स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः

।। स्कन्द उवाच ।।
मेरुशृंगं समारूढो नारदो दिव्यया दृशा ।।
श्वेतद्वीपं च तत्रस्थान्पश्यन्मुक्तान्सहस्रशः ।। १ ।।
वासुदेवे भगवति दृष्टिमाबध्य तत्क्षणम् ।।
उत्पपात महायोगी सद्यः प्राप च धाम तत् ।। २ ।।
प्राप्य श्वेतं महाद्वीपं नारदो हृष्टमानसः ।।
ददर्श भक्तांस्तानेव श्वेतांश्चन्द्रप्रभाञ्छुभान् ।। ३ ।।
पूजयामास शिरसा मनसा तैश्च पूजितः ।।
दिदृक्षुर्ब्रह्म परमं स च कृच्छ्रपरः स्थितः ।। ४ ।।
भक्तमेकान्तिकं विष्णोर्बुद्ध्वा भागवतास्तु ते ।।
तमूचुस्तुष्टमनसो जपन्तं द्वादशाक्षरम् ।। ५ ।।
श्वेतमुक्ता ऊचुः ।।
मुनिवर्य भवान्भक्तः कृष्णस्याऽस्ति यतोऽत्र नः ।।
दृष्टवान्देवदुर्दृश्यान्किमिच्छन्नथ तप्यति ।। ६ ।।
नारद उवाच ।।
भगवन्तं परं ब्रह्म साक्षात्कृष्णमहं प्रभुम् ।।
द्रष्टुमुत्कोऽस्मि भक्तेन्द्रास्तं दर्शयत तत्प्रियाः ।।७।।
स्कन्द उवाच ।।
तदैकः श्वेतमुक्तस्तु कृष्णेन प्रेरितो हृदि ।।
एहि ते दर्शये कृष्णमित्युक्त्वा पुरतोभवत् ।।८।।
प्रहृष्टो नारदस्तेन साकमाकाशवर्त्मना ।।
पश्यन्धामानि देवानां तत ऊर्द्ध्वं ययौ मुनिः ।। ९ ।।
सप्तर्षींश्च ध्रुवं दृष्ट्वाऽनासक्तः कुत्रचित्स च ।।
महर्जनतपोलोकान्व्यतीयाय द्विजोत्तम।।2.9.16.१०।।
ब्रह्मलोकं ततो दृष्ट्वा श्वेतमुक्तानुगो मुनिः ।।
कृष्णस्यैवेच्छयाऽध्वानं प्रापाष्टावरणेष्वपि।।११।।
भूम्यप्तेजोनिलाकाशाहम्महत्प्रकृतीः क्रमात् ।।
क्रान्त्वा दशोत्तरगुणाः प्राप गोलोकमद्भुतम् ।।१२।।
धाम तेजोमयं तद्धि प्राप्यमेकान्तिकैर्हरेः।।
गच्छन्ददर्श विततामगाधां विरजां नदीम्।।१३।।
गोपीगोपगणस्नानधौतचन्दनसौरभाम्।।
पुण्डरीकैः कोकनदै रम्यामिन्दीवरैरपि।।१४।।
तस्यास्तटं मनोहारि स्फटिकाश्ममयं महत्।।
प्राप श्वेतहरिद्रक्तपीतसन्मणिराजितम्।।१५।।
कल्पवृक्षालिभिर्ज्जुष्टं प्रवालाङ्कुरशोभितम्।।
स्यमन्तकेन्द्रनीलादिमणीनां खनिमण्डितम् ।। १६ ।।
नानामणीन्द्रनिचितसोपानततिशोभनम् ।।
कूजद्भिर्मधुरं जुष्टं हंसकारण्डवादिभिः ।। १७ ।।
वृन्दैः कामदुघानां च गजेन्द्राणां च वाजिनाम् ।।
पिबद्भिर्न्निर्मलं तोयं राजितं स व्यतिक्रमत् ।। १८ ।।
उत्तीर्याऽथ धुनी दिव्यां तत्क्षणादीश्वरेच्छया ।।
तद्धामपरिखाभूतां शतशृङ्गागमाप सः ।। १९ ।।
हिरण्मयं दर्शनीयं कोटियोजनमुच्छ्रितम् ।।
विस्तारे दशकोट्यस्तु योजनानां मनोहरम् ।। 2.9.16.२० ।।
सहस्रशः कल्पवृक्षैः पारिजातादिभिर्द्रुमैः ।।
मल्लिकायूथिकाभिश्च लवङ्गैलालतादिभिः ।। २१ ।।
स्वर्णरम्भादिभिश्चान्यैः शोभमानं महीरुहैः ।।
दिव्यैर्मृगगणैर्न्नागैः पक्षिभिश्च सुकूजितैः ।। २२ ।।
दुर्गायितस्य तद्धाम्नस्तस्य रम्येषु सानुषु ।।
मनोज्ञान्विततानैक्षद्भगवद्रासमण्डपान् ।। २३ ।।
वृतानुद्यानततिभिः फुल्लपुष्पसुगन्धिभिः ।।
कपाटै रत्ननिचितैश्चतुर्द्वारसुशोभनान् ।। २४ ।।
चित्रतोरणसंपन्नै रत्नस्तम्भैः सहस्रशः ।।
जुष्टांश्च कदलीस्तम्भैर्मुक्तालम्बैर्वितानकैः ।। २५ ।।
दूर्वालाजाक्षतफलैर्युक्तान्माङ्गलिकैरपि ।।
चन्दनागुरुकस्तूरीकेशरोक्षित चत्वरान् ।। २६ ।।
