स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः २२

विकिस्रोतः तः

।। ।। जैमिनिरुवाच ।। ।।
राजाथ तमुवाचेदं निर्लक्ष्य गमनं कथम् ।।
अयं पुष्परथोऽस्त्येव मनसो वेगवान्मुने ।। १ ।।
एनमारुह्य यास्यावः क्षणं तावत्प्रतीक्ष्यताम् ।।
यावदेताननुज्ञाप्य प्रासादे ह्यधिकारिणः ।। २ ।।
प्रदक्षिणीकृत्य विभुमायामि मुनिसत्तम ।।
नारदोऽपि वचः श्रुत्वा श्रद्दधानो नृपोक्तिषु ।। ३ ।।
करेण धृत्वा राजानं महावेदीं प्रविश्य च ।।
सहितं रामभद्राभ्यां नत्वा कृष्णं मुहुर्मुहुः ।।
अनुज्ञां प्रार्थयामास ब्रह्मलोकगतिं प्रति ।। ४ ।।
इन्द्रद्युम्नोऽपि वचसा मनसा वपुषा हरिम् ।।
प्रदक्षिणीकृत्य पुनर्नत्वा साष्टांगमुन्मनाः ।।
ब्रह्मलोकगतिं विप्रा याचते स्म कृतांजलिः ।। ५ ।।
उभौ तौ दिव्ययानेन जग्मतुर्मुनिभूभृतौ ।।
प्रदक्षिणीकृत्य रविं व्योममण्डलमध्यगम् ।।
उपर्युपरि जग्माते व्यतीत्य ध्रुवमंडलम् ।। ६ ।।
जनलोकगतैः सिद्धैः सत्वरावनतोन्मुखैः ।।
वीक्ष्यमाणौ मुदा युक्तौ संलपंतौ परस्परम् ।। ७ ।।
भगवच्चरितं विप्रा मनोमलविशोधनम् ।।
जीवन्मुक्तो मुनिश्रेष्ठः सर्वलोकान्भ्रमन्नयम् ।।
यथानुपहतव्रज्यस्तथायं मर्त्यवास्यपि ।। ८ ।।
भूपतिः प्रययौ शीघ्रं विष्णुभक्तिप्रसादतः ।।
ब्रह्मांडविषये नैतद्दुष्प्राप्यं वस्तु विद्यते ।। ९ ।।
विष्णुभक्तेन यल्लभ्यमथवा मुक्तिमेति सः ।।
महर्लोकगतैः सिद्धैः सादराभ्यर्चितौ च तौ ।। 2.2.22.१० ।।
इन्द्रद्युम्नो न सस्मार पार्थिवं वासमात्मनः ।।
क्रमादूर्ध्वगतिर्गच्छन्पश्यन्सौख्यैकभाजनान् ।। ११ ।।
निर्द्वंद्वानभिलाषोत्थ तत्क्षणानेकपौरुषान् ।।
केवलं भगवत्प्रीत्यै कर्मभूमौ चकार यत् ।। १२ ।।
प्रासादं चिंतयामास संपूर्णो वा न वा भवेत् ।।
मय्यागते ब्रह्मलोकं शत्रुभिर्वाभिभूयते ।। १३ ।।
श्लथादरा वा भूयासुः सेवका द्रव्यलोभतः ।।
गृहीतवेतनाः शिल्पिवृंदा मंदक्रियास्तथा ।।
न शीघ्रं घटयिष्यंति मयि ब्रह्मक्षयागते ।। १४ ।।
यावद्गमिष्ये धातारं गृहीत्वाहं चतुर्मुखम् ।।
तावन्न पुनरेव स्यात्प्रासादो मयि दूरगे ।। १५ ।।
इहायातास्तु ये पूर्वे न पुनस्ते क्षितिं गताः ।।
मन्वाना मम सामंता इत्थं वा दुष्टमानसाः ।।
राज्यं ममाहरिष्यंति द्विषतः किमु सांप्रतम् ।। १६ ।।
इत्थं सुविग्नमनसा चिंतयानं महीपतिम् ।।
अतीतानागतज्ञाननिधिर्मुनिरुवाच तम् ।। १७ ।।
किं चिंतयसि राजेंद्र त्वमेवं दीनमानसः ।।
यत्र चाभ्यागतावावां न चिंताविषयो ह्ययम् ।।१८।।
नाधयो व्याधयश्चात्र प्रभवंति कदाचन ।।
न जरा न च वा मृत्युः किमन्यदुःखहेतुकम् ।। १९ ।।
कृतार्थोऽसि महाभाग यन्मानुषवपुः स्वयम् ।।
ब्रह्मलोकमिहायातः प्रत्यक्षं दृष्टवान्हरिम् ।। 2.2.22.२० ।।
इहायाता न शोचंति हेये संसारकल्पके ।।
ब्रुवाणमित्थं भूपालस्तमुवाच मुनीश्वरम् ।। २१ ।।
शोचामि भगवन्राज्ञः स्वजनबन्धुषु।।
समारब्धो भगवतः प्रासादो यो मयाधुना।। २२।।
अत्रागतं मां ते ज्ञात्वा नानुतिष्ठंति सेवकाः।।
