स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४७
।। मुनय ऊचुः ।। ।।
भगवन्सर्वशास्त्रज्ञ श्रुतं परममद्भुतम् ।।
यात्रारूपं भगवतो माहात्म्यं पापनाशनम् ।। १ ।।
यथाहं पूजितो देवः कामिभिः सर्वकामदः ।।
भूत्युपासनया भूतिप्रदो ब्रूहि तथा हि नः ।।२।।
।।जैमिनिरुवाच।।
सर्वा विभूतयो विष्णोर्जगत्यस्मिंश्चराचराः।।
भूतिप्रदो विभूतिश्च स एकः परमेश्वरः।।३।।
यथायथोप चरति तथा वै जायते नरः।।
एतावदस्य महिमा परिमातुं न शक्यते।।४।।
यो यथा समुपास्ते तं तथा वै फलमाप्नुयात्।।
एकः पंथाश्चतुर्णां वै धर्मादीनां स दारवः ।। ५ ।।
धर्मस्य पथा गहनः संकीर्णो वहुशासनैः ।।
तत्त्वावधारणे नास्य क्षमः कोऽपि द्विजोत्तमाः ।। ६ ।।
अर्थकामौ हि तन्मूलावित्थं स्थूलगती सदा ।।
तेषां त्रयाणां भगवाननायासेन वृद्धिकृत् ।। ७ ।।
धर्मो हि भगवान्विष्णुर्धर्ममूलमिदं जगत् ।।
धर्मस्य जगतश्चापि प्रभुरेष जनार्दनः ।। ८ ।।
पुरुषार्थमये तस्मिन्भक्तिर्यस्य प्रतिष्ठिता ।।
स सर्वकामतृप्तात्मा न शोचति न कांक्षति ।। ९ ।।
त्रैलोक्यैश्वर्यदातासौ शक्ररूपो ह्युपासितः ।।
भावितो धातृरूपेण वंशवृद्धिकरो हरिः ।। 2.2.47.१० ।।
सनत्कुमाररूपेण दीर्घमायुः प्रयच्छति ।।
वृत्तिसंपत्प्रदो ह्येष पृथुरूपेण भावितः ।। ११ ।।
गङ्गादितीर्थफलदो वाचस्पतिरुपासितः ।।
अंतस्तमः प्रणुदति भास्वद्रूपेण भावितः ।। १२ ।।
सौभाग्यमतुलं दद्यादमृतांशुरुपासितः ।।
विद्याष्टादशतत्त्वज्ञो वाक्पतित्वेन भावयन् ।। १३ ।।
वाजिमेधादियज्ञानां फलदोऽयं सनातनः ।।
यज्ञेश्वरस्वरूपेण भावितोऽयं जगन्मयः ।। १४ ।।
ध्यातः कुबेररूपेण समृद्धिमतुलां ददेत् ।। १५ ।।
एवं दयांबुधिरसौ तस्मिन्नीलाचले वसन् ।।
दीनानाथानुग्रहाय दारुव्याजशरीरवान् ।। १६ ।।
प्रयात तत्र भो विप्रा वसध्वं सुसमाहिताः ।।
श्रीशपादाब्जयुगलं शरणं तत्प्रपद्यत ।। १७ ।।
ऐहिकामुष्मिकान्भोगान्वाञ्छध्वं यदि शाश्वतान् ।।
अन्ते मुक्तिं च कैवल्यां यथेच्छं तत्र प्राप्नुत ।। १८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।