स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः १०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सावर्णिरुवाच ।।
कथं प्राप्ता पुनः स्कन्द श्रीरिन्द्रेण गताम्बुधिम् ।। एतां कथय मे सर्वां कथां नारायणाश्रयाम् ।। १ ।।
स्कन्द उवाच ।।
श्रिया विहीनो देवेन्द्रः श्रीहीनैरपि दानवैः ।।
पराजितो हृतस्थानो नष्टाशेषपरिच्छदः ।। २ ।।
गिरिगह्वरकुञ्जेषु काननेषु ततस्ततः ।।
परिबभ्राम सहितो दिगीशैर्वरुणादिभिः ।। ३ ।।
वल्कलाजिन वस्त्राश्च पशुपक्ष्यामिषाशनाः ।।
देवा दैत्या नरा नागास्तुल्याचारपरिच्छदाः ।।४।।
पात्राणि मृन्मयान्येव सर्वेषामपि वेश्मसु ।।
आसन्वराकाः सर्वेपि पिशाच्य इव च स्त्रियः ।। ५ ।।
आदावभूदनावृष्टिर्भुवि द्वादशवार्षिकी ।।
ततो वर्षे क्वचिद्वृष्टिरासीत्स्वल्पा क्वचिन्न च ।। ६ ।।
इत्थं दारिद्र्यदुःखानां तेषां वर्षशतं गतम् ।।
बलिष्ठारब्धकर्माणस्तेऽतिदुःखेपि नो मृताः ।। ७ ।।
अजीवन्त मृतप्राया नरकेष्विव नारकाः ।।
यतन्तोपि श्रियः प्राप्त्यै यज्ञाद्यैर्न्नाऽलभन्त ताम् ।। ८ ।।
ततः सहस्रवर्षान्ते मेरौ शरणमाययुः ।।
शापाद्दुर्वाससो देवाः सर्वे दुर्वाससो विधिम् ।। ९ ।।
प्रणम्य तस्मै दुःखं स्वं वासवाद्या न्यवेदयन् ।।
आदावेव हि सोऽज्ञासीत्सर्वज्ञत्वात्सुरापदम् ।। 2.9.10.१० ।।
उपालभ्य ततश्चेन्द्रं विरिञ्चः सहशंकरः ।।
तद्दुःखवारणा कल्पो विष्णुमैच्छत्प्रसादितुम् ।। ११ ।।
आराधयिष्यंस्तपसा ततोऽसौ तं तपःप्रियम् ।।
सर्वदेवगणोपेत उपायात्क्षीरसागरम् ।। १२ ।।
तस्योत्तरे तटे रम्ये सर्वे तेऽनशनव्रताः ।।
एकपादस्थिता ऊर्द्ध्वबाहवश्चक्रिरे तपः ।। १३ ।।
केशवं हृदि ते दध्युः सर्वक्लेशविनाशनम् ।।
लक्ष्मीपतिं वासुदेवमेकाग्रकृतमानसाः ।। १४ ।।
शताब्दान्ते ततो विष्णुः श्रीकृष्णो भगवान्स्वयम् ।।
अत्यापन्नेषु दीनेषु कृपां देवेषु सोऽकरोत्।। ।। १५ ।।
अदृश्यमूर्तिरात्मज्ञैरपि भूरितपस्विभिः ।।
तत्राविरासीत्कृपया नियुताहस्करद्युतिः ।। १६ ।।
तेजोमण्डलमेवादौ सहसा स्फुरितं महत् ।।
ददृशुर्विबुधाः सर्वे सितं घनमनौपमम् ।। १७ ।।
ब्रह्मा शिवश्च तन्मध्ये ददृशाते रमापतिम् ।।
घनश्यामं चतुर्बाहुं गदाब्जाब्जारिधारिणम् ।। १८ ।।
किरीटकाञ्चीकटककुण्डलादिविभूषितम् ।।
पीतकौशेयवसनं दिव्यसुन्दरविग्रहम् ।। १९ ।।
हर्षविह्वलितान्मानौ दण्डवत्तौ प्रणेमतुः ।।
तदिच्छयाऽथ देवाश्च दृष्ट्वा तं च मुदाऽऽनमन् ।। 2.9.10.२० ।।
