स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/अयोध्यामाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः

।। अगस्त्य उवाच ।। ।।
तस्मात्संगमतो विप्र पश्चिमे दिक्तटे स्थितम् ।।
सीताकुण्डमितिख्यातं सर्वकामफलप्रदम् ।। १ ।।
यत्र स्नात्वा नरो विप्र सर्वपापैः प्रमुच्यते ।।
सीतया किल तत्कुण्डं स्वयमेव विनिर्मितम् ।।
रामेण वरदानाच्च महाफलनिधीकृतम् ।। २ ।।
।। श्रीराम उवाच ।। ।।
शृणु सीते प्रवक्ष्यामि माहात्म्यं भुवि यादृशम् ।।
त्वत्कुण्डस्यास्य सुभगे त्वत्प्रीत्या कथयाम्यहम्।। ३ ।।
अत्र स्नानं च दानं च जपो होमस्तपोऽथवा।।
सर्वमक्षयतां याति विधानेन शुचिस्मिते ।। ४ ।।
मार्गकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ।।
सर्वपापहरं देवि सर्वदा स्नायिनां नृणाम् ।। ५ ।।
इति रामो वरं प्रादात्सीतायै च प्रजाप्रियः ।।
तदाप्रभृति सर्वत्र तत्तीर्थं भुवि वर्त्तते ।। ६ ।।
सीताकुण्डमिति ख्यातं जनानां परमाद्भुतम् ।।
तस्मिंस्तीर्थे नरः स्नात्वा नूनं राममवाप्नुयात् ।। ७ ।।
तत्र स्नानेन दानेन तपसा च विशेषतः ।।
गन्धैर्माल्यैर्धूपदीपैर्न्नानाविभवविस्तरैः ।।
रामं संपूज्य सीतां च मुक्तः स्यान्नात्र संशयः ।। ८ ।।
मार्गे मासि च स्नातव्यं गर्भवासो न जायते ।।
अन्यदापि नरः स्नात्वा विष्णुलोकं स गच्छति ।। ९ ।।
विभोर्विष्णुहरेर्विप्र रम्ये पश्चिमदिक्तटे ।।
देवश्चक्रहरिर्नाम सर्वाभीष्टफलप्रदः ।। 2.8.6.१० ।।
तस्य चक्रहरेर्विप्र महिमा न हि मानवैः ।।
शक्यो वर्णयितुं धीरैरपि बुद्धिमतां वरैः।।११।।
ततः पश्चिमदिग्भागे नाम्ना पुण्यं हरिस्मृति ।।
विष्णोरायतनं ख्यातं परमार्थफलप्रदम्।।
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। १२ ।।
तयोर्दर्शनतो यांति तेषां पापानि देहिनाम् ।।
तानि पापानि यावंति कुर्वते भुवि ये नराः ।। १३ ।।
पुरा देवासुरे जाते संग्रामे भृशदारुणे ।।
दैत्यैर्वरमदोत्सिक्तैर्देवा युधि पराजिताः ।। १४ ।।
तेषां पलायमानानां देवानामग्रणीर्हरः ।।
संस्तभ्य चैव तान्सर्वान्पुरस्कृत्यांबुजासनम् ।। १५ ।।
क्षीरोदशायिनं विष्णुं शेषपर्य्यंकशायिनम् ।।
लक्ष्म्योपविष्टं पार्श्वे च चरणांबुजहस्तया ।। १६ ।।
नारदाद्यैर्मुनिवरैरुद्गीतगुगौरवम् ।।
गरुडेन पुरःस्थेनानिशमंजलिना स्तुतम् ।। १७ ।।
क्षीराब्धिजलकल्लोलमदबिन्द्वंकिताम्बरम् ।।
तारकोत्करविस्फारतारहारविराजितम् ।। ।। १८ ।।
पीतांबरमतिस्मेरविकाशद्भावभावितम् ।।
बिभ्रतं कुण्डलं स्थूलं कर्णाभ्यां मौक्तिकोज्ज्वलम् ।। १९ ।।
रत्नवल्लीमिव स्वच्छां श्वेतद्वीपनिवासिनीम् ।।
किरीटं पद्मरागाणां वलयं दधतं परम् ।। 2.8.6.२० ।।
मित्रस्य राहुवित्रासनिवर्त्तनमिवापरम् ।।
सकौस्तुभप्रभाचक्रं बिभ्राणं प्रवलारुणम् ।। २१ ।।
परां चतुर्मुखोत्पत्तिकल्पसंकल्पनामिव ।।
शरणं स जगामाशु विनीतात्मा स्तुवन्निति ।। २२ ।।
तस्मिन्नवसरे शंभुः सर्वदेवगणैः सह ।।
तुष्टाव प्रयतो भूत्वा विष्णुं जिष्णुं सुरद्विषाम् ।। २३ ।।
।। ईश्वर उवाच ।। ।।
संसारार्णवसंतारसुपर्णसुखदायिने ।।
मोह तीव्रतमो हारि चन्द्राय हरये नमः ।। २४ ।।
स्फुरत्संविन्मणिशिखां चित्तसंगतिचंद्रिकाम् ।।
प्रपद्ये भगवद्भक्तिमानसोद्यानवाहिनीम् ।। २५ ।।
हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम् ।।
