स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/अध्यायः ०७

विकिस्रोतः तः
Jump to navigation Jump to search

।। शिव उवाच ।। ।।
ततो नैर्ऋत्यदिग्भागे पंचधाराः पतंत्यधः ।।
प्रभासं पुष्करं चैव गयां नैमिषमेव च ।।
कुरुक्षेत्रं विजानीहि द्रवरूपं षडानन ।। १ ।।
पुरा ते ब्रह्मणः स्थानं गता मलिनरूपिणः ।।
पापिनां पापदोषेण विकृताः कृतबुद्धयः ।। २ ।।
तत्र गत्वा नमस्कृत्य ब्रह्माणं लोकभावनम् ।।
ऊचुः प्रांजलयः सर्वे निजागमनकारणम् ।। ३ ।।
तच्छ्रुत्वा ध्यानमालंब्य प्रहस्य जगदीश्वरः ।।
उवाच वचनं चारु स्मृत्वा बदरीकाश्रमम् ।। ४ ।।
मा भैष्ट गच्छत क्षिप्रं हरेर्बदरिकाश्रमम् ।।
यस्य निर्देशमात्रेण सद्यः पुण्यं भविष्यति ।।५।।
ततस्ते हर्षवेगेन नमस्कृत्य पितामहम् ।।
जग्मुरुत्फुल्लनयना विशालाममितप्रभाम् ।। ६ ।।
यस्य निर्वेशमात्रेण तत्क्षणाद्विगतेनसः ।।
ततो द्विरूपमास्थाय स्वस्थानं ययुरुत्सुकाः ।। ७ ।।
द्रवरूपेण चान्येन पंच तिष्ठंति निर्मलाः ।।
तेषु स्नात्वा विधानेन कृत्वा नित्यक्रियां शुचिः ।। ८ ।।
तत्तत्तीर्थफलं लब्ध्वा यात्यंते परमं पदम् ।।
पंचोपवास निरतः पूजयित्वा जनार्दनम् ।। ९ ।।
इह भोगान्बहून्भुक्त्वा हरेः सालोक्यमाप्नुयात् ।। 2.3.7.१० ।।
ततस्तु विमलं तीर्थं सोमकुंडाभिधं परम् ।।
तपश्चकार भगवान्सोमो यत्र कलानिधिः ।। ११ ।।
।। स्कन्द उवाच ।। ।।
सोमकुण्डस्य माहात्म्यं वद मे वदतां वर ।।
त्वत्प्रसादादहं श्रोतुमिच्छामि परमेश्वर ।। १२ ।।
।। शिव उवाच ।। ।।
पुरात्रितनयः श्रीमान्सोमः संप्राप्य यौवनम्।।
श्रुत्वा स्वर्वासिनां सौख्यं गंधर्वेभ्यो मुहुर्मुहुः ।।
तदा स्वपितरं प्रायात्प्रष्टुं तल्लभते कथम् ।। १३ ।।
।। सोम उवाच ।। ।।
भगवन्सर्वधर्मज्ञ करुणामृतसागर ।।
कथं वा लभ्यते स्वर्गः सर्वेषामुत्तमोत्तमः ।। १४ ।।
ग्रहनक्षत्रताराणामोषधीनां पतिः प्रभो ।।
स्यामहं येन तं यत्नं कृपया वद मे पितः ।। १५ ।।
।। अत्रिरुवाच ।। ।।
तपसाराध्य गोविंदं यमैर्वा नियमैः सुत ।।
किं दुर्ल्लभं तु साधूनामिह लोके परत्र च ।। १६ ।।
ततस्तु नारदाच्छ्रुत्वा क्षेत्रं परमनिर्मलम् ।।
जगाम बदरीं नत्वा पितरं दिशमुत्तराम् ।। १७ ।।
तत्र गत्वा फलैर्मेध्यैर्विष्णोः पूजामकल्पयत् ।।
जजाप परमं जाप्यमष्टाक्षरं मनोहरम् ।। १८ ।।
अष्टाशीतिसहस्राणि वर्षाणि भगवत्परम् ।।
तपस्तेपेऽतिपरमं सर्वलोकभयावहम् ।। १९ ।।
ततस्तुष्टः समागत्य भगवान्भक्तवत्सलः ।।
उवाच सोमं विधिवद्वरं वरय सुव्रत ।।2.3.7.२०।।
