स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ११

विकिस्रोतः तः

।। स्कन्द उवाच ।।
ब्रह्मरुद्रौ महेन्द्रादीन्संधानायाऽसुरैः सह।।
आज्ञाप्य जग्मतुः स्वंस्वं धाम देवा रसां मुने ।। १ ।।
समयोचितभाषाविद्वासवो नीतियुक्तिभिः ।।
प्रलोभ्य फलभागेन सन्धिं चक्रेऽसुरैः सह ।। ।। २ ।।
ततो देवासुरगणा मिलिता वारिधेस्तटे ।।
महौषधीरुपानीय बहुशो निदधुर्द्रुतम् ।। ३ ।।
मन्दराद्रिमुपेत्याऽथ नानौषधिविराजितम् ।।
मूलादुत्पाट्य ते सर्वे नेतुमब्धिं समुद्यताः ।। ४ ।।
एकादशसहस्राणि योजनानां भुवि स्थितम् ।।
नोद्धर्तुमशकंस्ते तं तदानीं तुष्टुवुर्हरिम् ।। ५ ।।
एतद्विदित्वा भगवान्संकर्षणमहीश्वरम् ।।
अजिज्ञपत्तमुद्धर्तुं बद्धमूलं महीधरम् ।। ६ ।।
फूत्कारमात्रेणैकेन स तु सद्यस्तमीश्वरः ।।
बहिश्चिक्षेप तत्स्थानाद्योजनद्वितयान्तरे ।। ७ ।।
अत्याश्चर्यं तदालोक्य हृष्टाः सर्वे सुरासुराः ।।
तदन्तिकमुपाजग्मुर्द्धावन्तश्च कृतारवाः ।। ८ ।।
बलिनो यत्नवन्तोपि परिघोपमबाहवः ।।
उद्धृत्य नेतुं नो शेकुर्विषण्णा विफलश्रमाः ।। ९ ।।
ज्ञात्वा सुरगणान्खिन्नान्भगवान्सर्वदर्शनः ।।
तार्क्ष्यमाज्ञापयामास नेतुं तमुदधिं द्रुतम् ।। 2.9.11.१० ।।
सहावरणमप्यण्डं लीलया धर्त्तुमीश्वरः ।।
मनोवेगः स तत्रेत्य निजत्रोट्यैव तं गिरिम् ।।
उत्पाट्य सागरतटे निधाय हरिमाययौ ।। ११ ।।
ततः संहृष्टमनसः सर्वे कश्यपनन्दनाः ।।
वासुकिं चाह्वयामासुः सुधाभागप्रतिज्ञया ।। १२ ।।
स तत्रागादथो सर्वे तेऽब्धिं मन्थितुमुद्यताः ।।
तानपान्निधिरागत्य मूर्त्तिमानब्रवीद्वचः ।। १३ ।।
यदि दास्यथ मे यूयममृतांशं सुरासुराः ।।
सोढास्मि विपुलं तर्हि मन्दरभ्रमणार्द्दनम् ।। १४ ।।
तथेति ते प्रतिज्ञाय क्षिप्त्वादावोषधीलताः ।।
परिविव्युर्न्नागराजं तस्मिन्काञ्चनपर्वते ।। १५ ।।
ततो देवा हृदि हरिं सस्मरुः कार्यसिद्धये ।।
स्मृतमात्रः स तत्राऽगादच्युतः सर्वदर्शनः ।। १६ ।।
तमालोक्यामरगणा मुदिताः फणिनां पतेः ।।
पुरोभागं गृहीत्वैव तस्थुस्तेनानुमोदिताः ।। १७ ।।
देवतापक्षपातित्वं सूचयन्स्वस्य च प्रभुः ।।
यत्र देवास्तत्र तस्थौ ततो दैत्यास्तु चुक्रुधुः ।। १८ ।।
तपोविद्यावयोज्येष्ठा अधोभागममङ्गलम् ।।
कथं तिरश्चो गृह्णीमो नेदृङ्मूर्खा वयं त्विति ।। १९ ।।
सह देवैस्ततो विष्णुः स्वयं तान्मानयन्निव ।।
प्रहस्य दत्त्वा प्राग्भागं सुरान्पुच्छमजिग्रहत् ।। 2.9.11.२० ।।
