स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३५

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
अतः परं प्रवक्ष्यामि रथरक्षाकरं विधिम्।।
भूतप्रेतादयो घोरा दारुणान्यद्भुतानि च ।। १ ।।
न बाधंते रथान्येन मुनयो वश्च यन्मतम् ।।
प्रत्यहं पूजयेद्देवान्कृष्णादीन्ध्वजसंस्थितान् ।। २ ।।
गंधपुष्पाक्षतैर्माल्यैरुपहारैरनुत्तमैः ।।
गीतनृत्तादिकैश्चैव धूपदीपनिवेदनैः ।। ।। ३ ।।
दिक्पालेभ्यो बलिं दद्यात्पायसान्नेन चान्वहम् ।।
भूतप्रेतपिशाचेभ्यो दद्याच्च बलिमुत्तमम् ।। ४ ।।
रक्षेच्च यत्नतस्तान्वै रथानारोहणोचितान् ।।
यथा न कश्चिदारोहेन्नरो ग्राम्यपशुस्तथा ।।
पक्षिणश्च विशेषेण येषां वासो न शोभनः ।। ५ ।।
अष्टमेऽह्नि पुनः कृत्वा दक्षिणाभिमुखान्रथान्।।
विभूषयेद्वस्त्रमाल्यपताकैश्चामरादिभिः ।। ६ ।।
नवम्यां वासयेद्देवांस्तेषु प्रातः समृद्धिमत् ।। ७ ।।
दक्षिणाभिमुखा यात्रा विष्णोरेषा सुदुर्लभा ।।
यात्रा प्रयत्नतः सा हि भक्तिश्रद्धासमन्वितैः ।। ८ ।।
यथा पूर्वा तथा चेयं द्वे च मुक्तिप्रदायिके ।।
यात्राप्रवेशौ देवस्य एक एवोत्सवो मतः ।। ९ ।।
पुराविदो वदंत्येतां यात्रां नवदिनात्मिकाम् ।।
एषा त्र्यवयवा यात्रा संपूर्णा यैरुपासिता ।। 2.2.35.१० ।।
सुसंपूर्णफलस्तेषां महावेदीमहोत्सवः ।। ११ ।।
गुंडिचामंडपात्कृष्णमायांतं दक्षिणामुखम् ।।
रथस्थं बलिनं भद्रां पश्यंतो मुक्तिभागिनः । १२ ।।
उत्तराभिमुखान्दृदृष्ट्वा लभंते यादृश फलम् ।।
रामादीन्स्यंदनस्थान्ये पश्यंत्येवं महोदयान् ।।
यादृशं फलमाप्नुयुस्तादृशं दक्षिणामुखान् ।। ।। १३ ।।
पदा यांतं रथे यांतं यः पश्येद्दक्षिणामुखम् ।।
तस्य जन्म कृतार्थं स्याद्वाजिमेधः पदे पदे ।। १४ ।।
स्तुतिभिः प्रणिपातैश्च पुष्पवृष्टिभिरेव च ।।
नानानृत्तोपहारैश्च व्यजनच्छत्रचामरैः ।।
उपायनैर्बहुविधैरुपतिष्ठेद्रथाग्रतः ।। १५ ।।
नीलाचलं समायांतं रथस्थं दक्षिणामुखम्।
ये पश्यंति हृषीकेशं सुभद्रां लांगलायुधम् ।। १६ ।।
कामकल्पतरुं पुंसां दर्शनादेव मुक्तिदम् ।।
ते व्रजंति महात्मानो वैकुण्ठ भवनं हरेः ।। १७ ।।
रथेन विचरंतं तं सिन्धुतीरे जनार्दनम् ।।
पश्यन्तं करुणापांगैः प्रणतान्पुरतो नरान् ।। १८ ।।
दक्षिणाभिमुखं यांतं प्रासादं नीलभूधरे ।।
सर्वतीर्थनिधिं सर्वदानकल्पतरुं हरिम् ।। १९ ।।
स्तुवंतः प्रणमंतश्च श्रद्दधानाश्च ये नराः ।।
न ते पुनरिहायांति ब्रह्मलोकस्थिता ध्रुवम्।। 2.2.35.२० ।।
मुनयः कथितो वोऽयं महावेदीमहोत्सवः ।।
यस्य संकीर्त्तनादेव निर्मलो जायते नरः ।। २१ ।।
यश्चेदं कीर्तयेन्नित्यं प्रातरुत्थाय मानवः ।।
शृणुयादपि बुद्धिस्थः शक्रलोकं व्रजेदसौ ।। २२ ।।
प्रत्यर्चारूपमपि वा रथमास्थाप्य यो हरेः ।।
कुर्याद्यात्रामिमां श्रद्धाभक्तिभावेन मानवः ।। २३ ।।
सोऽपि विष्णोः प्रसादेन गुंडिचोत्सवजं फलम्।।
प्राप्य वैकुण्ठभवनं याति नात्र विचारणा ।। २४ ।।
पश्य श्रीर्यावती विप्रा भक्तिर्वा श्रद्धयान्विता ।।
तावतीयं महायात्रा यो यथा कर्तुमिच्छति ।। २५ ।।
इदं पवित्रं परमं रहस्यं वेधसोदितम् ।।
कारयित्वाथवा दृष्ट्वा यन्नरो नावसीदति ।। २६ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चत्रिंशोऽध्यायः ।। ३५ ।।