थे वै तस्मिन्नाऽसौ निपात्यते ।। १७ ।।
यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा ।।
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ।। १८ ।।
अयोमयाग्निकुंडेषु संदंशैः सोऽपि पीडितः ।।
संदंशे नरके घोरे पात्यते यमपूरुषैः ।। १९ ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ।।
अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः ।। 2.1.12.२० ।।
अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ।।
तावयोमयनारीं च पुरुषं चाप्ययोमयम् ।। २१ ।।
तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम् ।।
सूच्याख्ये नरके घोरे पात्येते यमकिंकरैः ।। २२ ।।
स्नाति चेत्स्वामितीर्थे च तस्मिन्नासौ निपाप्यते ।।
बाधते सर्वजन्तून्यो नानोपायैरुपद्रवैः ।। २३ ।।
शाल्मलीनरके घोरे पात्यते बहुकण्टके ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ।। २४ ।।
राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः ।।
भेदको धर्मसेतूनां वैतरण्यां निपात्यते ।। २५ ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ।।
वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः ।। २६ ।।
त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा ।।
स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते ।। २७ ।।
अतिबीभत्सनरके पात्यते यमकिंकरैः ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ।। २८ ।।
यः श्वभिर्मृगयुर्वन्यान्बाणैर्वा बाधते मृगान् ।।
स विध्यमानो बाणौघैः परत्र यमकिंकरैः ।। २९ ।।
प्राणरोधाख्यनरके पात्यते यमकिंकरैः ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते।। 2.1.12.३० ।।
दाम्भिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ।।
हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः ।।३१।।
कर्त्यमानो यमभटैः पात्यते यमकिंकरैः ।।
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ।।३२।।
आत्मभार्यां सवर्णां यो रेतः पाययते यदि ।।
परत्र रेतःपायी स रेतःकुण्डे निपात्यते ।। ३३ ।।
स्नाति चेत्पुष्करिण्यां वै तस्मिन्नासौ निपात्यते ।।
यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः ।। ।। ३४ ।।
वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ।।
वज्रदंष्ट्राभिधे घोरे पात्यते नरके चिरम् ।। ३५ ।।
स्नाति चेत्स्वामितीर्थे तु तस्मिन्नासौ निपात्यते ।।
विद्यन्ते यानि चान्यानि नरकाणि परत्र वै ।। ३६ ।।
तानि नाप्नोति मनुजः स्वामितीर्थनिमज्जनात् ।।
पुष्करिण्यां सकृत्स्नानादश्वमेधफलं लभेत् ।। ३७ ।।
आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ।।
न पापे रमते बुद्धिर्न भवेदुःखमेव वा ।। ३८ ।।
तुलापुरुषदानेन यत्फलं लभ्यते नरैः ।।
तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात् ।। ३९ ।।
गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम् ।।
तत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमजनात् ।। 2.1.12.४० ।।
धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः ।।
तं तं सद्यः समाप्नोति स्वामितीर्थनिमज्जनात् ।। ४१ ।।
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।।
सद्यः पूतो भवेद्विप्राः स्वामितीर्थनिमज्जनात् ।। ४२ ।।
प्रज्ञा लक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता ।।
मनःशुद्धिर्भवेन्नृणां स्वामितीर्थनिषेवणात् ।। ४३ ।।
ब्रह्महत्याऽयुतं चापि सुरापानायुतं तथा ।।
अयुतं गुरुदाराणां गमनं पापकारिणाम् ।। ।। ४४ ।।
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटिशः ।।
शीघ्रं विलयमायान्ति स्वामितीर्थनिमज्जनात् ।। ४५ ।।
ब्रह्महत्यासमानानि सुरापानसमानि च ।।
गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ।। ४६ ।।
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च ।।
तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमज्जनात् ।। ४७ ।।
।। अथ स्वामितीर्थमहिमाश्रद्धालूनां महानरकप्राप्तिः ।। ।।
उक्तेष्वेतेषु सन्देहो न कर्त्तव्यः कदाचन ।।
जिह्वाग्रे परशुं तप्तं प्रक्षिपंति च किंकराः ।। ४८ ।।
अर्थवादमिमं सर्वं ब्रुवन्वै नरकं व्रजेत् ।।
सूकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः ।। ४९ ।।
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ।।
स्वामितीर्थाभिधे तीर्थे सर्वपातकनाशने ।। 2.1.12.५० ।।
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ।।
इष्टकामप्रदे नित्यं तथैवाज्ञाननाशने ।। ५१ ।।
स्थितेऽपि तद्विहायायं रमतेन्यत्र वै जनः ।।
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ।। ५२ ।।
स्नातस्य स्वामितीर्थे तु नान्तकाद्भयमस्ति वै ।।
स्वामितीर्थं च पश्यंति तत्र स्नांति च ये नराः ।। ५३ ।।
स्तुवन्ति च प्रशंसंति स्पृशंति च नमन्ति च ।।
न पिबन्ति हि ते स्तन्यं मातॄणां द्विजपुंगवाः ।। ५४ ।।
एवं वः कथितं विप्राः स्वामितीर्थस्य वैभवम् ।।
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ।।५५।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये श्री स्वामिपुष्करिणीतीर्थमहिमानुवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।