स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १५

विकिस्रोतः तः

।। ब्रह्मोवाच ।।
विचार्य्याऽहं वेदान्मुहुरुपगतो निश्चयमिमं रमारामे भक्तिस्त्वयि दृढतरा यर्ह्यसुभृताम् ।।
भवेत्तर्ह्येवैषां क्षयविरहिता भोगनिकरास्तथा स्युर्लोका वै परमपुरुषात्यंतिकगतिः ।। ।। १ ।।
अजानन्तस्त्वित्थं भृतरजतमस्कानपि हरे भजन्त्यस्मान्देवान्बहुविधतपोर्च्चासरणिभिः ।।
त एवोक्ता मूढाः क्षयरहितसौख्यं न कुहचिल्लभन्तेऽतस्त्वां वै निजहृदि दधे केशवमहम् ।।२।।
शंकर उवाच ।।
त्रयी सांख्यवेदांतयोगाः पुराणं तथा पञ्चरात्रं प्रभो धर्मशास्त्रम् ।।
तवैवातिमाहात्म्यमेकस्य नित्यं प्रकारैरनेकैर्हि गायंति भक्त्या ।।३।।
त्वदेवेश शास्त्राणि चैतानि भूम्नो बभूवुस्त्वदेकाश्रयाण्यादिकल्पे।।
रमासेव्यपादाम्बुजं शास्त्रयोनिं तमाद्यं भवन्तं भजे वासुदेवम् ।। ४ ।।
धर्म उवाच ।।
कथा त्वदीया भवपाशमोचनी सुधैव तापत्रयतप्तदेहिनाम् ।।
अनेकजन्माघचयापहारिणी तनोति भक्तिं वयुनं तवाञ्जसा ।। ५ ।।
सदैव सा कर्णपथेन हृद्दरी विशत्वनन्ताभिध सम्मुखोद्गता ।।
मम त्वदन्या हरताच्च वासना दयाब्धये ते प्रभविष्णवे नमः ।। ६ ।।
प्रजापतय ऊचुः ।।
धन्या एते कल्पवृक्षा यदीयां छायामेतामाश्रितस्त्वं सहश्रीः ।।
धन्यः कर्ता मण्डपस्यास्य ते वै धन्यैषा भूर्यत्र पीठं तवेश ।। ७ ।।
धन्यो लोके नूनमेषोम्बुराशिः साक्षात्तुभ्यं येन दत्ता स्वकन्या ।।
धन्याश्चैते त्वां वयं वीक्षमाणा धन्येशानं श्रीपतिं त्वां नताः स्मः ।। ८ ।।
मनव ऊचुः ।।
धर्मः खलु स हि परमो धर्मेभ्यो माधव सकलेभ्योपि ।।
भक्तिर्भवति यतो वै धर्मभुवि त्वयि हि निरवद्या ।। ९ ।।
धर्मात्मानं भगवन्धर्मधुरीणं च धर्मपातारम् ।।
सर्वातिप्रियधर्मं नुमस्त्वां धर्मसंभूतिम् ।। 2.9.15.१० ।।
ऋषय ऊचुः ।।
भक्त्या हीनस्त्वद्विमुखो वयुनार्थी श्राम्यन्भूयोप्यस्य न सिद्धिं समुपैति ।।
तर्ह्यासक्तः कर्मणि काम्ये तु कुतोसौ सौख्यं यायादक्षयमानन्दमहाब्धे ।। ११ ।।
भक्त्या नित्यं त्वामत एव वयं वै श्रद्धायुक्ता धर्मतपोनिगमाद्यैः ।।
मायातीतं कालनियन्तारमुदारं ध्यायामः श्रीकान्तपरात्परमेकम् ।। १२ ।।
इन्द्र उवाच ।।
भगवन्नुरुदुःखिता वयं ननु दुर्वासस एव हेलनात् ।।
न भवन्तमृतेऽवितुं हि नो विधिरुद्रप्रमुखा इमेऽशकन् ।। १३ ।।
विगताखिलसंपदो निरन्नाः समभावं भुवि पामरैरुपेताः ।।
भवतैव वयं हृतापदः स्मः सपदि श्रीहरये नमोस्तु तुभ्यम् ।। १४ ।।
अग्निरुवाच ।।
गीर्वाणदानवनराद्युपजीवनान्नं यन्निर्मितं हि भवतैव ततो बुधास्तु ।।
यज्ञेषु तेन यजनं तव कुर्वतेऽथो त्वच्छेषमन्यदिविषद्भ्य उपानयन्ति ।। १५ ।।
काम्येषु कर्मसु रता अपि याज्ञिकास्ते तत्कर्मबन्धनत आशु विमुच्य यान्ति ।।
ब्राह्मीं गतिं तदितरे तु भवन्ति चौराः श्रीयज्ञपूरुषमहं प्रणमामि तं त्वाम् ।। १६ ।।
मरुत ऊचुः ।।
