स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १४
।। मुनय ऊचुः ।। ।।
रथमारुह्य तौ यातौ यदा नारदपार्थिवौ ।।
क्व यातौ चक्रतुः किं वा तन्नो वद महामुने ।।१।।
।। जैमिनिरुवाच ।। ।।
सार्द्धं च विद्यापतिना पुरोहितकनीयसा ।।
क्षेत्रांते नीलकण्ठस्य समीपमुपजग्मतुः ।। २ ।।
दुर्निमित्तमभून्मार्गे व्रजतोऽस्य महीक्षितः ।।
वामाक्षिभुजयोः स्पन्दः स्फुरणं च मुहुर्मुहुः ।। ३ ।।
तद्दृष्ट्वा नृपशार्दूलो विषादमुपसेदिवान् ।।
पप्रच्छ कारणं चास्य सर्वज्ञाननिधिं मुनिम् ।। ४ ।।
अव्याहतं मे साम्राज्यं प्राप्तं क्षेत्रोत्तमं त्विदम् ।।
दर्शनार्थं माधवस्य यात्रेयं तु शुभावहा ।। ५ ।।
अकार्यं मे भवेदद्य किं मुने ब्रूहि तत्त्वतः ।।
स्पन्दते वामनेत्रं तु स्फुरते च भुजोऽसकृत् ।। ६ ।।
तच्छ्रुत्वा नारदः प्राह भावि कार्यं च सूचयन् ।।
श्रावयन्कुशलं वाक्यं यदुक्तं पद्मयोनिना ।। ७ ।।
नारद उवाच ।। ।।
मा भूद्विषादस्ते भूप सविघ्नं प्रायशः शुभम् ।।
विघ्नांते च शुभं पुंसां पुनर्भाग्यवतां नृप ।। ८ ।।
सत्यं त्वं सार्वभौमोऽसि क्षेत्रं विष्णोर्वपुस्त्विदम् ।।
यात्रा तेऽत्र यदर्थेयं सोzऽतर्द्धानमुपागमत् ।। ९ ।।
एष विद्यापतिर्विप्रो दिने यस्मिन्ददर्श तम् ।।
सायंकाले ततोऽन्येद्युः स्वर्णवालुकया वृतः ।।
ययौ पातालनिलयं मर्त्यलोके सुदुर्लभः ।। 2.2.14.१० ।।
।। जैमिनिरुवाच ।। ।।
तच्छ्रुत्वा घोरवचनं वव्रपातसमं नृपः ।।
पपात धरणीपृष्ठे निःसंज्ञः स द्विजोत्तमाः ।। ११ ।।
तं तथा पतितं दृष्ट्वा पुरोहितपुरोगमाः ।।
स्निग्धाः सखायः सर्वे ते हाहाकारमुपाद्रवन् ।।१२।।
कर्पूरशीतलं वारि मुखे सिक्त्वा पुनःपुनः ।।
चन्दनागुरुकर्पूरैः सर्वांगं लिलिपुश्च ते ।। १३ ।।
चामरैस्तालवृंतैश्च वीजयामासुराशु तम् ।।
नारदोऽपि च संभ्रांतो धारयन्योगधारणाम् ।। १४ ।।
प्राणानररक्षन्नरपतेर्जानंस्तत्र शुभायतिम् ।।
सोऽपि राजा चिरात्संज्ञां लेभे यत्नैरनुत्तमैः ।। १५ ।।
उत्थाय पादयोर्विप्रा नारदस्यापतत्पुनः ।।
किमकार्षं मुने पापं कस्मिञ्जन्मांतरे दृढम् ।। १६ ।।
यस्य पाकदशायां वै दुःखमासीत्सुदारुणम् ।।
कर्मणा मनसा वाचा नो द्विजानां गवामपि ।।
अपराधः कृतः कश्चित्स्वप्नेऽपि मुनिपुंगव ।। १७ ।।
नित्यं नैमित्तिकं काम्यं कर्म यत्परिकीर्तितम् ।।
राज्ञस्तन्मुनिशार्दूल न त्यक्तं वै मया क्वचित् ।। १८ ।।
देवतातिथिभृत्यानां पितॄणां च महामुने ।।
तथाश्रितानां बंधूनां नापमानः कृतो मया ।। १९ ।।
पंचाशदपराधा ये विष्णोर्वैष्णवपुंगव ।।
त्यक्ताः प्रयत्नात्ते सर्वे क्रुद्धा इव महोरगाः ।। 2.2.14.२० ।।
किं भाग्यं चरितं तेन पुरोहितकनीयसा ।।
यच्चर्मचक्षुषा दृष्टो भगवान्नीलमाधवः ।। २१ ।।
किमर्थं राज्यविभ्रंशो जानतैष न्वया कृतः ।।
यात्रासमय एवैतत्कथं वा न प्रकीर्तितम् ।। २२ ।।
किमर्थं वा श्रोत्रियाणां स्थानभ्रंशो मया कृतः ।।
कथमेतैः परित्यक्ताश्चिरात्संस्कृतभूमयः ।। २३ ।।
आवंशभूतेर्वृत्तिर्या प्रजाभिः परिपालिता ।।
मदर्थं सा परित्यक्ता जीविष्यंति कथं नु ताः ।। २४ ।।
प्राणान्न धारयिष्यामि न द्रक्ष्यामि यदा हरिम् ।।
एष मे निश्चयो ब्रह्मन्मयि नष्टे कुतः प्रजाः ।। ।। २५ ।।
