स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तः ।।
।। योषित ऊचुः ।। ।।
वयमाकाशराजस्य शुद्धान्तनिलयाः स्त्रियः ।।
सख्यः पद्मालयाया वै दुहितुर्वसुधापतेः ।। १ ।।
राजपुत्रीं पुरस्कृत्य गताः पूर्वं वनांतरम् ।।
कुर्वंत्यः पुष्पावचयं राजपुत्र्यर्थमाकुलाः ।। २ ।।
वृक्षमूले समासीनास्तत्र पश्याम पूरुषम् ।।
इन्द्रनीलमणिश्याममिन्दिरामन्दिरोरसम्।। ३ ।।
ईषत्स्मितमुखं चारुपीनदीर्घभुजद्वयम् ।।
मृष्टपीतांबरं हेमबाणबाणासनोज्ज्वलम् ।। ४ ।।
सुवर्णमुकुटं हारकेयूरादिविभूषितम् ।।
तं तु पद्मालया दृष्ट्वा सखी कमललोचना ।। ५ ।।
द्रुतहेमनिभाकारा पश्य पश्येति साब्रवीत् ।।
पश्यन्तीनां तदास्माकं गतोऽन्तर्धानमाशु सः ।। ६ ।।
सा सखी मूर्च्छितास्माभिनीता राजगृहं ततः।। ७ ।। ।।
अथ पद्मावतीमुद्दिश्य दैवज्ञं प्रति वियद्राजकृतप्रश्नादिः ।। ।।
दृष्ट्वाऽस्वस्थां नृपः पुत्रीमपृच्छद्दैवचिन्तकम् ।।
वद विप्रेन्द्र पुत्र्या मे ग्रहचारफलं मुने ।। ८ ।।
बृहस्पतिसमो विप्रो विचार्यात्मनि खेचरान् ।।
अनुकूला ग्रहाः सर्वे तव पुत्र्या नृपोत्तम ।। ९ ।।
किन्तु नित्यं ग्रहफलं किंचिद्भ्रांतिकरं नृप ।।
तमुवाच पुनर्धीमान्प्रश्नकालं विचार्य च ।। 2.1.6.१० ।।
छायां गुणित्वा लग्नं च तत्फलानि विचार्य च ।।
लग्ने लग्नाधिपश्चन्द्रः केंद्रे चैव बृहस्पतिः ।। ११ ।।
निद्राति दिनपक्षी तु प्रश्नपक्षी तु राज्यगः ।।
शृणु राजन्फलं तस्य स्वास्थ्यमेव भविष्यति ।। १२ ।।
उत्तमः पुरुषः कश्चिदागतः कन्यकां प्रति ।।
तं दृष्ट्वा मूर्च्छिता पुत्री तेन योगं समेष्यति ।। १३ ।।
तेनैव प्रेषिता काचिदागमिष्यति कन्यका ।।
सा तु वक्ष्यति यद्वाक्यं तद्धितं ते भविष्यति ।। १४ ।।
तत्कुरुष्व महाराज सत्यंसत्यं वदाम्यहम् ।।
किं च सर्वार्थदं यत्तु सर्वव्याधिविनाशनम् ।। १५ ।।
वक्ष्यामि तत्कुरुष्वाद्य पुत्र्यास्तव सुखावहम् ।।
कारयागस्त्यलिंगस्य ब्राह्मणैरभिषेचनम् ।। १६ ।।
इत्युक्ताथ गृहं यातो राजानं दैवचितकः ।। ।। १७ ।।
।। अथ दैवज्ञोक्त्यागस्त्यलिंगार्चनाय विप्रादिप्रेषणम् ।। ।।
आकाशराजोऽपि तदा विप्रानाहूय वैदिकान् ।।
अभ्यर्च्याज्ञापयामास गत्वा देवालयं द्विजाः ।। १८ ।।
