स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/कार्तिकमासमाहात्म्यम्/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

।। वालखिल्या ऊचुः ।। ।।
कृष्णः प्रोवाच धर्माय द्वादशीं वत्ससंज्ञिताम्।।
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने।।१।।
वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि ।।
सवत्सां तुल्यवर्णां च शीलिनीं गां पयस्विनीम् ।।
चंदनादिभिरालिप्य पुष्पमालाभिरर्चयेत् ।। २ ।।
तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर ।।
गोक्षीरं गोघृतं चैव दधिक्षीरं च वर्जयेत् ।। ३ ।।
दिनांते सूर्यबिंबार्धादुभयत्र घटीदलम् ।।
ततो नीराजनं कार्य्यं निरीक्षेच्च शुभाऽशुभम् ।। ४ ।।
नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान् ।।
नीराजयेद्दीपपूर्वं निरीक्षेत शुभाऽशुभम् ।।५।।
लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत् ।।
मुख्या दीपा नव प्रोक्ता अन्यानपि च कल्पयेत् ।। ६ ।।
ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता ।।
स्थिरा चेत्सौख्यदा प्रोक्ता विपरीता तु दुःखदा ।। ७ ।।
कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पंचसु ।।
तिथिषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ।। ८ ।।
पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च ।।
तृतीय ऋतुमेवेह चतुर्थस्त्वयनं तथा ।।
वर्षं तु पंचमो दीपः शुभाशुभं विनिर्णयेत् ।। ९ ।।
सूर्यांशसंभवा दीपा अंधकारविनाशकाः ।।
त्रिकाले मां दीपयंतु दिशंतु च शुभाऽशुभम्।। ।। 2.4.9.१० ।।
अभिमंत्र्य च मंत्रेण ततो नीराजयेत्क्रमात् ।। ११ ।।
आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरंगमान् ।।
ज्येष्ठाञ्च्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः ।। १२ ।।
ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत् ।।
रूक्षैर्लक्ष्मीविनाशः स्याच्छ्वेतैरन्नक्षयो भवेत् ।।
अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च ।। १३ ।।
एकांगीनाम गोपाला तयैतच्च व्रतं कृतम् ।।
धनधान्यसमायुक्ता जाता वर्षत्रयेण सा ।। १४ ।। *
तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु ।।
एतद्गोव्रतमाहात्म्यं श्रुत्वा कुर्वंति ये नराः ।। १५ ।।
ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि ।।
गोऽपराधः कृतो यः स्यात्स व्रताद्विलयं व्रजेत् ।। १६ ।।
।। वालखिल्या ऊचुः ।। ।।
कृष्णपक्षे चतुर्दश्यां मासि चाऽऽश्वयुजे तथा ।।
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत् ।। १७ ।।
प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दंतधावनम्।।
त्रिरात्रनियमं कृत्वा गोविंदे भक्तितत्परः ।। १८ ।।
कार्य एतद्व्रतस्यांते तथा गोवर्द्धनोत्सवः ।।
त्रिमुहूर्ताऽधिका ग्राह्या परवेधो न दोषभाक् ।। १९ ।।
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ।।
यमदीपं बलिं दद्यादपमृत्युर्विनश्यति ।। 2.4.9.२० ।।
पुरा हेमनकस्यैव बालकश्चाऽपमृत्युतः ।।
मुक्तोभूदाश्विने कृष्णत्रयोदश्यां दयावशात् ।। २१ ।। ।।
।। दूता ऊचुः ।। ।।
यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे ।।
तथोपायं ब्रूहि यम कृपां कृत्वाऽस्मदग्रतः ।। २२ ।।
।। यम उवाच ।।
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ।।
प्रतिवर्षं तु यो दद्याद्गृहद्वारे सुदीपकम् ।। २३ ।।
