स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३८

विकिस्रोतः तः
Jump to navigation Jump to search

।। जैमिनिरुवाच ।। ।।
इति दत्त्वा वरं तस्मै श्वेतराजाय वै पुरा ।।
जगामांतर्हितो विप्राः प्रासादांतः स्थितो हरिः।।१।।
समस्तजगतां या श्रीः सृष्टिस्थितिविनाशकृत् ।।
वैष्णवीशक्तिरतुला परिवेषणकारिणी ।। २ ।।
सुधोपमं सुपक्वान्नं भुंक्ते नारायणः प्रभुः ।।
तदुच्छिष्टोपभोगो हि सर्वाघक्षयकारकः ।। ३ ।।
न तादृशसमं पुण्यं वस्त्वस्ति पृथिवीतले ।।
पापसंस्कारकर्तॄणां संपर्कात्तु न दुष्यति ।। ४ ।।
पद्मायाः सन्निधानेन सर्वे ते शुचयः स्मृताः ।।
विष्ण्वालयगतं तद्धि निर्माल्यं पतितादयः ।। ५ ।।
स्पृशंति चेन्न दुष्टं तद्यथा विष्णुस्तथैव तत् ।।
व्रतस्था विधवाश्चैव सर्वे वर्णाश्रमास्तथा ।। ६ ।।
तत्प्राशनेन पूयन्ते दीक्षिताश्चाग्निहोत्रिणः ।।
दरिद्रः कृपणो वापि गृहस्थः प्रभुरेव वा ।।७।।
स्वदेश्याः परदेश्या वा सर्वे तत्र समागताः ।।
नाभिमानं प्रकुर्वीरन्विष्णोर्निर्माल्यभक्षणे ।। ८ ।।
भक्त्या लोभात्कौतुकाद्वा क्षुधासंशमनेन वा ।।
आकंठभक्षितं तद्धि पुनाति सकलांहसः ।। ९ ।।
सर्वरोगोपशमनं पुत्रपौत्रप्रवर्द्धनम् ।।
दारिद्र्यहरणं श्रेष्ठं विद्यायुःश्रीप्रदं शुभम् ।। 2.2.38.१० ।।
पक्षपातो महांस्तत्र विष्णोरमिततेजसः ।।
निन्दन्ति ये तदमृतं मूढाः पंडितमानिनः ।। ११ ।।
स्वयं दंडधरस्तेषु सहते नापराधिनः ।।
येषामत्र स दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः ।। १२ ।।
कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे
तं न विक्रयः क्रयो वापि प्रशस्तस्तस्य भो द्विजाः ।। १३ ।।
निर्माल्यं जगदीशस्य नाशित्वाश्नामि किञ्चन ।।
इति सत्यप्रतिज्ञो यः प्रत्यहं तच्च भक्षयेत् ।। १४ ।।
सर्वपापविनिर्मुक्तः शुद्धांतःकरणो नरः ।।
स शुद्धं वैष्णव स्थानं क्रमाद्याति न संशयः ।। १५ ।।
चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः ।।
यथातथोपयुक्तं तत्सर्वं पापापनोदनम् ।। १६ ।।
कुक्कुरस्य मुखाद्भ्रष्टं तदन्नं पतितं यदि ।।
ब्राह्मणेनापि भोक्तव्यमितरेषां तु का कथा ।। १७ ।।
उपोष्य तिष्ठता वापि नोपवासं च कुर्वता ।।
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ।।
