स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search

।। ।। जैमिनिरुवाच ।। ।।
अत ऊर्ध्वं प्रवक्ष्यामि महावेदीमहोत्सवम् ।।
अज्ञानतिमिरांधोऽपि येन भास्वत्पदं व्रजेत् ।।१।।
वैशाखस्यामले पक्षे तृतीया पापनाशिनी ।।
स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता ।। २ ।।
तस्यां संकल्प्य नृपतिराचार्यं वरयेच्छुचिः ।।
एकं त्रीनथ तक्षाणं दृष्टकर्माणमादरात्।।३।।
वृणुयाद्वनयागाय वस्त्रालंकरणादिभिः ।।
तक्ष्णा सार्द्धं वनं गत्वा साधुवृक्षगणाकुलम् ।।४।।
तन्मध्ये वह्निमाधाय मंत्रराजेन मंत्रवित्।।
अष्टोत्तरशतं हुत्वा संपाताज्यविमिश्रितम् ।। ५ ।।
आज्यं तरूणां मूले तु प्रत्येकमभिघारयेत् ।।
दिक्पालेभ्यो बलिं दत्त्वा क्षेत्रपालपशूंस्तथा ।। ६ ।।
वनस्पतये जुहुयात्क्षीरोदनशताहुतिम् ।।
ततः परशुमादाय वृक्षमूलेषु दिक्षु वै ।। ७ ।।
आज्यसंस्कृतिदेशेषु आचार्यो मंत्रमुच्चरन् ।।
किंचित्किंचिच्छेदयेद्वै चिंतयन्गरुडध्वजम् ।। ८ ।।
नदत्सु तूर्यघोषेषु गीतमंगलवादिषु ।।
नियोज्य वर्द्धकिं तत्र आचार्यः स्वगृहं व्रजेत् ।। ९ ।।
अथवा स्थान लब्धानि दारूणि रथकर्मणि ।।
उक्तसंस्कारविधिना संस्कुर्यात्कल्पितेनले ।। 2.2.33.१० ।।
आरभेत रथं कृत्वा विघ्रराजमहोत्सवम् ।।
षोडशारैः षोडशभिश्चक्रैर्लोहमयैर्दृढैः ।। ११ ।।
युक्तं विष्णो रथं कुर्याद्दृढाक्षं दृढकूबरम् ।।
विचित्रघटनाकक्षपुत्तलीपरिवेष्टितम् ।। १२ ।।
नानाविचित्रबहुलमिक्षुखण्डविराजितम्।।
चतुस्तोरणसंयुक्तं चतुर्द्वारं सुशोभनम् ।। १३ ।।
नानाविचित्रबहुलं हेमपट्टविराजितम् ।।
द्वाविंशतिकरोच्छ्रायं पताकाभिरलंकृतम् ।। १४ ।।
गारुडं च ध्वजं कुर्याद्रक्तचंदननिर्मितम् ।।
दीर्घनासं स्थूलदेहं कुण्डलाभ्यां विभूषितम् ।। १५ ।।
चंच्वग्रदष्टभुजगं सर्वालंकारभूषितम् ।।
वितत्य पक्षती व्योम्नि उड्डीयंतमिवोदितम् ।। १६ ।।
दैत्यदानवसंघस्य बलदर्पविनाशनम् ।।
सर्वांगं तस्य कनकैराच्छाद्य परिशोभयेत् ।। १७ ।।
रथमेव हरेः कुर्यात्स्वासनं सुपरिष्कृतम् ।।
चतुर्दशरथांगैस्तं रथं कुर्याच्च सीरिणः ।। १८ ।।
चक्रैर्द्वादशभिः कुर्यात्सुभद्राया रथोत्तमम् ।।
सप्तच्छदमयं कुर्यात्सीरिणो लांगलध्वजम् ।। १९ ।।
देव्याः पद्मध्वजं कुर्यात्पद्मकाष्ठविनिर्मितम् ।।
विरचय्य रथान्राजा प्रतिष्ठां पूर्ववच्चरेत् ।। 2.2.33.२० ।।
यथामन्त्रं यथाशास्त्रं विश्वसेद्ब्राह्मणेषु च ।।
ब्राह्मणा जगदीशस्य जंगमास्तनवः स्मृताः ।। २१ ।।
इत्थं सुघटितं चक्रित्रयं देवत्रयस्य वै ।।
आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे ।। २२ ।।
प्रतिष्ठाप्य समृद्धेन विधिना पूर्ववद्विजाः ।।