मन्त्रेणाऽनेन भो दूताः समानेयः स नोत्सवे ।।
प्राप्तेऽपमृत्यावपि च शासनं क्रियतां मम ।। २४ ।।
मृत्युना पाशदंडाभ्यां कालेन च मया सह ।।
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतामिति ।। २५ ।।
मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति ।।
उत्सवे चाऽपमृत्योश्च भयं तस्य न जायते ।। २६ ।।
।। वालखिल्या ऊचुः ।। ।।
पूर्वविद्धचतुर्दश्यामाश्विनस्य सितेतरे ।।
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः ।। २७ ।।
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ।।
तस्याऽब्दिकभवो धर्मो नश्यत्येव न संशयः ।। २८ ।।
तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः ।।
यामिन्याः पश्चिमे यामे तैलाभ्यंगो विशिष्यते ।। २९ ।।
यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये ।।
दिनद्वये भवेच्चाऽपि तदा पूर्वैव गृह्यते ।। 2.4.9.३० ।।
बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत् ।।
तैलाभ्यंगं चतुर्दश्यां रौरवं नरकं व्रजेत् ।।३१।।
तैले लक्ष्मीर्जले गंगा दीपावल्याश्चतुर्दशीम् ।।
प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति ।। ३२ ।।
अपामार्गमथो तुंबीं प्रपुन्नाडमथाऽपरम् ।।
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै ।। ३३ ।।
वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम् ।। ३४ ।।
सीतालोष्टसमायुक्त सकंटकदलान्वित ।।
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ।।
अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि ।। ३५ ।।
स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः ।।
शुनकौ श्यामशबलौ भ्रातरौ यमसेवकौ ।।
तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ ।। ३६ ।।
इष्टवंधुजनैः सार्द्धमेतत्स्नानं समाचरेत् ।।
स्नानांगतर्पणं कृत्वा यमं संतर्पयेत्ततः।। ३७ ।।
यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च ।।
वैवस्वताय कालाय सर्वभूतक्षयाय च ।। ३८ ।।
औदुंबराय दध्नाय नीलाय परमेष्ठिने ।।
वृकोदराय चित्राय चित्रगुप्ताय ते नमः ।। ३९ ।।
चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः ।।
एकैकेन तिलैर्मिश्रान्दद्यात्त्रीनुदकाञ्जलीन् ।। 2.4.9.४० ।।
यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा ।।
देवत्वं च पितृत्वं च यमस्याऽस्ति द्विरूपता ।। ४१ ।।
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः ।।
नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।। ४२ ।।*
अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते ।।
इषे भूते च दर्शे च कार्तिके प्रथमे दिने ।। ४३ ।।
यदा स्नाति तदाऽभ्यंगस्नानं कुर्याद्विधूदये।
ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे ।। ४४ ।।
मानवो मंगलस्नायी नैव लक्ष्म्या वियुज्यते ।।
दीपैर्नीराजनादत्र सैषा दीपावलिः स्मृता ।। ४५ ।।
इंदुक्षयेऽपि संक्रातौ रवौ पाते दिनक्षये ।।
अत्राऽभ्यंगो न दोषाय प्रातः पापाऽपनुत्तये ।। ४६ ।।
माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः ।।
प्रेताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यते ।।४७।।
इषासितचतुर्दश्यामिन्दुक्षयतिथावपि ।।
दर्शादौ स्वातिसंयुक्ते तदा दीपावलिर्भवेत् ।। ४८ ।।
कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ।।
महाराजो बलिः प्रोक्तस्तुष्टेन हरिणा तथा ।। ४९ ।।
वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते ।।
इति विष्णुवचः श्रुत्वा बलिर्वचनमब्रवीत् ।। 2.4.9.५० ।।
आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा ।।
लोकार्थं याचयिष्यामि शक्तश्चेद्देहि तच्च मे ।। ५१ ।।
मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे ।।
त्रिभिः पदैस्त्रिदिवसैः सा चाऽऽक्रांता यतस्त्वया ।। ५२ ।।
तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे ।। ५३ ।।
मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः ।।
तेषां गृहे तव स्त्रीयं सदा तिष्ठतु सुस्थिरा ।। ५४ ।।
मम राज्ये गृहे यैषामंधकारः पतिष्यति ।।
लक्ष्मीसंतानांधकारः सदा पततु तद्गृहे ।। ५५ ।।
चतुर्दश्यां च ये दीपान्नरकाय ददंति च ।।
तेषां पितृगणाः सर्वे नरके न वसंति च ।। ५६ ।।
बलिराज्यं समासाद्य यैर्न दीपावलिः कृता ।।
तेषां गृहे कथं दीपाः प्रज्वलिष्यंति केशव ।। ५७ ।।
बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः ।।
तेषां गृहे सदा शोकः पतेदिति न संशयः ।। ५८ ।।
चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ।।
पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम् ।।
ददावतिथयेंद्राय बलिं पातालवासिनम् ।। ५९ ।।
दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् ।।
तस्मान्महोत्सवं चात्र सर्वथैव हि कारयेत् ।। 2.4.9.६० ।।
महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः ।।
अतस्तदुत्सवः कार्यः शक्तिपूजापरायणैः ।। ६१ ।।
बलिराज्यं समासाद्य यक्षगंधर्वकिन्नराः ।।
औषध्यश्च पिशाचाश्च मंत्राश्च मणयस्तथा ।। ६२ ।।
सर्व एव प्रहृष्यंति नृत्यंति च निशामुखे ।।
तत्तन्मंत्राश्च सिद्ध्यंति बलिराज्ये न संशयः ।। ६३ ।।
बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः ।।
तथा तद्दिनमध्ये तु लोकाः स्युर्हर्षिता भृशम् ।। ६४ ।।
तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः ।।
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ।। ६५ ।।
नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा ।।
पश्यंत्येव न संदेहः कार्योऽत्र मुनिपुंगवैः ।। ६६ ।।
आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः।।
दीपदानादिकार्येषु ग्राह्या मध्याह्नकालिकाः ।। ६७ ।।
यदि स्युः संगवादर्वागेताश्च तिथयस्त्रयः ।।
दीपदानादिकार्येषु कर्तव्याः पूर्वसंयुताः ।। ६८ ।।
।। ऋषय ऊचुः ।।
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः ।।
तस्मिन्दिने तु किं भोज्यं कस्य पूजां तु कारयेत् ।। ६९ ।।
किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ।।
किं च तत्र भवेद्देयं किं न देयं विशेषतः।।2.4.9.७०।।
प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता ।।
दीपावल्याः फलं सर्वं वदन्तु ऋषिसत्तमाः ।। ७१ ।।
।। वालखिल्या ऊचुः ।। ।।
ततः प्रभात समये त्वमायां तु मुनीश्वराः ।।
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याऽथ प्रणम्य च ।। ७२ ।।
कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः ।।
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ।। ७३ ।।
ततः प्रदोषसमये पूजयेदिंदिरां शुभाम् ।।
कुर्यान्नानाविधैर्वस्त्रैः स्वच्छं लक्ष्म्याश्च मण्डपम् ।। ७४ ।।
नानापुष्पैः पल्लवैश्च चित्रैश्चाऽपि विचित्रितम् ।।
तत्र संपूजयेल्लक्ष्मीं देवांश्चाऽपि प्रपूजयेत् ।। ७५ ।।
