स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/अयोध्यामाहात्म्यम्/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

।। अगस्त्य उवाच ।। ।।
घोषार्कतीर्थाद्विप्रर्षे पश्चिमे दिक्तटे स्थितम् ।।
रतिकुण्डमिति ख्यातं सर्वपापहरं सदा ।। १ ।।
यत्र स्नानेन दानेन परां कांतिमवाप्नुयात् ।।
तत्पश्चिमदिशाभागे कुसुमायुधनामकम् ।। २ ।।
कुंडं प्रसिद्धमतुलं सर्वकामार्थसिद्धये ।।
यत्र स्नानेन दानेन कन्दर्पसदृशाकृतिम् ।।
लभते ना विधानेन मुने नास्त्यत्र संशयः ।। ३ ।।
रतिकुंडे तथा विप्र कुसुमायुधकुण्डके ।।
श्रद्धया कुरुते स्नानं स सौख्यपरमो भवेत् ।। ४ ।।
कुण्डद्वयेऽत्र मिथुनं यत्स्नानं कुरुते किल ।।
रतिकामाविव ख्यातौ सदा तौ सुंदरौ तदा ।। ५ ।।
तस्मादत्र विधानेन स्नातव्यं धर्मकांक्षिभिः ।।
दानं देयं यथाशक्त्या रतिकंदर्पतुष्टये ।। ६ ।।
भवेतां नियतं तस्य संतुष्टौ रतिमन्मथौ ।।
माघे विशदपंचम्यां यत्र स्नानं शुभप्रदम् ।। ७ ।।
रतिकुंडे पुरः स्नात्वा पश्चात्कंदर्प्पकुंडके ।।
स्नातव्यं तद्दिने विप्र मिथुनेन प्रयत्नतः ।। ८ ।।
रतिकंदर्प्पयोः पूजा विधातव्या विशेषतः ।।
वस्त्रादिभिरलंकारैः संपूज्यौ द्विजदंपती ।। ९ ।।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।। 2.8.8.१० ।।
चंदनागुरुकर्पूरकस्तूरीकुंकुमादिभिः ।।
वासोभिर्विविधैः पुष्पैः पूजयेद्द्विजदम्पती ।। ११ ।।
एवं कृते न संदेहो रतिकंदर्पतुष्टये ।।
तद्व्रजेन्मिश्रुनं विप्र रतिकंदर्प्पतुल्यताम् ।। १२ ।।
कुसुमायुधकुंडात्तु प्रतीच्यां दिशि संस्थितम् ।।
मन्त्रेश्वर इति ख्यातं तत्स्थानं भुवि दुर्लभम् ।। १३ ।।
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा मन्त्रेश्वरं विभुम् ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। १४ ।।
पुरा रामो देवकार्यं विधायामलकर्मकृत् ।।
कालेन सह संगम्य मन्त्रं चक्रे नरेश्वरः ।। १५ ।।
स्वर्गं प्रति प्रयाणाय यत्र स्नातौ जितेंद्रियः ।।
तत्रैव स्थापितं लिंगं मन्त्रेश्वर इति श्रुतम् ।। १६ ।।
तदुत्तरे सरो रम्यं कुमुदोत्पलमंडितम् ।।
तत्र स्नानं तथा दानं नानाफलदमुत्तमम् ।। १७।।
चैत्रशुक्लचतुर्दश्यां यात्रा सांवत्सरी स्मृता ।।
तत्र स्नानेन दानेन ब्राह्मणानां च पूजनात् ।।
अक्षयं स्वर्गमाप्नोति तत्र कार्या विचारणा ।। १६ ।।
मंत्रेश्वरस्य महिमा नहि केनापि शक्यते ।।
सम्यग्वर्णयितुं विप्र य उत्तमफलप्रदः ।।
मंत्रेश्वरसमं लिंगं न भूतं न भविष्यति ।। १९ ।।