रक्षणीयं तथा तत्र नारोहेत्कश्चनाशुभः ।। २३ ।।
पक्षी वा मानुषो वापि मार्जारनकुलादयः ।।
ततो दिनत्रयादर्वाग्रथानामुत्तरे कृते ।। २४ ।।
मण्डपे उत्सवांगे वा प्रकुर्यादंकुरार्पणम् ।।
अद्भुतेष्वथ जातेषु शांतिं कुर्यात्पुरोदिताम् ।। २५ ।।
रथ्या सुसंस्कृता कार्या महावेदीं यथा व्रजेत् ।।
पार्श्वयोर्मंडलं कुर्यात्पथि गुल्मादिभिः फलैः ।। २६ ।।
सुमनस्तबकैर्माल्यैर्दुकूलैश्चामरैस्तथा ।।
यथा सुपुष्पितारण्यराजी तत्र विराजते ।। २७ ।।
भूमिः समा च कार्या वै निष्पंका सुखचारणा ।।
निर्मला च सुगन्धा च सुदूराद्वर्जितोत्करा ।। २८ ।।
धूपपात्राण्यनुपदं दिगामोदकराणि च ।।
चंदनांभः परिक्षेपो यंत्रपातोत्करस्तथा ।। २९ ।।
बहूनि ऋतुपुष्पाणि पुष्पवृष्ट्यर्थमेव हि ।।
नटनर्त्तकमुख्याश्च गायना बहवस्तथा ।। 2.2.33.३० ।।
वेश्या यौवनगर्वाढ्याः रूपालंकारभूषिताः ।।
मृदंगा पणवाश्चैव भेरीढक्कादयस्तथा ।। ३१ ।।
बहवो बहुधा तत्र पताकाश्चित्रितांतराः ।।
ध्वजाश्च बहवस्तत्र स्वर्णराजतनिर्मिताः ।। ।। ३२ ।।
वैजयंत्यो बहुविधा भूमिगा वाहनास्तथा ।।
हस्तिनश्च हयाश्चैव सुसन्नद्धाः स्वलंकृताः ।। ३३ ।।
एवं संभृतसंभारः क्षितिपालः शुचिव्रतः ।।
मुदा भक्त्या च परया युक्तः कुर्यान्महोत्सवम् ।। ३४ ।।
आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ।।
अरुणोदयवेलायां तस्यां देवं प्रपूजयेत् ।। ३५ ।।
ब्राह्मणैर्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः ।।
विज्ञापयेद्देवदेवं यात्रायै संस्कृतांजलिः ।। ३६ ।।
इन्द्रद्युम्नं क्षितिभुजं यथाज्ञासीः पुरा विभो ।।
विजयस्व रथे नाथ गुंडिचामण्डपं प्रति ।। ३७ ।।
तवापांगविलोकेन प्रपुनंतु दिशो दश ।।
निःश्रेयसपदं यांतु स्थावराणि चराणि च ।। ३८ ।।
अवतारः कृतो ह्येष लोकानुग्रहकाम्यया ।।
तदेहि भगवन्प्रीत्या चरणं न्यस्य भूतले ।। ३९ ।।
ततः कर्पूरचूर्णैश्च सुमनोभिरवाकिरेत् ।।
पथि शाकुनसूक्तानि प्रपठंति द्विजातयः ।। 2.2.33.४० ।।
केचिन्मंगलगाथाश्च केचिज्जय जयेति च ।।
जितं त इति मन्त्रं वै केचिदुच्चैर्जपंति च ।। ४१ ।।
सूतमागधमुख्याश्च कीर्तिं पुण्यां मुदा जगुः ।।
स्वर्णदंडप्रकीर्णानां श्रेणी चोभयपार्श्वयोः ।। ४२ ।।
लीलयांदोलयंति स्म रणत्कंकणमंजुलम् ।।
स्वर्णपात्रपरिक्षिप्तकृष्णागुरुसुधूपितैः ।। ४३ ।।
सुरभीकृतसर्वाशा मुखे व्योमांगणे तथा ।।
चर्चरीझर्झरीवेणुवीणामाधुरिकादयः ।।
शब्दायंते सुमधुरं गोविंदविजयांतरे ।। ४४ ।।
एवं प्रवृत्ते समये कृष्णं रामपुरःसरम्।।
नयंति विप्रा भद्रां च क्षत्रियाश्च विशस्तथा ।। ४५ ।।
छत्रमाला समुदिता मुक्तास्रक्चीनतोरणा ।।
रत्नध्वजा हेमदंडाः पार्श्वयोर्मुरवैरिणः ।। ४६ ।।
