स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →

।। देवशर्मोवाच ।। ।। ।।
तवेदृशी मतिर्जाता सहसा केशवोपरि ।।
एतस्मान्मे गतं पापं पूर्वजन्मशतोद्भवम् ।। १ ।।
विना व्रतैर्विना तीर्थैर्मुक्तस्त्वं पापकोटिभिः ।।
ममातिथ्येन भक्त्या च जातं तव हरेः पदम् ।। २ ।।
तेन पुण्यप्रभावेण मतिर्जाता तवेदृशी ।।
ध्यात्वा संचिंत्य मनसा ज्ञातं पूर्वविचेष्टितम् ।। ३।।
पूर्वजन्मनि विप्रस्त्वमवंत्यां धर्मतत्परः ।।
सदाऽध्ययनशीलश्च सुशीलश्च सदा व्रती ।। ४ ।।
एका तु द्वादशी विष्णोः कृता च दशमीयुता ।।
तत्पापस्य प्रभावेण समस्तं सुकृतं गतम् ।। ५ ।।
सर्वं तद्विफलं जातं यथा शूद्रापतिर्द्विजः ।।
बहुवर्षसहस्राणि प्राप्ता नरकयातनाः।। ६ ।।
तस्मादेवं त्वया पूर्वं कृतं दुष्टं चिरं बहु ।।
कृता तु दशमीमिश्रा तिथिर्विष्णोर्महात्मनः ।। ७ ।।
तेन शूद्रो भवाञ्जातः पापे तव मतिस्तथा ।।
धर्मे न रमते चित्तं दशमीवेधदूषितम्।। ८ ।।
विदर्भनगरे वत्स अस्ति ते पुत्रिकासुतः ।।
कृतं तेन विधानोक्तं हरेरेकादशीव्रतम् ।। ९ ।।
प्रदत्तं तेन तत्पुण्यमखण्डैकाशीव्रतम्।।
धर्मोपरि मतिर्जाता जातः पापस्य संक्षयः ।। 2.5.12.१० ।।
तेन पुण्यप्रभावेण एकादश्या व्रतेन च ।।
दशमीवेधजं पापं यमेन परिमार्जितम् ।। ११ ।।
इह जन्मनि यत्पापं जन्मायुतकृतानि च ।।
मार्जितानि यमेनैव पापानि तव सांप्रतम् ।। १२ ।।
तयोर्विवदतोरेवं विष्वक्सेनः समागतः ।।
वर्णावर स्वागतं ते तुष्टस्तेहं जनार्दनः ।। १३ ।।
विप्रस्याऽऽतिथ्यहेतुत्वाज्जातः पापस्य संक्षयः ।।
परदत्तेन पुण्येन एकादश्या व्रतेन च ।। १४ ।।
दशमीवेधजं पापं तव शूद्र लयं गतम् ।।
व्रतं कृत्वा ददौ पुण्यं दौहित्रस्तेन तारितः ।। १५ ।।
पत्न्या सह महाभाग वैनतेयं समारुह ।।
इत्युक्त्वा देवदेवेन विमाने स्थापितस्तदा ।। १६ ।।
स्वर्गं ततः सपत्नीकः शूद्रत्वेन नृपोत्तम ।।
देवशर्मा तु विप्रो वै तीर्थराजं ययौ पुनः ।। १७।।
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ।।
अखण्डैकादशीपुण्यात्प्राप्तस्याऽऽतिथ्यकारणात् ।।
विष्णुभक्तिमती भार्या राज्यं निहतकण्टकम् ।। ।। १८ ।।
।। राजोवाच ।। ।।
ब्रह्मन्नखण्डैकादश्या विधिं सम्यक्समादिश ।।
विष्णोः सम्प्रीणनार्थाय प्रसादं कर्तुमर्हसि ।। १९ ।।
।। ऋषिरुवाच ।। ।।
शृणुष्व नृपशार्दूल एकादश्या विधिं शुभम् ।।
पुराऽऽसीद्भगवान्विष्णुर्नारदाय यदुक्तवान् ।। 2.5.12.२० ।।
तत्तेऽहं संप्रवक्ष्यामि उद्यापनविधिं शुभम् ।।
मार्गशीर्षादिमासेषु द्वादशीषु नरोत्तम ।। २१ ।।
व्रतं शुभमिदं कार्यमखण्डैकादशीव्रतम् ।।
दशम्यां चैव नक्तं च एकादश्यामुपोषणम् ।। ।। २२ ।।
