स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः २०

विकिस्रोतः तः

।। नारद उवाच ।।
भगवन्ब्रूहि मे धर्ममेकान्तं तव संमतम् ।।
प्रीयते येन विश्वात्मा वासुदेवः स सर्वदा ।। १ ।।
श्रीनारायण उवाच ।।
साधु पृष्टं त्वया ब्रह्मन्मतिस्ते विमला किल ।।
मयि स्निग्धाय भक्ताय तुभ्यं गुह्यमपि ब्रुवे ।। ।। २ ।।
धर्म एष मया प्रोक्तः कल्पस्यादौ विवस्वते ।।
तमेव कथये तुभ्यं सनातनमहं मुने ।।३।।
स्वधर्मज्ञानवैराग्यैः सह लक्ष्मीवदीश्वरे ।।
तस्मिन्ननन्या भक्तिर्या धर्म एकान्तिकः स वै ।। ४ ।।
तेनैवातिप्रसन्नः स्याद्गोलोकाधिपतिः स्वयम् ।।
जायते स च भक्तोपि परिपूर्णमनोरथः ।। ५ ।।
।। नारद उवाच ।।
लक्षणानि बुभुत्सामि स्वधर्मादेः पृथक्पृथक् ।।
शास्त्रयोनेरहं त्वत्तो वक्तुं तानि त्वमर्हसि ।। ६ ।।
निगमागमशास्त्राणां सर्वेषामपि सत्पते ।।
मूलं त्वमेक एवासि येषु धर्मः सनातनः ।। ७ ।।
त्वमेव साक्षाद्भगवान्वासुदेवोऽक्षरात्परः ।।
श्रेयसे सर्वभूतानां वर्तसेऽत्र दयानिधिः ।। ८ ।।
त्वत्तोऽन्ये तु स्वस्वभावगुणतन्त्रा ह्यजादयः ।।
यथावन्न विजानीयुर्द्धर्मादींस्त्वमतो वद ।। ९ ।।
स्कन्द उवाच ।।
इति देवर्षिणा पृष्टो भगवान्धर्मनन्दनः ।।
स्वधर्मादीन्क्रमेणैव कथयामास सर्ववित् ।। 2.9.20.१० ।।
श्रीनारायण उवाच ।।
वर्णानामाश्रमाणां च सदाचारः पृथक्पृथक् ।।
सामान्यः सविशेषश्च स्वधर्मः स उदीर्यते ।। ११ ।।
नृणां साधारणं धर्मं सर्वेषामादितः शृणु ।।
अहिंसा परमो धर्मस्तत्रादिम उदाहृतः ।। १२ ।।
स्वमुख्यधर्मवृत्योरप्यद्रोहो मनसापि यः ।।
सति गत्यन्तरे प्राणिमात्रस्यापीति सा मता ।। १३ ।।
सत्या वाग्भूतमात्रस्य द्रोहो न स्याद्यया तथा ।।
तपश्च शास्त्रविहितभोगसंकोचलक्षणम् ।। १४ ।।
बाह्यमाभ्यन्तरं चेति द्विविधं शौचकर्म च ।।
अनादानं परस्वस्य परोक्षं वा छलेन च ।। १५ ।।
यथोचितं ब्रह्मचर्यकामलोभक्रुधां जयः ।।
मुदा वित्तार्पणं पात्रे तुष्टिर्लब्धेन दैवतः ।। १६ ।।
तीर्थे क्षेत्रे च यज्ञादौ चतुर्वर्गाप्तयेपि वा ।।
आत्मनो वा परस्यापि सर्वथा घातवर्जनम् ।। १७।।
जातिभ्रंशकराणां च कर्मणां परिवर्जनम् ।।
पाणिपादोदरोपस्थवाचां संयमनं तथा ।। १८ ।।
सर्वेषां व्यसनानां च वर्जनं मद्यमांसयोः ।।
व्यभिचारान्निवृत्तिश्च कुलसद्धर्मपालनम् ।। १९ ।।