महाहिविषफूत्कारदाहादमररक्षणम् ।।
चरित्रमेतच्छ्रीभर्तुरिति दैत्या न ते विदुः ।। २१ ।।
तत उत्तोलयामासुः स्वर्णसान्वालिभास्वरम् ।।
मन्दरं काश्यपेयास्ते चर्मिकाबद्धकच्छकाः ।। २२ ।।
द्वाविंशतिसहस्राणि योजनानां तमुच्छ्रितम् ।।
अम्भोनिधौ निदधिरे क्रोशन्तोत्यर्थमुत्सुकाः ।। २३ ।।
धार्यमाणोप्यनाधारस्तैरद्रिरतिगौरवात् ।।
ययावधस्तलं सद्यस्तदासंस्तेऽतिविह्वलाः ।। २४ ।।
तदा स भगवान्साक्षात्सर्वथा भक्तकार्यकृत् ।।
स्तूयमानोमरैरद्रिमुद्दघ्रे कमठाकृतिः ।। २५ ।।
उत्थितं तमवेक्ष्याशु सर्वे फुल्लहृदाननाः ।।
बभूवुश्च स्थिरः सोऽभूत्कूर्मपृष्ठेतिविस्तृते ।। २६ ।।
ततो ममन्थुस्तरसा यावद्बलमपांनिधिम् ।।
श्रमफूत्कारवदना देवादयोऽदयम् ।। २७ ।।
भ्राम्यमाणात्ततस्त्वद्रेर्बहवोन्यपतन्दुमाः ।।
ऊर्द्ध्वद्रुघर्षजो वह्निस्तत्स्थ सिंहादिमादहत् ।। २८ ।।
तत्र नाना जलचरा विनिपिष्टा महाद्रिणा ।।
विलयं समुपाजग्मुः शतशः क्षीरवारिधौ ।। २९ ।।
सांवर्त्तकमहामेघसङ्घगर्ज्जितवन्महान् ।।
आसीन्मंथननादश्च प्रतिध्वनिविवर्द्धितः ।। 2.9.11.३० ।।
अत्याकर्षणखिन्नाङ्गवासुकर्म्मुखकृत्कृतैः ।।
हतौजसोऽतिखिन्नाश्च दैत्या निङ्गालवद्बभुः ।। ३१ ।।
अविषह्यं विषाग्निं च मर्षन्ति बहुधा मुहुः ।।
लम्बन्ते स्माहिराजस्य सहस्रं वदनान्यधः ।। ३२ ।।
दधार सहसा तानि भगवन्प्रेरितो विभुः ।।
संकर्षणो महातेजाः सहमानो विषानलम् ।। ३३ ।।
सहस्रमेकं वर्षाणां मथ्यमानात्पयोनिधेः ।।
हालाहलं विषमभूदुत्सर्पद्विदिशो दिशः ।। ३४ ।।
यदाहुः कालकूटाख्यं सर्वलोकातिदाहकम् ।।
तेन दन्दह्यमानाङ्गास्ते तु चक्रुः पलायनम् ।। ३५ ।।
ततो ब्रह्मा प्रजेशाश्च देवाः सर्वेप्युमापतिम् ।।
प्रार्थयंस्तस्य पानार्थं स्तुवन्तः स्तुतिभिर्मुने ।।३६।।
भगवानथ तं प्राह सुराणामग्रजो भवान् ।।
भवतीत्यग्रजं वार्द्धेर्गृहाणेदं विषं शिव ।। ३७ ।।
देवानां स भयं दृष्ट्वा करुणश्चाज्ञया हरेः ।।
आकर्षद्योगकलया विषं पाणितलेऽखिलम् ।। ३८ ।।
पपौ तत्कण्ठमध्ये च शोषयामास तत्क्षणम् ।।
नीलकण्ठ इति ख्यातः शंकराख्यश्च पऽभवत्।। ३९ ।।
पास्यतस्तस्य पाणेर्ये पतिता भुविबिन्दवः ।।
तान्नागा वृश्चिकाद्याश्च जगृहुः काश्चनौषधीः ।। 2.9.11.४० ।। ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्येऽमृतमन्थने विषोत्पत्तिर्नामैकादशोऽध्यायः ।। ११ ।।