सुगंधिपुष्पधूपादिकुसुमाद्यनुलेपनैः ।।
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ।। 2.8.8.२० ।।
एवं कृते न संदेहो मुक्तिस्तस्य करे स्थिता ।।
तत्रैवोत्तरभागे तु शीतला वर्ततेऽनघ ।। २१ ।।
तां संपूज्य नरो विद्वान्सर्वपापैः प्रमुच्यते ।।
सर्वदा पूजनं तस्याः सोमवारे विशेषतः ।।
कर्त्तव्यं सुप्रयत्नेन नृभिः सर्वार्थसिद्धये ।। २२ ।।
विस्फोटकादिकभये नरैश्च समुपस्थिते ।।
कर्तव्यं पूजनं सम्यग्रोगादिभयनाशनम् ।। २३ ।।
तदुत्तरे तु तत्रैव देवी वन्दीति विश्रुता ।।
यस्याः स्मरणमात्रेण निगडादिभयं नहि ।।२४।।
राज्ञा क्रुद्धेन ये बद्धाः शृंखलानिगडादिभिः ।।
बन्दी संस्मृत्य देवीं तु मुक्ताः स्युस्तत्क्षणाद्धि ते ।।२५।।
यात्रा तस्याः प्रयत्नेन कर्तव्या यत्नतो नरैः ।।
मंगले हि विशेषेण सर्वकामार्थसिद्धिदा ।।२६।।
गंधैः पुष्पैस्तथा धूपैर्दीपैरपि च सुव्रत ।।
नैवेद्यैर्विविधैर्वापि पूजनीया प्रयत्नतः ।। २७ ।।
बन्दीप्रीत्यै मुनिश्रेष्ठ देयं ब्राह्मणभोजनम् ।।
एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् ।। २८ ।।
तदुत्तरस्मिंस्तत्रैव चुडकी भुवि कीर्तिता ।।
वर्तते परमा सिद्धिरूपिणी स्मरणान्नृणाम् ।। २९ ।।
सुसंदिग्धेषु कार्येषु भये च समुपस्थिते ।।
यस्याः स्मरणतो नॄणां सर्वसिद्धिः प्रजायते ।। 2.8.8.३० ।।
अग्रे तस्याः सदा कार्या नृभिरंगुष्ठतो ध्वनिः ।।
दीपदानं प्रयत्नेन कर्त्तव्यं नियतात्मभिः ।। ३१ ।।
सर्वाभीष्टप्रदं नॄणां दीपदानं प्रशस्यते ।।
चतुर्दश्यां चतुर्दश्यां तस्या यात्रा विनिर्मिता ।। ३२ ।।
ततः पूर्वदिशाभागे वर्त्तते तीर्थमुत्तमम् ।।
महारत्न इति ख्यातं सर्वतीर्थोत्तमोत्तमम् ।। ३३ ।।
यत्र स्नानेन दानेन पूजया च द्विजन्मनाम् ।।
सर्वकर्मार्थसिद्धिः स्यान्नात्र कार्या विचारणा ।। ३४ ।।
भाद्रे कृष्णचतुर्दश्यां यात्रा सांवत्सरी स्मृता ।।
यात्राऽऽस्ते किल मुख्याऽस्य महारत्ना इति श्रुता ।। ३५ ।।
महारत्न इति ख्यातं तस्मात्तीर्थमनुत्तमम् ।।
तत्र दानं प्रकर्त्तव्यं द्विजसंतोषकारकम् ।। ३६ ।।
नारीभिरपि विप्रर्षे कर्त्तव्यो जागरोत्सवः ।।
वीर्यसौभाग्यसंपन्नसर्वसौख्याय सर्वदा ।।
तत्र स्नानं प्रयत्नेन कर्त्तव्यं श्रद्धया नरैः ।। ३७ ।।
ततो नैऋत्यदिग्भागे दुर्भराख्यं सरा शुभम् ।।
वर्तते सुकृतोदारं महाभरसरस्तथा ।। ३८ ।।
तत्र स्नानादवाप्नोति सदा स्वर्गपदं नरः ।।
धनं बहुविधं देयं वासांसि विविधानि च ।। ।। ३९ ।।
