स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः २६

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
निरुत्पातं समे देशे विधिवर्त्तनयापि च ।।
प्रासादनिकटं देवाः प्रापिताः सुमुहुर्त्तके ।। १ ।।
ततः शालासुमहती रत्नवर्णविनिर्मिता ।।
निदेशादिंद्रद्युम्नस्य निर्मिता विश्वकर्मणा ।। २ ।।
सभार्चनायां वस्तूनि हवींषि च समित्कुशाः ।।
भोज्यं नानाविधं गीतनृत्यांश्च विविधांस्तथा ।। ३ ।।
साम्राज्ये यादृशी पूर्वं संपत्तिरभवत्क्षितौ ।।
ततः श्रेष्ठतरा विप्राः प्रतिष्ठायां बभूव ह ।। ४ ।।
गालोनाम महीपालस्तदा क्षितितलेऽभवत् ।।
सोप्यत्र प्रतिमां कृत्वा माधवाख्यां दृषन्मयीम् ।। ५ ।।
स्थापयित्वात्र प्रासादे पूजयामास ऋद्धिमत् ।।
कनीयांसं च प्रासादं निर्माय नृपसत्तमः ।। ६ ।।
तत्र तां स्थापयामास ततो निष्कृष्य सादरम् ।।
ततोऽस्य नृपतिर्दूतमुखाच्छुत्वास्य कर्म तत् ।। ७ ।।
गालोऽभ्यागात्ससैन्यः सन्क्रुद्धस्तं नीलपर्वतम् ।।
दृष्ट्वा प्रतिष्ठासंभारं मर्त्यैः स्वप्नेऽपि दुर्लभम् ।। ८ ।।
विस्मयाविष्टचेताः स तस्थौ गालो नराधिपः ।।
किमेतदिति वृत्तान्तं को वा कारयतीदृशम् ।। ।। ९ ।।
यत्नाद्दिव्यं स विज्ञाय इन्द्रद्युम्नं नराधिपम् ।।
ब्रह्मलोकादागतं तं कर्त्तारं देववेश्मनः ।। 2.2.26.१० ।।
प्रतिष्ठापयितुं देवैः सार्द्धं संभारकारकम् ।।
सहितं पद्मनिधिना गुरुणा नारदेन च ।। ११ ।।
ब्रह्माणं चागमिष्यन्तं प्रतिष्ठायै सुरोत्तमम् ।।
श्रुत्वा सर्वं च वृत्तान्तं तद्राजा दिव्यचेष्टितम् ।। ।। १२ ।।
मेने कृतार्थमात्मानं तद्राज्ये परमाद्भुतम् ।।
इतः श्रेयस्करं कर्म न भूतं न भविष्यति ।। १३ ।।
तदस्य निकटे स्थित्वा ज्ञात्वा कर्मक्रमं विधिम् ।।
उत्सवांश्चापि विज्ञाय करिष्ये प्रतिवत्सरम् ।। १४ ।।
अमुं दारुमयं साक्षाद्ब्रह्मरूपं जनार्दनम् ।।
अभाग्योपचयादेतावंतं कालं न जानता ।। १५ ।।
असेव्यमानेन कृतं जन्मैव विफलं मया ।।
तदेनमिंद्रद्युम्नं वै प्रणिपत्य जगद्गुरुम् ।। १६ ।।
महाभागवतश्रेष्ठं ब्रह्मलोकादिहागतम् ।।
उपेत्य शरणं साक्षाद्दृष्ट्वा नारायणं विभुम् ।। १७ ।।
प्रतिष्ठितं वै प्रासादे मुक्तिमेष्यामि निश्चयम् ।।
वैकुण्ठं स प्रतिष्ठाप्य मय्येवारोपयिष्यति ।। १८ ।।
ब्रह्मलोकं गतो यो वै किं क्षितौ सोऽवतिष्ठते ।।
उपचारान्समादिश्य कोषं संभृत्य च प्रभोः।। ।। १९ ।।
ब्रह्मणा सहितोऽवश्यं पुनर्यास्यति तत्क्षयम् ।।