ततः सोमः समुत्थाय नमस्कृत्य पुनःपुनः ।।
ग्रहनक्षत्रताराणामोषधीनामहं पतिः ।।
द्विजानामपि सर्वेषां भूयासं ते प्रसादतः ।। २१ ।।
।। हरिरुवाच ।। ।।
वरमन्यं वृणुष्वातो दुर्ल्लभं त्वं भवादृशाम् ।।
वरान्नो वरयामास तदा तं हिमजात्मज ।। २२ ।।
ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत् ।।
त्रिंशद्वर्षसहस्राणि देवमानेन पुत्रक ।।२३।।
तदासौ करुणापूर्णहृदयो भगवानगात् ।।
वरं वरय भद्रं ते वरदोऽहं तवाग्रतः ।।
सोमस्तु तादृशं वव्रे तच्छ्रुत्वान्तर्द्दधे हरिः।।२४।।
ततोऽतिविमनाः सोमः पुनस्तेपे तपो महत्।।
चत्वारिंशत्सहस्राणि तपस्तप्तं सुदुष्करम् ।।२५।।
ततस्तुष्टो हरिः साक्षाच्छंखचक्रगदाधरः ।।
उवाच वचनं चारु सोमं श्रांतं तपोनिधिम् ।।२६।।
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं वरय सुव्रत ।।
तपसाराधितो नूनं त्वयाहं तपसां निधिः ।। २७ ।।
।। सोम उवाच ।। ।।
यदि तुष्टो भवान्मह्यं भगवान्वरदर्षभः ।।
ग्रहनक्षत्रताराणामाधिपत्यं प्रयच्छ मे ।।
तथौषधीनां विप्राणां यामिन्याश्च जगत्पते ।। २८ ।।
।। श्रीभगवानुवाच ।। ।।
दुर्ल्लभं प्रार्थितं वत्स वितरामि तथाप्यहम् ।।
एवमस्तु ततः सर्वे समागत्य दिवौ कसः ।।
अभिषिक्तवंतो विधिवत्सोमं राजानमादृताः ।। २९ ।।
ततो विमानमारूढो रथेन शुभ्रवाससा ।।
अभिष्टुतः सुरैरभूद्दिवं गतो निशाकरः ।। ।। 2.3.7.३० ।।
ततः प्रभृति तीर्थं तत्सोमकुंडेति दुर्ल्लभम् ।।
यद्दृष्टिमात्रान्मनुजा गतदोषा भवंति हि ।। ३१ ।।
यदुपस्पर्शनाद्यांति सोमलोकं विनिंदिताः ।।
यत्र स्नात्वा विधानेन संतर्प्य पितृदेवताः ।।३२।।
सोमलोकं विनिर्भिद्य विष्णुलोकं प्रपद्यते ।।
उपवासत्रयं कृत्वा पूजयित्वा जनार्द्दनम् ।। ।। ३३ ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।।
त्रिरात्रेण स्थितो भूत्वा पूजयित्वा जनार्द्दनम् ।।
जपं कुर्वन्विशेषेण मंत्रसिद्धिः प्रजायते ।। ।। ३४ ।।
कर्मणा मनसा वाचा यत्कृतं पातकं नृभिः ।।
तत्सर्वं क्षयमायाति सोमकुंडेक्षणादिह ।। ३५ ।।
ततस्तु द्वादशादित्यतीर्थं पापहरं परम् ।।
यत्र तप्त्वा पुनः कृच्छ्रं काश्यपः सूर्यतां ययौ ।। ३६ ।।
दुर्ल्लभं त्रिषु लोकेषु तपःसिद्ध्येककारणम् ।।
रविवारेषु सप्तम्यां संक्रात्यां विधिवन्नरः ।।
सप्तजन्मकृतात्पापात्स्नानमात्रेण शुद्ध्यति ।। ३७ ।।
पाराकं विधिवत्कृत्वा पूजनीयो जनार्द्दनः ।।
सूर्यलोके सुखं भुक्त्वा विष्णुलोके महीयते ।। ।। ३८ ।।
महारोगाभिभूतस्तु स्नात्वा पीत्वा जलं शुचिः ।।