शिवपूजा प्रकर्त्तव्या स्नात्वा कुण्डद्वये नरैः ।।
नानाविधेन भावेन भक्त्या परमया युतैः ।। 2.8.8.४० ।।
गन्धादिभिः शुभैः पुष्पैरर्च्चनीयो महेश्वरः ।।
नीलकंठोंऽधकारातिराराध्यो योगिनामपि ।। ४१ ।।
इति ध्यात्वा शिवं सार्द्धं निष्पापं प्रयतो नरः ।।
सर्वकामानवाप्याशु शिवलोके वसेत्सदा ।। ४२ ।।
एवं कृत्वा नरो विप्र सर्वपापैः प्रमुच्यते ।।
महाभरे वरे तीर्थे तथा दुर्भरसंज्ञके ।। ४३ ।।
भाद्रकृष्णचतुर्दश्यां यः कुर्य्याच्छ्रद्धयाऽन्वितः ।।
शिवपूजां च विधिवद्द्विजपूजां विशेषतः ।। ४४ ।।
यः करोति नरो भक्त्या शिवलोके स संवसेत् ।।
एवं कुर्वन्नरो विद्वान्न मुह्यति कदाचन ।। ४५ ।।
विष्णुरुद्रौ च तस्यातिसुप्रसन्नौ सनातनौ ।।
तयोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ।। ४६ ।।
अतः किं बहुनोक्तेन विप्रतीर्थमनुत्तमम् ।।
सर्वपापौघशमनं सर्वाभीष्टकरं सदा ।। ४७ ।।
अतः परं प्रवक्ष्यामि तीर्थमन्यच्छुभावहम् ।।
यत्र यात्रा तथा दानं विना भाग्यं न संभवेत् ।। ४८ ।।
ईशाने दुर्भरस्थानान्महाविद्याभिधं महत् ।।
तस्य दर्शनतो नॄणां सिद्धयः स्युः करे स्थिताः ।। ४९ ।।
तदग्रे सरसि स्नात्वा महाविद्यां तु यो नरः ।।
पश्यति श्रद्धया भक्त्या स याति परमां गतिम् ।। 2.8.8.५० ।।
सिद्धपीठं तथा ख्यातं सम्यक्प्रत्ययकारकम् ।।
तत्र पूजा विधातव्या भक्त्या परमया द्विज ।। ५१ ।।
मंत्रं यः श्रद्धया विप्र शैवं शाक्तमथापि वा ।।
गाणपत्यं वैष्णवं वा तत्र यः प्रयतो नरः ।। ५२ ।।
एकाग्रमानसो विद्वन्नाराध्यावर्तयेत्सदा ।।
तस्य सिद्धिर्भवेन्नित्यं चमत्कारो भवेद्द्विज ।। ५३ ।।
तस्मादत्र प्रकर्तव्यं जपादिकमतंद्रितैः ।।
अष्टम्यां च नवम्यां च यात्रा स्यात्प्रतिमासिकी ।। ५४ ।।
देयान्यन्नानि बहुशो नानाविधफलानि च ।।
क्षीरेण स्नपनं कार्यं पूजनीया प्रयत्नतः ।। ५५ ।।
उच्चाटनादीन्यपि च मोहनादि विशेषतः ।।
अत्र स्थाने विशेषेण दुष्टमन्त्रोऽपि सिध्यति ।। ५६ ।।
सिद्धस्थाने परं मोक्षं वशीकरणमुत्तमम् ।।
जपो होमस्तथा दानं सर्वमक्षयतां व्रजेत् ।। ५७ ।।
आश्विने शुक्लपक्षस्य नवरात्रिषु सुव्रत ।।
यत्र गत्वा नरो विप्र सर्वपापैः प्रमुच्यते ।। ५८ ।।
यदा पूर्वं विनिर्जित्य रावणं लोकरावणम् ।।
समागतो रघुपतिः सीतालक्ष्मणसंयुतः ।। ५९ ।।
यत्र गत्वा पदा वीरो भरतो रामकांक्षया ।।
स्थितः सानुचरः श्रीमाञ्छ्रिया परमया युतः ।। 2.8.8.६० ।।
तत्रागमत्सुरगवी प्रादुर्भूता स्रवत्स्तनी ।।