संपूज्या देवनार्योऽपि वहुभिश्चोपचारकैः ।।
पादसंवाहनं कुर्याल्लक्ष्म्यादीनां तु भक्तितः ।। ७६ ।।
अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा ।।
बलिकारागृहाद्देवा लक्ष्मीश्चाऽपि विमोचिता ।। ७७ ।।
लक्ष्म्या सार्द्धं ततो देवा जग्मुः क्षीरोदधौ पुनः ।।
प्रसुप्ता बहुकालं ते सुखं तस्मान्मुनीश्वराः।।७८।।
रचनीयाः सूत्रगर्भाः पर्यंकाश्च सुतूलिकाः ।।
दुग्धफेनोपमैर्वस्त्रैरास्तृताश्च यथादिशम् ।। ७९ ।।
स्थापयेत्तान्सुराँल्लक्ष्मीं वेदघोषसमन्वितः ।।
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्तांबुजोदरे ।।2.4.9.८०।।
अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका ।।
तदह्नि पद्मशय्यां यः पद्मासौख्यविवृद्धये ।। ८१ ।।
कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वाऽपि न व्रजेत् ।।
न कुर्वंति नरा इत्थं लक्ष्म्या ये सुखसुप्तिकाम् ।। ८२ ।।
धनचिन्ता विहीनास्ते कथं रात्रौ स्वपंति हि ।।
तस्मात्सर्वप्रयत्नेन लक्ष्मीं संपूजयेन्नरः ।। ८३ ।।
स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः ।।
जातिपत्रलंवगैलात्वक्कर्पूरसमन्वितम् ।। ८४ ।।
पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम् ।।
लड्डुकांस्तस्य कुर्वीत तांश्च लक्ष्म्यै समर्पयेत् ।। ८५ ।।
अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति ।।
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीं प्रबोधयेत् ।। ८६ ।।
प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या ।।
पुमान्वा वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति ।। ८७ ।।
अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः ।।
क्षीराब्धौ तुष्टुवुर्ज्ञात्वा सुप्तां पद्माश्रितां श्रियम् ।। ८८ ।।
त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः ।।
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः ।। ८९ ।।
या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ।।
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम ।। 2.4.9.९० ।।
दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम् ।।
भ्रामयेत्स्वस्य शिरसि सर्वाऽरिष्टनिवारणम् ।। ९१ ।।
दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु ।।
चतुष्पथे श्मशाने च नदीपर्वतवेश्मसु ।। ९२ ।।
वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ।।
वस्त्रैः पुष्पैः शोभितव्या राजमार्गस्य भूमयः ।। ९३ ।।
सर्वं पुरमलंकृत्य प्रदोषे तदनन्तरम् ।।
ब्राह्मणान्भोजयित्वाऽऽदौ संभोज्य च बुभुक्षितान्।। ९४ ।।
अलंकृतेन भोक्तव्यं नववस्त्रोपशोभिना ।।
ततोऽपराह्नसमये घोषयेन्नगरं नृपः ।। ९५।।
अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति ।।
यथेच्छं क्रीडतां बाला इत्याज्ञाप्य नृपेण तु ।। ९६ ।।
तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभ्य ।।
बलिराज्ये प्रकर्तव्यं यद्यन्मनसि वर्तते ।। ९७ ।।
जीवहिंसा सुरापानमगम्यागमनं तथा ।।
चौर्यं विश्वासघातश्च पंचैतानि मुनीश्वराः ।।
बलिराज्ये तु नरकद्वाराण्युक्तानि संत्यजेत् ।। ९८ ।।
ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ।।
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ।।
बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत् ।। ९९ ।।
एवं गते निशीथे च जने निद्रार्द्धलोचने ।।