महाभिषेकं शम्भोश्च कुरुध्वं मंत्रपूर्वकम् ।।
इत्यनुज्ञाप्य तानस्मानाहूयाभ्यवदच्छुभे ।। १९ ।।
महाभिषेकसम्भारान्सम्पादयत कन्यकाः ।।
इत्याज्ञप्ता नृपेणैव वयं देवालयं गताः ।। 2.1.6.२० ।।
ब्रूहि त्वं सुभगेऽस्माकं त्वदागमनमंजसा ।।
कुतोसि कस्य वार्थेन क्व वा जिगमिषा हि ते ।। २१ ।।
दिव्याश्वमधिरुह्येमं देवलोकादिवागता ।। २२ ।।
।। श्रीवराह उवाच ।। ।।
इति ताभिस्तदा पृष्टा हृष्टा बकुलमालिका ।।
प्रोवाच वाचं मधुरां हर्षयन्तीव बालिकाः ।। २३ ।।
।। बकुलमालिकोवाच ।। ।।
श्रीवेंकटाद्रेः प्राप्ताहं नाम्ना बकुलमालिका ।।
धरणीं द्रष्टुकामाहमारुह्येमं तुरंगमम् ।। २४ ।।
द्रष्टुं शक्या भवेद्देवी किमु तत्र नृपालये ।।
इति तस्या वचः श्रुत्वा ताः प्रोचुर्नृपकन्यकाः ।। २५ ।।
अस्माभिः सहिता त्वं वै द्रक्ष्यसे धरणीं शुभे ।।
इत्युक्ता सा ततस्ताभिरागता नृपमंदिरम् ।।२६।।
आगच्छन्तीषु तास्वेवं धरणी तु पुलिन्दिनीम् ।। २७ ।।
।। अथ धरणीकृत प्रश्नस्य पुलिन्दिनीप्रतिवचनम् ।। ।।
आयान्तीं वीथिकायां सा सगुंजाशंखभूषिताम् ।।
शिशुं स्तनं धयं पृष्ठे बद्ध्वा वस्त्रांचलेन वै ।। २८ ।।
वदामि सत्यं शृणुत भूतं भव्यं भविष्यकम् ।।
वदन्ती वीथिवीथीषु तामाहूय शुचिस्मिता ।। २९ ।।
स्वर्णशूर्पं समादाय तस्मिन्मुक्ता निधाय च ।।
त्रिप्रस्थमात्रांस्त्रीन्राशीन्कृत्वा तस्यै निधाय च ।। 2.1.6.३० ।।
वद सत्यं त्वमेष्यद्वा भूतमेव वा ।।
इत्येवं धरणी देवी पृच्छंती तां स्थिताऽभवत् ।। ३१ ।।
पृष्टा सावददस्यास्तु मनसा यद्विचिन्तितम्।।
मध्यराशौ चिन्तितं ते वद कल्याणि मे ऋजु ।। ३२ ।।
ओमित्याहाथ धरणी पुलिंदां राजवल्लभा ।।
।। धरण्युवाच ।। ।।
राशिरुक्तः फलं ब्रूहि धनराशिं ददामि ते ।। ३३ ।।
।। पुलिन्दोवाच ।। ।।
सत्यं वदामि ते सुभ्रु शिशोरन्नं प्रयच्छ मे ।।
इत्युक्ता सा तु धरणी स्वर्णपात्रेऽन्नमाददे ।। ३४ ।।
दत्त्वा तस्यै पुलिंदिन्यै सत्यं ब्रूहीति सावदत्।।
सक्षीरमन्नमादाय दत्त्वा पुत्राय भामिनी ।। ३५ ।।
सा सत्यमवदत्सुभ्रूर्दुहितुर्देहशोषणम्।।
पुरुषादागतं भीरु तद्रूपाऽदर्शनादियम् ।। ३६ ।।
अंगतापं समापन्ना ह्यनंगशरपीडिता ।।
स तु देवादिदेवो वै वैकुण्ठादागतः स्वयम् ।। ३७ ।।
