स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ४२
।। जैमिनिरुवाच ।। ।।
मृगराशिं संक्रमति यदा भास्वान्द्विजोत्तमाः ।।
उत्तराशां जिगमिषुस्तदा स्यादुत्तरायणम् ।। १ ।।
तस्य संक्रमणार्द्धं च यावत्स्युर्विंशतिः कलाः ।।
महापुण्यतमः कालः पितृदेवद्विजप्रियः ।। २ ।।
तत्र स्नात्वा विधानेन र्तार्थराजजले नरः ।।
नारायणं समभ्यर्च्य कल्पवृक्षं प्रणम्य च ।। ३ ।।
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणाम्।।
मन्त्रराजेन संपूज्य देवं श्रीपुरुषोत्तमम् ।। ४ ।।
तथा बलं सुभद्रां च स्वमन्त्रेण प्रपूजयेत् ।।
दृष्ट्वोत्तरायणे देवं मुच्यते देहबन्धनात् ।। ५ ।।
विधानं तस्य वक्ष्याभि शृणुध्वं पावनं महत् ।।
संक्रांतेः पूर्वदिवसे नवां शालिं सुकुट्टिताम् ।। ६ ।।
प्रासादपूर्वदेशे च स्थापयित्वाधिवासयेत् ।।
नवेन वाससावेष्ट्य दूर्वासर्षपपुष्पकैः ।। ७ ।।
पूजयित्वा मन्त्रयेद्वै कृष्णस्त्वामभिरक्षतु ।।
तस्मिन्नेव निशायामे व्यतीते जगदीशितुः ।। ८ ।।
प्रत्यर्चां सन्निधौ नीत्वा भावयेदेकताधिये ।।
उपचारावशिष्टाभ्यां पूजयेद्वै समाहितः ।। ९ ।।
ततो निर्माल्यवसनमालामस्यां निधापयेत् ।।
महासमृद्ध्या तामर्चां त्रिर्देवान्भ्रामयेत्ततः ।। 2.2.42.१० ।।
आंदोलिकायामारोप्य प्रासादद्वारमानयेत् ।।
त्रिविक्रमं त्रिक्रमेण त्रैलोक्यक्रमणं विभुम् ।। ११ ।।
विडंबयंतं तां लीलां प्रासादं भ्रामयेच्च तम् ।।
त्रिरंते पुनरंके च सुसमृद्ध्या शनैःशनैः ।। १२ ।।
दीपिकाशतसंरुद्धतमसोवरणांतरे ।।
छत्रध्वजपताकाभिर्नृत्यवादित्रगीतकैः ।। १३ ।।
तद्दर्शनपरिक्षीणपातकानां महात्मनाम् ।।
न च चिह्नं शरीरेऽस्य नवांगे भ्रमणं ततः ।। १४ ।।
अनुयांति तदा ये तं महे यांतं त्रिविक्रमम् ।।
लभंते वाजिमेधस्य फलं ते वै पदे पदे ।। १५ ।।
प्रथमभ्रमणं दृष्ट्वा मुच्यते पञ्चपातकैः ।।
मलिनीकरणैर्मुच्येद्द्वितीयं भ्रमणं द्विजाः ।। १६ ।।
अपात्रीकरणैर्दृष्ट्वा तृतीयं भ्रमणं ध्रुवम् ।।
उपपातकपापैश्च चतुर्थं मुच्यते ततः ।। १७ ।।
पुनः प्रभाते देवेशं प्रलिंपेद्गन्धचन्दनैः ।।
वस्त्रालंकारमाल्यैश्च भूषयित्वा यथाविधि ।। १८ ।।
पूजयेदुपचारैस्तं यथाशक्ति समृद्धिमत् ।।
नीराजयित्वा देवेशं तंदुलानधिवासितान् । १९ ।।
स्थालीषु शातकुंभासु दधिखंडाज्यमिश्रितान् ।।
सनारिकेलशकलाच्छृंगवेर दलान्वितान् ।। 2.2.42.२० ।।
प्रासादं त्रिः परिभ्रम्य नयेद्देवसमीपतः ।।
पंक्तिशः स्थापयेदग्रे गन्धपुष्पाक्षतान्वितान् ।। २१ ।।
जीवनं सर्वभूतानां जनकस्त्वं जगत्प्रभो ।।
त्वन्मयाः शालयो ह्येते त्वयैव जनिताः प्रभो ।। २२ ।।
लोकानुग्रहणार्थाय गृहीतोचितविग्रह ।।
तव प्रीत्यै कृतानेतान्गृहाण परमेश्वर ।। २३ ।।
त्वयि तुष्टे जगत्सर्वमनेन प्रभविष्यति ।।
स्वाहाकारस्वधाकारवषट्कारा दिवौकसाम् ।। २४ ।।
आप्यायना भविष्यंति तैरेवाप्यायितं जगत् ।।
रक्ष सर्वं जगन्नाथ त्वन्मयं सचराचरम् ।। २५ ।।
इति संप्रार्थ्य देवेशं शालिस्तंबान्निवेदयेत् ।।
तन्मयान्भक्षभोज्यांश्च दधिकुंभान्सुगंधिनः ।। २६ ।।
कर्पूरखंडमरिचचूर्णयुक्तान्निवेदयेत् ।।
ब्राह्मणान्पूजयेद्भक्त्या देवदेवपुरःस्थितान् ।। २७ ।।
तेभ्यः प्रदद्याद्भक्त्या ताञ्छाल्यादीन्भगवद्धिया ।।
इमं महोत्सवं विप्राः पुरा कल्पे च कश्यपः ।। २८ ।।
स च सृष्टिं विनिर्माय भगवत्प्रीतयेऽकरोत् ।।
ये पश्यन्त्युत्सवं चैनं कश्यपेन विनिर्मितम् ।। २९ ।।
सर्वदा सर्वकामैस्ते पूर्णाः शोचंति न द्विजाः ।।
उषित्वा त्रिदशैः सार्द्धं कल्पांते मोक्षमाप्नुयुः ।। 2.2.42.३० ।।
महानसस्य संस्कारं वह्नेः संस्कारमेव च ।।
अत्रापि कुर्यान्मुनयो वैश्वदेवं दिनेदिने ।। ३१ ।।
आधानसंस्कृते वह्नौ भगवद्भुक्तये रमा ।।
प्रत्यहं पाकमाधत्ते दिव्यरूपा तिरोहिता ।। ३२ ।।
अस्मिन्महापुण्यतम उत्सवे परमात्मनः ।।
तुलापुरुषदानादि कोटिकोटिगुणं भवेत्।। ३३ ।।
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ।।
सर्वमक्षयतां याति ह्युत्सवे चोत्तरायणे ।। ३४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये मकरसंक्रमविधिवर्णनंनाम द्विचत्वारिंशोऽध्यायः।। ४२ ।।