प्राप्तमात्रेण भोक्तव्यं नात्र कार्या विचारणा ।। १८ ।।
नैवेद्यान्नं जगद्भर्त्तुर्गांगं वारि समं द्वयम् ।।
दृष्टेः स्वर्गादि संप्राप्तिर्भक्षणाच्चाघनाशनम् ।। १९ ।।
जगद्धात्र्या हि यत्पक्वं वैष्णवेऽग्नौ सुसंस्कृते ।।
भुक्तेऽन्वहं चक्रपाणिर्युगमन्वंतरादिषु ।। 2.2.38.२० ।।
सप्तद्वीप धरामध्ये सान्निध्यं नेदृशं हरेः ।।
यादृशं नीलगोत्रेऽस्मिन्व्याजमानुषचेष्टितम् ।। २१ ।।
दारुरूपं परं ब्रह्म सर्वचाक्षुषगोचरम् ।।
प्रकाशते भो मुनयो न दृष्टं न श्रुतं क्वचित् ।। २२ ।।
तस्मै प्रवृत्तिरूपाय ब्रह्मणे परमात्मने ।।
प्रवृत्तिरूपा शक्तिः श्रीः प्रवर्तयति यद्धविः ।। २३ ।।
तदश्नाति जगन्नाथस्तच्छेषं दुरितापहम् ।।
किमत्र चित्रं भो विप्रा यदुक्तं मुक्तिकारणम् ।। २४ ।।
नाल्पपुण्यवतां तत्र विश्वासश्च प्रजायते ।।
वेदाचारप्रधानेषु युगे ह्येतत्प्रकीर्तितम् ।। २५ ।।
महिमानं न वेदास्य विशेषाच्छ्रूयतां कलौ ।।
घोरे कलियुगे तस्मिंस्त्रिपादो धर्मविप्लवः ।। २६ ।।
धर्मः स्यादेकपादस्तु क्वचित्तस्य भयाच्चरेत् ।।
सर्वेनृतप्रधाना हि दांभिकाः शब्दवृत्तयः ।। २७ ।।
प्रायश्च धर्मविमुखा जिह्वोपस्थपरायणाः ।।
न ध्यायंति तपस्यन्ति व्रतयंति कदाचन ।। २८ ।।
अधर्मबहुलाः सर्वे हिंसका लोलुपाः परम् ।।
परेषां परिवादेन तुष्यन्ति स्वकृतं विना ।। २९ ।।
प्रसंगात्कौतुकाद्वापि निघ्नंति परकर्म वै ।।
क्षुद्रकार्याशयात्स्वस्य परकार्यप्रबाधकाः ।। 2.2.38.३० ।।
धर्मलब्धां स्त्रियं रम्यामवज्ञाय स्ववेश्मनि ।।
परयोषिति निंद्यायां प्रसक्ताः पशुचेष्टिताः ।। ३१ ।।
अग्निहोत्रादिकं वापि व्रतं नान्यत्क्वचित्क्वचित् ।।
जीविका तद्द्विजातीनां येषां वा पारलौकिकम्।।३२।।
अव्रताधीतवेदेन अन्यायाप्तधनेन च ।।
वित्तशाठ्येन च कृतं न तथा फलदायि तत् ।। ३३ ।।
प्रायः कलियुगे भूपाः प्रजावनपराङ्मुखाः ।।
करादानपरा नित्यं पापिष्ठाश्चौर्यवृत्तयः ।। ३४ ।।
वर्णसंकरिणः सर्वे शूद्रप्रायाः कलौ युगे ।।
हर्तारः पार्थिवा एव शूद्राश्च नृपसेवकाः ।। ३५ ।।
श्रौतस्मार्तादिकं कर्म न तथा सदनुष्ठितम् ।।
युगे चतुर्थे भो विप्राः परलोकाय कल्पिते ।। ३६ ।।
दानधर्मः परो ह्येष नान्यो धर्मः प्रशस्यते ।।
