स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वासुदेवमाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः

।। स्कन्द उवाच ।।
महान्तं प्रश्नवित्प्रश्नं पृच्छसि त्वमि हाऽनघ ।।
नास्योत्तरं वर्षशतैर्वक्तुं शक्यं स्वतर्कतः ।।
ऋते देवप्रसादाद्वै ब्रह्मञ्ज्ञानिवरैरपि ।। १ ।।
वासुदेवप्रसादात्तु मया ज्ञातं वदामि ते ।।
अनाख्येयं न ते किञ्चिद्धर्मनिष्ठाय सन्मते ।। २ ।।
एवमेव हि पप्रच्छ निवृत्ते भारते रणे ।।
अजातशत्रुर्नृपतिर्भीष्मं धर्म्मविदांवरम् ।। ३ ।।
शयितं शरशय्यायां ध्यानप्राप्ताच्युतेन च ।।
प्राप्तमैकात्म्यमव्यग्रं निगमागमपारगम् ।। ४ ।।
युधिष्ठिर उवाच ।।
चतुर्षु तात वर्णेषु चतुर्ष्वप्याश्रमेषु यः ।।
इच्छेच्चतुर्वर्गसिद्धिं देवतां कां यजेत सः।।५।।
निर्विघ्रेन च का सिद्धिः कथं स्यादल्पकालतः ।।
कथं चाप्यल्पसुकृती पदवीं महतीमियात्।।
एतं मे संशयं छिन्धि सर्वज्ञस्त्वं पितामह।।६।।
स्कन्द उवाच ।।
एवं धर्म्मात्मना तेन पृष्टः शान्तनवो मुने।।
किञ्चिज्जहास वीक्ष्यैव श्रीकृष्ण मुखपङ्कजम् ।। ७ ।।
दृशा स प्रेरितस्तेन नरनारायणोदितम् ।।
श्रीवासुदेवमाहात्म्यं पितुः श्रुतमुवाच तम् ।। ८ ।।
ततः श्रुत्वा नारदोपि कुरुक्षेत्रं गतः पुनः ।।
कैलास एत्य तत्प्राह पितरं मे स चापि माम् ।। ९ ।।
तत्तेऽहं संप्रवक्ष्यामि निश्छद्म परिपृच्छते ।।
महासदसि निर्णीतं मुनिवर्याऽपसंशयम्।।2.9.2.१०।।
वासुदेवः परं ब्रह्म श्रीकृष्णः पुरुषोत्तमः ।।
देवोऽकामैः सकामैश्च पूज्यो मुक्तैर्नरैरपि ।। ११ ।।
द्विजातीनां चाश्रमाणां स्त्रीशूद्रादेश्च सर्वथा ।।
स्वस्वधर्मैरेष एव तोषणीयोस्ति भक्तितः ।। १२ ।।
तस्मात्कर्माखिलमपि दैवं पित्र्यं च सर्वदा ।।
तत्प्रीत्या एव कर्त्तव्यं वेदोक्तं च यथोचितम् ।। १३ ।।
सुखाप्तये नृभियद्यत्कर्माऽत्र क्रियते शुभम् ।।
अपि स्वनुष्ठितं तच्चेत्कृष्णसंबन्धवर्जितम् ।।
तदा क्षयिष्ण्वल्पफलं ज्ञेयं तच्च गुणात्मकम्।। १४ ।।
फलवैगुण्यकृत्तच्चाऽशुभदेशादियोगतः ।।
बहुविघ्नं च तन्नॄणां नैव वाञ्छितसिद्धिदम् ।। १५ ।।
कर्मैतदेव श्रीकृष्णप्रीणनाय क्रियेत चेत् ।।
तत्संबन्धेन तर्ह्येतद्भवेत्सर्वं हि निर्गुणम् ।। १६ ।।
स्ववाञ्छितादप्यधिकं ददाति फलमक्षयम् ।।
असद्देशादिसंबन्धात्तद्वैगुण्यभवेन्न च ।।१७।।
विघ्नस्तु कोपि ब्रह्मर्षे प्रतापाच्चक्रपाणिनः ।।
