स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/बदरिकाश्रममाहात्म्यम्/अध्यायः ०५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

।। स्कंद उवाच ।। ।।
किमर्थं भगवांस्तत्र वसति श्रद्धया पुनः ।।
किं पुण्यं किं फलं तस्य दर्शनस्पर्शनादिभिः ।। १ ।।
नैवेद्यभक्षणं चापि महापूजाकृतेस्तथा ।।
प्रदक्षिणस्य च फलं ब्रूहि मे कृपया पितः ।। २ ।।
।। शिव उवाच ।। ।।
पुरा कृतयुगस्यादौ सर्वभूतहिताय च ।।
मूर्तिमान्भगवांस्तत्र तपोयोगसमाश्रितः ।। ३ ।।
त्रेतायुगे ह्यृषिगणैर्योगाभ्यासैकतत्परः ।।
द्वापरे समनुप्राप्ते ज्ञाननिष्ठो हि दुर्लभः ।। ४ ।।
ऋषीणां देवतानां च दुर्दर्शो भगवानभूत् ।।
ततो ह्यृषिगणा देवा अलभ्य भगवद्गतिम् ।। ५ ।।
स्वायंभुवं पदं याता विस्मयाकुलचेतसः ।।
तत्र गत्वा नमस्कृत्य ऊचुर्लोकेश्वरं मुदा ।।
बृहस्पतिं पुरस्कृत्य ऋषयश्च तपोधनाः ।। ६ ।।
।। देवा ऊचुः ।। ।।
नमस्ते सर्वलोकानामाश्रयः शरणार्तिहा ।।
वृत्तिदः करुणापूर्णः पितामह सुरेश्वर ।।
निवेदनीया विपदः समुद्धर्ता पितासि नः ।। ७ ।।
।। ब्रह्मोवाच ।। ।।
किमर्थमागता यूयं विस्मयाकुलमानसाः ।।
मिलिता ऋषिभिः साकं ब्रूतागमनकारणम् ।। ८ ।।
।। देवा ऊचुः ।। ।।
द्वापरे समनुप्राप्ते विशालायां विशालधीः ।।
भगवान्दृश्यते नैव तत्र किं कारणं वद ।। ९ ।।
विशाला किं परित्यक्ता ततो वा क्व गतः स्वयम् ।।
अपराधादुतास्माकं कथं चासौ प्रसीदति ।। 2.3.5.१० ।।
।। ब्रह्मोवाच ।। ।।
नाहमेतद्विजानामि श्रुतं चाद्य मुखाद्धि वः ।।
को हेतुर्दृक्पथातीतो भगवान्भवतां सुराः ।।
आगच्छत वयं यामस्तीरं क्षीरपयोनिधेः ।।११।।
इत्युक्तास्ते पुरोधाय ब्रह्माणं त्रिदिवौकसः ।।
ययुः क्षीरांबुधेस्तीरमृषयश्च तपोधनाः।।१२।।
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।।
गीर्भिश्चित्रपदार्थाभिस्तुष्टुवुर्जगदीश्वरम् ।। १३ ।।
।। ब्रह्मोवाच ।। ।।
नमस्ते पुरुषाध्यक्ष सर्वभूतगुहाशय ।।
वासुदेवाखिलाधार जगद्धेतो जगन्मय ।। १४ ।।
त्वमेव सर्वभूतानां हेतुः पतिरुताश्रयः ।।
मायाशक्तिमुपाश्रित्य विचरस्येकसुन्दर ।। १५ ।।
एको नानायते योऽसौ नटवज्जायतेऽव्ययः ।।
व्यापकोऽपि कृपालुत्वाद्भक्तहृत्पद्मषट्पद ।।
ददाति विविधानंदं तं वंदे जगतां पतिम् ।। १६ ।। ।।
।। देवा ऊचुः ।। ।।
विपद्वनांते हुतभुग्जनानां गृहीतसत्त्वस्त्रिदशावनीशः ।।
चराचरात्मा भगवाननंतः कृपाकटाक्षैरवलोकतां नः ।। १७ ।।
सकृद्यन्नामपीयूषरसपानपरः पुमान् ।।
निःश्रेयसं तृणमिव मन्यते तं हरिं भजे।। १८ ।।
अविद्याप्रतिबिंबत्वाज्जीवभावमुपागतः ।।
विज्ञत्वादुपशांतात्मा स पुनातु जगत्त्रयम् ।।१९।।
।। गंधर्वा ऊचुः ।। ।।
पिबंति ये हरेः पदांबुसंगलेशतः पयः पयो न ते पुनःपुनः पिबंति मातुरंकतः ।।