कर्मणा मनसा वाचा हितमिच्छेद्द्विजन्मनाम् ।। ३७ ।।
इति होवाच भगवान्ब्राह्मणो मामकी तनुः ।।
ब्राह्मणा यस्य संतुष्टाः सन्तुष्टस्तस्य चाप्यहम् ।। ३८ ।।
उभयत्र समो भूयाद्ब्राह्मणे च जनार्दने ।।
यद्वदंति द्विजा वाक्यं तत्स्वयं भगवान्वदेत् ।। ३९ ।।
यथातथा वर्तमानो वर्णानां ब्राह्मणो गुरुः ।।
भगवानपि देवेशः स साक्षाद्ब्राह्मणप्रियः ।। 2.2.38.४० ।।
सदावतारं कुरुते ब्राह्मणार्थं जनार्दनः ।।
तत्पालनार्थं दुष्टान्वै निगृह्णाति युगे युगे ।। ४१ ।।
ससर्ज ब्राह्मणानग्रे सृष्ट्यादौ स चतुर्मुखः ।।
सर्वे वर्णाः पृथक्पश्चात्तेषां वंशेषु जज्ञिरे ।। ४२ ।।
तस्मात्कलियुगे तस्मिन्ब्राह्मणो विष्णुरेव च ।।
उभौ गतिश्च सर्वेषां ब्राह्मणानां हरिर्गतिः ।। ४३ ।।
हरिरेवात्र सर्वेषां गतिः प्राप्ते कलौ युगे ।।
शालग्रामादिके क्षेत्रे स्मर्यते कीर्त्यतेऽपि च ।। ।। ४४ ।।
तस्मिन्नीलाचले पुण्ये क्षेत्रे क्षेत्रज्ञवर्ष्मणि ।।
जीवभूतः स सर्वेषां दारुव्याजशरीरभृत् ।। ४५ ।।
कलिकल्मषनाशाय प्रायो दुष्कृतकर्मणाम् ।।
दर्शनस्तवनोच्छिष्टभोजनैर्मुक्तिदायकः ।। ४६ ।।
उच्छिष्टेन सुरेशस्य व्याप्तं यस्य कलेवरम् ।।
तदाहारस्तदात्मा हि लिप्यते न स पातकैः ।। ४७ ।।
निवेदनीयमन्यासु मूर्तिष्वीशस्य वर्तते ।।
पावनं तदपि प्रोक्तमुच्छिष्टं तु विमोचकम् ।। ४८ ।।
भुंक्ते त्वत्रैव भगवान्पश्यत्यन्यत्र चक्षुषा ।।
पुरायं प्रार्थितो देवो योगिभिः परिवेष्टितैः ।। ४९ ।।
निर्माल्योच्छिष्टभोगेन तव मायां जयेमहि ।।
अत्यंतस्तिमिताक्षाणामनायासेन मुक्तिदः ।। 2.2.38.५० ।।
शयनासनभोगाद्यै रमते च श्रिया सह ।।
अत्र चेष्टा भगवतो वेदार्थ इति धार्यताम् ।। ५१ ।।
समतिक्रांतवेदो हि न कदाचित्प्रवर्तते ।।
वेदरक्षार्थमेवास्य संभवो हि युगे युगे ।। ५२ ।।
प्रमाणभूतो भगवान्विरुद्धं कथमाचरेत् ।।
तस्मिन्विरुद्धं चरति जगदेव तथा भवेत् ।। ५३ ।।
आचारेण हि वेदार्थो नियतो धामतां गतः ।।
मध्यदेशभवः पूर्वमत्रागच्छद्द्विजोत्तमः ।। ५४ ।।
शिष्टाचारैः सुविमलः शास्त्रार्थपरिनिष्ठितः ।।
सदा शांतः सदा दांतः कायवाङ्मनसैर्गृही ।। ५५ ।।
स तीर्थविधिना देवं समभ्यर्च्य च साग्निकः ।।
त्रिरात्रमत्रोषितवान्विष्ण्वर्चनपरः शुचिः ।। ।। ५६ ।।
यज्ञशेषं गृहस्थानां भोक्तव्यमिति शास्त्रतः ।।