रोगमुक्तोऽचिरादेव नात्र कार्या विचारणा ।। ३९ ।।
चतुःस्रोतं परं तीर्थं विलोचनमनोहरम् ।।
धर्मार्थकाममोक्षास्ते तिष्ठंति द्रवरूपिणः ।। 2.3.7.४० ।।
हरेराज्ञानुसारेण क्षेत्रेऽस्मिन्वैष्णवे स्वयम् ।।
पुरुषार्था द्रवीभूता भूतानां मुक्तिहेतवः ।। ।। ४१ ।।
पूर्वादिदिक्षु क्रमसन्निविष्टा धर्मप्रधाना इव रूपभाजः ।।
भजंति ये तान्क्रमसन्निविष्टान्प्रसन्नतैषां सततं भवेद्धि ।। ४२ ।।
नान्यत्र क्षेत्रे मिलिताः कथंचिच्चत्वार एते त्रिदशैरलभ्याः ।।
तानग्रिमं जन्म जवेन लब्ध्वा पश्यंति पूर्वार्जितपुण्यपुंजाः ।। ४३ ।।
ये दुर्जना दुर्जनसंगभाजः क्षमार्जवप्राणजयप्रधानाः ।।
क्रीडामृगा ग्राम्यवधूजनानां न ते प्रपश्यंत्यचिरात्पुमर्थान्।।४४।।
तथैव पश्यंत्यचिरेण तत्त्वज्ञानैकहेतूनपि तान्पुमर्थान् ।। ४५ ।।
अत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।।
पर्वणि प्रयताः स्नातुं समायांति षडानन ।। ४६ ।।
ततः सत्यपदंनाम तीर्थं सर्वमनोहरम् ।।
त्रिकोणाकारमेवैतत्कुंडं कल्मषनाशनम् ।।
एकादश्यां हरिस्तत्र स्वयमायाति पावने ।।४७।।
तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ।।
स्नातुमायांति विधिवत्कुंडे सत्यपदाभिधे ।।४८।।
गंधर्वाप्सरसां यत्र मध्याह्ने हरिवासरे ।।
गानं शृण्वंति विरलाः सत्यव्रतपरायणाः ।। ४९ ।।
दर्शनाद्यस्य तीर्थस्य पातकानि महांत्यपि ।।
पलायंते भयेनैव सिंहं दृष्ट्वा मृगा इव ।।2.3.7.५०।।
स्वशाखोक्तविधानेन स्नानं कृत्वा विचक्षणः ।।
सत्यलोकमवाप्नोति ततो नैःश्रेयसं पदम् ।। ५१ ।।
अहोरात्रं शुचिर्भूत्वा उपोष्य च जनार्द्दनम् ।।
पूजयित्वा यथाशक्त्या स जीवन्मुक्तिभाजनः ।। ५२ ।।
ब्रह्मा विष्णुश्च रुद्रश्च त्रिकोणस्थाः समाहिताः ।।
तपः कुर्वंत्यनुदिनं सर्वलोकादितोषणम् ।। ५३ ।।
त्रिकोणमंडितं तीर्थं नाम्ना सत्यपदप्रदम् ।।
दर्शनीयं प्रयत्नेन सर्वपापमुमुक्षुभिः ।। ५४ ।।
जपं तपो हरिस्तोत्रं पूजां स्तुत्यभिवंदनम् ।।
माहात्म्यं कुर्वतां वक्तुं ब्रह्मणापि न शक्यते ।। ५५ ।।
ततोऽतिविमलं नाम नरनारायणाश्रमम् ।।
द्विविधं दृश्यते तत्र पाथः परमनिर्मलम् ।। ५६ ।।
उभाभ्यामुभयोः प्रीतिर्भवतीति विनिश्चितम् ।।
तत्र स्नात्वा प्रयत्नेन पूजयित्वा जनार्द्दनम् ।।
सर्वपापविनिर्मुक्तस्तत्क्षणान्नात्र संशयः ।। ५७ ।।
ततो नारायणावासशिखरे विमलाकृति ।।
तीर्थं पवित्रमुर्वश्या अभिव्यक्तिकरं भवेत् ।। ५८ ।।
।। स्कन्द उवाच ।। ।।
अभिव्यक्तिः कथं तस्या उर्वश्याः शिखरे पितः ।।
