स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २४

विकिस्रोतः तः

।। श्रीनारायण उवाच ।।
अथ ज्ञानस्वरूपं ते वच्मि सांख्येन निश्चितम् ।।
क्षेत्रादि ज्ञायते येन तज्ज्ञानं हि निरुच्यते ।। १ ।।
वासुदेवः परं ब्रह्म बृहत्यक्षरधामनि ।।
आदावेकोऽद्वितीयोऽभून्निर्गुणो दिव्यविग्रहः ।। २ ।।
स कार्यमूलप्रकृतिः सकालाऽक्षरतेजसि ।।
प्रकाशेऽर्कस्य रात्रीव तिरोभूता तदाऽभवत् ।। ३ ।।
सिसृक्षाथाभवत्तस्य ब्रह्माण्डानां यदा तदा ।।
सकालाविर्बभूवादौ महामाया ततो हि सा ।। ४ ।।
तां कालशक्तिमादाय वासुदेवोऽक्षरात्मना ।।
सिसृक्षयैक्षत यदा सा चुक्षोभ तदैव हि ।। ५ ।।
तस्याः प्रधानपुरुषकोटयो जज्ञिरे मुने ।।
युज्यन्ते स्म प्रधानैस्ते पुरुषाश्चेच्छया प्रभोः ।। ६ ।।
पुमांसो निदधुर्गर्भांस्तेषु तेभ्यश्च जज्ञिरे ।।
ब्रह्माण्डानि ह्यसङ्ख्यानि तत्रैकं तु विविच्यते ।। ७ ।।
आदौ जज्ञे महांस्तस्मात्पुंसो वीर्याद्धिरण्मयात् ।।
अहङ्कारस्ततस्तस्माद्गुणाः सत्त्वादयस्त्रयः ।। ८ ।।
तमसः पञ्च तन्मात्रा महाभूतानि जज्ञिरे ।।
दशेन्द्रियाणि रजसो बुद्ध्या सह महानसुः ।।९।।
सत्त्वादिन्द्रियदेवाश्च जायन्ते स्म मनस्तथा ।।
सामान्यतस्तत्त्वसंज्ञा एते देवाः प्रकीर्त्तिताः ।। 2.9.24.१० ।।
प्रेरिता वासुदेवेन स्वस्वांशैरैश्वरं वपुः ।।
अजीजनन्विराट्सञ्ज्ञं ते चराचरसंश्रयम् ।। ११ ।।
स च वैराजपुरुषः स्वसृष्टास्वप्स्वशेत यत् ।।
तेन नारायण इति प्रोच्यते निगमादिभिः ।। ।। १२ ।।
तन्नाभिपद्माद्ब्रह्मासीद्राजसोऽथ हृदम्बुजात् ।।
जज्ञे विष्णुः सत्त्वगुणो ललाटात्तामसो हरः ।। १३ ।।
एतेभ्य एव स्थानेभ्यस्तिस्र आसंश्च शक्तयः ।।
तत्रासीत्तामसी दुर्गा सावित्री राजसी तथा ।।
सात्त्विकी श्रीश्चेति सर्वा वस्त्रालंकारशोभिताः ।। १४ ।।
ता वैराजाज्ञया त्रींश्च ब्रह्मादीन्प्रतिपेदिरे ।।
दुर्गा रुद्रं च सावित्री ब्रह्माणं विष्णुमन्तिमा ।। १५ ।।
चण्डिकाद्याश्च दुर्गाया अंशेनासन्सहस्रशः ।।
त्रयीमुख्याश्च सावित्र्याः शक्तयोंशेन जज्ञिरे ।।
दुस्सहाप्रमुखाश्चासन्नंशेनैव श्रियो मुने ।। १६ ।।
तत्रादितो यो ब्रह्मासीद्वैराजनाभिपद्मतः ।।
एकार्णवे तदब्जस्थः स कश्चिदपि नैक्षत ।। १७ ।।
विसर्गबुद्धिमप्राप्तो नात्मानं च विवेद सः ।।
कोहं कुत इति ध्यायन्नदिदृक्षत्कजाश्रयम् ।। १८ ।।
