स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ३०

विकिस्रोतः तः

।। स्कन्द उवाच ।।
वासुदेवार्चनविधिं निशम्येत्थं स नारदः ।।
प्रसन्नः पुनरप्राक्षीत्तं मुनीनां परं गुरुम् ।। १ ।।
नारद उवाच ।।
सम्यगुक्तो भगवता क्रियायोगो महाफलः ।।
एकेन मनसा योऽसौ कार्यः सिद्धिमभीप्सुभिः ।। २ ।।
मनसो निग्रहस्तत्र ज्ञानिनामपि सद्गुरो ।।
दुष्करः किं पुनस्तर्हि नृणां कर्मात्मनां भुवि ।। ३ ।।
तमृते तु हरेरर्चा नाभीष्टफलदायिनी ।।
अतस्तन्निग्रहोपायमपि मे वक्तुमर्हसि ।। ४ ।।
स्कन्द उवाच ।।
इत्यापृष्टः स मुनिना मुनीन्द्रः सर्वदर्शनः ।।
नारायणो नरसखो नारदं तमभाषत ।। ५ ।।
श्रीनारायण उवाच ।।
सत्यमेव मुने वक्षि मनसोस्ति बलं महत् ।।
जितेपि यस्मिन्विश्वासः शत्रुवन्न विवेकिनाम् ।। ६ ।।
मनसा सदृशोन्यस्तु शत्रुर्न्नास्त्येव देहिनाम् ।।
विष्णुध्यानाभ्यासयोगान्निर्दोषं तद्धि शाम्यति ।। ७ ।।
अदान्ताश्ववदेवैतद्यतोस्ति दुरवग्रहम् ।।
अतो वैराग्ययुक्पुम्भिः सदुपायैर्निगृह्यते ।। ८ ।।
उपायास्तत्र बहवः सन्ति तेष्वपि सन्मते ।।
अष्टांगयोगस्याभ्यासः श्रेष्ठः सद्यः फलप्रदः ।। ९ ।।
यमाश्च नियमा ब्रह्मन्नासनान्यसुसंयमः ।।
प्रत्याहारो धारणा च ध्यानमंगं तु सप्तमम् ।।
समाधिश्चाष्टमं प्रोक्तं योगस्यानुक्रमेण वै ।। 2.9.30.१० ।।
तत्राऽहिंसाब्रह्मचर्य सत्यास्तेयापरिग्रहाः ।।
एते पञ्च यमाः प्रोक्ताः साधनीयाः प्रयत्नतः ।।११ ।।
शौचं तपश्च संतोषः स्वाध्यायो विष्णुपूजनम् ।।
एते च नियमाः पञ्च द्वितीयांगतया मताः ।। १२ ।।
परिहायांगचाञ्चल्यं यथासुखतया स्थितिः ।।
तदासनं स्वस्तिकादिप्रोक्तं द्वन्द्वार्त्तिजिन्मुने ।। १३ ।।
चरतां सर्वतोऽसूनामेकदेशे तु धारणम् ।।
गुरूपदिष्टरीत्यैव प्राणायामः स उच्यते ।। १४ ।।
चले वायौ चलं चित्तं स्थिरे तस्मिन्स्थिरं ततः ।।
सुदेशेऽयं सदाऽभ्यस्यः पूरकुम्भकरेचकैः ।। १५ ।।
मनसेन्द्रियवृत्तीनां तत्तद्विषयतश्च यत् ।।
आकर्षणं प्रतीचीनं प्रत्याहारः स ईरितः ।। १६ ।।
नाभ्याद्यन्यतमे स्थाने प्राणेन सह चेतसः ।।
वासुदेवस्वरूपे यद्धारणं धारणोदिता ।। १७ ।।
एकैकावयवस्यैव चिन्तनं यत्पृथक्पृथक् ।।
पदाब्जादेर्भगवतस्तद्ध्यानमिति कीर्तितम् ।। १८ ।।
निरोधः प्राणमनसोरतिप्रेम्णा हरौ तु यः ।।
स समाधिरिति प्रोक्तो योगिनामभिवाञ्छितः ।। १९ ।।
अंगैरष्टभिरेतैर्हि शिक्षितैः सिद्धसद्गुरोः ।।
योगः सिद्ध्यति वै पुंसां समाधेः पक्वतात्मकः ।। 2.9.30.२० ।।
नैतादृशं परं सम्यङ् मनोनिग्रहसाधनम्।।
पुरुषाणां मुमुक्षूणामिति जानीहि नारद ।। २१ ।।
तपस्विनां महाशत्रोर्ब्रह्माण्डक्षोभकादपि ।।
मदनान्नाभयं किञ्चिद्योगिनस्त्वस्ति कर्हिचित् ।। २२ ।।
आयास्यन्तं विहित्वैव सोन्तकालं च योगवित् ।।
स्वातन्त्र्येणैव देहं स्वं त्यजतीत्थं समाधिना ।। २३ ।।
पार्ष्णिभ्यां गुदमापीड्य वायुं पादद्वयस्थितम् ।।
शनैःशनैः समाकृष्य मृत्युस्थानं नयत्यमुम् ।। २४ ।।
मनसा केशवं ध्यायंस्तन्मनुं च षडक्षरम् ।।
जपस्ततोऽमुं नयति वायुं स्थानं प्रजापतेः ।। २५ ।।
ततो नाभिं च हदयमुरः कण्ठं च योगवित् ।।
नयति भ्रुकुटिवायुं वासुदेवपरायणः ।। २६ ।।
एतेषु षट्सु स्थानेषु त्वेकैकस्मिन्पृथक्पृथक् ।।
योगी प्राणमनोक्षाणां निरोधं च विसर्जनम् ।।
तावदभ्यसति स्वस्य यावत्स्यात्तत्स्वतन्त्रता ।। २७ ।।
जितंजितं विहायैव स्थानं याति परं परम् ।।
प्राप्तस्य स्थानकं षष्ठं तदभ्यासे श्रमो न हि ।। २८ ।।
सप्तच्छिद्राणि रुद्ध्वाऽथ प्राणमक्षमनोयुतम् ।।
प्रापय्य तालु व्रजति ब्रह्मरन्ध्रं स योगवित् ।। २९ ।।
मायामयपदार्थानां ततो हित्वैव वासनाः ।।
स वासुदेवैकमनास्त्यजति स्वकलेवरम्।। 2.9.30.३० ।।
ततो भगवतो धाम श्रीकृष्णस्य तमःपरम् ।।
उपेत्य सेवमानस्तं नन्दते दिव्यविग्रहः ।। ३१ ।।
इति ते कथितो ब्रह्मन्योगशास्त्रस्य संग्रहः ।।
जित्वा तेन मनः स्वीयं तमाराधय सर्वदा ।। ३२ ।।
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽष्टांगयोगनिरूपणं नाम त्रिंशोऽध्यायः ।। ३० ।।