किं पुण्यं किं फलं तत्र परं कौतूहलं वद ।।५९।।
।। शिव उवाच ।। ।।
धर्मस्यपत्नी मूर्त्यासीत्तस्यां जातौ षडानन ।।
नरनारायणौ साक्षाद्भगवानेव केवलम् ।। 2.3.7.६० ।।
पित्रोराज्ञामनुप्राप्य तपोऽर्धं कृतमानसौ ।।
उभयोर्नगयोस्तौ तु तपोमूर्ती इव स्थितौ ।। ६१ ।।
तौ दृष्ट्वा विस्मितः शक्रः प्रेषयामास मन्मथम् ।।
सगणं तपसो ध्वंसो यथा स्याद्गन्धमादनम् ।। ६२ ।।
विक्रम्य विधिवत्ते तु नारायणबलोदयम् ।।
ज्ञात्वा हतमनस्कास्तानुवाच जगतीपतिः ।। ६३ ।।
।। हरिरुवाच ।। ।।
किमर्थमागता यूयमातिथ्यं गृह्यतामिति ।। ६४ ।।
इत्युक्त्वा फलमूलानि तेभ्यो दत्त्वोर्वशीं तथा ।।
दत्त्वान्तर्धिमगादेव पश्यतां विघ्नकारिणीम् ।। ६५ ।।
ते तु गत्वा दिवं भीते शक्रायोचुर्बलं हरेः ।।
शक्रस्तामुर्वशीं प्राप्य हर्षणैकयुतोऽभवत् ।। ६६ ।।
ततः प्रभृति तत्तीर्थमुर्वशी नामतः पृथक् ।।
प्रसिद्धं यत्र भगवान्स्वयमास्ते तपोमयः ।। ६७ ।।
तत्र स्नात्वा विधानेन उपोष्य रजनिद्वयम् ।।
पूजयित्वा हरिस्तत्र नरो नारायणो भवेत् ।। ६८ ।।
उर्वशीकुण्डमासाद्य कामनावशतो नरः ।।
उर्वशीलोकमाप्नोति स्नानमात्रेण पुत्रक ।। ६९ ।।
सदैव भगवांस्तत्र उर्वशीकुंड सन्निधौ ।।
भूतानां भावयन्भव्यं तपोमूर्तिर्व्यवस्थितः ।। 2.3.7.७० ।।
आमोदं तदुपरि वै प्रभञ्जनोऽपि श्रीभर्तुर्वहति पदांबुजैकलब्धम् ।।
यत्संगात्कलियुगकल्मषातुराणामुत्संगे न भवति पापभारपाकः ।। ७१ ।।
यत्संगाद्धर्षमुपावहत्पदश्रीनिर्विण्णो गिरिविवरेच्युतैकसेवी ।।
श्रीभर्तुश्चरणयुगं वहन्समन्तादभ्येति प्रशममहस्तपःसमीरे ।।७२।।
गीर्वाणानुपहसति स्वघेन पूर्णः कीटोऽपिप्रशमितदुर्नयो निरीहः।।
यत्रस्थः कुसुमनिवेदमात्मयोगपर्युष्टं जहदुपयास्यते पदं तत् ।। ७३ ।।
यत्रेत्वा मुनिमतयो बहिःपदार्थान्नापश्यन्निहितपदांबुजैकभाजः ।।
यत्रस्थः स्वयमपि गोपतिर्जनानामाधत्ते स्वपदमनुक्रमागतानाम् ।। ७४ ।।
बहूनि संति तीर्थानि गिरौ नारायणाश्रिते ।।
सर्वपापहराण्याशु तान्यहं वेद नो जनः ।। ७५ ।।
संसारकुहरे घोरे यत्र स्थगितमात्मनः ।।
उर्वशीकुण्डमासाद्य दिनमेकं वसेन्नरः ।। ७६ ।।
उर्वशीदक्षिणे भागे आयुधानि जगत्पतेः ।।
विद्यंते दर्शनात्तेषां न शस्त्रभयभाग्भवेत् ।। ७७ ।।
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।।
सर्वपापविनिर्मुक्तः सालोक्यं लभते हरेः ।।७८।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पञ्चधारादितीर्थमाहात्म्यवर्णनंनाम सप्तमोध्यायः ।। ७ ।। ।। ।।