एवं नगरनारीभिः शूर्पडिंडिमवादनैः ।।
निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात् ।। 2.4.9.१०० ।।
दंडैकरजनीयोगे दर्शः स्यात्तु परेऽहनि ।।
तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका ।। १०१ ।। *
ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः ।।
न कुर्वंति वृथा तेषां धर्माः स्युर्नात्र संशयः ।। १०२ ।।
रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः ।।
द्यूतेन वा हरेरग्रे गीतया वा तथैव च ।।१०३।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनंनाम नवमोऽध्यायः ।। ९ ।।

  • २.४.९.१४

अत्र प्रसिद्धा कथा सनत्कुमारसंहितायाम्-पुरा हृषीकेशोनाम आभीरः अष्टसहस्रगवां पालकः आसीत्तस्य एकांगीनाम कन्या जाता । पुत्राऽभावे पुत्रोत्पत्तये दानधर्मादिकमतीव चकार, तेन पुत्रो जातः । तदा तत्पुरोहितः दुंदुभिनामकः काणः लोभी तत्रागत्य लोभेच्छया अयं मूलजात इति मिथ्यैवाऽवदत् । तदा भीतः पिता कन्यामवदत, हे एकांगि “नयेमं बालकं शीघ्रं मुखे दत्त्वा घृतं मधु ॥ क्षिपस्व तूर्णं गंगायामस्माकं सुखवृद्धये ॥” इति । तदा एकांगी तमादाय दयया महावृक्षस्य कोटरे ऽस्थापयत् “वारंवारं समागत्य दिवसेषु निशासु च ॥ तस्मै पयः पाययित्वा पुनर्याति स्वकं गृहम् ॥ जातोऽसौ वर्षमात्रेण कलभाषी स बालकः ॥ एकांग्यपि च संजाता यौवनाक्रांतदेहिका ॥” इति। एकदा दुंदुभिः पुरोहितः एकांगीं कामवासनया प्रार्थयत्, तदा सा धिक्कारं कृतवती, तेन द्वेषेण दुंदुभिः तत्पितरमुवाच, हे हृषीकेश इयं तव कन्या यवनैः सह क्रीडंती मया दृष्टा यवनाद्बालको जातः स च कोटरे स्थापितः, गत्वा पश्य, अहो तव कुलं नष्टम् अस्याः त्याग एव उचितः, अन्यथा बहिष्कारो भवेत् । एवं श्रुत्वा हृषीकेशः पुरोहितोक्तप्रकारेण एकांगीं तत्पुत्रं च वृषस्य पृष्ठे बद्ध्वा वने अत्यजत्, स वृषोऽपि दैवयोगेन तामादाय हरिद्वारं ययौ, बंधश्च शिथिलतां प्राप्तः, तदा एकांगी तत्र कुटिं बद्ध्वा तृणविक्रयं कृत्वा तेन द्रव्येण पुत्रं वृषभं च पुष्णाति, कार्तिके मास आगते स्नानार्थं देशदेशतः लोकाः आययुः, ते इमां गोपालिकां ज्ञात्वा दानार्थमानीताः गावः रक्षणाय ददुः, अनयाऽपि गवां सेवा भूयसी आरब्धा ततः वैष्णवैः तया च द्वादश्यां गोपूजा कृता एवं वर्षत्रयमकरोत्, तत्र दैवयोगाद्धृषीकेशः पुरोहितेन दुंदुभिना सह आगतः, तत्र स्वकन्यां दृष्ट्वाऽतिविस्मितो भूत्वा तया ज्ञातवृत्तांतः तस्याः विवाहमकरोत्, दुंदुभिश्च धिक्कृतः साऽपि शापं ददौ । अद्यप्रभृति ये काणे विश्वासकारकाः ते अवश्यं विलयं यांतु, इति शप्त्वा बालकं पित्रे दत्त्वा गोव्रतमुपदिश्य भर्त्रा सह स्वयं जगामेति ॥ १४ ॥

[सम्पाद्यताम्]

टिप्पणी

कार्यारम्भः एकांगीदृष्ट्या एव भवति। कालक्रमेण यदायदा अनुभवे वृद्धिः भवति, तदैव सर्वाङ्गीण दृष्टिः उपलभ्यते। दुन्दुभिपुरोहितः अपि एकांगी दूरदृष्टिः अस्ति यः काणी अस्ति। कार्तिकशुक्लपक्षगोवत्सद्वादशीव्रतस्य माहात्म्यं एवं विधिः भविष्यपुराणे ४.६९ अपि उपलभ्यते। वत्सोपरि टिप्पणी


  • २.४.९.४२