प्रसंगतो यदा भिधासुधां निपीय मानवा मृताऽमृतं व्रजंत्यधो न जातु यांत्यशंकिताः ।। 2.3.5.२० ।।
ततः स्तुतो हरिः साक्षात्सिंधोरुत्थाय चाब्रवीत् ।।
अलक्षितोऽपरैर्ब्रह्मा परं तद्वेद नापरः ।। २१ ।।
ब्रह्मा तदुपधार्याथ नत्वा तस्मै दिवौकस ।।
बोधयामास सकलं सुराः शृणुत सादरम् ।। २२ ।।
अंतर्हितोऽसौ भगवान्दृष्ट्वा लोकान्कुमेधसः ।।
श्रुत्वेत्थं वचनं तस्य सर्वे देवा दिवं ययुः ।।२३।।
ततोऽहं यतिरूपेण तीर्थान्नारदसंज्ञकात् ।।
उद्धृत्य स्थापयिष्यामि हरिं लोकहितेच्छया ।। २४ ।।
यस्य दर्शनमात्रेण पातकानि महान्त्यपि ।।
विलीयंते क्षणादेव सिंहं दृष्ट्वा मृगा इव ।। २५ ।।
धर्माधर्मान्विजित्याथ बदरीशं विभुं हरिम् ।।
दृष्ट्वा मुक्तिमुपायांति विनाऽऽयासं षडानन ।। २६ ।।
त्यक्तप्रायाणि तीर्थानि हरिणा कलिकालतः ।।
बदरीं समनुप्राप्य साक्षादेवावतिष्ठते ।। २७ ।।
कलिकालमनुप्राप्य मुक्तिर्येषामभीप्सिता ।।
द्रष्टव्या बदरी तैस्तु हित्वा तीर्थान्यशेषतः ।। २८ ।।
विना ज्ञानेन योगेन तीर्थाटनपरिश्रमैः ।।
एकेन जन्मना जंतुः कैवल्यं पदमश्नुते ।। २९ ।।
जन्मांतरसहस्रैस्तु येन चाराधितो हरिः ।।
स गच्छेद्बदरीं द्रष्टुं यत्र जंतुर्न शोचति ।। 2.3.5.३० ।।
बदरीबदरीत्युक्त्वा प्रसंगान्मनुजोत्तमः ।।
संसारतिमिराबाधे दीपमुज्वालयत्यसौ ।। ३१ ।।
यथा दीपावलोकेन तमोबाधा न जायते ।।
तथैव बदरीं दृष्ट्वा पुंसो मृत्युभयं कुतः ।।३२।।
दर्शनाद्यस्य पापानि रुदंत्यव्याहतानि च ।।
मुक्तिमार्गमुपालक्ष्य तं वंदे बदरीपतिम् ।। ।।३३।।
सशैलकानना भूमिर्दशधा दक्षिणीकृता ।।
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ।। ३४ ।।
अश्वमेधे तु यत्पुण्यं वाजपेयशतेन च ।।
हरेः प्रदक्षिणात्तद्वद्बदर्यां तत्पदेपदे ।। ३५ ।।
चतुर्मासे तु यत्पुण्यं ब्रह्मांडदानतस्तथा ।।
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ।। ३६ ।।
अतिकृच्छ्रैर्महाकृच्छ्रैश्छांदसैः सुकृतं भवेत् ।।
हरेः प्रदक्षिणं तद्वद्बदर्यां तत्पदेपदे ।। ३७ ।।
बदर्यां विष्णुनैवेद्यं सिक्थमात्रं षडानन ।।
अशनाच्छोधयेत्पापं तुषाग्निरिव कांचनम् ।। ३८ ।।
यदन्नं भगवानत्ति ऋषिभिर्न्नारदादिभिः ।।
तत्सत्त्वशुद्धये सर्वैर्भोक्तव्यमविचारितम् ।। ३९ ।।
अमरा अपि यन्नूनं व्याजेनेच्छन्ति सर्वतः ।।
भोक्तुं बदरिकां विष्णोर्नैवेद्यं यांति तत्पराः ।। 2.3.5.४० ।।
भोजनानंतरं विष्णोः प्रगच्छन्ति स्वमालयम् ।।
प्रह्लादप्रमुखा भक्ताः प्रविशंति हरेः पदम् ।। ४१ ।।
बाल्ययौवनवार्द्धक्ये यत्पापं ज्ञानतः कृतम् ।।
नैवेद्यभक्षणाद्विष्णोर्बदर्यां तद्विलीयते ।। ४२ ।।
प्राणांतं यस्य पापस्य प्रायश्चित्तं प्रकीर्तितम् ।।