राजा चतुर्विधा वर्णा अन्ये ये च पृथग्जनाः ।।
दीना महांतश्च तदा समानास्तत्र भांति वै ।। ४७ ।।
सलीलचरणन्यासं तूलिकास्तरणेषु तान् ।।
वासयंतः क्वचित्छांता देवांस्ते रथमन्वियुः ।। ४८ ।।
महोत्सवं समासाद्य गीतकोलाहलानि च ।।
करे कृत्वा जगन्नाथं भ्रामयित्वा रथोत्तमम् ।। ४९ ।।
रामं कृष्णं सुभद्रां च रथमध्ये निवेशयेत् ।।
चारुचंद्रातपाढ्येन मंडपेन विराजिते ।। 2.2.33.५० ।।
किंकिणीमालिकाभिश्च माल्यचामरभूषिते ।।
ससारकृष्णागुरुजधूपपूरितगर्भके ।। ५१ ।।
ततस्तान्वासयित्वा तु तूलिकासु सुरोत्तमान् ।।
भूषयेद्विविधैर्भक्त्या वस्त्रालंकार माल्यकैः ।। ५२ ।।
पूजयेदुपचारैस्तैः समृद्धैर्भक्तिभावितैः ।।
नातः परतरं विष्णोर्यात्रांतरमवेक्ष्यते ।। ५३ ।।
यत्र स्वयं त्रिलोकेशः स्यंदनेन कुतूहलात् ।।
मानयन्पूर्वमाज्ञां तां वर्षे वर्षे व्रजेदसौ ।। ५४ ।।
रथस्थितं व्रजंतं तं महावेदीमहोत्सवे ।।
ये पश्यंति मुदा भक्त्या वासस्तेषां हरेः पदे ।। ।। ५५ ।।
सत्यं सत्यं पुनः सत्यं प्रतिजाने द्विजोत्तमाः ।।
नातः श्रेयः परं विष्णोरुत्सवः शास्त्रसंमतः ।। ५६ ।।
यथा रथविहारोऽयं महावेदीमहोत्सवः ।।
यत्रागत्य दिवो देवाः स्वर्गं यांत्यधिकारिणः ।। ५७ ।।
किं वच्मि तस्य माहात्म्यमुत्सवस्य मुरद्विषः ।।
यस्य संकीर्तनात्पापं नश्येज्जन्म शतोद्भवम् ।। ५८ ।।
महावेदीं व्रजंतं तं रथस्थं पुरुषोत्तमम् ।।
बलभद्रं सुभद्रां च जन्मकोटिसमुद्भवम् ।। ५९ ।।
दृष्ट्वा पापं नाशयति नात्र कार्या विचारणा ।।
रथच्छायां समाक्रम्य ब्रह्महत्या व्यपोहति ।। 2.2.33.६० ।।
तद्रेणुसंसक्तवपुस्त्रिविधां पापसंहतिम् ।।
नाशयेत्स्वर्गगंगायाः स्नानजं फलमाप्नुयात् ।। ६१ ।।
घनांबुवृष्टियोगेन रथमार्गे तु पंकिले ।।
दिव्यदृष्ट्या च कृष्णस्य समस्तमलहारिणि ।। ६२ ।।
तत्र ये प्रणिपातांस्तु कुर्वते वैष्णवोत्तमाः ।।
अनादिव्यूढपंकांस्ते हित्वा मोक्षमवाप्नुयुः ।। ६३ ।।
गवां कोटिप्रदानस्य कन्यानामयुतस्य च ।।
वाजिमेधसहस्रस्य फलं प्राप्नोत्यसंशयः ।। ६४ ।।
अनुगच्छंति कृष्णं ये यात्राकौतूहलादपि ।।
अनुव्रजंति नित्यं वै देवाः शक्रपुरोगमाः ।। ६५ ।।
पश्यंति ये रथं यांतं दारुब्रह्म सनातनम् ।।
पदे पदेऽश्वमेधस्य फलं तेषां प्रकीर्तितम् ।। ६६ ।।
वेदैः स्तुवंति वेदानां वक्तारो मोक्षदायिनम्।।
इतिहासपुराणाद्यैः स्तोत्रैर्वापि स्वयंकृतैः ।। ६७ ।।
स्तुवंति पुंडरीकाक्षं ये वै विगतकल्मषाः ।।
वैष्णवं योगमास्थाय मोदंते नारदादिभिः ।। ६८ ।।
कुर्वंति वासुदेवाग्रे जयशब्देन वा स्तुतिम् ।।
ते वै जयंति पापानि विविधानि न संशयः ।। ६९ ।।
लयतालानभिज्ञोपि गीतमाधुर्यवर्जितः ।।
