स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः

।। स्कन्द उवाच ।।
श्रुत्वैतत्सकलं धर्म्यं यथावद्भगवद्वचः ।।
निःसंशयो मुनिः प्राह तं प्रणम्य कृताञ्जलिः ।। १ ।।
नारद उवाच ।।
नष्टा मे संशयाः सर्वे प्रसादाद्भगवंस्तव ।।
वासुदेवस्य माहात्म्यं मयाधिगतमञ्जसा ।। २ ।।
कंचित्कालमिहैवाहं तपः कुर्वंस्त्वया सह ।।
शृण्वंश्च नित्यं ज्ञानादि करिष्ये पक्वमात्मनः ।। ३ ।।
स्कन्द उवाच ।।
इत्युक्त्वा नारदस्तत्र तेन चाप्यनुमोदितः ।।
उवास दिव्यवर्षाणां सहस्रं स तपश्चरन् ।। ४ ।।
शुश्राव चानुदिवसं यथाकालं हरेर्मुखात् ।।
धर्मज्ञानाद्यथ प्राप पक्वतां तत्र योगिराट् ।। ५ ।।
स्नेहं च परमं प्राप स श्रीकृष्णेऽखिलात्मनि ।।
गुणगानपरो नित्यमास भागवताग्रणीः ।। ६ ।।
भक्तिनिष्ठां परां प्राप्तमथ तं सिद्धयोगिनम् ।।
उवाच भगवत्प्रीतः श्रेयस्कृत्सर्वदेहिनाम् ।। ७ ।।
श्रीनारायण उवाच ।।
सिद्धोसि त्वं महर्षेऽद्य गच्छ लोकहितं कुरु ।।
एकान्तधर्मं सर्वत्र प्रवर्त्तयितुमर्हसि ।। ८ ।।
स्कन्द उवाच ।।
इत्याज्ञां शिरसा तस्य स आदाय जगद्गुरोः ।।
गच्छंस्ततस्तमस्तौषीत्प्रणम्य प्राञ्जलिः स्थितः ।। ९ ।।
नारद उवाच ।।
नमोनमस्ते भगवञ्जगद्गुरो नारायणाऽप्राकृत दिव्यमूर्ते ।।
अनन्तकल्याणगुणाकरस्त्वं दासे मयि प्रीततरः मदा स्याः ।। 2.9.31.१० ।।
त्वं वासुदेवोसि जगन्निवासः क्षेमाय लोकस्य तपः करोषि ।।
योगेश्वरेशोपशमस्थ आत्मारामाधिपस्त्वं परहंससद्गुरुः ।। ११ ।।
विभुर्ऋषीणामृषभोऽक्षरात्मा जीवेश्वराणां च नियामकोसि ।।
साक्षी महापूरुष आत्मतन्त्रः कालोऽभवद्यद्भ्रुकुटेर्महांश्च ।। १२ ।।
सर्गादिलीला जगतां त्वमीश करोषि मायापुरुषात्मनैव ।।
तथाप्यकर्त्ता ननु निर्गुणोसि भूमा परब्रह्म परात्परश्च।। १३ ।।
सत्यः स्वयंज्योतिरतर्क्यशक्तिस्त्वं ब्रह्मभूतात्मविचिन्त्यमूर्त्तिः ।।
बृहद्व्रताचार्य महामुनीन्द्र कन्दर्पदर्पापहरप्रताप ।।१४।।
तपस्विनां ये रिपवः प्रसिद्धाः क्रोधो रसो मत्सरलोभमुख्याः ।।
अप्याश्रमं तेपि कदापि वेष्टुं नेमं क्षमा ह्येष तव प्रतापः ।। १५ ।।
छन्दोमयो ज्ञानमयोऽमृताध्वा धर्मात्मको धर्मसर्गाभिपोष्टा।।
उन्मूलिताधर्मसर्गो महात्मा त्वमव्ययश्चाक्षयोऽव्यक्तबन्धुः।।१६।।
निर्दोषरूपस्य तवाऽखिलाः क्रिया भवन्ति वै निर्गुणा निर्गुणस्य।।
धर्मार्थकामेप्सुभिरर्चनीयस्त्वमीश्वरो नाथ मुमुक्षुभिश्च ।।
त्वं कालमायायमसंसृतिभ्यो महाभयात्पातुमेकः समर्थः ।।
भक्तापराधाननवेक्षमाणो महादयालुः किल भक्तवत्सलः ।।१८।।
धृतावतारस्य हि नाममात्रं रूपं च वा यः स्मरेदन्तकाले ।।
सोपि प्रभो घोरमहाघसंघात्सद्यो विमुक्तो दिवमाशु याति ।। १९ ।।
तं त्वां विहायाऽत्र तु यो मनुष्यो देहे त्रिधातावपि देहिकेषु ।।
जायात्मजज्ञातिधनेषु सज्जते स मायया वञ्चित एव मूढः ।। 2.9.31.२० ।।
त्वद्भक्तियोग्यो नरदेह एव यं कामयन्तेऽपि च नाकसंस्थाः ।।
त्वद्भक्तिहीनं हि दिवोपि सौख्यमहं तु जाने नरकेण तुल्यम् ।। २१ ।।
तपस्त्रिलोक्याः कुरुषे सुखाय तत्रापि ते भारतवासिपुंसु ।।
अनुग्रहो भूरितरो यदत्र कृतावतारो विचरन्विराजसे ।। ।। २२ ।।
तस्याश्रयं ये तव नात्र कुर्वते त एव शास्त्रेषु मताः कृतघ्नाः ।।
अतस्तवैकाश्रयमेव बाढं कुर्वत्यजस्रं मयि तेऽस्तु तुष्टिः।।२३।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये श्रीनरनारायणस्तुतिनिरूपणंनामैकत्रिंशोऽध्यायः ।।३१।।