विष्णोर्निवेदितं भुक्त्वा बदर्य्यां तन्निवर्त्तते ।।४६।।
तीर्थांतरेषु यत्नेन मुक्तिं गच्छति मानवः ।।
नैवेद्यभक्षणाद्विष्णोः सालोक्यं लभते नरः ।।४४।।
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।।
पादोदकं सनिर्माल्यं मस्तके यस्य सोऽच्युतः।।४५।।
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।।
नैवेद्यभक्षणाद्विष्णोर्बदर्यां यांति संक्षयम् ।। ४६ ।।
बदरीसदृशं क्षेत्रं नैवेद्यसदृशं वसु ।।
नारदीयसमं क्षेत्रं न भूतं न भविष्यति ।।४७।।
बदरी यत्नतो गम्या भोक्तव्यं तन्निवेदितम् ।।
द्रष्टव्यो भगवान्वह्नितीर्थे स्नानं सुदुर्लभम् ।। ४८ ।।
पृथिव्यां यानि तीर्थानि व्रतानि नियमास्तथा ।।
पादोदकं विशालायां पावनं पुरतो भवेत् ।। ४९ ।।
किं तस्य दानैस्तपसा तीर्थाटनपरिश्रमैः ।।
बदर्यां विष्णुपादोदबिंदुमात्रं लभेद्यदि ।। 2.3.5.५० ।।
प्रायश्चित्तानि जल्पंति तावदेव षडानन ।।
यावन्न लभ्यते विष्णोर्बदर्यां चरणोदकम् ।। ५१ ।।
अनायासेन येषां वा इच्छा मुक्तिपथे नृणाम् ।।
कर्त्तव्यं तैः प्रयत्नेन विष्णोर्नैवेद्यभक्षणम् ।। ५२ ।।
ये नराः प्रतिगृह्णंति पापाः संसारभागिनः ।।
यात्राकृतं फलं तेषां न कदाचित्प्रजायते ।। ।। ५३ ।।
नैवेद्यनिंदनाद्विष्णोर्निंद्यंते ते तमोगताः ।।
नैवेद्यभक्षणात्सत्त्वशुद्धिरेव न संशयः ।। ५४ ।।
नैवेद्यं स्वयमानीय ब्राह्मणान्भोजयंति ये ।।
तुलापुरुषदानेन किं फलं ते कृतार्थिनः ।। ५५ ।।
कुरुक्षेत्रे समासाद्य राहुग्रस्ते दिवाकरे ।।
महादानेन यत्पुण्यं बदर्य्यां ग्रासमात्रतः ।। ५६ ।।
बदरीक्षेत्रमासाद्य ग्रासमात्रं प्रयत्नतः ।।
उपायोऽयं महांस्तत्र बदर्यां हरितोषणे ।।
यतिभ्यो भोजनाद्विष्णोरपराध्यपि वल्लभः ।। ५७ ।।
न विष्णोः सदृशो देवो न विशाला समा पुरी ।।
न भिक्षुसदृशं पात्रमृषितीर्थसमं न हि ।। ५८ ।।
चातुर्मास्यं प्रकुर्वंति ये नराः पुण्यशालिनः।।
तेषां पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते ।। ५९ ।।
भिक्षुकाणां फलावाप्तिर्विशेषादिह कीर्त्यते ।।
वेदांतश्रवणात्पुण्यं दशधा यत्प्रकीर्तितम् ।। 2.3.5.६० ।।
बदरी दृष्टिमात्रेण भिक्षुकाणां तदिष्यते ।।
चातुर्मास्ये विशेषेण कैवल्यफलभागिनः ।। ६१ ।।
न्यासिनो बदरीस्थाने विनायासेन पुत्रक ।।
ये मूर्खा जाड्यमापन्ना दम्भकाषायवाससः ।।
बदरीदर्शनात्तेषां मुक्तिः करतले स्थिता ।। ६२ ।।
ज्ञानिनोऽज्ञानिनो वापि न्यासिनो नियतव्रता ।।
द्रष्टव्या बदरी तैस्तु फलानि समभीप्सुभिः ।। ६३ ।।
श्रुत्वाऽध्यायमिमं पुण्यं प्रसंगेनापि मानवः ।।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।। ६४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे पंचमोऽध्यायः ।। ५ ।।