एकादशीनां सर्वासां यमैः साकमुपोषणम् ।।
हरेर्जन्मदिनानां च व्रताचरणमञ्जसा ।। 2.9.20.२० ।।
आर्जवं साधुसेवा च विभज्याऽन्नादिभोजनम् ।।
भक्तिर्भगवतश्चेति धर्माः साधारणा नृणाम् ।। २१ ।।
ब्रह्मक्षत्रविशः शूद्रा वर्णाश्चत्वार ईरिताः ।।
तेषां पृथक्पृथग्धर्मान्विशेषान्वच्मि ते मुने ।।२२।।
शमो दमः क्षमा शौचमास्तिक्यं भक्तिरीशितुः ।।
तपो ज्ञानं च विज्ञानं विप्रधर्मः स्वभावजः ।। २३ ।।
शूरत्वं धैर्यमौदार्य बलं तेजः शरण्यता।।
गोविप्रसाधुरक्षेज्या धर्माः क्षत्रस्य कीर्त्तिताः ।। २४ ।।
राज्ञस्त्वेतेऽथ नीत्यैव प्रजानां परिपालनम् ।।
धर्मसंस्थापनं भूमौ धर्मा दण्डार्हदण्डनम् ।। २५ ।।
आस्तिक्यं दाननिष्ठा च साधुब्राह्मणसेवनम् ।।
अतुष्टिरर्थोपचये धर्मा वैश्यस्य चोद्यमः ।। २६ ।।
द्विजातीनां च देवानां सेवा निष्कपटं गवाम् ।।
विशेषधर्मः कथितः शूद्रस्य मुनिसत्तम ।। २७ ।।
अध्यापनं याजनं च विशुद्धाच्च प्रतिग्रहः ।।
विप्रस्य जीविका प्रोक्ता तत्रान्त्या त्वापदि स्मृता ।। २८ ।।
याजनेऽध्यापने वापि दोषदर्शी द्विजोत्तमः ।।
यस्तस्याऽन्यापि विहिता वृत्तिरस्ति चतुर्विधा ।। २९ ।।
शिलोञ्छ नित्ययाच्ञा च शालीनं चोचिता कृषिः ।।
श्रेयसी पूर्वपूर्वाऽत्र ज्ञातव्या द्विजसत्तमैः ।। 2.9.20.३० ।।
विप्रो जीवेद्वैश्यवृत्त्या सत्यामापदि नारद ।।
अथ वा क्षत्रवृत्त्यापि श्ववृत्त्या न तु कर्हिचित् ।। ३१ ।।
शस्त्रेण जीवेत्क्षत्रं तु सर्वतो धर्मरक्षया ।।
आपन्नो वैश्यवृत्त्यैव विप्ररूपेण वा चरेत् ।। ३२ ।।
करादानादिनृपतेरविप्राद्वृत्तिरीरिता ।।
देशकालानुसारेण रञ्जयित्वाऽखिलाः प्रजाः ।। ३३ ।।
आपत्कालेपि क्षत्रस्य ब्राह्मणस्येव सर्वथा ।।
विगर्हिता नीचसेवा स्वतेजःक्षयकारिणी ।। ३४ ।।
कृषिवाणिज्यगोरक्षा तुरीया वृद्धिजीवनम् ।।
वैश्यस्य जीविका प्रोक्ता शूद्रवृत्तिस्तथापदि ।। ३५ ।।
शूद्रो जीवेद्द्विजातीनां सेवालब्धधनेन च ।।
आपत्काले तु कार्वादेर्जीविकावृत्तिमाश्रयेत् ।। ३६ ।।
आपन्मुक्तस्तु सर्वोपि प्रायश्चित्तं यथोचितम् ।।
विधाय स्वस्ववृत्त्यैव पुनर्वर्त्तेत मुख्यया ।। ३७ ।।
चातुर्वर्ण्यं सतां संगं कुर्यान्न त्वसतां क्वचित् ।।
मुक्तिप्रदोस्ति सत्संगः कुसंगो निरयप्रदः ।। ३८ ।।
कामं क्रोधं रसास्वादं जित्वा मानं च मत्सरम् ।।
निर्दम्भं विष्णुभक्ता ये ते सन्तः साधवो मताः ।। ३९ ।।
