स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ११

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीसूत उवाच ।।
।। अथ काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाशः ।। ।।
अथातः संप्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम्।।
लक्षीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ।। १ ।।
काश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थवरे शुभे ।।
स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात् ।। २ ।। ।।
।। ऋषय ऊचुः ।। ।।
मुने काश्यपनामासावकरोत्किं हि पातकम् ।।
स्नात्वा तीर्थवरे ह्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ।। ३ ।।
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ।।
त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते ।। ४ ।।
।। श्रीसूत उवाच ।। ।।
श्रीस्वामिपुष्करिण्याश्च माहात्म्यप्रतिपादकम्।।
इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ।। ५ ।।
।। अथ परीक्षिद्वृत्तान्तः ।। ।।
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ।।
अध्यास्त हास्तिनपुरं पालयन्धर्मतो महीम् ।। ६ ।।
स राजा जातु विपिने चचार मृगयारतः ।।
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ।। ७ ।।
नष्टमेकं स विपिने मार्गयन्मृगमादरात् ।।
ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः ।। ८ ।।
मया बाणेन विपिने मृगो विद्धोऽधुना मुने ।।
दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः ।। ९ ।।
समाधिनिष्ठो मौनित्वान्न किंचिदपि सोऽब्रवीत् ।।
ततो धनुरटन्या स स्कन्धे तस्य महामुनेः ।। 2.1.11.१० ।।
निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ ।।
मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै ।। ११ ।।
सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमः ।।
सखायं शृंगिणं प्राह कृशाख्यः स सखा ततः ।। १२ ।।
पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ।।
मा भूद्दर्पस्तव सखे मा क्रुध्यस्त्वमिदं वृथा ।। १३ ।।
सोऽभवत्कुपितः शृंगी दित्सुः शापं नृपाय वै ।।
मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः ।। ।। १४ ।।
स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना ।।
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ।। १५ ।।
शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम् ।।
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुंगवः ।। १६ ।।
रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ।।
अराजके वयं लोके स्थास्यामः कथमञ्जसा ।। १७ ।।
क्रोधेन पातकं भूयाद्दयया प्राप्यते सुखम् ।।
यः समुत्पादितं कोपं क्षमयैव निरस्यति ।। १८ ।।
इह लोके परत्रासावत्यंतं सुखमश्नुते ।।
क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम् ।। १९ ।।
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।।
भो गौरमुख गत्वा त्वं वद भूपं परीक्षितम् ।। 2.1.11.२० ।।
इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम् ।।
पुनरायाहि शीघ्रं त्वं मत्समीपं महामते ।। २१ ।।
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ।।
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ।। २२ ।।
दृष्ट्वा सर्पं पितुः स्कंधे त्वया विनिहितं मृतम् ।।
शमीकस्य सुतः शृङ्गी शशाप त्वां रुषान्वितः ।। २३ ।।
एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ।।
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ।। २४ ।।
एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ।।
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम् ।। २५ ।।
इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ।।
गते गौरमुखे पश्चाद्राजा शोकपरायणः ।। २६ ।।
अभ्रंलिहमथोत्तुङ्गमेकस्तंभं सुविस्तृतम् ।।
मध्ये गङ्गं व्यतनुत मण्डपं नृपपुङ्गवः ।। २७ ।।
महागारुडमन्त्रज्ञैरोषधिज्ञैश्चिकित्सकैः ।।
तक्षकस्य विषं हन्तुं यत्नं कुर्वन्समाहितः ।। २८ ।।
अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ।।
आस्ते तस्मिन्नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान् ।। २९ ।।
तस्मिन्नवसरे विप्रः काश्यपो मान्त्रिकोत्तमः ।।
राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात् ।। ।। 2.1.11.३० ।।
सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः ।।
अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ ।। ३१ ।।
मध्येमार्गं विलोक्याथ काश्यपं प्रत्यभाषत ।।
ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने ।। ३२ ।।
इति पृष्टस्तदाऽवादीत्काश्यपस्तक्षकं द्विजः ।।
परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ।। ३३ ।।
धक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ।।
इत्युक्तः स च तं विप्रं तक्षकः पुनरब्रवीत् ।। ३४ ।।
तक्षकोऽहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ।।
न शक्योब्दशतेनाऽपि महामन्त्रायुतैरपि ।। ३५ ।।
चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ।।
अनेकयोजनोच्छ्रायं दशाम्युज्जीवय द्रुमम्।। ३६ ।।
ततो भवान्समर्थो हीत्येवं मे भाति हे द्विज ।।
इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा ।। ३७ ।।
अभवद्भस्मसात्सोऽपि वृक्षोत्यन्तसमुच्छ्रितः ।।
पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान् ।। ३८ ।।
तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ।।
तन्नरं न विजज्ञाते तौ च काश्यपतक्षकौ ।। ३९ ।।
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ।।
मन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रादयोऽधुना ।। 2.1.11.४० ।।
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ।।
आजीवयन्मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः ।। ४१ ।।
स नरस्तेन वृक्षेण साकमुज्जीवितोऽभवत् ।।
अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम् ।। ४२ ।।
यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ।।
यत्ते राजा धनं दद्यात्ततोऽपि द्विगुणं धनम् ।। ४३ ।।
ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ।।
इत्युक्त्वानर्घरत्नानि तस्मै दत्त्वा स तक्षकः ।। ४४ ।।
न्यवर्तयत्काश्यपं तं ब्राह्मणं मन्त्रकोविदम् ।।
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ।। ४५ ।।
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ।।
सोऽब्रवीत्तक्षकः सर्पान्सर्वानाहूय तत्क्षणे ।। ४६ ।।
यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ।।
उपहारफलान्याशु प्रयच्छत परीक्षिते ।। ४७ ।।
तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ।।
तक्षकोऽपि तथा तत्र कस्मिंश्चिद्बदरीफले ।। ४८ ।।
कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ।।
अथ राजा प्रदत्तानि सर्वैर्ब्राह्मणरूपकैः ।। ४९ ।।
परीक्षिन्मन्त्रिवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ।। 2.1.11.५० ।।
कौतूहलेन जग्राह स्थूलमेकं करे फलम् ।।
तस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ।। ५१ ।।
मिथ्या ऋषिवचो माभूदिति तत्रत्यमानवाः ।।
अन्योऽन्यमवदन्सर्वे ब्राह्मणाश्च नृपास्तदा ।। ५२ ।।
एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ।।
साधु रक्तः कृमिः सर्वै राज्ञा चापि परीक्षिता ।। ५३ ।।
अयं किं मां दशेदद्य क्रिमिरित्युक्तवान्नृपः ।।
निदधे तत्फलं कण्ठे सकृमि द्विजसत्तमाः ।। ५४ ।।
तक्षकोऽस्मिन्स्थितः कण्ठे कृमिरूपी फले तदा ।।
निर्गत्य तत्फलादाशु नृपदेहमवेष्टयत् ।। ५५ ।।
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ।।
अनन्तरं नृपो विप्रास्तक्षकस्य विषाग्निना ।। ५६ ।।
दग्धोभूद्भस्मसादाशु सप्रासादो बलीयसा ।।
कृत्वौर्ध्वदेहिकं तस्य नृपस्य सपुरोहिताः ।। ५७ ।।
मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ।।
राजानमभ्यषिञ्चन्वै जगद्रक्षणवाच्छया ।। ५८ ।।
तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ।।
यो ब्राह्मणो मुनिश्रेष्ठः स सर्वैर्निंदितो जनैः ।। ५९ ।।
बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ।।
अवस्थानं न लेभे स ग्रामे वाप्याश्रमेऽपि वा ।। 2.1.11.६० ।।
यान्यान्देशानसौ यातस्तत्र तत्र महाजनैः ।।
तत्तद्देशान्निरस्तः सञ्छाकल्यं शरणं ययौ ।। ६१ ।।
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ।।
इदं विज्ञापयामास शाकल्याय महात्मने।। ।। ६२।।
।। काश्यप उवाच ।। ।।
भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ।।
मुनयो ब्राह्मणाश्चान्ये मां निन्दंति सुहृज्जनाः ।। ६३ ।।
नास्याहं कारणं जाने किं मां निन्दंति मानवाः ।।