नालं प्रविश्याऽधो यातुस्तन्मूलं च विचिन्वतः ।।
संवत्सरशतं यातं तस्य नान्तं तु सोलभत् ।। १९ ।।
ऊर्ध्वं पुनरुपेत्याऽथ श्रान्तश्च निषसाद सः ।।
अदृश्यमूर्तिर्भगवानूचे तपतपेति तम् ।। 2.9.24.२० ।।
तच्छ्रुत्वा तत्प्रवक्तारमदृष्ट्वा च स सर्वतः ।।
गुरूपदिष्टवत्तेपे दिव्यं वर्षसहस्रकम् ।।२१।।
पद्मे तपस्यते तस्मै तपः शुद्धात्मने ततः ।।
समाधौ दर्शयामास धाम वैकुण्ठमच्युतः ।। २२ ।।
प्राधानिका गुणा यत्र त्रयोपि रजआदयः ।।
न भवन्त्यल्पमपि यत्कालमायाभयं न च।।२३।।
सहोदितार्कायुतवद्भास्वरे तत्र तेजसि ।।
वासुदेवं ददर्शाऽसौ रम्यदिव्यासिताकृतिम्।।२४।।
चतुर्भुजं गदापद्मशंखचक्रधरं विभुम् ।।
पीताम्बरं महारत्नकिरीटादिविभूषणम्।। २५ ।।
नन्दतार्क्ष्यादिभिर्ज्जुष्टं पार्षदैश्च चतुर्भुजैः ।।
सिद्धिभिश्चाष्टभिः षड्भिर्बद्धाञ्जलिपुटैर्भगैः ।।२६।।
सिंहासने श्रिया साकमुपविष्टं तमीश्वरम् ।।
प्रणम्य प्राञ्जलिस्तस्थौ विरिञ्चो हृष्टमानसः ।।२७।।
तं प्राह भगवान्ब्रह्मंस्तुष्टोहं तपसा तव ।।
वरं वरय मत्तस्त्वं स्वाभीष्टं यत्प्रियोसि मे ।। २८ ।।
इत्युक्तस्तेन तं जानंस्तपसि प्रेरकं प्रभुम् ।।
स्वं च विश्वसृजं ब्रह्मा ययाचेऽभिमतं वरम् ।। २९ ।।
प्रजाविसर्गशक्तिं मे देहि तुभ्यं नमः प्रभो ।।
तत्रापि च न बद्ध्येयं यथा कुरु तथा कृपाम् ।। 2.9.24.३० ।।
ततस्तं भगवानूचे सेत्स्यते ते मनोरथः ।।
वैराजेन मयात्मैक्यं भावयित्वा समाधिना ।।
प्रजाः सृजाऽथ स्वासाध्ये कार्ये स्मर्योहमिष्टदः ।। ३१।।
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्माप्येकसमाधिना ।।
वैराजेनाऽथ लोकान्प्राग्लीनान्सर्वान्स्व ऐक्षत ।। ३२ ।।
विसर्गशक्तिं संप्राप्य स सर्गाय मनो दधे ।।
ब्रह्मज्योतिर्मयस्तावदादित्यः प्रादुरास ह ।। ३३ ।।
स्थापयित्वाण्डमध्ये तं ततः स मनसाऽसृजत् ।।
तपोभक्तिविशुद्धेन मुनीनाद्यांश्चतुःसनान् ।। ३४ ।।
प्रजाः सृजत चेत्यूचे तांस्तदा ते तु तद्वचः ।।
न जगृहुर्न्नैष्ठिकेन्द्रास्तेभ्यश्चुक्रोध विश्वसृट् ।। ३५ ।।
क्रुद्धस्य तस्य भालाच्च रुद्र आसीत्तमोमयः ।।
मन्युं नियम्य मनसा प्रजेशान्सोऽसृजत्ततः ।। ३६ ।।
मरीचिमत्रिं पुलहं पुलस्त्यं च भृगुं क्रतुम् ।।
वसिष्ठं कर्दमं चैव दक्षमंगिरसं तथा ।। ३७ ।।
धर्मं ततः स हृदयादधर्मं पृष्ठतस्तथा ।।