श्रीवेंकटाद्रिशिखरे स्वामिपुष्करिणीतटे ।।
मायावी परमानंदः श्रिया सह रमापतिः ।। ३८ ।।
कामरूपी विहरते भक्ताभीष्टप्रदो हरिः ।।
स तुरंगं समारुह्य विहरन्काननान्तरे ।। ३९ ।।
आगत्योपवनं राज्ञि तव कन्यां स दृष्टवान् ।।
रमासमामिमां दृष्ट्वा स्वयं कामवशं गतः ।। 2.1.6.४० ।।
स्वसखीं ललितां देवः प्रेषयिष्यति तेंतिकम् ।।
रमेव तं समेत्यैषा रमिष्यति सुखं चिरम् ।। ४१ ।।
एतत्सत्यं मम वचः पश्याद्यैव नृपात्मजे ।।
पुत्रस्यान्नं प्रयच्छेति तूष्णीमास पुलिन्दिनी ।। ४२ ।।
अन्नं दत्त्वा पुनर्भूरि तस्यै तां विससर्ज ह ।।
तस्यां विनिर्गतायां तु पुलिंदिन्यामनिन्दिता ।। ४३ ।।
उत्थाय चांगणात्तस्माद्विवेशांतःपुरं शुभम् ।।
यत्र पद्मालया कन्या समास्ते स्वसखीवृता ।। ४४ ।।
गत्वा पुत्रीसमीपस्था कन्यां कामातुरां सुताम्।।
पुत्रि किं ते करिष्यामि वस्तु किं वा प्रियं शुभे ।। ४५ ।।
इति मात्राभिपृष्टा सा मन्दमाह मनस्विनी ।। ४६ ।।
।। अथ पद्मावती निवेदित भगवद्भागवतयोर्लक्षणानि ।। ।।
नेत्राभिरामं यल्लोके सतामपि मनःप्रियम् ।।
यद्द्रष्टुकामा ब्रह्माद्या यत्तु सर्वगतं महत् ।। ४७ ।।
तेजसामपि तेजस्वि देवानामपि दैवतम् ।।
भक्तैस्सद्भिरिह प्राप्यमभक्तैर्न कदाचन ।। ४८ ।।
तस्मिन्नेव मनो मेऽम्ब वस्तुनीह प्रवर्तते।।
तदेवान्विष्यतां मातर्भक्तानां सर्वकामदम् ।। ४९ ।।
।। श्रीवराह उवाच ।। ।।
एतच्छ्रुत्वाथ धरणी तामपृच्छत्पुनः सुताम् ।।
तद्भक्तलक्षणं ब्रूहि यैः प्राप्यं तत्सुलोचने ।। 2.1.6.५० ।।
।। पद्मालयोवाच ।। ।।
भक्तानां लक्षणं मातः शृणु गुह्यं समाहिता ।।
शंखचक्रांकिता नित्यं भुजयुग्मे वसुन्धरे।। ।। ५१ ।।
ऊर्ध्वपुंड्रं सान्तरालं तेषामेव विशेषतः ।।
पुण्ड्रानि द्वादश पुनर्धारयंति तथापरे ।। ५२ ।।
ललाटोदरहृत्कण्ठे जठरे पार्श्वयोरपि ।।
कूर्परयोर्भुजद्वन्द्वे पृष्ठे च गलपृष्ठके ।। ५३ ।।
केशवादीनि नामानि द्वादशांगेषु द्वादश ।।
वासुदेवेति तन्मूर्ध्नि धारयंति नमोऽस्त्विति ।। ५४ ।।
तेषां तु नियमान्वक्ष्ये मातः शृणु मनोरमान् ।।
वेदपारायणरताः कर्म कुर्वंति वैदिकम् ।। ५५ ।।
सत्यं वदन्ति ये देवि नासूयंति परान्क्वचित् ।।
परनिंदां न कुर्वंति परस्वं न हरंति च ।। ५६ ।।
