स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०५

विकिस्रोतः तः

।। स्कन्द उवाच ।।
आसीद्राजोपरिचरो वसुनामा पुरा मुने ।।
भूभर्त्तुरायोस्तनयः ख्यातश्चासावमावसुः ।।
आखण्डलसखो भक्तिं प्राप्तो नारायणे प्रभौ ।। १ ।।
धार्मिकः पितृभक्तश्च पितॄन्देवांश्च तर्पयन् ।।
सदाचाररतो दक्षः क्षमावाननसूयकः ।। २ ।।
सर्वोपकारकः शान्तो ब्रह्मचर्यरतः शुचिः ।।
अक्रोधनश्च मितभुङ्मृदुर्निर्व्यसनो मुनिः ।। ३ ।।
निर्द्वन्द्वो निर्विकारश्च निर्मानो धीर आत्मवित् ।।
निर्द्दम्भो मानदो योगी तपस्वी विजितेन्द्रियः ।। ४ ।।
धनपुत्रकलत्रेषु विरक्तः स्वजनादिषु ।।
नारायणमनुं भक्त्या स जजापान्वहं नृपः ।। ५ ।।
तस्मै तुष्टोऽथ भगवान्वासुदेवः स्वयं ददौ ।।
साम्राज्यं सोऽथ नासक्तस्तत्र भेजे तमादरात् ।। ६ ।।
तत्रोक्तेन विधानेन पञ्चकालसमाहितः ।।
पूजयामास देवेशं तच्छेषेण सुरान्पितॄन्।।७।।
तेषां शेषेण विप्राश्च संविभज्याश्रितांश्च सः ।।
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः।। ।। ८ ।।
भक्षणे दोषमविदत्प्राणिमात्रामिषस्य तु ।।
महापातकवद्राजा स्वप्रजाश्च तथाऽवदत् ।। ९।।
सर्वभावेन भेजेऽसौ देवदेवं जनार्दनम् ।।
अनादिमध्यनिधनं लोककर्त्तारमव्ययम्।।2.9.5.१०।।
श्रीवासुदेवपदयोः स चकार मनः स्थिरम् ।।
श्रोत्रे च नित्यं भगवत्कथायाः श्रवणे नृपः ।।१ १।।
नयने स्वे मुकुन्दस्य तद्भक्तानां च दर्शने।।
गुणगाने हरेर्वाणीं चक्रे भूमिपतिः स तु।।१२।।
नारायणांघ्रिसंस्पृष्ट तुलसीपुष्पसौरभे।।
प्राणं चकार च नृपो नान्यगन्धेषु कर्हिचित्।। १३ ।।
श्रीशोपभुक्तवस्त्रादि स्पर्शने च त्वचं निजाम्।।
चकार रसनामन्ने नारायणनिवेदिते।। १४ ।।
भगवन्मन्दिरक्षेत्रसदन्तिकगतौतथा।।
चकार चरणौ राजा सेवायां च करौ हरेः।।१५।।
उत्तमांगं च चक्रेऽसौ विष्णुपादाभिवन्दने।।
सख्यं चकार परमं महाभागवतेषु सः।।१६।।
एकोपि न क्षणस्तस्य विना भक्तिं रमापतेः ।।
जगाम किल राजर्षेस्तदीय व्रतचारिणः ।।१७ ।।
महद्भिरेव संभारैर्विष्णोर्ज्जन्मदिनोत्सवान् ।।
चक्रे तदर्थमुद्यानमंदिरोपवनानि च ।। १८ ।।
इत्थं नारायणे भक्तिं वहतो ब्राह्मणोत्तम ।।
एकशय्यासनं तस्य दत्तवान्देवराट् स्वयम् ।। १९ ।।
वैजयन्तीं ददौ मालां तस्मा इन्द्रोऽतिशोभनाम् ।।
अम्लानपङ्कजमयीं तथा रत्नानि भूरिशः ।। 2.9.5.२० ।।
आत्मा राज्यं धनं चैव कलत्रं वाहनादि च ।।
यत्तद्भगवतः सर्वमिति तत्प्रेक्षितं सदा ।। २१ ।।
काम्या नैमित्तिकाजस्रं यज्ञियाः परमाः क्रियाः ।।
सर्वाः सात्वतमास्थाय विधिं चक्रे समाहितः ।। २२ ।।
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः ।।
प्रायणं भगवत्प्रत्तं भुञ्जतेस्माग्रतो द्विजाः ।। २३ ।।
तस्य प्रशासतो राज्यं धर्मेणाऽमित्रघातिनः ।।
नानृता वाक्समभवन्मनो दुष्टं न चाऽभवत् ।।
न च कायेन कृतवान्स पापं परमण्वपि ।। २४ ।।
पञ्चरात्रं महातन्त्रं भगवद्भक्तिपुष्टये ।।
शुश्रावानुदिनं राजा भगवद्भक्तवक्त्रतः ।। २५ ।।
 धर्मं संस्थापयञ्छुद्धं रञ्जयन्सकलाः प्रजाः ।।
पालयामास पृथिवीं दिवमाखण्डलो यथा ।। २६ ।।
अपि सप्तविधस्तस्य राज्ये पललभक्षकः ।।
पुमान्कोप्यभवन्नैव न च पाषण्डवेषिणः ।। २७ ।।
असाध्यो योषितश्चैव पुरुषाः पारदारिकाः ।।
न श्रुतास्तस्य राज्ये च धर्मसंकरकारिणः ।। २८ ।।
एकादशविधं मद्यं त्रिविधां च सुरामपि ।।
नाजिघ्रदपि कोपीह तस्मिन्राज्यं प्रशासति ।। २९ ।।
एवंगुणः स तु क्वापि पक्षपाताद्दिवौकसाम् ।।
मिथ्यालापाद्दिवो भ्रष्टः प्रविवेश महीतलम् ।। 2.9.5.३० ।।
अन्तर्भूमिगतश्चासौ सततं धर्मवत्सलः ।।
नारायणपरो भूत्वा तन्मंत्रमजपत्स्थिरः ।। ३१ ।।
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ।।
दिवं प्राप्य सुखं तत्र मनोभीष्टं समन्वभूत् ।। ३२ ।।
पुनश्चेदिपतिर्भूत्वा भुव्यसौ पितृशापतः ।।
पञ्चरात्रोक्तविधिना भेजे हरिमतन्द्रितः ।। ३३ ।।
स्वर्गलोकं ततः प्रापद्दिव्यदेहेन भूपतिः ।।
उपासनां च तत्रत्यैः परमर्षिगणैः सह ।। ३४।।
दृढीकुर्वन्भगवतः कञ्चित्कालमुवास तत् ।।
परं पदमथ प्रापद्वासुदेवस्य निर्भयम्।।३५।।
।। ।। इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य उपरिचरवसुसद्गुणवर्णनं नाम पंचमोऽध्यायः ।। ५ ।।