स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३९
।। मुनय ऊचुः ।। ।।
मुने त्वत्तः श्रुतं सम्यङ्माहात्म्यं जगदीशितुः ।।
निर्माल्यप्रभृतीनां च यथावदनुपूर्वशः ।। १ ।।
श्रोतुमिच्छामहे ब्रह्मन्यात्रां तरफलानि वै ।।
शृण्वतां तत्त्वतो ब्रूहि यथोद्देशः कृतः पुरा ।। २ ।।
।। जैमिनिरुवाच ।।
सर्वथा वर्त्तते लोकहिताय पुरुषोत्तमः ।।
नानागुणविकासैश्च नानारूपविचेष्टितैः ।। ३ ।।
नानारूपविलासेन नानात्मा च जगन्मयः।।
अहंकारं विना कर्मफलं नो द्विजसत्तमाः।।४।।
अहंकारेण बध्यन्ते कारागारे भवाभिधे ।।
बुद्ध्यहंकारयुक्तस्तु यत्कर्मारभते नरः ।। ५ ।।
तस्य सद्गुणमाप्नोति फलं शुभमथापरम् ।।
बुद्धिस्तु त्रिविधा तेषां गुणभेदेन भाविता ।। ६ ।।
तत्र ये सात्त्विकाः संतः फलावाप्तिपराङ्मुखाः ।।
भगवत्प्रीतये कर्म कुर्वते ते मुमुक्षवः ।। ७ ।।
परस्य स्पर्द्धया कीर्त्यै फलमुद्दिश्य वा पुनः।।
बहुवित्तव्ययायासै राजसं कर्म तन्वते ।। ८ ।।
गतानुगतिका ये च दृष्टार्थैकपरायणाः ।।
प्रसंगात्फलमिच्छंतस्तामसं कर्म कुर्वते ।। ९ ।।
सात्त्विकानां जगन्नाथः सर्वदा सर्वभावनः ।।
ध्यातो दृष्टः स्मृतो वापि मुक्तिदाता न संशयः ।। 2.2.39.१० ।।
राजसास्तामसा ये वै मूढात्मानः फलैषिणः ।।
उत्सवादिकृतं कर्म मन्यंते फलदायि ते ।। ११ ।।
संभूय बहवो विप्रा आरभंतेऽल्पकं विधिम् ।।
बहुलायासदुःखं यत्कर्म तेषां फलप्रदम् ।। १२ ।।
तेषामुद्धरणार्थाय विश्वासाय दुरात्मनाम् ।।
यात्रा नानाविधा विप्रा वर्षे वर्षे प्रवर्तयेत् ।। १३ ।।
जन्मस्नानं महावेद्या उत्सवश्च प्रकीर्तितः ।।
महायात्राद्वयं पुंसां कीर्तनात्पापनाशनम् ।। १४ ।।
दर्शनं दक्षिणामूर्तेस्तथा च शयनोत्सवः ।।
सर्वपापहरश्चैषामुत्सवो दक्षिणायने ।। १५ ।।
अतः परं प्रवक्ष्यामि पार्श्वस्य परिवर्तनम् ।।
शयितस्य जगद्भर्तुः परिवर्तयितुर्युगम् ।।१६।।
नभस्य विमले पक्षे संप्राप्ते हरिवासरे ।।
विष्णोः स्वापगृहद्वारि शनैर्गत्वा प्रविश्य च ।।१७।।
नमस्कृत्वा जगन्नाथं पर्यंके शयितं मुदा ।।
अवच्छाद्य शनैर्गत्वा पूजयेदुपचारकैः ।। १८ ।।
प्रणम्य भक्त्या तत्पादौ गुह्योपनिषदैः स्तुवन् ।।
मन्त्रं चेमं पठन्देवं स्वापयेदुत्तरामुखम् ।। १९ ।।
देवदेव जगन्नाथ कल्पानां परिवर्तक ।।
परिवृत्तमिदं सर्वं येन स्थावरजंगमम् ।। 2.2.39.२० ।।
यदिच्छाचेष्टितैरेव जाग्रत्स्वप्नसुषुप्तिभिः ।।
जगद्धिताय सुप्तोऽसि पार्श्वेन परिवर्त्तय ।। २१ ।।
