स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/विषयानुक्रमणिका

विकिस्रोतः तः

अथ वैष्णवखण्डे तृतीयं बदरिकाश्रममाहात्म्यम् ।। (२-३) ।।

१ सूतशौनकसंवादप्रसंगेन केन मुक्तिर्भवेदिति प्रश्ने शिवस्कन्दसंवादारम्भः, तत्रोपक्रमपूर्वकं गङ्गागोदावरीयमुनानर्मदादिबहुतीर्थवर्णनपुरःसरः काश्यादिक्षेत्रमाहात्म्यवर्णनपूर्वकबदर्याख्यक्षेत्रमाहात्म्यवर्णनम्, अयोध्याक्षेत्रमाहात्म्यम्, गोमतीतीर्थस्नानविधिवर्णनम्, पच्चक्रोशीतीर्थयात्राफलम्, विश्रांतितीर्थस्नानफलम्,. रामतीर्थे स्वर्णदानमाहात्म्यम्, मार्कण्डेयह्रदस्नानफलकथनपूर्वक जगन्नाथदर्शनमाहात्म्यम्, इन्द्रद्युम्नह्रदस्नानमाहात्म्यम्, बदरीनामकीर्तनेन उपयुक्तसर्वफलप्राप्तिकथनम्. ... १२३

२ बदर्याख्यक्षेत्रस्योत्पत्तिपूर्वकं माहात्म्यवर्णनम्, सुतासंगमकारिणो ब्रह्मदेवस्य शिवेन
पञ्चममस्तकच्छेदनवृत्तान्तवर्णनम्, तदा तद्ब्रह्मकपालं हस्ते गृहीत्वा शिवस्य
ब्रह्महत्यादोषनिवृत्त्यर्थं सर्वतीर्थेषु गमनम् , ततो गिरिजापतेर्बदरिकाश्रमे गमनम्,
बदरिकाश्रमगमनेन शिवस्य ब्रह्महत्यानिरासः, दशाश्वमेधिकतीर्थवर्णनम्, व्यासव-
चनादग्नेर्बदरिकाश्रमं प्रति गमनम्, अग्निकृतभगवत्स्तुतिवर्णनम्. ... १२४ १

३ अग्नितीर्थमाहात्म्यवर्णनम्, नारदशिलामार्कण्डेयशिलयोर्माहात्म्यवर्णनम् १२५ १

४ वैनतेयशिलामाहात्म्यवर्णनम्, वाराहीशिलामाहात्म्यम्, तत्र भगवतो देवर्ष्यादिभिः
स्तुतिकरणम्, नारसिंहीशिलामाहात्म्यम्.. -.. .. ... १२६ २

५ भगवत्प्रदक्षिणाफलकथनम्, विशालायां भगवतोऽदर्शनं दृष्ट्वा ब्रह्मादिदेवैः क्षीराब्धौ
भगवतः स्तुतिकरणम्, भगवदाविर्भावः, कुमेधसां मद्दर्शनं स्यादिति भिया मयान्तर्धानं कृतमित्यभिधाय भगवतोन्तर्धानम्, शिवकृतभगवत्स्थापनम्, बदरीदर्शनेन बदरीतिनामग्रहणेन च ब्रह्माण्डदानफलप्राप्तिः, बदरीक्षेत्रे ब्राह्मणभोजनादिदानमाहात्म्यवर्णनम्... ..... १२७ २

६ पितृतीर्थकपालमोचनतीर्थब्रह्मतीर्थोत्पत्तिवृत्तान्तवर्णनम्, ब्रह्मणा तत्र तपःकरणम,
भगवद्दर्शनसञ्जातसन्तोषेण ब्रह्मणा भगवत्स्तुतिकरणम्, भगवतः प्रसादाद्ब्रह्मणः सृष्ट्युत्पत्त्यधिकारप्राप्तिः, ब्रह्मणः सर्ववेदार्थज्ञानाधिकारप्राप्तिः, सरस्वतीस्नानप्रभावेन वेदव्यासस्य पुराणादिसंहिताकरणाधिकारप्राप्तिः, काम्यतीर्थमाहा-
त्म्यम्, वसुधारातीर्थमाहात्म्यवर्णनम्. ..... १२९ १

७ प्रभासपुष्करगयानैमिषकुरुक्षेत्रादिपञ्चधारातीर्थमाहात्म्यम्, पञ्चधारातीर्थानां मलि-
नत्वप्राप्तिस्तन्निवृत्त्यर्थं च तेषां बदरिकाश्रमे गमनम्, सोमकुण्डस्योत्पत्तिपूर्वकं
माहात्म्यम्, सप्तपदचतुःस्रोतोर्वशीतीर्थमाहात्म्यम्.... १३०

८ विशालायां भगवदावासेन संतुष्टैरिंद्रादिभिर्मेरुं हित्वा विशालां प्रति गमनम्, तदा
भगवतेन्द्रादिसुखहेतोर्मेरोस्तत्र विशालायां स्थापनम्, देवैर्भगवत्स्तुतिकरणम्, भगवदाज्ञया देवानां तत्रैव वासः, बदरिकाश्रमे लोकपालस्थापनम्, बदरिकाश्रमे दानेन सर्वफलप्राप्तिवर्णनम्, धर्मक्षेत्रवर्णनम्, दण्डपुष्करिणीतीर्थवर्णनम्.... १३२ २

इति वैष्णणावखण्डे तृतीयं बदरिकाश्रममाहात्म्यम् ।। ( २-३) । ।