मनसः काममास्याच्च वाणीं क्रोधं भ्रुवोऽसृजत् ।। ३८ ।।
शौचं तपो दया सत्यमिति धर्मपदानि च ।।
चतुर्भ्यो वदनेभ्यश्च चत्वारि ससृजे ततः ।। ३९ ।।
ऋग्वेदं वदनात्पूर्वाद्यजुर्वेदं च दक्षिणात् ।।
ससर्ज पश्चिमात्साम सौम्याच्चाथर्वसंज्ञितम्।।2.9.24.४०।।
इतिहासपुराणानि यज्ञान्विप्रशतं तथा ।।
वस्वादित्यमरुद्विश्वान्साध्यांश्च मुखतोऽसृजत् ।।४१।।
बाहुभ्यः क्षत्रियशतमूरुभ्यां च विशां शतम् ।।
पद्भ्यां शूद्रशतं चैतान्ससर्ज सह वृत्तिभिः ।। ४२ ।।
ब्रह्मचर्यं च हृदयाद्गार्हस्थ्यं जघनस्थलात् ।।
वनाश्रमं तथोरस्तः संन्यासं शिरसोऽसृजत् ।। ४३ ।।
वक्षःस्थलात्पितृगणानसुराञ्जघनस्थलात् ।।
ससर्ज च गुदान्मृत्युं निर्ऋतिं निरयांश्च सः ।। ४४ ।।
गन्धर्वांश्चारणान्सिद्धान्सर्पान्यक्षांश्च राक्षसान् ।।
नगान्मेघान्विद्युतश्च समुद्रान्सरितस्तथा ।। ४५ ।।
वृक्षान्पशून्पक्षिणश्च सर्वान्स्थावरजङ्गमान् ।।
स्वाङ्गेभ्य एव सोस्राक्षीद्ब्रह्मा नारायणात्मकः ।। ४६ ।।
सृष्टिमेतां विलोक्यापि नातिप्रीतो यदा तदा ।।
हरिं ध्यात्वा स ससृजे तपोविद्यासमाधिभिः ।।
ऋषीन्स्वायम्भुवादींश्च मनूंश्च मनुजानपि ।। ४७ ।।
ततः प्रीतः स सर्वेषां निवासाय यथोचितम्।।
स्वर्लोकं च भुवर्लोकं भूर्लोकं समकल्पयत् ।। ४८ ।।
येषां तु यादृशं कर्म प्राक्कालीनं हि तान्विधिः ।।
संस्थाप्य तादृशे स्थाने वृत्तीस्तेषामकल्पयत् ।। ४९ ।।
देवानाममृतं नॄणामृषीणां चान्नमोषधीः ।।
यक्षरक्षोसुरव्याघ्रसर्पादीनां सुरामिषम् ।।
चक्लृपे गोमृगादीनां वृत्तिं स यवसादि च ।। 2.9.24.५० ।।
स देवानां तु विश्वेषां हव्यं वृत्तिमकल्पयत् ।।
अमूर्तानां च मूर्तानां पितॄणां कव्यमेव च ।। ५१ ।।
दुर्गोद्भवानां शक्तीनां तदुपासनतत्परैः ।।
दैत्यरक्षःपिशाचाद्यैर्दत्तं मद्यामिषादि च ।। ५२ ।।
तथा सावित्र्युद्भवानां शक्तीनां तदुपासकैः ।।
दत्तमृष्यादिभिर्यज्ञे मुन्यन्नं चान्नमोषधीः ।। ५३ ।।
श्रीजातानां च शक्तीनां तदुपास्तिपरायणैः ।।
दत्तं देवासुरनरैः पायसाज्यसितादि च ।। ५४ ।।
प्रजापतीनां स पतिस्ततः प्राहाऽखिलाः प्रजाः ।।
इज्या देवाश्च पितरो हव्यकव्यात्मकैर्मखैः ।। ५५ ।।
इष्टाः संपूरयिष्यन्ति ह्येते युष्मन्मनोरथान् ।।
एतान्ये नार्चयिष्यन्ति ते वै निरयगामिनः ।। ५६ ।।
इत्थं कृता हि मर्यादा तेन नारायणात्मना ।।