तत्स्तनेभ्यः प्रसुस्राव दुग्धं बहुगुणाधिकम् ।। ६१ ।।
तद्भूमिपतितं दुग्धं दृष्ट्वा वानरराक्षसाः ।।
विस्मयं परमं जग्मुः प्रपपुस्ते चराचरम् ।। ६२ ।।
किमेतदिति राजेंद्र तानुवाच रघूद्वहः ।।
वसिष्ठो वेत्ति तत्सर्वं पृच्छामस्तं मुनिं वयम् ।। ६३ ।।
इत्युक्तास्तु ततः सर्वे वसिष्ठप्रमुखे स्थिताः ।।
ते पप्रच्छुः प्रांजलयः कृत्वा चाग्रेसरं नृपम् ।। ६४ ।।
वसिष्ठोऽपि क्षणं ध्यात्वा तमुवाच निराकुलम् ।।
राघवं प्रति संबोध्य सर्वेषामग्रतो मुनिः ।। ६५ ।।
।। ।। वसिष्ठ उवाच ।। ।।
शृणु राम महाबाहो कामधेनुरियं शुभा ।।
समागता तव स्नेहात्प्रस्रवंती स्तनात्पयः ।। ६६ ।।
दुग्धमध्ये समुद्भूतो रुद्रस्त्वां द्रष्टुमागतः ।।
निष्पन्नकार्य्यं देवानां निर्जितारातिमुत्तमम् ।। ६७ ।।
इमं संपूजय क्षिप्रमेतत्कुण्डस्य सन्निधौ ।।
शीघ्रं त्वमपि यत्नेन पूजयेमं शिवं शुभम् ।।
दुग्धेश्वरमिति ख्यातं क्षीरकुण्डे पवित्रकम् ।। ६८ ।।
।। अगस्त्य उवाच ।। ।।
ततो रघुपतिः श्रीमान्वसिष्ठोक्तविधानतः ।।
पूजयामास तल्लिंगं दुग्धेश्वरमिति स्मृतम् ।।६९।।
सीतया सत्कृतं यस्मात्तत्कुण्डं क्षीरसंगमम् ।।
सीताकुंडमिति ख्यातिं जगामानुपमां ततः।।2.8.8.७० ।।
सीताकुण्डे नराः स्नात्वा दृष्ट्वा दुग्धेश्वरं प्रभुम् ।।
सर्वपापैः प्रमुच्यंते नात्र कार्या विचारणा ।।७१।।
अत्र स्नानं जपो होमो दानं चाक्षयतां व्रजेत् ।।
सीताकुंडे तु संपूज्य सीतारामौ सलक्ष्मणौ ।।७२।।
दुग्धेश्वरं च संपूज्य सर्वान्कामानवाप्नुयात् ।।
ज्येष्ठे मासि चतुर्दश्यां यात्रा सांवत्सरी स्मृता।।७३।।
एवं यो विधिवत्कुर्याद्दयाधर्मविशारदः ।।
स याति परमं स्थानं यत्र गत्वा न शोचति ।। ७४ ।।
तत्र पूर्वदिशाभागे सुग्रीवरचितं महत् ।।
तीर्थं तपोनिधेस्तत्र वर्तते सन्निधौ शुभम् ।। ७५ ।।
यत्र स्नात्वा च दत्त्वा च रामं संपूज्य यत्नतः ।।
तस्मिन्नेव दिने तत्र सर्वान्कामानवाप्नुयात् ।। ७६ ।।
तत्प्रत्यग्दिशि वै स्थानं हनुमत्कुण्डमित्यपि ।।
तस्य पश्चिमतो विप्र विभीषणसरः दूरर ।। ७७ ।।
तयोः स्नानेन दानेन रामसंपूजनेन च ।।
सर्वान्कामानवाप्नोति तस्मिन्नेव विधानतः ।।
इयं सा परमा मेध्याऽयोध्या धर्मनिधिः स्मृता ।। ७८ ।।
इत्युक्तास्तु ततः सर्वे वसिष्ठमुनिमादरात् ।।
पप्रच्छुर्विनयात्क्षिप्रं विभीषणपुरःसराः ।।
कथयस्व तपोराशे कथामेतां सुदुर्लभाम् ।। ७९ ।।
अयोध्यायाः परं विप्र माहात्म्यं कथयंति यत् ।।
तत्सर्वं कथय क्षिप्रं श्रुत्वा माहात्म्यमुत्तमम् ।। 2.8.8.८० ।।
