स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १९

विकिस्रोतः तः
Jump to navigation Jump to search

।। जैमिनिरुवाच ।। ।।
ततः स पृथिवीपालस्तथा कृत्वांऽतरिक्षगा ।।
यदुवाच गिरां देवी तद्वत्परिचचार ह ।। १ ।।
एवं दिनेदिने याते दिव्यगंधोऽनुभूयते ।।
पारिजातप्रसूनानां वृष्टिर्मर्त्येषु दुर्लभा ।। २ ।।
दिव्यसंगीतनादश्च गीतानि रुचिराणि च ।।
स्वर्गंगाजलवृष्टिश्च सूक्ष्मबिंदुसुशोभना ।। ३ ।।
ऐरावतादिनागानां मदगंधो वनद्विपैः ।।
दुःसहः सर्वभूतानां सुखकार्यनुभूयते ।। ४ ।।
यज्ञार्थमागता देवास्ते सर्वे विगतज्वराः ।।
आविर्भूतं हरिं दृष्ट्वा उपासांचक्रिरे द्विजाः ।। ५ ।।
यथा हि माधवं पूर्वं तथा तं विष्णुशाखिनम् ।।
उपासनासु देवानां दिव्यचिह्नानि जज्ञिरे ।। ६ ।।
निर्ववाह स्वयं देवः क्रमात्पंचदशे दिने ।।
चतुर्मूर्तिः स भगवान्यथा पूर्वं मयोदितः ।। ७ ।।
तादृगाविर्बभूवासौ युष्माकं वर्णितः पुरा ।।
दिव्यसिंहासनगतो बलभद्रासुदर्शनैः ।। ८ ।।
शंखचक्रगदापद्मलसद्बाहुर्जनार्दनः ।।
गदामुसलचक्राब्जं धारयन्पन्नगाकृतिः ।। ९ ।।
छत्राकृतिफणासप्तमुकुटोज्ज्वलकुंडलः ।।
सुभद्रा चारुवदना वराब्जाभयधारिणी ।। 2.2.19.१० ।।
लक्ष्मीः प्रादुर्बभूवेयं सर्वचैतन्यरूपिणी ।।
इयं कृष्णावतारे हि रोहिणीगर्भसंभवा ।। ११ ।।
बलभद्राकृतिर्जाता बलरूपस्य चिंतनात् ।।
क्षणं न सहते सा हि मोक्तुं लीलावतारिणम्।। १२ ।।
न भेदोऽस्तीह को विप्राः कृष्णस्य च बलस्य च ।।
एकगर्भप्रसूतत्वाद्व्यवहारोऽथ लौकिकः ।। १३ ।।
भगिनी बलदेवस्येत्येषा पौराणिकी कथा ।।
पुंरूपे स्त्रीस्वरूपेण लक्ष्मीः सर्वत्र तिष्ठति ।। १४ ।।
पुंनाम्ना भगवान्विष्णुः स्त्रीनाम्ना कमलालया ।।
देवतिर्यङ्मनुष्यादौ विद्यते न तयोः परम्।। १५।।
को ह्यन्यः पुंडरीकाक्षाद्भुवनानि चतुर्दश ।।
धारयेत्तु फणाग्रेण सोऽनंतो बलसंज्ञितः ।। १६ ।।
तस्य शक्तिस्वरूपेयं भगिनी श्रीः प्रकीर्तिता ।।
सुदर्शनं तु यच्चक्रं सदा विष्णोः करे स्थितम् ।। १७ ।।
शाखाग्रस्तंभमध्यस्थं तद्रूपं तत्तुरीयकम् ।।
एवं तु मूर्त्तयस्तेन चतस्रो वै प्रकाशिताः ।।१८।।
निर्वृत्ते भगवद्रूपे चतुर्द्धा दिव्यरूपिणि ।।
लोकानामुपकाराय पुनराहांतरिक्षगा ।। १९ ।।
पटैराच्छाद्य सुदृढं नृपते प्रतिमास्त्विमाः ।।
स्वं स्वं वर्णं प्रापयाशु वर्णकैश्चित्रकर्मणा ।। 2.2.19.२० ।।
नीलाभ्रश्यामलं विष्णुं शंखेंदुधवलं बलम् ।।
रक्तं सुदर्शनं चक्रं सुभद्रां कुंकुमारुणाम् ।। २१ ।।
नानालंकाररुचिरां नानाभंगिविभागशः ।।
अमी दारुस्वरूपेण दृष्टाः पापाय हेतवे ।। २२ ।।
गोपनीया प्रयत्नेन पटनिर्यासवल्कलैः ।।
तस्मात्प्रथममेवैतांस्तरोरेवास्य वल्कलैः ।। २३ ।।
शिल्पिभिः कर्मकुशलैर्दृढमाच्छादयाग्रतः ।।
वर्षे वर्षे च संस्कार्याः पूर्वसंस्कार मोचनात् ।। २४ ।।
ऋते वल्कललेपं तु स तु दिव्यश्चिरंतनः ।।
प्रमादाद्य इमं लेपमपनीयेत कश्चन ।। २५ ।।
दुर्भिक्षं मरकं राष्ट्रे संततिश्चास्य हीयते ।।
नेक्षितव्यास्त्वया राजन्कदाचिदपवारणाः ।। २६ ।।
मनुष्यैश्चापि राजेंद्र दृष्टाः स्युर्भयहेतवः ।।
तस्मात्सचित्रा द्रष्टव्या बहुलेपविलेपिताः ।। २७ ।।
सुचित्रं पुण्डरीकाक्षं सविलासं सविभ्रमम् ।।