देवोच्छिष्टं न जग्राह अन्यपाकाभिशंकया ।। ५७ ।।
दैवतैरत्र संस्कार्यो देवयोग्यः कथं भवेत् ।।
अयोग्यत्वाच्च नैवेद्यमग्राह्यं च भवेद्ध्रुवम् ।।५८।।
अगृहीते च नैवेद्ये श्रोत्रियेण तदा द्विजाः ।।
सर्वे च तस्यानुचरा नाभुंजंत निवेदितम् ।। ।। ५९ ।।
ततः स व्याधिसंमग्नो विह्वलीभूतविग्रहः ।।
सकुटुंबोऽभवन्मूको भगवद्द्रोहसंयुतः ।। 2.2.38.६० ।।
मनसा चिन्तयत्येवं निर्निमित्तं कथं नु मे ।।
कुटुम्बसहितस्याभूत्पीडा सर्वांगभंजिनी ।। ६१ ।।
एवं चिन्तयमानस्य त्रिरात्रांतेऽभवन्मतिः ।।
नेदृशी व्याधिपीडा च सर्वेषामेकदा भवेत् ।। ।। ६२ ।।
को वा द्रोहः कृतोऽस्माभिरेतस्मिन्पुरुषोत्तमे ।।
न बुद्धिपूर्वकः किं स्यात्ततो मे व्याधिकारणम् ।। ६३ ।।
मुहुरित्थं चिन्तयित्वा दध्यौ नारायणं प्रभुम् ।।
ध्यानावसाने तुष्टाव शास्त्रतत्त्वार्थदर्शकः ।। ६४ ।।
।। शांडिल्य उवाच ।। ।।
चतुर्दशापि या विद्या धर्मनिर्णयहेतवः ।।
ताः सर्वास्तव वाक्यानि मुखपद्मविनिर्गताः ।। ६५ ।।
ताभिरेवाचरेद्धर्ममिति शास्त्रार्थनिश्चयः ।।
तस्य धर्मस्य रक्षार्थमवतारो युगे युगे ।। ६६ ।।
तमुल्लंघ्य वर्त्तमानो भवद्द्रोहकरो ध्रुवम् ।।
अहं ते देवदेवेश कर्मणा मनसा गिरा ।। ६७ ।।
धर्मशास्त्रमतिक्रम्य न वर्त्तेऽप्यर्थकामयोः ।।
अनेक जन्मसाहस्रैः संचितं पापसंचयम् ।। ६८ ।।
दग्धुमत्रागतो देव त्वद्दर्शनदवाग्निना ।।
कोऽपराधः कृतो देव त्वच्छास्त्रपथि वर्तिना ।।
सर्वांगं वाधते यस्मादुग्रो व्याधिरहेतुकः ।। ६९ ।।
ज्ञानतोऽज्ञानतो वापि त्वत्पादसरसीरुहे ।।
कृतोऽपराधो यो देव तं क्षमस्व कृपांबुधे ।।
भूमौ स्खलितपादानां भूमिरेवावलंबनम् ।। 2.2.38.७० ।।
त्वयि जातापराधानां त्वमेव शरणं प्रभो ।।
तवापराधजं पापं त्वमेव च क्षमस्व मे ।। ७१ ।।
वह्निसंतापतो नश्येद्वह्निसंतापजो व्रण ।।
तदिमां दुर्दशां देव प्रारब्धां पापबीजजाम् ।। ७२ ।।
लीलापांगेन शमय अपवर्गैकहेतुना ।।
मामुद्धर जगन्नाथ पतितं शोकसागरे ।। ७३ ।।
त्वद्दर्शनपथं यातः किं नु शोच्यो भवेन्नरः ।।
निसर्गकरुणांभोधे यस्त्वद्दृष्टिपथं गतः ।। ७४ ।।
सदानन्दाब्धिसंमग्नो न शोचति न कांक्षति ।।
नाल्पभाग्यो ह्यहं देव त्वामद्राक्षं स्वचक्षुषा ।। ७५ ।।
अपवर्गांतरायो मे ध्रुवमेषा विभीषिका ।।