ब्रह्महत्या सुरापानगुरुस्त्रीगमनं तथा ।। ६४ ।।
स्तेयं संसर्गदोषो वा मया नाचरितं क्वचित् ।।
अन्यान्यपि च पापानि न कृतानि मया मुने ।। ६५ ।।
तथाऽपि निन्दंति जना वृथा मां बान्धवादयः ।।
जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ।। ।। ६६ ।।
उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः ।।
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ।। ६७ ।।
अथ शाकल्योक्तधर्माः ।।
।। शाकल्य उवाच ।। ।।
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ।।
आयासीदर्धमार्गे तु तक्षकेण निवारितः ।। ६८ ।।
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ।।
यो न रक्षति लोकेस्मिंस्तमाहुर्ब्रह्मघातकम् ।। ६९ ।।
क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ।।
यो न रक्षति विप्रेंद्र विषरोगातुरं नरम् ।। 2.1.11.७० ।।
ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः ।।
संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः ।। ७१ ।।
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ।।
कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चित्तं तु विद्यते ।। ७२ ।।
विषरोगातुरं यस्तु समर्थोऽपि न रक्षति ।।
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ।। ७३ ।।
न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः ।।
न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ।। ७४ ।।
तत्संभाषणमात्रेण महापातकभाग्भवेत् ।।
परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ।। ७५ ।।
विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ।।
व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ।। ७६ ।।
अरक्षित्वा नृपं तं तु वचसा तक्षकस्य यत् ।।
निवृत्तस्तेन विप्रेन्द्रैर्बान्धवैरपि दूष्यसे ।। ७७ ।।
स परीक्षिन्महाराजो यद्यपि क्षणजीवितः ।।
तथापि यावन्मरणं बुधैः कार्यं चिकित्सितम् ।।७८।।
यावत्कण्ठगताः प्राणा मुमूषोर्मानवस्य हि ।।
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ।। ७९ ।।
इति प्राहुः पुरा श्लोकं भिषग्विद्याब्धिपारगाः ।।
ततश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ।। 2.1.11.८० ।।
अर्धमार्गे निवृत्तश्च तेन त्वं गर्हितो ह्यसि ।।
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ।। ८१ ।।
।। काश्यप उवाच ।। ।।
ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत ।।
येन मां प्रतिगृह्णीयुर्बान्धवाः ससुहृज्जनाः ।। ८२ ।।
कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ।।
काश्यपेनैवमुक्तस्तु शाकल्योऽपि मुनीश्वरः ।। ८३ ।।
क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ।। ८४ ।।
।। शाकल्य उवाच ।।
अस्य पापस्य शान्त्यर्थमुपायं प्रवदामि ते ।।
तत्कर्तव्यं त्वया शीघ्रं विलम्बं मा कृथा द्विज ।। ८५ ।।
सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः ।।
वेंकटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः ।। ८६ ।।
तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते ।।
ब्रह्महत्यासुरापानस्वर्णस्तेयादिनाशके ।। ८७ ।।
स्वामिपुष्करिणी चेति सर्वपापापनोदिनी ।।
उत्तरे श्रीनिवासस्य वर्तते मंगलप्रदा।। ८८ ।।
तं गत्वा वेंकटं शैलं स्वामिपुष्करिणीं शुभाम् ।।
स्नात्वा संकल्पपूर्वं तु वराहस्वामिनं हरिम् ।। ८९ ।।
सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम् ।।
गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम् ।। 2.1.11.९० ।।
श्रीनिवासं परं देवं भक्तानामभयप्रदम्।।
शङ्खचक्रधरं देवं वनमालाविभूषितम् ।। ९१ ।।
दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज ।।
शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुंगवः ।। ९२ ।।
गत्वा वेंकटशैलेन्द्रं सुरासुरनमस्कृतम् ।।
पुष्करिण्यां शुभायां तु स्नातो नियमपूर्वकम् ।। ९३ ।।
स्वस्थोऽभूत्काश्यपो विप्रो भिषग्विद्याब्धिपारगः ।।
सर्वे बंधुजना विप्राः काश्यपं ब्राह्मणोत्तमम् ।। ९४ ।।
पूजयित्वा विधानेन पूज्योऽसि न च संशयः ।।
एवं वः कथितं विप्रा वेंकटाचलवैभवम् ।। ९५ ।।
यः शृणोति नरो भक्त्या विष्णुलोके महीयते ।। ९६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडे श्रीवेङ्कटाचलस्थस्वामिपुष्करिणीमाहात्म्ये काश्यपदोषनिवृत्तिर्नामैकादशोऽध्यायः ।। ११ ।।