सुश्राव्यवाद्यनिनदैर्हृद्यान्बहुविधैरपि ।।
तेषु यूथानि गोपीनां कोटिशः स ददर्श ह ।। २७ ।।
अनर्घ्यवासोभूषाभिः सद्रत्नमणिकङ्कणैः ।।
काञ्चीनूपुरकेयूरैः शोभितान्यङ्गुलीयकैः ।। २८ ।।
तारुण्यरूपलावण्यैः स्वरैश्चाऽप्रतिमानि हि ।।
राधालक्ष्मीसवर्णानि शृङ्गारिककराणि च ।। २९ ।।
भोगद्रव्यैर्बहुविधैर्मण्डपेषु युतेषु च ।।
विलसन्ति च गायन्ति मनोज्ञाः कृष्णगीतिकाः ।। 2.9.16.३० ।।
उपत्यकासु तस्याद्रेरथ वृन्दावनाभिधम् ।।
वनं महत्तदद्राक्षीत्सावर्णे नारदो मुनिः ।। ३१ ।।
कृष्णस्य राधिकायाश्च प्रियं तत्क्रीडनस्थलम्।।
कल्पद्रुमालिभी रम्यं सरोभिश्च सपङ्कजैः ।। ३२ ।।
आम्रैराम्रातकैर्नीपैर्बदरीभिश्च दाडिमैः ।।
खर्जूरीपूगनारंगैर्न्नालिकेरैश्च चन्दनैः ।। ३३ ।।
जम्बूजम्बीरपनसैरक्षोदैः सुरदारुभिः ।।
कदलीभिश्चम्पकैश्च द्राक्षाभिः स्वर्णकेतकैः ।। ३४ ।।
फलपुष्पभरानम्रैर्न्नानावृक्षैर्विराजितम् ।।
मल्लिका माधवीकुन्दैर्ल्लवंगैर्यूथिकादिभिः ।। ३५ ।।
मन्दशीतसुगन्धेन सेवितं मातरिश्वना ।।
शतशृङ्गस्नुतैरार्द्रं निर्झरैश्च समन्ततः ।। ३६ ।।
सदा वसन्त शोभाढ्यं रत्नदीपालिमण्डितैः ।।
शृङ्गारिकद्रव्ययुतैः कुञ्जैर्जुष्टमनेकशः ।। ३७ ।।
गोपानां गोपिकानां च कृष्णसंकीर्त्तनैर्मुहुः ।।
गोवत्स पक्षिनिनदैर्न्नानाभूषणनिस्वनैः ।।
दधिमन्थनशब्दैश्च सर्वतो नादितं मुने ।। ३८ ।।
फुल्लपुष्पफलानम्रनानाद्रुमसुशोभनैः ।।
द्वात्रिंशतवनैरन्यैर्युक्तं पश्यमनोहरैः ।। ३९ ।।
तद्वीक्ष्य हृष्टः स प्राप गोलोकपुरमुज्वलम् ।।
वर्तुलं रत्नदुर्गं च राजमार्गोपशोभितम् ।। 2.9.16.४० ।।
राजितं कृष्णभक्तानां विमानैः कोटिभिस्तथा ।।
रथै रत्नेन्द्रखचितैः किंकिणीजालशोभितैः ।। ४१ ।।
महामणीन्द्रनिकरै रत्नस्तम्भालिमण्डितैः ।।
अद्भुतैः कोटिशः सौधैः पंक्तिसंस्थैर्मनोहरम् ।। ४२ ।।
विलासमण्डपै रम्यै रत्नसारविनिर्मितः ।।
रत्नेन्द्रदीपततिभिः शोभनं रत्नवेदिभिः ।। ४३ ।।
केसरागुरुकस्तूरीकुंकुमद्रवचर्चितम् ।।
दधिदूर्वालाजपूगै रम्भाभिः शोभिताङ्गणम् ।। ४४ ।।
वारिपूर्णैर्हेमघटैस्तोरणैः कृतमंगलम् ।।
मणिकुट्टिमराजाध्वचलद्भूरिगजाश्वकम् ।। ४५ ।।
श्रीकृष्णदर्शनायातैर्न्नैकब्रह्माण्डनायकैः ।।
विरिञ्चिशंकराद्यैश्च बलिहस्तैः सुसंकुलम् ।।४६।।
व्रजद्भिः कृष्णवीक्षाथ गोपगोपीकदम्बकैः ।।
सुसंकुलमहामार्गं मुमोदालोक्य तन्मुनिः ।।४७।।
कृष्णमन्दिरमापाऽथ सर्वाश्चर्यं मनोहरम् ।।
नन्दादिवृषभान्वादिगोपसौधालिभिर्वृतम् ।। ४८ ।।
चतुर्द्वारैः षोडशभिर्दुर्गैः सपरिखैर्युतम्।।
कोटिगोपवृतैकैकद्वारपालसुरक्षितैः ।। ४९ ।।
रत्नस्तम्भकपाटेषु द्वार्षु स्वाग्रस्थितेषु सः ।।
उपविष्टान्क्रमेणैव द्वारपालान्ददर्श ह ।।2.9.16.५०।।
वीरभानुं चन्द्रभानुं सूर्यभानुं तृतीयकम् ।।
वसुभानुं देवभानुं शक्रभानुं ततः परम् ।। ५१ ।।
रत्नभानुं सुपार्श्वं च विशालमृषभं ततः ।।
अंशुं बलं च सुबलं देवप्रस्थं वरूथपम् ।। ५२ ।।
श्रीदामानं च नत्वाऽसौ प्रविष्टोंतस्तदाज्ञया ।।
महाचतुष्के वितते तेजोऽपश्यन्महोच्चयम् ।। ५३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये गोलोकवर्णनं नाम षोडशोऽध्यायः ।।१६।।