परिवर्त्तनकालोऽयं जगतः पालनाय ते ।।
तवाज्ञयाऽयं शक्रोऽपि ध्वजे तिष्ठन्समुत्सुकः ।। २२ ।।
द्रष्टुं त्वत्पादकमलं विमुचञ्जलदैर्जलम् ।।
महीतलं प्लावयति प्रजापालनहेतुकम् ।। २३ ।।
इति संप्रार्थ्य देवेशं वीप्सया तोषयेत्ततः ।।
व्यजनैश्चामरैश्चैव वीजयेदनुकल्पकृत् ।। २४ ।।
सुगन्धचन्दनैरस्य सर्वांगं परिलेपयेत् ।।
स्वादूनिक्षुविकारांश्च विकृतैः पायसैस्तथा ।। २५ ।।
यावकानि च हृद्यानि फलानि विविधानि वै ।।
स्वादूपदंशानन्यांश्च घृतपूपान्सपायसान् ।। २६ ।।
पक्वतांबूल पत्राणि सोपस्काराणि च द्विजाः ।।
शय्यागृहद्वारि विभोः शनैर्भक्त्या निवेदयेत् ।। २७ ।।
तस्मिन्दिने हरे रूपं भवेद्यदि महाफलम् ।।
देवमुद्दिश्य यः कुर्यात्सर्वमक्षयतां व्रजेत् ।। २८ ।।
स्नानं दानं जपो होमस्तपो जागरणं तथा ।।
उपवासश्च नियमो व्रतांते द्विजतर्पणम् ।। २९ ।।
सांगं व्रतमिदं कृत्वा विष्णुलोकमवाप्नुयात् ।।
यं यं कामयते चित्ते तं तमाप्नोत्यसंशयम् ।। 2.2.39.३० ।।
अयं वः कथितो विप्राः पार्श्वपर्यायणोत्सवः ।।
अनायासेन लोकानामक्षयः सुखदायकः ।। ३१ ।।
अतः परं वै शृणुत उत्थापनमहोत्सवम् ।।
पूजयित्वा जगन्नाथं कौमुद्याख्ये महोत्सवे ।। ३२ ।।
अक्षक्रीडादिभिः पुष्पवस्त्रमाल्यानुलेपनैः ।।
ततोस्मिन्पौर्णमास्यायां रात्रावुत्सवसंयुतम् ।। ३३ ।।
नारिकेलादिभिर्द्रव्यैः पिष्टकैरर्चयेद्धरिम् ।।
ततः प्रभाते संकल्प्य कार्त्तिके व्रतमुत्तमम् ।। ३४ ।।
व्रतेन तेनैव नयेद्यावदेकादशी सिता ।।
तस्यामुत्थापयेद्देवं सुसुप्तं जगदीश्वरम् ।। ३५ ।।
पूर्ववत्पूजयित्वा तु निशामध्ये जगद्गुरुम् ।।
उत्थापयेदिमं मंत्रमाह्वयञ्छनकैर्मुदा ।। ३६ ।।
उत्तिष्ठ देवदेवेश तेजोराशे जगत्पते ।।
वीक्षस्व सकलं देव प्रसुप्तं तव मायया ।। ३७ ।।
प्रफुल्लपुंडरीकश्रीहारिणा नयनेन वै ।।
त्वया दृष्टं जगदिदं पावित्र्यं परमेष्यति ।। ३८ ।।
श्रौतस्मार्त्ताः क्रियाः सर्वाः प्रवर्तंते ततो ध्रुवम् ।।
इत्युत्थाप्य जगन्नाथं वेणुवीणादिकस्वनैः ।। ३९ ।।
बंदिमागधसूतानां स्तुतिभिर्मंगलस्वनैः ।।
शंखकाहालमुरजवादनैर्नृत्यगीतकैः ।। 2.2.39.४० ।।
जयशब्दैस्तथा स्तोत्रैर्नयंत्तं नृत्यमण्डपम् ।।
सुगन्धतैलेनाभ्यज्य स्नापयेत्पुरुषोत्तमम् ।। ४१ ।।
पञ्चामृतैर्नारिकेलरसैः फलरसैस्तथा ।।
सुगन्धामलकेनाथ यवकल्केन लेपयेत् ।। ४२ ।।
घर्षयेत्तुलसीचूर्णैर्लेपयेद्गन्धचन्दनैः ।।