मुने सदा सकरुणस्त्वं मां शास्ति शुभाशुभम् ।।
सांप्रतं मत्सुतं नीत्वा मालवेष्वभिषेचय ।। २६ ।।
स पालयतु न्यायेन न शोचंतु इमाः प्रजाः ।।
राजानो ये समायातास्ते सर्वं मन्निदेशतः ।। २७ ।।
मत्सूनोर्मालवेशस्य प्रयांतु वचने स्थिताः ।।
प्रायोपवेशविधिना चिंतयन्नीलमाधवम् ।। २८ ।।
आयुःशेषं करिष्यामि सफलं क्षेत्रसंस्थितः ।। २९ ।।
।। जैमिनिरुवाच ।। ।।
विलपंतमिन्द्रुम्नं राजानं ब्रह्मणः सुतः ।।
उत्थाप्य प्रश्रयगिरा सांत्वयन्निदमब्रवीत् ।। 2.2.14.३० ।।
।। नारद उवाच ।। ।।
राजन्पंडितमूर्द्धन्यो वैष्णवो धैयसागरः ।।
श्रेयः सविघ्नं सततं कथं वा नावधारयेः ।। ३१ ।।
इदं तु परमं श्रेयः पुंसो जन्मशतार्जितम् ।।
शरीरधारिणं पश्येच्चर्मचक्षुर्गदाधरम् ।। ३२ ।।
निरंकुशा हरेर्लीला केन वाप्यवधार्यते ।।
जीवन्मुक्तोऽप्यहं राजंस्तल्लीलां नातिवर्तये ।। ३३ ।।
कियता वंचितो नाहं दृढभक्तोऽन्तिकस्थितः ।।
दुरत्यया तस्य माया बहुजन्मशतैरपि ।। ३४ ।।
अनन्ता तस्य मायेयं दुर्ज्ञेया पद्मयोनिना ।।
नाभिपद्मास्थितेनापि नित्यं च स्तुतिशालिना ।। ३५ ।।
स्वभाव एवं कथितस्तस्य मायाविनो नृप ।।
विशेषं कथयाम्येवं त्वं तु भाग्यवतां वरः ।। ३६ ।।
तिस्रोऽपि मूर्तयस्तस्य त्वदनुग्रहबुद्धयः ।।
चराचराणां स्रष्टा यः साक्षाल्लोकपितामहः ।।
मामुवाच व्रजाशु त्वमिंद्रद्युम्नस्य चांतिकम् ।। ३७ ।।
नीलाचलं प्रयात्येष दिदृक्षुर्नीलमाधवम् ।।
अन्तर्द्धानं गतो ह्येष यमेन प्रार्थितो विभुः ।। ३८ ।।
न तत्र शोकः कर्तव्यः शक्यते तत्र नान्यथा ।।
वाच्यो मद्वचनाद्राजा पंचमी मम संततिः ।। ३९ ।।
तत्कृते परमात्मानं प्रसाद्य पुरुषोत्तमम् ।।
श्वेतद्वीपान्नयिष्यामि सहस्रांते महाक्रतोः ।। 2.2.14.४० ।।
इन्द्रद्युम्नः स इदानीं क्षेत्रे श्रीपुरुषोत्तमे ।।
अश्वमेधसहस्रैस्तु यजन्विष्णुं स तिष्ठतु ।। ४१ ।।
तदंते दारवतनुं विष्णुं द्रक्ष्यति चक्षुषा ।।
सोऽवतारो हरेः ख्यातिं तस्य द्वारा गमिष्यति ।। ४२ ।।
तदा तु तनवो विष्णोः प्रतिष्ठप्या मया धुवम् ।।
पुरा स्म मणिमूर्तिस्तु चतुर्द्धावस्थितो हरिः ।।४३।।
दृष्ट्वा पुरोधसा तस्य साक्षादग्रे निवेदितः ।।
दिव्यदारुवपुर्भूयश्चतुर्द्धावतरिष्यति ।। ४४ ।।
तस्मान्मा व्यथ राजेंद्र वांछा ते सफला ध्रुवम् ।।
भविष्यति न संदेहो निर्व्यलीको वसेह वै ।। ४५ ।।
।। जैमिनिरुवाच ।। ।।
सांत्वयित्वा निनायेत्थं राजानं नारदस्तदा ।।
विश्वासपदवीं विप्राः पुनर्वाक्यमुवाच ह ।। ४६ ।।
।। नारद उवाच ।। ।।
शंखाकृतेः क्षेत्रवरस्य चाग्रे यो नीलकण्ठः खलु दुर्गयाऽऽस्ते ।।
यामो वयं तत्र च वाजिमेधक्रतूपयोग्या सुसमा स्थली सा ।। ४७ ।।
तस्यां विनिर्माय सहस्रवर्षस्थिरां सुशालां हयमेधनाय ।।
नीलाद्रिवासस्य नृसिंहमूर्तिं दृष्ट्वा कृतार्थं विरचय्य जन्म ।। ४८ ।।
तस्यैव मूर्तिं प्रतियातनां ते नित्यार्चनीयां तव पूजनीयाम् ।।
प्रत्यक्प्रतिष्ठाप्य समस्तविघ्नविनाशहेतोः फलबृंहणाय ।। ४९ ।।
आरप्स्यामः क्रतुवरं मुनिवर्यैर्यथोचितम् ।।
विलम्बोऽत्र न हि श्रेयानिति पैतामहं वचः ।। 2.2.14.५० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्दशोऽध्यायः ।। १४ ।।