बभूवुरतिहृष्टास्ते निधिं प्राप्याऽधना इव ।।
बद्धाञ्जलिपुटाः सर्वे भक्त्या तं तुष्टुवुः सुराः ।। २१ ।।
देवा ऊचुः ।।
ॐनमो भगवते तुभ्यं वासुदेवाय धीमहि ।।
प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च ।। २२ ।।
ॐकारब्रह्मरूपाय त्रेधाविष्कृतमूर्तये ।।
ब्रह्माण्डसर्गस्थित्यन्तहेतवे निर्गुणाय च ।। २३ ।।
नयनानन्दरूपाय प्रणतक्लेशनाशिने ।।
केशवाय नमस्तुभ्यं स्वतंत्रेश्वरमूर्तये ।। २४ ।।
मोदिताशेषभक्ताय कालमायादिमोहिने ।।
सदानंदाय कृष्णाय नमः सद्धर्मवर्त्तिने।। ।। २५ ।।
भवाम्बुधिनिमग्रानामुद्धृतिक्षमकीर्तये ।।
दर्शनीयस्वरूपाय घनश्यामाय ते नमः ।। २६ ।।
गदाब्जदरचक्राणि बिभ्रते दीर्घबाहुभिः ।।
सुरगोविप्रधर्माणां गोप्त्रे तुभ्यं नमोनमः ।। २७ ।।
वरेण्याय प्रपन्नानामभीष्टवरदायिने ।।
निगमागमवेद्याय वेदगर्भाय ते नमः ।।२८ ।।
तेजोमण्डलमध्यस्थ दिव्यसुन्दरमूर्तये ।।
नमामो विष्णवे तुभ्यं परात्परतराय च।।२९।।
वाणीमनोविप्रकृष्टमहिम्नेऽक्षररूपिणे।।
सर्वान्तर्यामिणे तुभ्यं बृहते च नमोनमः ।। 2.9.10.३० ।।
सुखदोसि त्वमेवैकः स्वाश्रितानामतो वयम् ।।
महापदधिकक्लिष्टाः शरणं त्वामुपागताः ।। ३१ ।।
देवाधिदेवभक्तस्य तव दुर्वाससो वयम् ।।
अतिक्रमाच्छ्रिया हीनाः प्राप्ताः स्मो दुर्दशामिमाम् ।। ३२ ।।
वासोन्नपानस्थानादिहीनान्धर्मोपि नः प्रभो ।।
त्यक्त्वा सह श्रिया यातस्तान्पातुं त्वमसीश्वरः ।। ३३ ।।
यतो वयं च धर्मश्च त्वदीया इति विश्रुताः ।।
यथापूर्वं सुखीकर्त्तुं त्वमेवार्हस्यतो हि नः ।। ३४ ।।
स्कन्द उवाच ।।
इति संप्रार्थितो देवैर्भगवान्स दयानिधिः ।।
उवाचानन्दयन्वाचा मेघगम्भीरया सुरान् ।। ३५ ।।
श्रीभगवानुवाच ।।
विदितं मे सुराः सर्वं कष्टं वः सदतिक्रमात् ।।
उपायं कुरुताद्यैव वच्मि यत्तन्निवृत्तये ।। ३६ ।।
ओषधीरम्बुधौ सर्वाः क्षिप्त्वा मन्दरभूभृता ।।
नागराजवरत्रेण मंथध्वमसुरैः सह ।। ३७ ।।
आदौ संधाय दनुजैः कुरुताम्बुधिमन्थनम् ।।
साहायं वः करिष्यामि खेदः कार्यो न तत्र वः ।। ३८ ।।
अमृतं च श्रियो दृष्टिं प्राप्य पूर्वाधिकौजसः ।।
भवितारो मद्विमुखा दैत्यास्तु क्लेशभागिनः ।। ३९ ।।
स्कन्द उवाच ।।
इत्युक्त्वांतर्दधे विष्णुर्भक्तसङ्कटनाशनः ।।
देवास्तस्मै नमस्कृत्य तदुक्तं कर्तुमारभन् ।। 2.9.10.४० ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे श्रीवासुदेवमाहात्म्ये श्रीवासुदेवप्रसादनिरूपणं नाम दशमोऽध्यायः ।।१०।।