द्वादश्यामेकभुक्तं च अखंडा इति कथ्यते ।।
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ।। २३ ।।
तद्धि नक्तं विजानीयान्न नक्तं निशि भोजनम् ।।
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा ।। २४ ।।
शाकं मधु परान्नं च पुनर्भोजनमैथुने ।।
विष्णुभक्तो नरो वाऽपि दशम्यां दश वर्जयेत् ।। २५ ।।
दशम्या विधिरुक्तोऽयमेकादश्यास्तथा शृणु ।।
असकृज्जलपानं च हिंसा शौचमसत्यता ।। २६ ।।
तांबूलं दन्तकाष्ठं च दिवाशयनमैथुने ।।
द्यूतं क्रीडा निशि स्वापः पतितैः सह भाषणम् ।।
एकादश्यां दशैतानि विष्णुभक्तस्तु वर्जयेत् ।। २७ ।।
अद्य मे स्त्रीसुखं नास्ति भोजनं नास्ति केशव ।।
प्रीत्यर्थं तव देवेश नियमस्तु दिवानिशि ।। २८ ।।
सुप्तेन्द्रियैस्तु वैक्लव्यं भोजनं यच्च मैथुनम् ।।
दन्तांतरविलग्नान्नं क्षमस्व पुरुषोत्तम ।। २९ ।।
उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह ।।
उपवासः स विज्ञेयो न शरीरस्य शोषणम् ।। 2.5.12.३० ।।
पूर्वोक्तानि दशैतानि परान्नं च तथा मधु ।।
द्वादश्यां विष्णुभक्तो वै वर्जयेन्मर्दनादिकम् ।।३१।।
अद्य मे द्वादशी पुण्या पवित्रा पापनाशिनी ।।
पारणं च करिष्यामि प्रसीद गरुडध्वज ।। ३२ ।।
विष्णोः संतोषणार्थाय यो मया नियमः कृतः ।।
अद्याहं भोजयिष्यामि त्वत्प्रसादाद्द्विजोत्तमम् ।। ३३ ।।
अनेन विधिना कुर्याद्यावद्वर्षं समाप्यते ।।
संपूर्णे तु ततो वर्षे कुर्यादुद्यापनं बुधः ।। ३४ ।।
आदौ मध्ये तथा चांते व्रतस्योद्यापनं स्मृतम् ।।
उद्यापनं न कुर्याद्यः कुष्ठी चांधश्च जायते ।। ३५ ।।
तस्मादुद्यापनं कुर्याद्यथाविभवसारतः ।।
क्रियते शुक्लपक्षे च मासे मार्गशिरे शुभे ।। ३६ ।।
आमंत्र्य द्वादशमितान्ब्राह्मणान्विधिकोविदान् ।।
त्रयोदशं सपत्नीकमाचार्यं विधिकोविदम् ।। ३७।।
यजमानः शुचिः स्नात्वा श्रद्धायुक्तो जितेन्द्रियः ।।
पादशौचार्धवस्त्राद्यैराचार्यादींस्ततोऽर्चयेत् ।। ३८ ।।
आचार्यस्तु ततः कृत्वा मण्डलं वर्णकैः शुभैः ।।
चक्राब्जं सर्वतोभद्रं श्वेतवस्त्रेण वेष्टितम् ।। ३९ ।।
जलपूर्णं च कुम्भं तु पञ्चरत्नसमन्वितम् ।।
पञ्चपल्लवसंयुक्तं कर्पूरागुरुवासितम् ।। 2.5.12.४० ।।
वेष्टितं रक्तवस्त्रेण ताम्रपात्रेण संयुतम् ।।
वेष्टितं पुष्पमालाभिर्मंडलोपरि विन्यसेत् ।। ४१ ।।
तस्योपरि न्यसेद्देवं लक्ष्मीनारायणं नृप ।।
सौवर्णी प्रतिमा कार्या एककर्षप्रमाणतः ।। ४२ ।।
वाहनाऽऽयुधसंयुक्ता प्रमाणं चतुरंगुलम् ।।
किंवा शक्त्या प्रकुर्वीत वित्तशाठ्यं विवर्जयेत् ।। ४३ ।।
ततः संस्थापयेन्मूर्तिं मंडले द्वादशैव हि ।।
मासानामधिपः पूज्यश्चाखंडव्रतहेतवे ।।४४।।
मंडलात्पूर्वदिग्भागे शंखं संस्थापयेच्छुभम् ।।