दैवं पित्र्यमतो नित्यं जनैः कार्यं यथाविधि ।। ५७ ।।
ततो ब्रह्मा स सर्वेषां धर्मसेत्ववनाय च ।।
तत्तज्जातिषु ये मुख्यास्तान्मनूंश्चाप्यतिष्ठिपत् ।। ५८ ।।
वासुदेवेच्छयैवेत्थं वैराजाद्ब्रह्मरूपिणः ।।
कल्पेकल्पे भवत्येव सृष्टिर्बहुविधा मुने।।५९।।
प्राक्कल्पे यादृशी संज्ञा वेदाः शास्त्राणि च क्रियाः।।
कल्पेऽन्ये तादृशाः सर्वे धर्माः स्युश्चाऽधिकारिणः।। 2.9.24.६०।।
विष्णुर्यः कथितः सोपि वैराजपुरुषात्मकः।।
पोषयत्यखिलाँल्लोकान्मर्यादाः परिपालयन्।। ६१।।
मन्वादिभिः पाल्यमानाः सेतवस्त्वसुरैर्यदा ।।
कामरूपैर्विभिद्यन्ते वासुदेवस्तदा स्वयम् ।।
ब्रह्मादिभिः प्रार्थ्यमानः प्रादुर्भवति भूतले ।। ६२ ।।
अवतारा भगवतो भूता भाव्याश्च सन्ति ये ।।
कर्तुं न शक्यते तेषां संख्यां संख्याविशारदैः ।। ६३ ।।
सद्धर्मदेवसाधूनां गुप्त्यै तद्द्रोहिमृत्यवे ।।
श्रेयसे सर्वभूतानामाविर्भावोस्ति सत्पतेः ।। ६४ ।।
स वासुदेवः प्रकृतौ पुंसि कार्येषु चैतयोः ।।
अन्वितश्च पृथक्चास्ते सर्वाधीशः स्वधामनि ।। ६५ ।।
व्याप्य स्वांशैरिमाँल्लोकान्यथाग्निवरुणादयः ।।
स्वस्त्यासते स्वस्वलोके तथैष भगवान्मुने ।। ६६ ।।
सर्गात्प्राक्सच्चिदानन्दः शुद्ध एकश्च निर्गुणः ।।
यथासीत्तादृगेवासावन्वितोप्यस्ति निर्मलः ।। ६७ ।।
वायुतेजोजलक्ष्मासु तत्तत्कार्येषु खं यथा ।।
अन्वीयाप्यस्ति निर्लेपं यथा पूर्वं तथैष हि ।। ६८ ।।
सर्वोपास्यो नियन्ता च व्यापकश्चैष कीर्तितः ।।
आत्यन्तिके लयेऽथैष भवत्येव यथा पुरा ।। ६९ ।।
वैराजः पुरुषो योऽत्र प्रोक्तोऽसावीश्वराभिधः ।।
ज्ञेयः स्वतन्त्रः सर्वज्ञो वश्यमायश्च नारद ।। 2.9.24.७० ।।
एतस्यैव स्वरूपाणि ब्रह्मविष्णुशिवास्त्रयः ।।
रजआदिगुणोपेताः स्वगुणानुगुणक्रियाः ।। ७१ ।।
ब्रह्मणो ये समुत्पन्ना देवासुरनरादयः ।।
ते जीवसंज्ञा ह्यल्पज्ञाः परतन्त्रा भवन्ति च ।। ७२ ।।
जीवानामीश्वराणां च तनवः क्षेत्रसञ्ज्ञकाः ।।
महदादितत्त्वमय्यः क्षेत्रज्ञाख्यास्तु तद्विदः ।। ७३ ।।
क्षेत्राणां च क्षेत्रविदां प्रधानपुरुषस्य च ।।
मायायाः कालशक्तेश्चाऽक्षरस्य च परात्मनः ।।
पृथक्पृथग्लक्षणैर्यज्ज्ञानं तज्ज्ञानमुच्यते ।। ७४ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये ज्ञानस्वरूपनिरूपणं नाम चतुर्विशोऽध्यायः ।। २४ ।।