विचार्य मंत्रिभिः सार्द्धं ततो गालोऽपि वैष्णवः ।। 2.2.26.२० ।।
इन्द्रद्युम्नस्य निकटं विनीतः प्रययौ मुदा ।।
गत्वा तं दूरतो दृष्ट्वा प्रणिपातपुरःसरम् ।। २१ ।।
बद्धांजलिपुटो राजा मूर्ध्नि वीक्षन्ससाध्वसम् ।।
शनैः शनैर्ययौ तस्य निकटं गालपार्थिवः ।। २२ ।।
देव त्वं राजराजोऽसि मर्त्योऽसि ब्रह्मलोकगः ।।
किं स्तौमि नृपकीटोऽहं त्वां जीवन्मुक्तमीश्वरम् ।। २३ ।।
अज्ञात्वा महिमानं ते सचिवैर्मंत्रयन्मुहुः ।।
योद्धुमभ्यागतो देव दृष्ट्वा ते पौरुषं महत् ।। २४ ।।
अतिमानुषमाश्चर्यं पदं चापि शचीपतेः ।।
दृष्ट्वैतन्निश्चितं देव ब्रह्मलोकागतस्य हि ।। २५ ।।
ईदृशं हि महत्कर्म यदाज्ञाकृन्महानिधिः ।।
चेतः प्रसादप्रवणं मयि धेहि सुरोत्तम ।। २६ ।।
त्रैलोक्यवासिनो देवा यदाज्ञावशवर्तिनः ।। २७ ।।
।। जैमिनिरुवाच ।। ।।
इत्थं विज्ञापयंतं तं गालं नृपतिकुंजरम् ।।
स्मयमान उवाचेदं राजन्किं बहु भाषसे ।। २८।।
भवानपि हरेर्भक्तः सार्वभौमो महीपतिः ।।
सामान्यमेतद्राज्ञा वै भूस्वाम्यं भुवि वर्त्तताम् ।। २९ ।।
सांप्रतं हि भवानत्र पृथिव्यामेकपार्थिवः ।।
नृपायत्ताः क्रियाः सर्वा मर्त्यानां मरुतामपि।।2.2.26.३०।।
अष्टदिक्पालकांशैस्तु ब्रह्मणा निर्मितो नृपः।।
न ह्यल्पपुण्यकृद्राजा प्रजापालनतत्पर ।। ३१ ।।
इह कीर्तिं च धर्मश्च यत्र गच्छन्सुवर्त्मनि ।।
प्राप्नोति राजशार्दूल विशेषात्त्वं तु वैष्णवः ।।३२।।
प्रासादे स्थापयेद्यस्तु हरेरर्चां विधानतः।।
न देहबन्धमाप्नोति याति विष्णोः परं पदम् ।।३३।।
माधवप्रतिमामेतां दारवीं शुभलक्षणाम् ।।
साक्षान्मुक्तिप्रदां भूप स्वयं स्थापितवानसि ।।३४।।
निर्विघ्नं कर्म ते जातं मम मन्वंतरं गतम् ।।
भवेद्वा संशयो मेऽत्र न स्वतंत्रश्चतुर्मुखः ।। ३५ ।।
प्रतिष्ठायै प्रार्थितोऽयं तदन्यः स्थापयेत्कथम् ।।
साक्षाद्दार्ववतारस्य प्रासादस्य नृपोत्तम ।। ३६ ।।
संनिधानेन चेदत्र विधातानुग्रहिष्यति ।।
तदेनं स्थापयित्वा तु चतूरूपं जनार्दनम् ।। ३७ ।।
समर्प्य त्वां गमिष्यामि त्वमेवोपचरिष्यसि ।।
नित्योपहारं यात्राश्च उत्सवांश्च जगत्पतेः ।। ३८ ।।
यानेवोपदिशेद्देवः स्वयं वा प्रपितामहः ।।
तांस्तान्प्रयत्नात्कुर्वीत राजा वै धर्मपालकः ।। ३९ ।।
ततः स गालो नृपतिः श्रुत्वा तच्चिंतितं स्वयम् ।।
इन्द्रद्युम्नादिष्टमेतदिति प्राप परां मुदम् ।। 2.2.26.४० ।।
तस्थौ तस्यांतिके गाल आज्ञाकार इव स्वयम् ।।
तत्तदाशु करोत्येष इन्द्रद्युम्नो यदादिशत् ।। ४१ ।।
एवं संभृतसंभारः सिंहासनगतः प्रभुः ।।