त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।।
निर्मितः सर्वदेवैस्त्वं पांचजन्य नमोऽस्तु ते ।। ४५ ।।
ततस्तु स्थंडिलं कार्यं मंडलादुत्तरां दिशम् ।।
संकल्प्य हवनं कार्यं मन्त्रैर्वेदोक्तवैष्णवैः ।। ४६ ।।
स्वस्थाने स्थापयेद्विष्णुं स्थापयेच्च हरिं प्रति ।।
पूजयेत्पुरुषसूक्तेन मन्त्रैः पौराणिकैः शुभैः ।। ४७ ।।
नैवेद्यार्थं च वै कार्या मोदका बहवोऽपि च ।।
धूपदीपोपहाराणि कृत्वा नीराजनं ततः ।। ४८ ।।
यक्षकर्दमेन संपूज्य ततः कुर्यात्प्रदक्षिणाम् ।।
स्वस्तिवाचनकैर्विप्रैर्नमस्कारं ततो नृप ।। ४९ ।।
ततस्तु ब्राह्मणैः कार्य आचार्यक्रमशो जपः ।।
जपश्च पावमानीयो मंडलब्राह्मणं मधु ।। 2.5.12.५०।।
तेजोऽसि शुक्रजं वाचं ब्रह्मसामादनंतरम् ।।
पवित्रवंतं सूर्यस्य विष्णोर्महसि संहिताम् ।। ५१ ।।
जपांते कलशे विष्णुं सोपांगमुपरि न्यसेत् ।।
दिवसस्योदये चैव होमं कुर्यादनुक्रमम् ।। ५२ ।।
संस्थाप्य प्रथमं पात्रं पूजयित्वा विधानतः ।।
स्तवनं च ततो होमः कर्तव्यश्चरुपूर्वकः ।। ५३ ।।
स्वगृह्योक्तविधानेन यजनाग्निक्रियापरः ।।
चरुद्वयं च कुर्वीत पायसं वैष्णवं चरुम् ।। ५४ ।।
जुहुयात्पुरुषसूक्तेन चरोः षोडश चाहुतीः ।।
तथा चतुर्गृहीतेन घृतयुक्तावराहुतिम् ।। ५५ ।।
प्रादेशमात्राः पालाशसमिधश्च घृतप्लुताः।।
इदं विष्ण्विति मंत्रेण होतव्याः कर्मसिद्धये ।।५६।।
शतमेकं तु जुहुयाद्द्विगुणाश्च तिलाऽऽहुतीः ।।
कृते च वैष्णवे होमे ग्रहयज्ञं समारभेत् ।। ५७ ।।
समिद्भिश्चरुहोमं च तिलहोमं क्रमेण तु ।।
उभयोः स्वस्तिकं वाच्यं ततः पूजां समाचरेत् ।। ५८ ।।
ऋत्विजां च ततो दद्याद्धेन्वादिग्रहदक्षिणाः ।।
देवस्य तृप्त्यै दद्याच्च ब्राह्मणाय यथाविधि ।। ५९ ।।
गां वै पयस्विनीं दद्याद्वृषभं च सुशोभनम् ।।
ब्राह्मणानां ततो दद्यात्त्रयोदश पदानि च ।।2.5.12.६०।।
आचार्यं तु सपत्नीकं वस्त्रैश्च परितोषयेत् ।।
तोषयित्वा महादानैस्तं सार्थं च समर्पयेत् ।। ६१ ।।
पञ्चविंशतिकुम्भांश्च सोदकान्वस्त्रवेष्टितान् ।।
ब्राह्मणांश्च ततो दद्यात्कृते पारणके निशि ।। ६२ ।।
भूरिदानं च दातव्यं बंधूनामिष्टभोजनम् ।।
पूर्णपात्रं ततो दद्यादाचार्याय सदक्षिणम् ।। ६३ ।।
पूर्णपात्रप्रदानेन कार्यं संपूरितं भवेत् ।।
उपवासव्रतं चैव स्नानं तीर्थफलं भवेत् ।। ६४ ।।
विप्रैः संभाषितं तस्य संपूर्णं तद्भवेत्फलम् ।।
वित्त शक्तिर्गृहे नास्ति कृतं चैकादशीव्रतम् ।। ६५ ।।
स्वशक्त्या चैव कर्तव्यं तथा चोद्यापनादिकम् ।।
एतत्ते सर्वमाख्यातमखण्डैकादशीव्रतम् ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्येऽखण्डैकादशीव्रतकथनं नाम द्वादशोऽध्यायः ।। १२ ।। ।। छ ।।