नर्त्तनं कुरुते वापि गायत्यथ नरोत्तमः।।
वैष्णवोत्तमसंसर्गान्मुक्तिं प्राप्नोत्यसंशयः ।।2.2.33.७०।।
नामानि कीर्तयन्नस्य तेन याति सहैव यः ।।
अनुव्रज्यात्तत्फलं वै प्राप्नोत्यत्र न संशयः ।। ७१ ।।
जय कृष्ण जय कृष्ण जय कृष्णेति यो वदेत् ।।
गुंडिचानगरं यांतं कृष्णं भक्तिसमन्वितः ।।
न मातृगर्भवासस्य स च दुःखमवाप्नुयात् ।।७२।।
चामरैर्व्यजनैः पुष्पस्तबकैर्नीलचोलकैः।।
रथस्याग्रस्थितो यो वै वीजयेत्पुरुषोत्तमम्।।७३।।
स वीज्यमानोप्सरोभिर्गंधर्वैरुपशोभितः।।
अनुव्रजद्भिस्त्रिदशैर्महेंद्रासनसंस्थितः ।। ७४ ।।
भुनक्ति भोगानतुलान्यावदाभूतसंप्लवम् ।।
तदंते च ब्रह्मलोकं प्राप्य मुक्तिमवाप्नुयात् ।।७५ ।।
कृष्णस्य पुरतो ये वै पुष्पवृष्टिं प्रकुर्वते ।।
ते वै मनोगतान्सर्वान्प्राप्नुवंति मनोरथान् ।। ७६ ।।
सहस्रनामभिः पुण्यैः पर्यटंति रथं तु ये ।।
तेषां प्रदक्षिणं कुर्युस्त्रिदशानतकंधराः ।। ७७ ।।
वसंति वैकुण्ठगृहे विष्णुतुल्यपराक्रमाः ।। ७८ ।।
तस्मिन्काले महापुण्ये देवर्षिपितृसेविते ।।
एकं ब्रह्म त्रिधाभूतं माययानुगतं स्वया ।। ७९ ।।
साक्षाद्दारुस्वरूपेण महावेदीमहोत्सवम्।।2.2.33.८०।।
रथारूढः कौतुकवान्यत्रयाति जगत्प्रभुः।।
तस्मिन्काले पृथिव्यां तु चरेत्तत्र महोत्सवम् ।। ८१ ।।
देवा अप्युत्सवे तस्मिन्पुरुहूतपुरोगमाः ।।
अभिमानं परित्यज्य श्रेणीभूता हि पार्श्वयोः ।। ८२ ।।
प्रकुर्वते महायात्रां तैस्तैर्दिव्यैः परिच्छदैः ।। ८३ ।।
तेषामग्रेसरस्तत्र देवोपि प्रपितामहः ।।
चतुर्दशानां जगतां कर्त्ता यः परमेश्वरः ।। ८४ ।।
सोऽपि तत्र जगन्नाथं रथे यांतं महोत्सवे ।।
ब्रह्मलोकात्परावृत्य स्तुवन्वेदमयैः स्तवैः ।।
पदे पदे प्रणमति भगवंतं सनातनम् ।। ८५ ।।
यद्यप्यब्जनिधेः कृष्णान्न भेदोऽस्ति तथाप्ययम् ।।
महोत्सवस्य महिमा यत्र सर्वेऽनुयायिनः ।। ८६ ।।
नातः परतरो लोके महावेदीमहोत्सवात् ।।
सर्वपापहरो योगः सर्वतीर्थफलप्रदः ।। ८७ ।।
कृष्णमुद्दिश्य यस्तत्र दानं ददाति वै नरः ।।
यत्किंचिदक्षयफलं मेरुदानेन तत्समम् ।।८८।।
तस्याग्रे देवदेवस्य व्रजतो गुंडिचालयम् ।।
यत्किंचित्कुरुते कर्म तत्तदक्षयमश्नुते ।। ८९ ।।
उपायनानि नाना वै भक्ष्यभोज्यानि चैव हि ।।
समर्पयंति देवाय तत्प्रीत्यै वा द्विजन्मने ।।
तेषामक्षयपुण्यानि सर्वकामप्रदानि च ।। 2.2.33.९० ।।
हरेरग्रेसरा ये वै पश्यंतस्तन्मुखांबुजम् ।।
पदे पदे नमंतश्च पंकधूलिपरिप्लुताः ।। ९१ ।।
विहाय पाप कवचमभेद्यं कोटिजन्मभिः ।।
क्षणान्मुक्तिफलं प्राप्य यांति विष्णोः शुभालयम् ।। ९२ ।।
सर्वक्रतूनां तीर्थानां दानानां यांति ते फलम् ।।