या पूर्वकोटिर्भावानां सत्त्वानां वैष्णवीति वा ।। २६ ।।
पवनांदोलितांभोजदलपर्वांतवर्त्तिनाम् ।।
पततामिव जन्तूनां स्थैर्यमेका हरिस्मृतिः ।। २७ ।।
नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने ।।
हृत्कुशेशयकोषश्रीसमुन्मेषविधायिने ।। २८ ।।
नमस्तस्मै यमवते योगिनां गतये सदा ।।
परमेशाय वै पारे महसां तमसां तथा ।। २९ ।।
यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे ।।
नमः सरस्वतीगीतदिव्यसद्गणशालिने ।। 2.8.6.३० ।।
शांताय धर्मनिधये क्षेत्रज्ञायामृतात्मने ।।
शिष्ययोगप्रतिष्ठाय नमो जीवैकहेतवे ।।
घोराय मायाविधये सहस्रशिरसे नमः ।। ३१ ।।
योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ।।
नमः सलिलरूपाय कारणाय जगत्स्थितेः ।। ३२ ।।
कार्यमेयाय बलिने जीवाय परमात्मने ।।
गोप्त्रे प्राणाय भूतानां नमो विश्वाय वेधसे ।। ३३ ।।
दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ।।
वीर्यायानंतमनसे जगद्भावभृते नमः ।। ३४ ।।
संसारकारणाज्ञानमहासंतमसच्छिदे ।।
अचिन्त्यधाम्ने गुह्याय रुद्रायात्युद्विजे नमः ।। ३५ ।।
शान्ताय शान्तकल्लोलकैवल्यपददायिने ।।
सर्वभावातिरिक्ताय नमः सर्वमयात्मने ।। ३६ ।।
इन्दीवरदलश्यामं स्फूर्जत्किंजल्कविभ्रमम्।।
बिभ्राणं कौस्तुभं विष्णुं नौमि नेत्ररसायनम् ।। ३७ ।।
।। अगस्त्य उवाच ।। ।।
इति स्तुतः प्रसन्नात्मा वरदो गरुडध्वजः ।।
ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः ।।
उवाच मधुरं वाक्यं प्रश्रयावनतान्सुरान् ।। ।। ३८ ।।
।। श्रीभगवानुवाच ।। ।।
जानामि विबुधाः सर्वमभिप्रायं समाधितः ।।
दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः ।। ३९ ।।
सबलैर्बलहीनानां प्रतापो विजितः परैः ।।
सांप्रतं तु विधास्यामि तपो युष्मद्बलाय वै ।। 2.8.6.४० ।।
अयोध्यानगरे गत्वा करिष्ये तप उत्तमम् ।।
गुप्तो भूत्वा भवत्तेजोविवृद्ध्यै दैत्यशान्तये ।। ४१ ।।
भवन्तोऽपि तपस्तीव्रं कुर्वंत्वमलमानसाः ।।
अयोध्यां प्राप्यतां देवा दैत्यनाशाय सत्वरम् ।। ४२ ।। ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वांतर्दधे देवान्देवो गरुडवाहनः ।।
अयोध्यामागतः क्षिप्रं चकार तप उत्तमम् ।। ४३ ।।
गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये ।।
तेन गुप्तहरिर्नाम देवो विख्यातिमागतः ।। ४४ ।।
आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम् ।।
सुदर्शनाख्यं तच्चक्रं तेन चक्रहरिः स्मृतः ।। ४५ ।।
तयोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।।
हरस्तेन प्रभावेण देवाः प्रबलतेजसः ।। ४६ ।।
जित्वा दैत्यान्रणैः सर्वान्संप्राप्य स्वपदान्यथ ।।
रेजिरे विपुलानंदैरसुरानार्दयंस्ततः ।। ४७ ।।
ततः सर्वे समेत्याशु बृहस्पतिपुरस्सराः ।।
देवाः सर्वेऽनमन्मौलिमालार्च्चित पदाम्बुजम् ।।
हरिं द्रष्टुमथागच्छन्नयोध्यायां समुत्सुकाः ।। ४८ ।।
आगत्य च ततः श्रुत्वा नानाविधगुणादरम् ।।
भावैः पुण्यैः समभ्यर्च्य नत्वा प्रांजलयस्तदा ।।
हरिमेकाग्रमनसा ध्यायन्तो ध्याननिष्ठिताः ।। ४९ ।।
तानागतान्समालोक्य पदभक्त्या कृतानतीन् ।।
प्रसन्नः प्राह विश्वात्मा पीतवासा जनार्दनः ।। 2.8.6.५० ।।
।। श्रीभगवानुवाच ।। ।।
भोभो देवा भवन्तश्च चिराद्दिष्टयाद्यसंगताः ।।
अधुना भवतामिच्छां कां करोमि सुरा अहम् ।।