भक्ता एकान्तिकास्तेऽक्षरपरमपदे सेवया ते तु हीनं वासैश्वर्यादि नेच्छन्त्यतिशयितसुखं नापि कैवल्यमोक्षम् ।।
तद्युक्तं त्वात्मनोपि श्वपचकुलजनुर्मानयन्त्युत्तमं वै तं त्वामेकान्तधर्माश्रयणमुपगताः श्रीमहापूरुषं स्मः ।। १७ ।।
सिद्धा ऊचुः ।।
नैकब्रह्माण्डसर्गादिकारणं त्वामकारणम् ।।
तत्स्थं तद्व्यतिरिक्तं च नियन्तारं नमामहे।। ।। १८ ।।
रुद्रा ऊचुः ।। मायायाः सर्वमोहिन्या मोहनं मोहवर्जितम् ।।
महाकालस्यापि कालं त्वां नमः पुरुषोत्तमम् ।। १९ ।।
आदित्या ऊचुः ।।
प्रकाशिता येन वयं जगन्ति प्रकाशयामो भवता रमेश ।।
स्वयंप्रकाशं तमुरुप्रकाशं प्रकाशमूर्त्तिं प्रणता भवन्तम् ।। 2.9.15.२० ।।
साध्या ऊचुः ।।
शास्ता नृपाणां च महोरगाणां दैत्याधिपानां च सुराधिपानाम् ।।
त्वं वै मनूनां च प्रजापतीनां राजाधिराजाय नमोस्तु तुभ्यम् ।। ।। २१ ।।
वसव ऊचुः ।।
भवति भुवि यदायदाऽसुरांशैः प्रथितसनातनधर्मधार्मिकाणाम् ।।
कदनमुरु तदातदा स्वयं ते ह्यवतरते प्रणमाम धर्मगोप्त्रे ।। २२ ।।
चारणा ऊचुः ।।
चरित्रं शुभं ते धृतानेकमूर्त्तेः प्रबन्धैरनेकैर्हि गायन्ति भक्ताः ।।
यदु श्रोतृवक्तॄन्पुनात्येव सद्यो वयं तं नताः पुण्यकीर्त्तिं भवन्तम् ।। २३ ।।
गन्धर्वाप्सरस ऊचुः ।।
ये कथास्ते विहायान्यगाथाः प्रभो कीर्त्तयन्तेऽथ शृण्वन्ति वा ते जनाः ।।
दुःखिताः स्युश्च संसारपाशैः सितास्तं नताः स्मः शरण्यं भवन्तं वयम् ।। २४ ।।
समुद्र उवाच ।।
अजित तवाऽथ तावकजनस्य मुदाऽल्पमपि द्रविण जलान्नवस्त्रनमनान्यतमेन सकृत् ।।
चरति ह सेवनं स पदवीं महतीं महतां व्रजति जनोल्पकोपि तमहं प्रणतः करुणम् ।। २५ ।।
पार्षदा ऊचुः ।।
पितरो त्वमसि स्वजनस्त्वमसि त्वमसीष्टगुरुः सुहृदात्मपतिः ।।
त्वमसीश्वर एव च नः परमस्त्वमसि द्रविणं सकलं त्वमसि ।। ।। २६ ।।
मूर्त्तिरुवाच ।।
यत्संबन्धत एव यान्ति पदवीमुच्चां महद्भिर्न्नुतां स्त्रीशूद्रासुरनीचपक्षिपशवः पापात्मजीवा अपि ।।
यद्धीना विबुधेश्वरा अपि भवन्त्यर्च्चोज्झितास्तत्क्षणं गोलोकाधिपतिं तमेव हृदये नित्यं भजे त्वामहम् ।। २७ ।।
सावित्र्युवाच ।।
त्वं सर्गकाले प्रकृतिं च पूरुषं दृष्ट्या स्वयोत्थाप्य ततस्तदात्मना ।।
तत्त्वानि सृष्ट्वा महदादिमानितैर्न्नैकान्विराजो बहुधा ससर्जिथ ।। २८ ।।
वैराजरूपेण जगद्विधातृतां स्वीकृत्य देवासुरमानुषोरगान् ।।
त्वं स्थावरं जंगममीश निर्ममे त्वामादिकर्तारमुपाश्रितास्म्यहम् ।। ।। २९ ।।
दुर्गोवाच ।।
प्रियतयाऽधिकया हृदि चिन्तनं विदधते तव ये भुवि ते विभो ।।
न परमेष्ठिसुखं न दिवः सुखं न कमयन्ति धरैकनरेशताम् ।। 2.9.15.३० ।।
प्रसभमर्पितमप्यतुलं त्वया सुखमिदं समवाप्य च तत्र ते ।।
तदपहाय न शक्तिकृतः क्षणं तमु नमामि च सात्वतनायकम् ।। ३१ ।।
नद्य ऊचुः ।।
वरद नमनमात्रं नामसंकीर्तनं वा विदधति तव ये वै ज्ञानतोऽज्ञानतो वा ।।
जनिमृतियमभीतेस्तानपि त्रायमाणं नरसखमुपयाताः स्मोऽद्य नारायणं त्वाम् ।। ३२ ।।
