स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ३२

विकिस्रोतः तः

।। स्कन्द उवाच ।।
इति स्तुत्वा तमीशानं नारदः स ययौ ततः ।।
शम्याप्रासाभिधं ब्रह्मन्व्यासस्याश्रममादितः ।।१।।
सादरं मानितस्तेन प्रत्युत्थानासनादिभिः ।।
तस्मा एकान्तिकं धर्म्मं प्राह जिज्ञासवे स च ।।२।।
ततो ब्रह्मसभां गत्वा ब्रह्मणः शृण्वतो मुनिः ।।
देवान्पितॄन्महर्षींश्च तत्रस्थांस्तमुपादिशत् ।। ३ ।।
तत्रस्थितो भास्करश्च धर्म्ममेतं पुनर्म्मुने ।।
शुश्राव नारदात्सर्वं श्रुतं नारायणात्पुरा ।। ४ ।।
स प्राहात्माग्रयायिभ्यो वालखिल्येभ्य आदरात् ।।
मेरौ ते संगतान्देवानिन्द्रादींश्च न्यशामयन् ।। ५ ।।
तेभ्योऽसितो मुनिः श्रुत्वा धर्ममेतं द्विजोत्तम ।।
पितृभ्यः कथयामास पितृलोकं गतः क्वचित् ।। ६ ।।
पितरस्ते त्वर्यमाद्या ऊचिरे शंतनुं नृपम् ।।
स भीष्माय स्वपुत्राय कथयामास तत्त्वतः ।। ७ ।।
सोपि भारतयुद्धान्ते धर्म्मराजाय पृच्छते ।।
शयानः शरशय्यायां प्राह संसदि भूयसि ।। ८ ।।
तत्र श्रुत्वा नारदोपि स्थितः सदसि सादरम् ।।
कैलासे शंकरं प्राह स च मां मुनिसत्तम ।। ९ ।।
मया ते कथितं ब्रह्मन्पृच्छते धर्म्मवर्त्तिने ।।
पात्रायैतत्प्रदातव्यमिति मां हि पिताब्रवीत् ।। 2.9.32.१० ।।
येनयेन श्रुतं ह्येतन्माहात्म्यं सात्वतांपतेः ।।
स स तस्मिन्परां भक्तिं चकार स्वविमुक्तये ।। ११ ।।
युधिष्ठिरोपि राजर्षिः श्रुत्वा भीष्मेण कीर्त्तितम् ।।
माहात्म्यं देवकीसूनोर्म्मुमुदे भ्रातृभिः सह ।। १२ ।।
तमात्मनो मातुलेयं सर्वकारणकारणम् ।।
निशम्याश्चर्य्यजलधौ निममज्ज महामतिः ।। १३ ।।
वासुदेवादिकं व्यूह वाराहादींश्च सर्व्वशः ।।
अवतारानपि नृपो मेनेऽस्यैव रमापतेः ।। १४ ।।
ततः सहानुजो राजा दिव्यमानुषविग्रहे ।।
अत्यन्तं भक्तिमान्कृष्णे बभूव द्विजसत्तम ।। १५ ।।
श्रुत्वेमां च कथां सर्व्वे ब्रह्मराजसुरर्षयः ।।
सभायां तत्र ये चासंस्तेप्यभूवन्सविस्मयाः ।। १६ ।।
कृष्णमेव परं ब्रह्म विदित्वा ते नराकृति ।।
भक्तिं प्रपेदिरे तस्मिन्प्रणमन्तस्तमादरात् ।। १७ ।।
इत्थं तस्यास्ति माहात्म्यमतस्त्वमपि सन्मते ।।
सर्वात्मना वासुदेवं तमेव भज भक्तितः ।। १८ ।।
श्रीवासुदेवमाहात्म्यमेतत्ते कथितं मया ।।
दुर्वासनोपशमनं भगवद्भक्तिवर्द्धनम् ।। १९ ।।
कथितानि पुराणेऽत्र मयाख्यानानि यानि ते ।।
तेषां सार इदं ब्रह्मन्निर्म्मथ्यैव समुद्धृतः ।। 2.9.32.२० ।।
वेदोपनिषदां चैतद्रसो वै सांख्ययोगयोः ।।
पञ्चरात्रस्य कृत्स्नस्य धर्मशास्त्रस्य चानघ ।। २१ ।।
धन्यं यशस्यं चायुष्यमेतत्परममङ्गलम् ।।
साक्षाद्भगवता गीतं सर्वाभद्रविनाशनम् ।। २२ ।।
य एतच्छृणुयात्पुण्यं कीर्त्तयेदथ यः पठेत् ।।
वासुदेवे भवेत्तेषामचला निर्मला मतिः ।। २३ ।।
भक्ता एकान्तिकास्ते च भवेयुस्तस्य मानवाः ।।
ब्रह्मरूपा व्रजन्त्यन्ते ब्रह्मधाम तमःपरम् ।। २४ ।।
धर्मार्थी लभतेऽनेन धर्मं कामं च कामुकः ।।
धनार्थी धनमाप्नोति मोक्षार्थी मोक्षमुत्तमम् ।। २५ ।।
लभेत विद्यां विद्यार्थी मुच्येद्रुग्णश्च रोगतः ।।
एतच्छ्रवणमात्रेण सर्वपापक्षयो भवेत् ।।२६।।
ब्राह्मं तेजो लभेद्विप्रः क्षत्रियश्च नरेशताम्।।
धनं वैश्यः सुखं शूद्रः श्रवणादस्य चाप्नुयात्।।२७।।
एतच्छ्रुत्वा रणं गच्छन्विजयं चाप्नुयान्नृपः।।
प्राप्नुयात्स्त्री च सौभाग्यं कन्या च स्वेप्सितं वरम् ।।२८।।
एतस्य श्रुतिकीर्त्तिभ्यः शास्त्रजातशिरोमणेः ।।
यं यं यः कामयेत्कामं तंतं प्राप्नोति मानवः ।। ।।२९।।
तस्मात्त्वं सर्वदा भक्त्या पठन्नेतद्द्विजोत्तम।।
कायवाणीमनोभिस्तं भजेथा भक्तवत्सलम् ।।2.9.32.३०।।
सौतिरुवाच।।
एतन्महासेनमुखाब्जनिःसृतं सावर्णिरापीय वचोमृतं सः ।।
चकार भक्तिं वसुदेवनन्दने नराकृतिब्रह्मणि सर्वमङ्गले ।। ३१ ।।
यूयं च सर्वे निगमागमज्ञा ब्रह्मण्यदेवं भजनीयमीशम् ।।
भजध्वमेकं तमुदारकीर्त्तिं श्रीवासुदेवं निजधर्मसंस्थाः ।। ३२ ।।
गोलोकधामपतये प्रकाशचयमूर्त्तये ।। नमोस्तु वासुदेवाय भक्त्यानन्दविवृद्धये ।। ३३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ग्रन्थसंप्रदायप्रवृत्तिनिरूपणं नाम द्वात्रिंशोऽध्यायः ।। ३२ ।।
इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डे वासुदेवमाहात्म्यं सम्पूर्णम्।। २-९ ।।
इति श्रीस्कान्दे महापुराणे द्वितीयं वैष्णवखण्डं सम्पूर्णम् ।। २ ।।