तद्ब्रूत त्वरिता मह्यं किं विलंबेन निर्भयाः ।। ५१ ।।
देवा ऊचुः ।। ।।
भगवन्देवदेवेश त्वया संप्रति सर्वशः ।।
सर्वं समभवत्कार्यं निष्पन्नं वै जगत्पते ।। ५२ ।।
तथापि सर्वदा भाव्यं नित्यं देव त्वया विभो ।।
अस्मद्रक्षार्थमत्रैव विजितेन्द्रियवर्त्मना ।।५३।।
एवमेव सदा कार्यं शत्रुपक्षविनाशनम् ।।५४।।
।। श्रीभगवानुवाच ।। ।।
एवमेतत्करिष्यामि भवतामरिसंजयम् ।।
श्रीमतां तेजसो वृद्धिं करिष्यामि सदासुराः ।।
कथेयं च सदा ख्यातिं लोके यास्यति चोत्तमाम् ।। ५५ ।।
अयं नाम्ना गुप्तहरिर्देवो भुवनविश्रुतः ।।
मदीयं परमं गुह्यं स्थानं ख्यातिं समेष्यति ।।५६ ।।
अत्र यः प्राणिनां श्रेष्ठः पूजायज्ञजपादिकम् ।।
करोति परया भक्त्या स याति परमां गतिम्।। ५७।।
अत्र यः कुरुते दानं यथाशक्त्या जितेन्द्रियः ।।
स स्वर्गमतुलं प्राप्य न शोचति कदाचन ।। ५८ ।।
अत्र मत्प्रीतये देवाः प्राणिभिर्धर्मकांक्षिभिः ।।
दातव्या गौः प्रयत्नेन सवत्सा विधिपूर्वकम् ।। ।। ५९ ।।
स्वर्णशृंगी रौप्यखुरी वस्त्रद्वयसमावृता ।।
कांस्योपदोहना ताम्रपृष्ठी बहुगुणान्विता।। 2.8.6.६०।।
रत्नपुच्छा दुग्धवती घंटाभरणभूषिता ।।
अर्चिता गंधपुष्पाद्यैः सुप्रसन्नाऽमृतप्रजा ।। ६१ ।।
द्विजाय वेदविज्ञाय गुणिने निर्मलात्मने ।।
विष्णुभक्ताय विदुषे आनृशंस्यरताय च ।। ६२ ।।
ब्राह्मणाय च गौर्देया सर्वत्रसुखमश्नुते ।।
न देया द्विजमात्राय दातारं सोऽवपातयेत् ।। ६३ ।।
मत्प्रीतयेऽत्र दातव्या निर्मलेनांतरात्मना ।। ६४ ।।
स्नातं यैश्च विशुद्ध्यर्थमत्र मद्भक्तितत्परैः ।।
तेषां स्वर्गतयो नित्यं मुक्तिः करतले स्थिता ।। ६५ ।।
तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम् ।।
जपहोमादिकं चापि कर्त्तव्यं यत्नतो नरैः ।। ६६ ।।
भवन्तोऽपि विधानेन यात्रां कुर्वंतु सत्तमाः ।।
अस्माद्गुप्तहरेः स्थानान्निकटे संगमे शुभे ।। ६७ ।।
प्रत्यग्भागे गोप्रताराद्योजनत्रयसंमिते ।।
घर्घरांबुतरंगिण्या सरयूः संगता यतः ।। ६८ ।।
अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः ।।
देवो गुप्तहरिर्नाम सर्वकामार्थसिद्धिदः ।। ६९ ।।
।। अगस्त्य उवाच ।। ।।
इत्युक्त्वांतर्दधे देवः पीताम्बरधरोऽच्युतः ।।
देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः ।।
अयोध्यायां स्थिता नित्यं हरेर्गुणविमोहिताः ।। 2.8.6.७० ।।
तदाप्रभृति विप्रेंद्र तत्स्थानं भुवि पप्रथे ।।
कार्तिक्यां तु विशेषेण यात्रा सांवत्सरी भवेत् ।। ७१ ।।
विभोर्गुप्तहरेस्तत्र संगमस्नानपूर्विका ।।
गोप्रतारे च तीर्थेऽस्मिन्सरयूघर्घराश्रिते ।।
स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः ।। ७२ ।।
तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः ।।
मार्गशार्षस्य विशदे पक्षे हरितिथौ नरैः ।। ७३ ।।
एवं यः कुरुते यात्रां विष्णुलोके स मोदते ।।७४ ।।
।। श्रीसूत उवाच ।। ।।
एवमुक्त्वा तु विरते मुनौ कलशजन्मनि ।।
कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः ।। ७५ ।।
।। व्यास उवाच ।। ।।
अत्याश्चर्य्यमयीं ब्रह्मन्कथामेतां तपोधन ।।
उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम् ।। ७६ ।।
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम् ।। ७७ ।।
शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम् ।।