तत्प्रसीद जगन्नाथ सेवकं द्रोहिणं सदा ।। ७६ ।।
सेव्यसेवकसंबंधादपराधं क्षमस्व मे ।।
इति स्तवांते तस्याशु देहपीडागमत्तदा ।। ७७ ।।
ददर्श सोथ गोविन्दं नृसिंहं भक्तवत्सलम् ।।
दिव्यसिंहासनारूढं दिव्यालंकारभूषितम् ।। ७८ ।।
आददानं श्रिया दत्तं परमान्नं करांबुजे ।।
ग्रासावशेषं पात्रेषु क्षिपंतं च मुहुर्मुहुः ।। ७९।।
यावद्दत्तं वस्तुजातं तावदश्नंतमत्वरम् ।।
विलाससस्मितापांगं हस्ते लक्ष्म्यापवर्जितम् ।। 2.2.38.८० ।।
तं दृष्ट्वा विस्मयाविष्टः शांडिल्यः स द्विजोत्तमः ।।
सस्मारात्मकृतं द्रोहं नैवेद्याग्रहणे स्थितम् ।। ८१ ।।
क्वाहं प्रादेशिकः प्राज्ञः सर्वज्ञाननिधिर्भवान् ।।
क्व त्वं महदहंकारभूततत्त्व विसर्जकः ।। ८२ ।।
त्वन्मायामूढमनसो जानीयुः कथमीश ते ।।
निरंकुशामनिर्वाच्यामिच्छां सृष्टिलयात्मिकाम् ।। ८३ ।।
इति स्तुवंतं नृहरिस्तेनैवोच्छिष्टपाणिना ।।
सिषेच ग्रासशिष्टांश्च सर्वांगे द्विजसत्तमम् ।। ८४ ।।
तैः सिक्तैर्ब्राह्मणः सद्यः सुधासेकोपमैर्मुदा ।।
बभौ दिव्यवपुः श्रीमांञ्जीवन्मुक्तो यथा मुनिः ।। ८५ ।।
महिमानं हि भक्तेस्तु भक्ता एव विजानते ।।
महतीं सूतिपीडां तु वन्ध्या नानुभवेत्क्वचित्।। ८६ ।।
इत्युदीर्य स्वयं गात्रादुच्छिष्टं परमात्मनः ।।
भुक्त्वा कृतार्थमात्मानं मेने श्रोत्रियपुंगवः ।। ८७ ।।
साधारणं धर्मशास्त्रं क्षेत्रेऽस्मिन्न विचार्यते ।।
अयं तु परमो धर्मो यो देवेन प्रकीर्तितः ।। ८८ ।।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ।।
इत्थं संचितयन्विप्रः कुटुम्बार्थेऽवशेषितम् ।। ८९ ।।
आजहार स्वयं मुष्ट्या ध्यानभङ्गमवाप च ।।
प्रबुद्धश्चिंतयामास स्वप्नं तं विस्मिताशयः ।। 2.2.38.९० ।।
अयमेव मम द्रोहो ह्यवज्ञासिषमीश्वरम् ।।
नैवेद्याशन माहात्म्यमजानन्परमाद्भुतम् ।। ९१ ।।
अष्टादश चतुर्दश ब्रह्मांडं यत्पदांबुजम् ।।
धर्मद्रवेण प्रक्षाल्य अपुनात्स्वं तदंबुना ।। ९२ ।।
यमर्चयंति शक्राद्या दिव्यभोगैरनुत्तमैः ।।
स मानुष्यकृतं भुंक्ते क्षेत्रेस्मिन्महदद्भुतम् ।। ९३ ।।
इत्याश्चर्यपरस्तेन स्वप्नलब्धेन वै द्विजाः ।।
नैवेद्येन कुटुम्बं स्वं मार्जयामास सादरम् ।। ९४ ।।
ततः सर्वे नीरुजास्ते सुवाक्याहृष्टमानसाः ।।