यमतर्पणं तु पूर्वमेवोक्तं भीष्मतर्पणं चाग्रे भीष्मपंचकव्रते कथयिष्यति । नरकाय नरकासुराय दीपः प्रदातव्यः । अत्र विशेषः सारोद्धारे-"पुरा सौवीरदेशे तु वेश्याऽभूद्विजनप्रिया ॥ नाम्ना लीलावती पुण्या हरिभक्तिपरायणा ॥ कदाचित्सा समायाता वसिष्ठस्याऽऽश्रमं मुदा ॥ चतुर्दशीमाहात्म्यं सा पप्रच्छ विनयान्विता ॥ वसिष्ठ उवाच ॥ एवं व्रतं त्रयोदश्यां कृत्वा रात्रौ विधूदये ॥ स्नातव्यं तिलतैलेन नरैर्नरकभीरुभिः ॥ नारकीति च सा प्रोक्ता तिथिर्लोकेषु विश्रुता ॥ पूर्वं वराहदेवाच्च जातो नरकनामकः ॥ धरण्यां स तु पापात्मा देवान्सर्वाञ्जिगाय च ॥ ऐश्वर्यं चैव देवानां हृतवान्पापचेतनः ॥ तदानीं देवताः सर्वे कृष्णं शरणमाययुः ॥ तैः प्रार्थितश्च श्रीकृष्णो वधार्थं नरकस्य च ॥ जगाम यत्र पापात्मा नरको धरणीसुतः ॥ साऽमात्यं नरकं हत्वा चतुर्दश्यां तु कार्तिके ॥ सर्वोत्तमस्तदा कृष्णश्चतुर्दश्या वरं ददौ ॥ ये करिष्यंति चाभ्यंगं वस्त्रदानादिकं च यत् ॥ तेषां यशश्च कीर्तिं च पुत्रैश्वर्यं ददाम्यहम् ॥ इति तस्यै वरान्दत्त्वा प्रसिद्धा सा ततो भुवि ॥ तस्मिन्दिने महालक्ष्मीस्तैले सन्निहिता यतः ॥ विष्णुपादाब्जसंभूता गंगा लोकमलापहा ॥ तस्मिन्नुष्णोदके देवी सन्निधानं करोति वै ॥ विधूदये त्रयोदश्यां भवेद्यदि चतुर्दशी ॥ नारकीति च सा प्रोक्ता आश्विनस्य सितेतरे ॥ व्यतीपाते च वैधृत्यां मातापित्रोर्दिनेऽपि वा ॥ नारकी चतुर्दशी चेत्स्यात्स्नातव्यं तिलतैलतः ॥ स्नातव्यं तिलतैलेन नारीभिश्च नरैरपि ॥ यतिभिर्विधवाभिश्च निष्कामैर्वा विधानतः ॥ कार्यमभ्यंजनं तत्र चाऽन्यथा निरयं व्रजेत् ॥” इति ॥ ४२ ॥

  • २.४.९.१०१

अत्र विशेषः ब्राह्मे-"नारद उवाच ॥ येन स्त्रियः सुरूपाः स्युः सुभगाः सुप्रजास्तथा ॥ पतिव्रतपरा ब्रह्मंस्तद्व्रतं ब्रूहि मे प्रभो ॥ श्रीब्रह्मोवाच ॥ श्रूयतां ब्राह्मणश्रेष्ठ सुखरात्रि शुभं व्रतम् ॥ यन्मया कस्यचिन्नोक्तं रहस्यं शिवशर्मदम् ॥ ऊर्जे मासि चतुर्दश्यां कृष्णायां व्रतमुत्तमम् ॥ यस्याऽऽचरणमात्रेण स्त्रियः सौभाग्यवर्द्धनाः ॥ श्रिया सार्द्धं जगद्योनिः शेते विष्णुः सुखान्वितः ॥ तस्यां रात्रौ जनैस्तस्मात्संप्रोक्ता जनसुप्तिका ॥ तस्यां धातुमयैर्वर्ण्यैभगवत्पंचरंगकैः।। निजाऽऽलये जीवरात्री लिखित्वा सुखरात्रिकाम् ॥ ब्रह्मविष्णुशिवादीनां मूर्तीश्च विलिखेत्ततः॥ सौभाग्यहेतवे भर्तुरनुज्ञां प्रतिगृह्य च ॥ व्रतार्थं कल्पयेत्तस्याः पूजोपकरणानि च ॥ ततः सुगंधद्रव्येण गात्रमुद्वर्त्य यत्नतः ॥ स्त्रीभिः सुखोदकस्नानं कर्तव्यं द्विजसत्तम ॥ स्नात्वा वस्त्रं मनोहारि परिधाय यथाविधि ॥ सुखरात्र्याः सुप्रतिष्ठां कारयित्वा द्विजन्मना ॥ पूजनीया विधानेन गंधपुष्पाक्षतादिभिः ॥ स्त्रीभिः सखीसंयुताभिः सुखरात्र्यादिदेवताः ॥ सुखरात्री गृहस्था या देवता लिखिता मया ॥ पूजां गृह्णातु मद्दत्तां साः प्रयच्छतु मे सुखम् ॥ सुखरात्रि नमस्तुभ्यं जीवदात्रि सुखप्रदे ॥ शिवप्रिये गृहाणेमां पूजां वै रक्ष बालकान् ॥ रूपं देहि जयं देहि विद्यां देहि सुखं धनम् ॥ प्रज्ञां प्रयच्छ मे कामान्समस्तान्सुखमादरात् ।। इति संप्रार्थ्य तां देवीं गीतवादित्रनिस्वनैः ॥ लक्ष्मीपूजा ततः कार्या धवयुक्ताभिरादरात् ॥ त्रिभिः पूजोपहारेण मंत्रैरेभिर्हरिप्रियाम् ॥ जय देवि जगन्मातर्विष्णोर्वक्षसि संस्थिते ॥ रमे नमोऽस्तु ते मेऽत्र सौभाग्यं देहि निश्चलम् ॥ जागर्ति या महालक्ष्मीर्दीपमाला सुभूतले ॥ हरिवक्षःस्थिता रम्या सा देवी वरदाऽस्तु मे ॥ इति स्तुत्वा भगवतीं महालक्ष्मीं सुखप्रदाम् ॥ भर्त्रा सह क्रीडनीयं दीपावल्यां जयेच्छया ॥ द्यूतं पत्याश्रितं स्त्रीभिरित्याह पुरुषोत्तमः ॥ इत्थं विधानेन पतिव्रता या करोति हृद्यं सुखरात्रिकाख्यम् ॥ व्रतं सपुत्रा धनधान्ययुक्ता सभर्तृका सा भवतीह सत्यम् ॥” इति ॥१०१ ॥