पुष्पाधिवासितैस्तोयैस्तथा कर्पूरवासितैः ।। ४३ ।।
कुशोदकै रत्नतोयैस्तथा गंधोदकैस्तथा ।।
स्नाप्यमानं तथा देवं ये पश्यंति मुदान्विताः ।। ४४ ।।
क्षालयन्ति दृढं पंकं बहुजन्मोपपादितम् ।।
ततः श्रीजगदीशस्य क्रोडे संवासयेद्द्विजाः ।।४५।।
आपादान्मूर्धपर्यंतं सर्वागं परिलेपयेत् ।।
कुंकुमागुरुकस्तूरीकर्पूरैश्चंदनान्वितैः ।। ४६ ।।
पाटलोदकसंपिष्टैः कालागुरुरसाप्लुतैः ।।
दत्त्वा च मालतीमाला चन्द्रचूर्णेन संयुताम् ।। ४७ ।।
महोपचारैः संपूज्य विष्णुं नीराजयेत्ततः ।।
कृतांजलिपुटो भूत्वा प्रार्थयेत्परया मुदा ।। ४८ ।।
चराचरमिदं सर्वं त्वदेकशरणं विभो ।।
अनुग्रहामृतालोकैः पावयस्व जगद्गुरो ।। ।। ४९ ।।
नृत्यगीतैः प्रेक्षणकै रात्रिशेषं समापयेत् ।।
शयनादुत्थितं देवं यः पश्यति गदाधरम् ।। 2.2.39.५० ।।
निद्रां मोहमयीं भित्त्वा ज्योतिः शांतं व्रजंति ते ।।
सर्वान्कामानवाप्नोति यान्यान्कामयते हृदि ।। ५१ ।।
अश्वमेधसहस्रस्य फलं साग्रं लभेत वै ।।
कपिलालंकृताधेनुकोटिदानफलं तथा ।। ५२ ।।
पुण्यं चाप्नोति परमं सर्वतीर्थाभिषेकजम् ।।
कार्त्तिक्यां पारणं कुर्याच्चातुर्मास्यव्रतस्य वै ।। ५३ ।।
दामोदरस्य प्रतिमां स्वर्णनिष्केण निर्मिताम् ।।
यथाशक्तिकृतां वापि शालग्रामशिलास्थिताम् ।।५४।।
चक्रमूर्तिं भगवतः पूजयेत्प्रयतात्मवान् ।।
रचयेन्मण्डपं शुभ्रमेकदेशं गृहस्य वा ।। ५५ ।।
अलंकुर्यात्पुष्पदामचामरैः सवितानकैः ।।
भूमिभित्तीः सुधालेपैः स्तंभैश्चित्रदुकूलकैः ।। ५६ ।।
कालागुरूणां धूपैश्च धूपयेत्तद्गृहं शुभम् ।।
तन्मध्ये मण्डलं कुर्यात्स्वस्तिकं वर्णकैः शुभैः ।। ५७ ।।
तदन्तः स्थापयेत्खट्वां करिदन्तमयीं शुभाम् ।।
पट्टतूलीं तदुपरि वासयेत्पुरुषोत्तमम् ।।५८।।
दामोदराकृतिं शंखपद्मपाणिं चतुर्भुजम् ।।
लक्ष्मीमालिंग्य पद्मस्थां क्रोडस्थां वामपाणिना ।।५९।।
भक्तेभ्यो दातुमुद्यंतं वरं दक्षिणपाणिना ।।
सुनासं सुललाटं च सुनेत्रं सुश्रुतिद्वयम् ।। 2.2.39.६० ।।
विशालवक्षसं देवं सर्वलावण्यसंयुतम् ।।
सर्वालंकाररुचिरं दिव्यपीतनिचोलिनम् ।। ६१ ।।
लक्ष्मीं पद्मकरां वापि तांबूलं ददतीं तथा ।।
पञ्चामृतैः स्नापयित्वा वासोयुग्मेन वेष्टयेत् ।। ६२ ।।
पूजयेदुपचारैस्तं यथाविभवविस्तरैः ।।
ताम्रदीपान्मृन्मयान्वा ज्वालयेद्गव्यसर्पिषा ।।६३।।
तैलेन वा शतं दीपवृक्षांश्चैव प्रदापयेत् ।।
ब्रह्माणं नारदादींश्च देवर्षींस्तत्र पूजयेत् ।।६४।।
दामोदरस्वरूपान्वै ब्राह्मणानपि पूजयेत् ।।