पुनर्जन्म मन्यमानाः शशंसुः क्षेत्रमुत्तमम् ।। ९५ ।।
नास्त्यस्य सदृशं क्षेत्रं सप्तद्वीपावनीतले ।।
यत्र स्वोच्छिष्टदानेन पापान्मोचयते नरान् ।। ९६ ।।
पुरुषोत्तममाहात्म्यं क्षेत्रं परमदुर्लभम् ।।
यतः स्वर्गश्च भोगश्च मुक्तिश्चैव करे स्थिता ।।९७ ।।
आर्तानां भवकांतारे भाग्यादत्र समीयुषाम् ।।
नानाभोगोपतृप्तानां मुक्तिमार्गः सुखं भवेत् ।। ९८ ।।
इत्थं ते हर्षमापन्नाः प्रलपंतः परस्परम् ।।
यथेष्टं भोजयामासुरन्योन्यं च निवेदितम् ।।९९।।
ततस्ते निर्मला विप्रास्तरुणादित्यवर्चसः।।
देवा इव बभुः सर्वे निष्पापा निर्गतज्वराः ।।2.2.38.१००।।
नैवेद्याशनमाहात्म्यं कथितं वो द्विजोत्तमाः ।।
श्रुत्वापि महतः पापान्मुच्यते पापकृत्तमः।।१।।
निर्माल्यग्रहणस्यास्य फलं वक्तुं न शक्नुमः।।
साक्षाद्ब्रह्मस्वरूपेण ध्रियते वपुषा हि तत् ।। २ ।।
पुष्पचंदनमाल्यादि यदंगैरुपधार्यते।।
अपनीतं यथाकाले निर्माल्यं तत्प्रकीर्तितम् ।।३।।
धारणं शिरसा तस्य तेनांगे चापि मार्जनम् ।।
सार्द्धानां कोटितीर्थानामभिषेकफलप्रदम् ।।
भक्षणं गुरुतल्पादि पातकौघविनाशनम् ।। ४ ।।
लेप्या मूर्त्तिरियं विष्णोरन्येभ्यो लेप उत्तमः ।।
श्रीखंडागुरुकर्पूरकस्तूरीकुंकुमादिभिः ।।५ ।।
प्रपिष्टलेपस्नेहेन चंदनागुरुदारुणा ।।
शरीरे वासुदेवस्य इंद्रद्युम्नेन कारितः ।। ६ ।।
प्रत्यहं भो द्विजश्रेष्ठा वर्षांते चापनीयते ।।
लेप्यानां लेपनिर्मोके दर्शनं न प्रशस्यते ।। ७ ।।
अंतरा चेत्पतेल्लेपः पिष्टं लिंपेत्पुनश्च तम् ।।
नान्यलेपः प्रशस्यो हि स विष्णोरंगसंमतः ।। ८ ।।
चंदनार्द्रशरीरं च दृष्ट्वा विष्णुं पुरा किल ।।
सौगंध्याल्लोभयामास नृपपुत्रः स मूढधीः ।। ९ ।।
तस्य प्रीत्यै नियुक्तस्तु आकृष्यांगात्प्रलेपनम् ।।
ददौ नृपकुमाराय स लिलिंपे हृदि स्वके ।। 2.2.38.११० ।।
तावत्प्रदेशं कुष्ठं वै श्वेतं तस्याभवत्क्षणात् ।।
स आसीत्कुष्ठपाणिस्तु तस्मै यो दत्तवान्किल ।। ११ ।।
ततो वर्षावधिष्ठायी लेपः पुण्यतमः स्मृतः ।।
निर्माल्यानां प्रधानं तद्घ्राणादंहोविनाशनम् ।।१२।।
पुरा दमनकं दैत्यं समुद्रोदकचारिणम् ।।
बाधितारं जनानां वै मायाबलपराक्रमम्।।१३।।
भगवानपि मायावी पितामहनिदेशतः ।।
मत्स्यावतारेण विभुः प्रविश्य वरुणालयम् ।। १४ ।।
