स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १३

विकिस्रोतः तः

।। स्कन्द उवाच ।।
उत्प्रेक्षन्तो जायमानं मंथितारोऽथ तेऽखिलाः ।।
आयांतं ददृशुर्द्दूरादन्ति धन्वन्तरिं श्रियः ।। १ ।।
सुधाभृतं हेमकुम्भं दृष्ट्वा चाऽस्य करे धृतम् ।।
असुराः सहसा ब्रह्मन्नुत्प्लुत्य जगृहुश्च तम् ।।२।।
तत्रापि बलिनो ये ते गृहीत्वा दुद्रुवुस्ततः ।।
तान्दुर्बला न्यषेधन्त नीतिवाक्यैरनुद्रुताः ।। ३ ।।
अहो नैवमधर्मो वः कार्यो धर्मपरायणैः ।।
समश्रमेभ्यो देवेभ्यो दत्त्वा पेयं न चान्यथा ।।४।।
अनादृत्येति तद्वाक्यं ययुर्दूरं त्वरान्विताः ।।
तत्रापि तेषामन्योन्यं कराकृष्टिर्महत्यभूत्।।५।।
अहं पूर्वमहं पूर्वं न त्वं न त्वं पिबाम्यहम् ।।
इत्थं विवदमानास्ते नापुस्तत्प्राशनक्षणम् ।। ६ ।।
अथ देवा म्लानवक्त्रा दृष्ट्वा दैत्यैर्हृता सुधाम् ।।
अशक्तास्तत्प्रतीकारे शरणं प्रापुरच्युतम् ।। ७ ।।
पाहिपाहि जगन्नाथ नष्टं सर्वस्वमेव नः ।।
दैत्यैर्हृता सुधा सर्वा का गतिर्न्नो भविष्यति ।।८।।
सुधापानादृतेप्येते हन्तुमस्मानलं क्षमाः ।।
पीतेऽमृते तु तैरद्य किं करिष्यामहे वयम् ।। ९ ।।
स्कन्द उवाच ।।
निशम्य दैन्यं देवानां भगवान्भक्तकार्यकृत् ।।
मा भैष्टेति सुरानुक्त्वा सुधामादित्सदासुरात् ।। 2.9.13.१० ।।
स्त्रीरूपमद्भुतं धृत्वा सर्वलोकविमोहनम् ।।
दैत्यान्तिकमुपागत्य चक्रे कन्दुकखेलनम् ।। ११ ।।
ते तु तद्रूपमालोक्य मोहिताः कामविह्वलाः ।।
त्यक्त्वा परस्परोन्मर्द्दं तामुपेत्याब्रुवन्वचः ।। १२ ।।
सुधाकुम्भमिमं भद्रे गृहीत्वा त्वं विभज्य नः ।।
सर्वान्पायय सुश्रोणि वयं कश्यपसूनवः ।। १३ ।।
इत्युक्त्वा तं ददुस्तस्मै तेऽनिच्छन्त्या अपि स्त्रियै ।।
सा प्राह मम विश्रम्भो न कार्यः स्वैरिणी ह्यहम् ।।१४।।
अकार्यं वः कृतं ह्येतद्विभजिष्ये निजेच्छया।।
इत्युक्ता अपि ते मूढा यथेष्टं कुर्विति ब्रुवन्।।१५।।
ततस्तदाज्ञया सर्वे देवा दैत्याश्च वासुकिः ।।
निषेदुः पंक्तिशस्तत्र स्वस्वमण्डलमाश्रिताः ।। १६ ।।
पंक्तिबंधोद्यतेष्वेषु मोहिनी सा तु दूरतः ।।
सम्मुखं देवपंक्तीनां हेमासन उपाविशत् ।।१७।।
स्वांतिके चामृतघटं निधाय स्त्रैणलीलया ।।
इतस्ततो वीक्षमाणा तस्थौ निःस्पृहवत्क्षणम् ।।१८।।
विप्रचित्तिमुखास्तर्हि ये वै दानवयूथपाः ।।
संदिग्धचित्ता मोहिन्यामासन्देवांतिकस्थितेः ।। १९ ।।
शनैरुपेत्य तद्दृष्टिं वञ्चयित्वा सुधाघटम् ।।
जह्रुः पुनर्दुरात्मानो रहो गत्वा पिपासवः ।। 2.9.13.२० ।।
नरनारायणौ तत्र मुनिभिः सह चागतौ ।।
आस्तां तौ ददृशाते तान्दानवान्हरतोऽमृतम् ।। २१ ।।
नारायणेनेरितोऽथ नरस्तान्सहसारुणत् ।।
बलादाच्छिद्य तत्कुम्भं मोहिन्यै स ददौ द्रुतम् ।। २२ ।।
ततो नरं हन्तुकामा आत्तशस्त्रास्तु दानवाः ।।
आपतन्पंक्तिविक्षेपो ह्यसुराणामभून्महान् ।। २३ ।।
तदा नरोपि भगवान्देवदैत्यनरैरपि ।।
अजेयो निर्भयो ह्येकः साकं तैर्युयुधे बली ।। २४ ।।
एतस्मिन्नन्तरे देवान्पंक्तिस्थान्मोहिनीवपुः ।।
अपाययत्सुधां विष्णुः सर्वशो लघुचङ्क्रमः ।। २५ ।।
तत्रापि दानवो राहुः सूर्याचन्द्रमसान्तरे ।।
प्रविश्य देवतापंक्तावुपाविशदलक्षितः ।। २६ ।।
तत्रागतायां मोहिन्यां सिञ्चन्त्यां तन्मुखे सुधाम् ।।
दृशाऽसूसुचतां तस्यै पुष्पवन्तावुभौ च तम् ।। २७ ।।
स्मृत्यागतेन चक्रेण तर्ह्येवाऽस्य च सामृतम् ।।
शिरश्चिच्छेदातिमहन्मायायोषिद्वपुः प्रभुः ।। २८ ।।
तच्छैलशृङ्गप्रतिमं ग्रसल्लोकान्नदद्भृशम् ।।
ग्रहत्वे स्थापयामास लोकानां शान्तये हरिः ।। २९ ।।
देवान्सुधां पाययित्वा जगृहे पौरुषीं तनुम् ।।
भगवानथ देवास्तु युयुधुः सह दानवैः ।। 2.9.13.३० ।।
उदन्वतस्तटे युद्धं देवानामसुरैः सह ।।
सुधापानातिबलिनामासीद्विष्णुसहायिनाम् ।। ३१ ।।
तस्मिंस्तु तुमुले युद्धे नरेणेन्द्रादिभिश्च ते ।।
निहन्यमाना असुराः पलाय्य विविशू रसाम् ।। ३२ ।।
सूर्यश्चास्तं गतस्तावत्सर्वे देवगणास्ततः ।।
श्रियोन्तिकमुपाजग्मुस्तद्दर्शनमहोत्सवाः ।। ३३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्ये देवतामृतपानवर्णनं नाम त्रयोदशोऽध्यायः ।।१३।।