देवैः परिवृतश्चेंद्रद्युम्नः शक्र इवाबभौ ।। ४२ ।।
ततोऽश्रूयंत निनदा दिव्यदुंदुभिजाः शुभाः ।।
मृदंगवेणुवीणादि तालकाहालनिःस्वनाः ।। ४३ ।।
ऐरावतादिकरिणां बृंहितानि बहूनि खे ।।
समंताज्जयशब्दाश्च पुष्पवृष्टिविमिश्रिताः ।। ४४ ।।
आकाशगंगासलिलकणा मन्दारमिश्रिताः ।।
दिव्य स्रग्लेपधूपानां गन्धा दिग्व्यापिनस्तथा ।।
वैमानिकानां देवानां किंकिणीजालनिःस्वनाः ।। ४५ ।।
ततश्च तेजसां राशी रोदसीमध्यपूरकः ।।
आविरासीत्क्षितिगत नयनाच्छादको द्विजाः ।। ४६ ।।
उत्तोलिताक्षिमालाभिः प्रजाभिर्वीक्षितः पुरः ।।
ततः क्रमात्स ददृशे विमानाग्र्यं प्रजापतेः ।। ।। ४७ ।।
स्वर्णहंसशतैः स्कंधेनोह्यमानः समंततः ।।
दिक्पालैश्चामरव्यग्रहस्तैरासेवितः पुरः ।। ४८ ।।
जाह्नवीयमुनानीरप्रकीर्णककरेऽभितः ।।
पार्श्वयोश्चन्द्रसूर्याभ्यामुभाभ्यामातपत्रके ।। ४९ ।।
धार्यमाणे शनैर्वायोर्गतिचंचलचोलके ।।
ब्रह्मर्षिभिर्गौतमाद्यैः स्तूयमानो रहस्यकैः ।। 2.2.26.५० ।।
तन्मध्यस्थः प्रजानाथ इंद्रद्युम्नादिभिः स्तुतः ।।
आलुलोके देवगणैर्जयशब्दैरभिष्टुतः ।। ५१ ।।
रंभादिकाभिर्वेश्याभिर्नृत्यते स्म ससाध्वसम् ।।
हाहाहूहूप्रभृतिभिर्गीयमानश्च गायकैः ।। ५२ ।।
सिद्धविद्याधरगणैः सादरं चोपवीणितः ।।
कृतांजलिपुटैर्दूरात्तपस्विभिरुपासितः ।। ५३ ।।
सावित्रीशारदे तस्य वाक्प्रबंधैर्विचित्रकैः ।।
तोषमासादयंत्यौ च कोऽन्यस्तत्तोषणे क्षमः ।। ५४ ।।
जाह्नवीयमुनानीर प्रकीर्णित कलेवरः ।।
ये च गंधर्वसिद्धाद्या नारदप्रमुखा द्विजाः ।। ५५ ।।
वेत्रहस्ताः सविनया दिव्यसोपानदर्शनाः ।।
संमर्दः स महानासीद्देवानां दिवि गच्छताम् ।। ५६ ।।
न कोऽपि गण्यते देवः को वा केन पथा व्रजेत् ।।
अहंपूर्विकया तेषां व्रजतां त्रिदिवौकसाम् ।। ५७ ।।
संमर्दातिशयात्तेषां विभ्रंशोऽभूत्स्ववाहनैः ।।
स्रष्टा पाता च संहर्त्ता जगतां यो जगन्मयः ।। ५८ ।।
साक्षाद्व्रजति तत्रैषां सुराणां महिमा कुतः ।।
तं दृष्ट्वा साध्वसान्नम्रो भक्त्या बद्धांजलिर्नृपः ।। ५९ ।।
तैर्देवैर्गालराजेन नारदप्रमुखेन च ।।
सहितो धरणीं प्रायात्साष्टांगं प्रणिपत्य च ।। 2.2.26.६० ।।
उत्थाय परया भक्त्या प्रहृष्टेनांतरात्मना ।।
पुलकांकितसर्वांगं स्वं मन्वानः कृतार्थकम् ।। ६१ ।।
पुरतो जगदीशस्य पश्यञ्छुद्धं पितामहम् ।।
कृतांजलिपुटो राजा ममज्जानंदसागरे ।। ६२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे षड्विंशोऽध्यायः ।। २६ ।।