तस्मिन्न प्रभवेत्क्वापि तत्स्यादीप्सितसिद्धिदम् ।।१८।।
यद्यप्यल्पं स्वसुकृतं तथापि परमात्मनः ।।
साक्षात्संबन्धतो ब्रह्मन्भवत्येव महत्तरम् ।। १९ ।।
यथा स्फुलिङ्गमात्रोपि वन्यकाष्ठौघयोगतः ।।
अनिवार्यो भवेद्दावस्तथैतद्धरियोगतः ।। 2.9.2.२० ।।
प्रवृत्ते वा निवृत्ते वा तस्माद्धर्मे स्थितैर्न्नरैः ।।
उपास्तव्यो वासुदेवस्तत्सम्यक्सिद्धिमीप्सुभिः ।। २१ ।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।।
नारदस्य च संवादमृषेर्नारायणस्य च ।। २२ ।।
यो वासुदेवो भगवान्नित्यं ब्रह्मपुरे स्थितः ।।
दाक्षायण्यामाविरासीद्धर्माल्लोकहिताय सः ।। २३ ।।
कृते युगे द्विजवर पुरा स्वायम्भुवान्तरे ।।
नरो नारायणश्चेति द्विरूपः प्रादुरास सः ।। २४ ।।
धर्माश्रमात्तपस्तप्तुं क्षेमायैव नृणां भुवि ।।
नरनारायणौ तौ च बदर्याश्रममीयतुः ।।२५।।
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ।।
तेपाते तेजसा स्वेन दुर्निरीक्ष्यौ सुरैरपि ।। २६ ।।
यस्य प्रसादं कुर्वाते स वै तौ द्रष्टुमर्हति ।।
शक्यते नान्यथा द्रष्टुमपि तद्धामवासिभिः ।। २७ ।।
एकदा नारदो योगी ताभ्यामेव दिदृक्षितः ।।
अन्तरात्मतया चान्तर्हृदयेपि प्रचोदितः ।। २८ ।।
मेरोर्महागिरेः शृङ्गात्सद्यो गगनवर्त्मना ।।
तं देशमागमद्ब्रह्मन्बदर्याश्रमसंज्ञितम् ।। २९ ।।
तयोराह्निकवेलायामागतस्तत्र स द्रुतम् ।।
आद्याश्रमक्रियासक्तौ तौ ददर्श च दूरतः ।। 2.9.2.३० ।।
दृष्ट्वैवेश्वरचर्यां ता तस्य कौतूहलं त्वभूत् ।।
अहो एतौ जगत्पूज्यावीश्वरौ सर्वदेहिनाम् ।।
एतौ हि परमं ब्रह्म काऽनयोराह्निकी क्रिया ।। ३१ ।।
पितरौ सर्वभूतानां देवतानां च दैवतम् ।।
कां देवतां तु यजतः पितॄन्वैतौ महामती ।। ३२ ।।
इति संचिन्त्य मनसा भक्तो नारायणस्य सः ।।
तत्समीपमुपेत्याऽथ तस्थौ नत्वा कृताञ्जलिः ।। ३३ ।।
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।।
पूजितश्चैव विधिना शास्त्रदृष्टेन सोऽनघ ।। ३४ ।।
तद्दृष्ट्वा महदाश्चर्य्यमपूर्वं विधिविस्तरम्।।
उपोपविष्टः सुप्रीतो नारदोभूच्च विस्मितः ।। ३५ ।।
नारायणं संनिरीक्ष्य प्रयतेनान्तरात्मना ।।
नमस्कृत्य च तं देवमिदं वचनमब्रवीत् ।। ३६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवासुदेवमाहात्म्य आत्यन्तिकश्रेयःसाधननिरूपणे नारायणनारदसमागमो नाम द्वितीयोऽध्यायः ।। २ ।।