स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः १९

विकिस्रोतः तः

।। नारद उवाच ।। ।।
ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ।।
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः ।। १ ।।
नंदिनं कालनेमिश्च शुम्भो लंबोदरं तथा ।।
निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः ।। २ ।।
निशुम्भः कार्तिकेयस्य मयूरं पंचभिः शरैः ।।
हृदि विव्याध वेगेन मूर्च्छितः स पपात च ।। ३ ।।
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ।।
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ।। ४ ।।
नंदीश्वरः शरव्रातैः कालनेमिमवध्यत ।।
सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत् ।। ५ ।।
कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ।।
तदपास्य स शूलेन तं वक्षस्यहनद्बली ।। ६ ।।
स शूलभिन्नहृदयो हताश्वो हतसारथिः ।।
अद्रेः शिखरमामुच्य शैलादिं सोऽप्यपातयत् ।।७ ।।
अथ शुम्भो गणेशश्च रथमूषकवाहनौ ।।
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ।। ८ ।।
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ।।
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ।। ९ ।।
ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् ।।
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ।। 2.4.19.१० ।।
मूषकः शरभिन्नांगश्चचाल दृढवेदनः ।।
लंबोदरश्च पतितः पदातिरभवन्नृप ।। ११ ।।
ततो लंबोदरः शुम्भं हत्वा परशुना हृदि ।।
अपातयत्तदा भूमौ मूषकं चारुहत्पुनः ।। १२ ।।
कालनेमिर्निशुंभश्चाऽप्युभौ लंबोदरं शरैः ।।
युगपज्जघ्नतुः क्रोधात्तोत्रैरिव महाद्विपम् ।। १३ ।।
तं पीडयमानमालोक्य वीरभद्रो महाबलः ।।
अभ्यधावत वेगेन भूतकोटियुतस्तदा ।। १४ ।।
कूष्मांडभैरवाश्चाऽपि वेताला योगिनीगणाः ।।
पिशाचयोगिनीसंघा गणाश्चाऽपि तमन्वयुः ।। १५ ।।
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः ।।
भेरीतालमृदंगैश्च पृथिवी समकंपत ।। १६ ।।
ततो भूतान्यधावंत भक्षयंतिस्म दानवान्।।
उत्पतंत्यापतंति स्म ननृतुश्च रणांगणे ।। १७ ।।
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ ।।
निजघ्नतू रणे दैत्यान्निरंतरशरव्रजैः ।। १८ ।।
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा ।।
व्याकुला साऽभवत्सेना विषण्णवदना तदा ।। १९ ।।
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनंदनः ।।
रथेनाऽतिपताकेन गणानभिययौ बली ।। 2.4.19.२० ।।
हस्त्यश्वरथसंह्रादाः शंखभेरीस्वनास्तथा ।।
अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा ।। २१ ।।
जलंधरशरव्रातैर्नीहारपटलैरिव ।।
द्यावापृथिव्योराच्छिन्नमंतरं समपद्यत ।। २२ ।।
गणेशं पंचभिर्विद्ध्वा शैलादिं नवभिः शरैः ।।
वीरभद्रं च विंशत्या ननाद जलदस्वनः ।। २३ ।।
कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः ।।
युयुधे शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः ।। २४ ।।
ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ।।
गदया ताडयामास स च भूमितलेऽपतत् ।। २५ ।।
तथैव नंदिनं वेगादपातयत भूतले ।।
ततो गणेश्वरः क्रुद्धो गदां परशुनाऽहनत् ।। २६ ।।
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।।
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ।। २७ ।।
ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ।।
गणेशं पातयामास रथं चाऽन्यमथाऽऽरुहत् ।।२८।।
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ।।
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ।। २९ ।।
वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् ।।
धनुश्चिच्छेद दैत्येंद्रः पुप्लुवे परिघायुधः ।। 2.4.19.३० ।।
स वीरभद्रं त्वरयाऽभिगम्य जघान दैत्यः परिघेण मूर्ध्नि ।।
स चाऽपि वीरः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन्।। ३१ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वीरभद्रपतननामैकोनविंशोऽध्यायः ।। १९ ।।