अन्विष्याकृष्य वेलायां निष्पिपेष महीतले ।।
मधोः शुक्लचतुर्दश्यां पतितो दानवोत्तमः ।। १५ ।।
भगवत्करसंपर्कात्सुगंधिरभवत्तृणम् ।।
तस्यैव नाम्ना त सम्यग्जग्राहाश्चर्यमानसः ।। १६ ।।
मालां कृत्वा हृत्प्रदेश मिलितं वनमालया ।।
अचिंतयत्तस्य गंधं यावद्वस्तु चिरस्थितम् ।। १७ ।।
तस्यापि गंधः सर्वेषां पुष्पाणां सौरभापहः ।।
वर्णस्तु भगवन्मूर्तेस्तुल्योऽभूत्स सुशोभनः ।। १८ ।।
तस्य माला भगवतः परमप्रीतिकारिणी ।।
शुष्का पर्युषिता वापि न दुष्टा भवति क्वचित् ।। १९ ।।
तस्य सुग्रथितां मालां दत्त्वा दमनकारये ।।
उत्पादयेन्महाप्रीतिं विष्णोर्या मुक्तिदायिनी ।। 2.2.38.१२० ।।
अंगापकर्षितां मालां भक्त्या यो धारयेन्नरः ।।
हयमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ।। २१ ।।
तुलसीकल्पितां मालां विष्णोरंगापकर्षिताम् ।।
धारयेन्मूर्ध्नि कंठे च भक्तो यो विन्यसेद्धदि ।।
तावत्संख्यं वाजिमेधफलमव्यग्रमश्नुते ।। २२ ।।
निर्माल्यतुलसीपत्रं यावद्भक्षयते हरेः ।।
तावज्जन्मसहस्रं तु विष्णुलोके महीयते ।। २३ ।।
हरेर्नैवेद्यमन्नं च तुलसीदलमिश्रितम् ।।
प्रतिग्रासं सोमपानं फलं तत्सममश्नुते ।।२४।।
यावज्जीवं तु भुंजानो ध्रुवं मोक्षमवाप्नुयात् ।।२५।।
अर्घ्यशेषादिकं विष्णोस्तथा चाचमनोदकम् ।।
पादोदकं स्नानवारि प्रत्येकं पापनाशनम् ।। २६ ।।
सर्वतीर्थाभिषेकाणां फलदं ग्रहनाशनम् ।।
अलक्ष्मीपापरक्षोघ्नं भूतवेतालनाशनम् ।। ।। २७ ।।
शवाद्यमेध्यसंस्पर्शदोषनाशनमुत्तमम् ।।
सर्वदीक्षाव्रतफलप्रदमैश्वर्यवर्द्धनम् ।। २८ ।।
अकालमृत्युहरणं व्याधिव्यूहनिबर्हणम् ।।
सुरोपमांसभक्ष्यादि पापसंघविनाशनम् ।। २९ ।।
एतैराप्लुतदेहस्तु शृणुयाद्यदि सूतकम् ।।
नाशौचं विद्यते तस्य सर्वकर्माधिकारिणः ।। 2.2.38.१३० ।।
यावज्जीवं प्रतिज्ञाय यस्त्वेतान्येकमेव वा ।।
गृह्णीयाद्भूरि वा स्वल्पं मुच्येद्विष्णोः प्रसादतः ।। ३१ ।।
एवं तत्र वसन्देवो लोकानुग्रहकांक्षया ।।
रममाणः श्रिया सार्द्धमनायासविमोचकः ।। ३२ ।।
निर्माल्यपादांबुनि वेदनीयदानैस्तदालोकनतत्प्रणामैः ।।
पूजोपहारैश्च विमुक्तिदाता क्षेत्रोत्तमेस्मिन्पुरुषोत्तमाख्ये ।। १३३ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दमनकचरितंनामाष्टत्रिंशोऽध्यायः ।। ३८ ।।