आरब्धस्य प्रतिष्ठा हि कर्तव्या निश्चिता मुने।। २३।।
तस्यांतरायं संभाव्य दुःखितं मे मनः प्रभो।।
तस्य तद्वचं श्रुत्वा प्रहस्य मुनिरब्रवीत्।। २४।।
प्रजापतिसमत्वं हि न तु सामान्यभूपतिः।।
केनाप्यपकृतं नैव भूमौ पूर्वैरनुष्ठितम्।। २५।।
किं पुनस्तव कृत्यं तु यः सृष्टिस्थितिहानिकृत् ।।
ब्रह्मलोकं गतस्याद्य प्रतापयशसा तव ।। २६ ।।
त्रैलोक्ये भ्रमतो नित्यं यथा सूर्यनिशाकरौ ।।
यस्य कार्येषु भगवान्सहायोऽसौ चतुर्मुखः ।। २७ ।।
तेषु किं राजशार्दूल विघ्नशंकापि जायते ।।
एष दूरेऽस्ति राजेंद्र प्रत्यक्षं यस्तव द्विषाम् ।। २८ ।।
सदोमध्य गतः शक्रः साक्षात्त्रिजगतीपतिः ।।
विशेषतो जगन्नाथप्रासादे कः पुमान्नृप ।। २९ ।।
निहंतुं मनसापीच्छेत्तत्र शंकास्तु मा तव ।।
तदग्रतः पश्य भूप चंद्रकोटिसमत्विषा ।। 2.2.22.३० ।।
परितो ह्लादजनकः सुधासागरकोटिवत् ।।
यश्चायं तेजसां राशिर्जानीहि ब्रह्मसद्मनः ।। ३१ ।।
इत्थमालपतस्तौ तु ब्रह्मलोकांतिकं गतौ ।।
शुश्रुवाते सुदूरात्तौ ब्रह्मर्षीणां मुखोद्गतम् ।। ३२ ।।
स्वाध्यायशब्दं सुपदं स्पष्टवर्णक्रमस्वरम् ।।
इतिहासपुराणानि च्छंदः कल्पानि गाथिकाः ।। ३३ ।।
असंकीर्णोज्ज्वलपदं श्रूयते प्रविभागशः ।।
अत्रैतद्राजशार्दूल जानीहि ब्रह्मणः पुरम् ।। ३४ ।।
सभा हि दृश्यते चैषा यत्र लोकपितामहः ।।
सार्द्धं ब्रह्मर्षिमुख्यैश्च सुखासीनश्चतुर्मुखः ।। ३५ ।।
नाना चैतन्यशबलैर्जीवन्मुक्तैरुपासितः ।।
यत्रागतानि वर्त्तंते न संसाराब्धिसंकटे ।। ३६ ।।
सदिति ब्रह्मणो नाम तस्यायं भुवनोत्तमः ।।
सत्यलोक इति ख्यातस्तदूर्ध्वं नास्ति किंचन ।। ३८ ।।
अस्यैव किंचिदुपरि अधश्चांडकपालतः ।।
वैकुण्ठभुवनं राजन्मुक्ता यत्र वसंति वै ।। ३८ ।।
यत्र योगीश्वरः साक्षाद्योगिचिंत्यो जनार्दनः ।।
चैतन्यवपुरास्ते वै सांद्रानंदात्मकः प्रभुः ।। ३९ ।।
यं प्राप्य न निवर्त्तंते मृत्युसंसारवर्त्मनि ।।
यमुपास्ते सदा ब्रह्मा जीवन्मुक्तैः स्वमुक्तये ।। 2.2.22.४० ।।
कल्पितस्यायुषोन्तेऽसावेभिः सार्द्धं प्रपद्यते ।।
स एष स्रष्टा लोकानां मत्स्यकूर्मादिरूपधृक् ।। ४१ ।।
रक्षिता रौद्ररूपेण संहर्त्ता लोकभावनः ।।
इन्द्रद्युम्नं वदन्नित्थं प्राप ब्रह्मनिकेतनम् ।। ४२ ।।
क्षणेन च सभाद्वारि प्रकोष्ठे स न्यवर्तत ।।
यत्र तिष्ठन्ति दिक्पालाः शक्राद्याः परितस्तथा ।। ४३ ।।
चिरकालं ध्यानपरास्तथा मन्वंतराधिपाः ।।
पृथग्जननिभा द्वाःस्थनिषिद्धांतः प्रवेशनाः ।।४४ ।।
इन्द्रद्युम्नेन सहितं नारदं प्रविलोक्य सः ।।
द्वारपालः सविनयं ननामानतकन्धरः ।। ४५ ।।
चतुर्दशानां लोकानां भ्रमणे रसिक प्रभो ।।
त्वया विना शोभते नो स्वामिंस्तव पितुः सभा ।। ४६ ।।
संत्येव मुनयः श्रेष्ठा ब्राह्मणा ब्रह्मविद्वराः ।।
गौतमाद्यास्तथाप्येषा न रम्या ब्रह्मणः सभा ।। ४७ ।।
बहुतारा सुरजनी चंद्रेणेव प्रकाशते ।।
इति स्तुवन्ददौ तस्य प्रवेशं विनयान्वितः ।। ४८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वाविंशोऽध्यायः ।। २२ ।।