देवपत्न्य ऊचुः ।।
भुवि धृताकृतेर्जन्म मङ्गलं चरितमद्भुतं लोकपावनम् ।।
भवति निर्गुणं सर्वमेव ते भवसि निर्गुणब्रह्म यत्परम् ।। ३३ ।।
तव समाश्रयात्तामसा जना अपि च राजसाः सात्त्विकाश्च ये ।।
ननु भवन्ति ते निर्गुणास्ततो वयमुपास्महे त्वां हि निर्गुणम् ।। ३४ ।।
ऋषिपत्न्य ऊचुः ।।
आर्तानामुरुवृजिनैस्त्रिधा च तापैः सर्वापत्प्रशमनमेकमेव विष्णोः ।।
पादाब्जं तव भवतीति तद्वयं वै प्राप्ताः स्मः शरणमनन्त देवदेव ।। ३५ ।।
पृथिव्युवाच ।।
पूर्णशारदसुधाकराननं शारदाब्जदलदीर्घलोचनम् ।।
श्रीवियोगबहुधार्तिमोचनं वाऽसुदेवमहमेकमाश्रये ।। ३६ ।।
सरस्वत्युवाच ।।
नयने ममाच्युत तवातिसुन्दरे मुखशीतरोचिषि चकोरतां गते ।।
न हि गच्छतोऽन्यत इतीयमेव मे हृदि मूर्तिरस्तु सततं नहीतरा ।। ३७ ।।
स्कन्द उवाच ।।
इति स्तुतोऽखिलैर्देवैः सोभिनन्द्य दृशैव तान् ।।
प्राह श्रियं शुभे पश्य देवादींस्त्वमिमानिति ।। ३८ ।।
ततः समीक्षिताः प्रीत्या तया मधुरया दृशा ।।
त्रिलोकीवासिनः सर्वे ऋद्धा आसन्यथा पुरा ।। ३९ ।।
लेभिरे स्वस्वऋद्धिं ते गृहिणस्त्यागिनोपि च ।।
धर्मादयश्च सानन्दं प्रचरन्ति स्म पूर्ववत् ।। 2.9.15.४० ।।
तस्याः श्रियश्च भगवान्ददौ स्थानमुरः स्वकम् ।।
तत्र स्थित्वैव सा व्यापत्त्रैलोक्यं संपदात्मना ।। ४१ ।।
ततो रत्नाकरः स्वस्माच्छ्रीजनेरनुभावतः ।।
बभूवान्वर्थसंज्ञो वै संपूर्णक्षयरत्नवान् ।। ४२ ।।
चतुर्विधैर्बहुरसैः सदन्नैरमृतोपमैः ।।
सर्वान्समागतांस्तत्र तर्पयामास सादरम् ।। ४३ ।।
अनर्घ्याणि च वस्त्राणि रत्नभूषाः परिच्छदान् ।।
देवादिभ्यो ददौ प्रीत्या सर्वेभ्योपि पृथक्पृथक् ।। ४४ ।।
जामातुस्तुष्टये स्वस्य तदीयेभ्यस्तदाम्बुधेः ।।
नासीत्किमप्यदेयं वै घनवद्धनवर्षिणः ।। ४५ ।।
भगवानपि तद्दत्तं यौतकं च धनं बहु ।।
ब्राह्मणेभ्यः प्रदायैव श्रिया सह तिरोदधे ।। ४६ ।।
लक्ष्मीनारायणाभ्यां ते भृशमानन्दिताः सुराः ।।
इन्द्रादयो दिवं जग्मुः स्वंस्वं धामाऽपरे ययुः ।। ४७ ।।
अधिकारं च संप्राप्य यथापूर्वं निजंनिजम् ।।
सर्वेपि सुखिनो जाताः प्रसादात्कमलापतेः ।। ४८ ।।
मन्दरं च गिरिं तार्क्ष्यः पुनर्भगवदाज्ञया ।।
स्वस्थानं समुपानीय स्थापयामास लीलया ।। ४९ ।।
एवमिन्द्रेण ब्रह्मर्षे नष्टा ब्राह्मणशापतः ।।
उपलब्धा पुनः संपन्नारायणप्रसादतः ।। 2.9.15.५० ।।
य एतां शृणुयात्पुण्यां कथां भगवतो मुने ।।
कीर्तयेत्प्रयतो वापि संपदं प्राप्नुतो हि तौ ।। ५१ ।।
गृहिणां धनसिद्धिः स्यात्त्यागिनां च यथेप्सिता ।।
भक्तिज्ञानविरागादेर्भवेत्सिद्धिरनेन वै ।। ५२ ।।
इति ते कथितं ब्रह्मन्यथेन्द्रः प्राप संपदम् ।।
नारदोपि यथा श्वेतं द्वीपं स गतवानृषिः ।।
तत्ते सर्वं प्रवक्ष्यामि शृणुष्वैकेन चैतसा ।। ५३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये लक्ष्मीनारायणस्तुतिनिरूपणं नाम पञ्चदशोऽध्यायः ।। १५ ।।