दृष्ट्वा विमुच्यते पापैः कल्पकोटिसमुद्भवैः ।। २८ ।।
सुचित्रान्कुरु राजेंद्र चित्रान्कामानवाप्स्यति ।।
आविर्बभूव भगवांस्तवानुग्रहकाम्यया ।। २९ ।।
तव प्रसादाज्जंतूनां चतुर्वर्गं प्रदास्यति ।।
नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ।। 2.2.19.३० ।।
प्रदेशे सुमहत्स्थाने प्रासादं सुदृढायतम् ।।
उत्तरे नरसिंहस्य सहस्रकरमुच्छ्रितम् ।। ३१ ।।
कारयित्वा प्रतिष्ठाप्य तत्रैनं विनिवेशय ।।
पुरा स्थितं पर्वतेऽस्मिन्योऽभ्यर्चयति माधवम् ।। ३२ ।।
नाम्ना विश्वावसुर्नाम शबरो वैष्णवोत्तमः ।।
पुरोधसः सख्यमासीत्तेन सार्द्धं पुरा च ते ।। ३३ ।।
तयोः संततिरेवास्य लेपसंस्कारकर्मणि ।।
नियुज्यतां महाराज भविष्यत्सूत्सवेषु च ।। ३४ ।।
विररामैतदाभाष्य सा तु दिव्या सरस्वती ।।
तयोपदिष्टमाकर्ण्य प्रहृष्टेनांतरात्मना ।। ३९ ।।
वेष्टनं मोचयामास महावेद्या नृपोत्तमः ।।
ददृशुस्ते तदा सर्वे रत्नसिंहासने स्थितम् ।। ३६ ।।
रामं कृष्णं सुभद्रां च वासुदेवं सुदर्शनम् ।।
यथोपदिष्टलेप्यादिसंस्कारे रुचिराकृतिम् ।। ३७ ।।
कृपया स्मेरवदनमुन्नतायतवक्षसम् ।।
दीनानामुद्धृतौ नाथं प्रलंबभुजपंजरम् ।। ३८ ।।
प्रबुद्धपुण्डरीकाक्षं हासशोणायताधरम् ।।
पश्यतां दृष्टिमात्रेण हर्तारं पापसंचयम् ।। ३९ ।।
पद्मासनस्थितं कृष्णं दिव्यालंकारभूषितम्।।
स्वतेजसा परिवृतं दारुदेहेऽपि निर्मलम् ।। 2.2.19.४० ।।
नीलजीमूतसंकाशं सर्वसंतापनाशनम् ।।
ददर्श बलदेवं च साट्टहासमुखांबुजम् ।। ४१ ।।
फणामण्डलविस्तीर्णं वारुणीघूर्णितेक्षणम् ।।
प्रोत्थितं नागराजानं पीनोन्नतसुवक्षसम् ।। ४२ ।।
किंचिन्नतं पृष्ठदेशे कुण्डलीकृतविग्रहम् ।।
अग्रसंफुल्लककुभं कैलासशिखरं यथा ।। ४३ ।।
हलचक्राब्जमुसलधारिणं वनमालिनम् ।।
हारकुण्डलकेयूरकिरीटमुकुटोज्ज्वलम् ।। ४४ ।।
तयोर्मध्ये स्थितां लक्ष्मीं सुभद्रां भद्ररूपिणीम् ।। ४५ ।।
सर्वदेवारणीं पापसागरोत्तारकारिणीम् ।।
विकचांभोजवदनां वराब्जाभयधारिणीम् ।। ४६ ।।
रूपलावण्यवसतिं शोभमानां प्रसाधनैः ।।
कुंकुमारुणदेहां तां साक्षाल्लक्ष्मीमिवापराम् ।। ४७ ।।
ददर्श विष्णोर्वामस्थां चक्रशाखाग्रनिर्मिताम् ।।
बालार्कसदृशीं तीक्ष्णधारां तेजोमयीं द्विजाः ।। ४८ ।।
तां दृष्ट्वानन्दपाथोधि निमग्नः पृथिवीपतिः ।।
कर्तव्यमूढः स्वतनौ स्वयं न प्रबभूव ह ।। ४९ ।।
दरमीलितनेत्रः सन्सृजन्बाष्पांबु केवलम् ।।
कृतांजलिपुटस्तस्थौ स्थूणाकारो नृपोत्तमः ।। 2.2.19.५० ।।
उवाच तं मुनिवरः स्मितवक्त्रः क्षितीश्वरम् ।।
यदर्थं श्रममापन्नस्तत्सांप्रतमभूत्तव ।। ५१ ।।
प्रत्यक्षं नृपशार्दूल एकस्त्वं भाग्यवान्भुवि ।।
अमुं पश्य जगन्नाथं पुण्डरीकायतेक्षणम् ।। ५२ ।।
भक्तानुग्रहपाथोधिं सर्वज्ञाननिधिं हरिम् ।।
यं द्रष्टुं योगिनो नित्यं यतंति यतमानसाः ।। ५३ ।।
अवधानेन महता क्षणं पश्यन्ति मानवाः ।।
सोऽयं दारुमयं देहं समास्थाय जनार्दनः ।। ५४ ।।
अनुग्रहीतुं त्वां भूप प्रत्यक्षत्वमुपागतः ।।
भजैनं धरणीनाथं स्तुहि कारुण्यसागरम् ।। ५५ ।।
ददाति संस्तुतः कामान्सर्वान्नृप मनोगतान् ।। ५६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकोनविशोऽध्यायः ।। १९ ।।