न स्मरंति न पश्यन्ति न स्पृशंति कदाचन ।।
परदारान्सुरूपांश्च ये च तान्विद्धि वैष्णवान् ।।५७।।
सर्वभूतदयावंतः सर्वभूतहिते रताः ।।
सदा गायंति देवेशमेतान्भक्तानवेहि वै ।। ५८ ।।
येन केन च सन्तुष्टाः स्वदारनिरताश्च ये ।।
वीतरागभयक्रोधास्तान्भक्तान्विद्धि वैष्णवान् ।। ५९ ।।
एवंविधैर्गुणैर्युक्ताः पंचायुधधरा अपि ।।
पित्रा चाचार्यरूपेण शिष्टेनान्येन वा पुनः ।। 2.1.6.६० ।।
स्वगृह्योक्तविधानेन वह्निमादाय वै बुधः ।।
चक्राद्यायुधमंत्रेण जुहुयात्षोडशाहुतीः ।। ६१ ।।
मूलमंत्रेण सूक्तेन पौरुषेण ततः परम् ।।
जातवेदः सुमंत्रेण पश्चादष्टोत्तरं शतम् ।। ६२ ।।
हुत्वा महाव्याहृतिभिश्चक्रादींस्तत्र तापयेत् ।।
सह्यान्सुतप्तान्गुरुणा मंत्रवद्धारयेद्बुधः ।। ६३ ।।
भुजद्वये शंखचक्रे मूर्ध्नि शार्ङ्गशरौ तथा ।।
ललाटे तु गदा धार्या हृदये खड्गमेव च ।। ६४ ।।
एवं धार्याणि पञ्चैव विष्णुभक्तैर्मुमुक्षुभिः ।।
अथवा भुजयोश्चक्र शंखौ चैव सुलक्षणौ ।। ६५ ।।
एवं लाञ्छनयुक्ता ये भक्तास्ते वैष्णवाः स्मृताः ।।
तैरेव लभ्यं तद्ब्रह्म सदाचारसमन्वितैः ।। ६६ ।।
तस्मिन्नेव मम प्रीतिस्तत्प्राप्तिं कांक्षते मनः ।।
मातर्विष्णुविनान्येषु वाञ्छा काचिन्न जायते ।। ६७ ।।
स्मरामि श्यामलं विष्णुं वदामि हरिमच्युतम् ।।
तेनैव मातर्जीवामि तद्योगे चिन्त्यतां विधिः ।। ६८ ।।
।। श्रीवराह उवाच ।। ।।
इत्युक्त्वा मातरं दीना विररामाम्बुजानना ।।
तच्छ्रुत्वा चिन्तयामास विष्णुः प्रीतः कथं भवेत्।।६९।।
अथ बकुलमालिकया सार्द्धं सखीनां धरणीसमीप आगमनम्।।
एतस्मिन्नंतरे कन्या अगस्त्येशं समर्च्य च ।।
आगता धरणीं द्रष्टुं सहैव बकुलस्रजा ।। 2.1.6.७० ।।
आगतान्ब्राह्मणान्साथ पूजयित्वा सुभोजनैः ।।
दत्त्वाथ दक्षिणाः पूर्णा वस्त्रालंकारसंयुताः ।। ७१ ।।
आशिषौ वाचयित्वाथ वांछितार्थस्य सिद्धये ।।
विसृज्य व्राह्मणान्सर्वानथापृच्छत्स्वयोषितः ।। ७२ ।।
पूजयित्वा ह्यगस्त्येशमागतास्ता मनस्विनीः ।। ७३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे बकुलमालिकां प्रति सखीविनिवेदितपद्मावत्युदन्तविष्णुभक्तलक्षणादिवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।। ।।