स्त्रियां स्त्रैणे रसास्वादे सक्ताश्च धनगृध्नवः ।।
हिंस्रा दम्भकृताटोपा भक्ताभासा ह्यसाधवः ।। 2.9.20.४० ।।
असाधुष्वासुरी संपद्दैवी संपत्तु साधुषु ।।
सहजास्तीति निश्चित्य सेव्या सन्तः सुखेप्सुभिः ।। ४१ ।।
यादृशां यस्य संगः स्याच्छास्त्राणां वा नृणामपि ।।
बुद्धिः स्यात्तादृशी तस्य कार्योऽतो नासतां हि सः ।। ४२ ।।
ये साधुसेवारुचयः पुरुषा निजशक्तितः ।।
अप्राप्यं नास्ति तेषां वै किमप्यैश्वर्यमूर्जितम् ।। ४३ ।।
स्वधर्मस्था अपि सतां द्रोहिणो ये तु मानवाः ।।
सद्गतिं नैव ते यान्ति क्वापि केनापि कर्मणा ।। ४४ ।।
महापूजारता विष्णोर्भक्ता अपि सतां यदि ।।
द्रोहं कुर्युस्तदा तेषु न प्रसीदति स क्वचित् ।। ४५ ।।
सद्द्रोहिणस्तु देहान्ते यांयां योनिं ब्रजन्ति च ।।
तत्रतत्र क्षुधारोगैः पीड्यन्ते जीवितावधि ।। ४६ ।।
सतामतिक्रमादेव पुण्यानां महतामपि ।।
सद्यः क्षयः स्यात्सर्वेषामायुषः संपदामपि ।। ४७ ।।
तस्मात्सेवा सतां कार्या सर्वैरपि सुखेप्सुभिः ।।
पुण्यतीर्थानि सेव्यानि पूज्या विप्राश्च धेनवः ।। ४८ ।।
तीर्थानि देवप्रतिमा निन्देयुर्ये कुबुद्धयः ।।
तेषां तु जारजातानां वंशोच्छेदो भवेद्ध्रुवम् ।। ४९ ।।
एकस्मिंस्तर्पिते विप्रे सद्भोज्यैर्दक्षिणादिभिः ।।
तर्पितं स्याज्जगत्सर्वं हरिस्तुष्यति च स्वयम् ।। 2.9.20.५० ।।
एकस्मिन्ब्राह्मणे द्रुग्धे द्रुग्धं स्यात्सकलं जगत्।।
तस्माच्छक्त्या पूजनीया ब्राह्मणा विष्णुरूपिणः।।५१।।
गवामंगेषु तिष्ठन्ति सर्वे देवगणा अपि।।
तथा सर्वाणि तीर्थानि तासु तिष्ठन्ति सर्वदा ।। ५२ ।।
गव्यर्च्चितायामेकस्यां सर्वे देवाः समर्च्चिताः ।।
कृतानि स्युश्च सर्वाणि तीर्थान्यपि च नारद ।। ५३ ।।
एकस्या अपि गोर्द्रोहे कृते क्वापि प्रमादतः ।।
द्रुग्धाः स्युर्देवताः सर्वास्तीर्थान्यपि च कृत्स्नशः ।। ५४ ।।
तस्माच्चातुर्वर्ण्य जनैर्यथोक्तविधिसंस्थितैः ।।
भवितव्यं प्रयत्नेन त्रेतव्यं च निषेधतः।।५५।।
चातुर्वर्ण्येतरे ये तु तेषां वृत्तिः कुलोचिता ।।
चौर्यहिंसाद्यधर्मेण रहितैव हितावहा ।। ५६ ।।
वर्णधर्मा इति प्रोक्ताः संक्षेपेण मया मुने ।।
चतुर्णामाश्रमाणां च धर्मानथ वदामि ते ।। ५७ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये चातुर्वर्ण्यधर्मनिरूपणं नाम विंशोऽध्यायः ।।२०।।