यथा यात्रां विधास्यामः क्रमेण च विधानतः ।।
तदस्मासु कृपां कृत्वा कथयस्व तपोनिधे ।। ८१ ।।
।। वसिष्ठ उवाच ।। ।।
शृण्वन्तु मुनयः सर्वे अयोध्यामहिमाद्भुतम् ।।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशय ।। ।। ८२ ।।
इदं गुह्यतरं क्षेत्रमयोध्याभिधमुत्तमम् ।।
सर्वेषामेव भूतानां हेतुर्मोक्षस्यः सर्वदा ।। ८३ ।।
अस्मिन्सिद्धाः सदा देवा वैष्णवं व्रतमास्थिताः ।।
नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः ।। ८४ ।।
अभ्यस्यंति परं योगं युक्तप्राणा जितेन्द्रियाः ।।
नानावृक्षसमाकीर्णे नानाविहगवासिनि ।। ८५ ।।
कमलोत्पलशोभाढ्ये सरोभिः समलंकृते ।।
अप्सरोगणसंकीर्णे सर्वदा सेविते शुभे ।। ८६ ।।
रोचते हि सदा वासः क्षेत्रे नित्यं हरेरिह ।।
मन्यमाना विष्णुभक्ता विष्णौ सर्वेऽर्पितक्रियाः।।८७।।
यथा मोक्षमिहायांति नान्यत्र हि तथा क्वचित् ।।
अतः श्रेष्ठतमं क्षेत्रं यस्माच्च वसतिर्हरेः ।।
महाक्षेत्रमिदं यस्मादयोध्याभिधमुत्तमम् ।। ८८ ।।
नैमिषे च कुरुक्षेत्रे गंगाद्वारे च पुष्करे ।।
स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते तथा ।। ८९ ।।
इह संप्राप्यते यद्वत्तत एव विशिष्यते ।।
प्रयागे वा भवेन्मोक्ष इह वा हरिसंश्रयात् ।।
सर्वस्मादपि तीर्थाग्र्यादिदमेव महत्कृतम् ।। 2.8.8.९० ।।
अव्यक्तलिंगैर्मुनिभिः सर्वैः सिद्धैर्महर्षिभिः ।।
इह संप्राप्यते मोक्षो दुर्ल्लभोऽन्यत्र यो मतः ।। ।। ९१ ।।
तेभ्यः प्रयच्छति हरिर्योगमैश्वर्य्यमुत्तमम् ।।
आत्मनश्चैव सायुज्यमीप्सितं स्थानमुत्तमम् ।। ९२ ।।
ब्रह्मा देवर्षिभिः सार्द्धं श्रीश्च वायुर्दिवाकरः ।।
देवराजस्तथा शक्रो ये चान्येऽपि दिवौकसः ।। ९३ ।।
उपासते महात्मानः सर्वत्र हरिमादरात् ।।
अन्येपि योगिनः सिद्धाः क्षेत्ररूपा महाव्रताः ।।
अनन्यमनसो भूत्वा सर्वदोपासते हरिम् ।। ९४ ।।
विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः ।।
इह क्षेत्रे मृतः सोपि संसारी न पुनर्भवेत् ।। ९५ ।।
ये पुनर्निगमाधीनाः सत्रस्था विजितेंद्रियाः ।।
व्रतिनश्च निरारंभाः सर्वे ते हरिभाविताः ।। ९६ ।।
देहभंगं समापद्य धीमंतः संगवर्जिताः ।।
गतास्ते च परं मोक्षं प्रसादात्सर्वदा हरेः ।। ९७ ।।
जन्मान्तरसहस्रेषु युञ्जन्योगी न चाप्नुयात् ।।
तमिहैव परं मोक्षं मरणादपि गच्छति ।। ९८ ।।
एतत्संक्षेपतो वच्मि क्षेत्रस्य महिमाद्भुतम् ।।
एतदेव परं स्थानमेतदेव परं पदम् ।।