वस्त्रयुग्मैर्माल्यगन्धैर्भक्ष्यभोज्यफलैस्तथा ।।६५।।
तीर्थराजाभिषेकांगं पूजाकर्म यथोचितम् ।।
दामोदरस्य तेनैव विधिनेहार्चनं भवेत् ।। ।। ६६ ।।
तद्विष्णोरिति मन्त्रेण ब्रह्मादीनपि पूजयेत् ।।
वेणुवीणादिकैर्गीतैः पुराणपठनेन च ।। ६७ ।।
महोत्सवं प्रकुर्वीत ततो जागरणेन च ।।
ततः प्रभाते विमलेऽग्निकार्यं च समाचरेत् ।। ६८ ।।
अष्टाक्षरेण मंत्रेण समिदाज्यचरूनपि ।।
लाजान्मधुसमिन्मिश्राञ्जुहुयाच्च ततः श्रिये ।।६९।।
सूक्तेनाष्टोत्तरशतं ब्रह्मादीनां तदन्ततः ।।
अष्टाहुतीर्वै जुहुयात्क्रमादेकैकशस्तिलैः ।। 2.2.39.७० ।।
ब्रह्माणं नारदं दक्षं वसिष्ठं गौतमं तथा ।।
सनत्कुमारमत्रिं च भरद्वाजं च कश्यपम् ।।७१।।
दुर्वाससमगस्त्यं च महादेवं ततः परम् ।।
विख्याता वैष्णवा ह्येते विष्णुरूपा न संशयः ।।७२।।
एतान्संपूजयन्विप्रान्विष्णुः प्रीणाति तत्क्षणात् ।।
होमांते प्राशनं कृत्वा दद्यादाचार्यदक्षिणाम् ।।७३।।
सुवर्णभूषितां धेनुं वस्त्रं धान्यं च भक्तितः ।।
प्रीतये वासुदेवस्य भोजयेद्द्विजपुंगवान्।। ७४ ।।
सर्वोपचारसहितं दद्याद्दामोदरं ततः ।। ७६ ।।
ॐ दामोदर जगन्नाथ त्वन्मयं विश्वमेव हि ।।
त्वदाधारमिदं सर्वं त्वं धर्मः सर्वभावनः।।।
त्वत्प्रसादाद्व्रतं चीर्णं सुसंपूर्णं तदस्तु मे ।।७६।।
दामोदरः प्रदाता च गृहीता च वृषध्वजः।।
प्रदीयते जगन्नाथः प्रीयतां मे जगद्गुरुः।।७७।।
इति मंत्रं जपन्दद्यादाचार्याय सुरोत्तमम्।।
समाप्य पूजयेद्भक्त्या स्तूयात्तं च प्रसादयेत् ।। ७८ ।।
आचार्ये परितुष्टे तु तुष्टो भवति माधवः ।।
तत्तद्द्रव्याणि च ततो दद्याद्विप्रेभ्य एव हि ।। ७९ ।।
ततः स्वयं वै भुंजीत इष्टैः शिष्टैः स्वबंधुभिः ।।
चातुर्मास्यव्रतं चेदं प्रतिष्ठाप्य विधानतः ।। 2.2.39.८० ।।
यथोक्तफलसंपन्नो विष्णुलोकमवाप्नुयात् ।।
श्रुतिस्मृतिपुराणेषु नातः परतरं व्रतम् ।। ८१ ।।
येनानुष्ठितमात्रेण कृतकृत्यो भवेन्नरः ।।
विष्णोः प्रीतिकरं यादृङ्न तथान्यद्व्रतं द्विजाः ।। ८२ ।।
तिलपात्रसहस्रैस्तु गवां चैवायुतायुतैः ।।
कृष्णाजिनशतेनापि कन्यानामयुतेन च ।। ८३ ।।
दत्त्वा यत्फलमाप्नोति कृत्वैतद्व्रतमुत्तमम् ।।
सार्द्धत्रिकोटितीर्थानामभिषेकफलं तथा ।।८४।।
प्राप्नोति तत्फलं विप्रा यं यं कामयते नरः ।। ८५ ।।
इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये चातुर्मास्यव्रतविधिर्नामैकोनचत्वारिंशोऽध्यायः ।।३९।।