भगवद्भक्तिभावानां नातः पुण्यतमो महः ।। ९३ ।।
एवं स भगवान्कृष्णः सुभद्रारामसंगतः ।।
व्रजन्स्यंदनश्रेष्ठस्थो द्योतयंश्च चतुर्दिशः ।। ९४ ।।
श्रीमदंगोपसृष्टेन मरुता सर्वदेहिनाम् ।।
पापानि नाशयञ्छ्रीमान्दयालुर्भक्तभावनः ।। ९५ ।।
अज्ञानामप्यविश्वासभाजां विश्वासहेतवे ।।
निसर्गमुक्तिदोऽप्येष यात्रारंभान्करोति वै ।। ९६ ।।
व्रजन्समृद्ध्या देवानां मर्त्यानां च जनार्दनः ।।
सूर्ये ललाटं तपति मध्याह्ने मार्गमध्यतः ।। ९७ ।।
श्रांता कर्षजनस्तस्थौ म्लायन्वै तद्रजोवृतः ।।
तत्रातपस्य शांत्यर्थं दर्पणेष्वभिषेचयेत् ।। ९८ ।।
पंचामृतैः शीततोयैः पुष्पकर्पूरवासितैः ।।
चामरैश्च जलार्द्रांतैः शीतलैर्व्यजनैस्तथा ।। ९९ ।।
वीजयेत्पुण्डरीकाक्षं सुभद्रां राममेव च ।।
शीतैश्च पानकैर्हद्यैस्तथा खण्डविकारकैः ।। 2.2.33.१०० ।।
खर्जूरैर्नारिकेलैश्च नानारंभाफलैस्तथा ।।
तथा क्षीरविकारैश्च पनसैस्तृणराजकैः ।। १ ।।
इक्षुभिः स्वादुहृद्यैश्च फलैर्नानाविधैस्तथा ।।
वासितैः शीततोयैश्च पक्वतांबूलपत्रकैः ।। २ ।।
सकर्पूरलवंगाद्यैः पूजयेत्पुरुषोत्तमम् ।। ३ ।।
तस्मिन्काले द्विजश्रेष्ठा ये पश्यंति जनार्दनम् ।।
पूजयंति यथाशक्ति न ते संसारजं श्रमम् ।। ४ ।।
प्राप्नुवंति द्विजश्रेष्ठा ब्रह्मलोकनिवासिनः ।। ५ ।।
रथत्रयस्थितं देवत्रयं ये पुरुषर्षभाः ।।
प्रदक्षिणं प्रकुर्वंति त्रिश्चतुः सप्त एव वा ।। ६ ।।
दशप्रणामान्कृत्वांते स्थिताः प्रांजलयोऽग्रतः ।।
पुरारथस्थितान्ब्रह्मा स्तुतिभिर्याभिरब्जभूः ।।७।।
तुष्टाव ताभिर्देवेशं स्तुवंति परमेश्वरम् ।।
ये नरा ब्रह्मलोकं ते प्रयांति नियतं द्विजाः ।। ८ ।।
ततोऽपराह्णे देवेशं दक्षिणानिलवीजितम् ।।
शनैः शनैर्नयेद्गीतैवेंणुवीणादिनादितैः ।। ९ ।।
बंदिनः स्तुतिपाठैश्च कलैर्मधुरिकास्वनैः ।।
निरंतरैः पुष्पवर्षैश्चामरांदोलनैस्तथा ।। 2.2.33.११० ।।
एवं व्रजति देवेशे सूर्यश्चास्तंगतो भवेत् ।।
दीपिकानां सहस्राणि ज्वालितानि सहस्रशः ।। १११ ।।
तदालोकप्रकाशेन मार्गशेषश्च नीयते ।।
रथावरोहणेनैषां मण्डपारोहणेन च ।। ११२ ।।
संमर्दः सुमहांस्तत्र दिदृक्षूणां कुतूहलात् ।।
मण्डपे वासयेद्देवं गुण्डिचाख्ये मनोहरे ।। ११३ ।।
चारुचंद्रातपे चारुमाल्यचामरभूषिते ।।
रत्नस्तंभमये स्वर्णवेदिकोपस्कृतांतरे ।। ११४ ।।
प्राचीरवलयावीते सुधालेपसमुज्ज्वले ।।
साधुसोपानघटिते चतुर्द्वारोपशोभिते ।। ११५ ।।
त्रैलोक्यांडबरयुते महावेद्यां महाक्रतोः ।।
प्रादुर्भावो महेशस्य यत्राभूद्दारुवर्ष्मणः ।। ११६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये गुंडिचायात्राकथनंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।