एतादृङ्नापरं स्थानं पुनरन्यत्र दृश्यते ।। ९९ ।।
अत्र गत्वा प्रयत्नेन यात्रा पुण्याभिकांक्षिभिः ।।
कर्तव्या विधिवद्धीराः क्रमेण श्रद्धयान्वितैः ।। ।। 2.8.8.१०० ।।
प्रथमेऽहनि कर्त्तव्य उपवासो यतात्मभिः ।।
नियमेन ततः स्नानं दानं चैव स्वशक्तितः ।। १०१ ।।
उपावृत्तस्तु पापेभ्यो यस्य वासो गुणैः सह ।।
उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।। १०२ ।।
उपवासं विधायासौ चक्रतीर्थे नरः कृती ।।
उपवासदिने स्नायाद्दद्याच्चैव स्वशक्तितः ।। १०३ ।।
विप्रं संपूज्य विधिवत्पश्येद्विष्णुहरिं विभुम् ।।
स्वर्गद्वारे नरः स्नात्वा विष्णुं संपूज्य यत्नतः ।। १०४ ।।
क्षौरं च कारयेत्तत्र व्रती धर्माभिधे ततः ।।
पापमोचनके स्नानमृणमोचनके ततः ।। १०५ ।।
स्नात्वा सहस्रधारायां शेषं संपूज्य यत्नतः ।।
दृष्ट्वा चंद्रहरिं देवं ततो धर्महरिं विभुम्।। १०६ ।।
ततश्चक्रहरिं दृष्ट्वा दद्याच्चैव स्वशक्तितः ।।
ब्रह्मकुण्डे नरः स्नात्वा सर्वकामार्थसिद्धये ।।
महाविद्यासमीपे तु रात्रौ जागरणं चरेत् ।। १०७ ।।
ततः प्रभाते विमले पुनरुत्थाय सद्व्रती ।।
स्वर्गद्वारे प्रयत्नेन विधिवत्स्नानमाचरेत् ।। १०८ ।।
श्राद्धं च विधिवत्कृत्वा दत्त्वा चैव स्वशक्तितः।।
विष्णुं संपूज्य विधिवद्विप्रानपि पुनःपुनः ।।१०९।।
दंपती च प्रयत्नेन पूज्यौ वस्त्रादिभिस्तथा ।।
श्रद्धया परया युक्तैर्दातव्या भूरिदक्षिणा ।। 2.8.8.११० ।।
विप्रान्संपूज्य विधिवद्भुंजीत प्रयतो नरः ।। १११ ।।
अन्येद्युरपि चोत्थाय श्रद्धया परया युतः ।।
रुक्मिणीप्रभृतीन्यत्र पश्येत्तीर्थानि च क्रमात् ।। ११२ ।।
तत्रतत्र नरः स्नात्वा दत्त्वा चैव स्वशक्तितः ।।
विष्णुं संपूज्य यत्नेन मनोवाक्कायनिर्मलः ।। ११३ ।।
यात्रां समापयेत्सम्यङ्नियतात्मा शुचिव्रतः ।।
यत्र क्वापि मृतो धीरः परं मोक्षमवाप्नुयात् ।। ११४ ।।
।। अगस्त्य उवाच ।। ।।
वसिष्ठोक्तमिति श्रुत्वा कृत्वा चैव यथाविधि ।।
विभीषणपुरोगास्ते बभूवुर्निर्मलास्तदा ।। ११५ ।।
इति बहुलविधानैस्तीर्थयात्रां विधाय प्रचुरसुकृतपूर्णास्ते च सुग्रीवमुख्याः ।।
गतमलिनसुदेहाः स्वर्गचर्याप्रयत्नादुपगुणितगुणौघास्ते बभूवुः समस्ताः ।। ११६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडेऽयोध्यामाहात्म्ये महारत्नतीर्थदुर्भरमहाभरतीर्थमहाविद्यातीर्थ सिद्धपीठक्षीरेश्वरसीताकुण्ड सुग्रीवतीर्थहनुमत्कुण्ड विभीषणसरस्तीर्थायोध्यायात्राविधिक्रमवर्णनंनामाष्टमोऽध्यायः ।। ८ ।।