स्कन्ददेवाच्छ्रुतं सम्यक्कथयामि तथा तव ।। ७८ ।।
दशकोटिसहस्राणि दशकोटिशतानि च ।।
तीर्थानि सरयूनद्या घर्घरोदकसंगमे ।।
निवसंति सदा विप्र स्कन्दादवगतं मया ।।७९ ।।
देवतानां सुराणां च सिद्धानां योगिनां तथा ।।
ब्रह्मविष्णुशिवानां च सान्निध्यं सर्वदा स्थितम् ।। 2.8.6.८० ।।
तस्मिन्संगमसलिले नरः स्नात्वा समाहितः ।।
संतर्प्य पितृदेवांश्च दत्त्वा दानं स्वशक्तितः ।। ८१ ।।
हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात् ।।
तदिहैकमना विप्र शृणु यत्कथयामि ते ।। ८२ ।।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।।
कुरुक्षेत्रे महाक्षेत्रे राहुग्रस्ते दिवाकरे ।। ८३ ।।
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत् ।। ८४ ।।
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि ।।
अयने च व्यतीपाते स्नानं वैष्णवलोकदम् ।। ८५ ।।
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।।
विधिवत्संगमे स्नायात्पौष्यां तदविशेषतः ।। ८६ ।।
लंबतेऽवाक्छिरा यस्तु युगानामयुतं पुमान् ।।
स्नातानां शुचिभिस्तोयैः संगमे प्रयतात्मनाम् ।। ८७ ।।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ।। ८८ ।।
पौषे मासि विशेषेण स्नानं बहुफलप्रदम् ।। ८९ ।।
पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वर्णसंकरः ।।
स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम् ।।2.8.6.९० ।।
पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम् ।।
विधिवच्छ्रद्धया विप्र शृणु तस्यापि यत्फलम् ।।९१।।
नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत् ।।
तत्सर्वं नश्यति क्षिप्रं तोयस्थं लवणं यथा ।। ।। ९२ ।।
आयुरारोग्यमैश्वर्यं संततीः सौख्यमुत्तमम् ।।
प्राप्नोति फलदं नित्यं दीपदः पुण्यभाङ्नरः ।। ९३ ।।
यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती ।।
जागरं कुरुते धीरः स गच्छेद्भवनं हरेः ।। ९४ ।।
जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः ।।
होमं च कारयेद्विप्रो नियतात्मा शुचिव्रतः ।। ९५ ।।
वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् ।।
गीतवादित्रनृत्यैश्च विष्णुतोषणकारकैः ।।
कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः ।। ९६ ।।
ततः प्रभाते विमले स्नात्वा विधिवदादरात् ।।
विष्णुं संपूज्य विप्रांश्च देयं स्वर्णादि शक्तितः ।। ९७ ।।
स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः ।।
संगमे विधिवद्विद्वान्स याति परमां गतिम् ।। ९८ ।।
वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः ।। ९९ ।।
हरिः पूज्यो द्विजाः सम्यक्संतोष्याः शक्तितो नरैः ।।
तेन विष्णोः परा तुष्टिः पापानि विफलानि च ।।
भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।। ।। 2.8.6.१०० ।।
तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत ।। १०१ ।।
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।।
तर्प्यमाणाः परां तृप्तिं यांति संगमजैर्जलैः ।। १०२ ।।
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।।
गतिमन्वेषमाणानां न संगमसमा गतिः ।। १०३ ।।
सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह ।।
पुंसस्तारयते सर्वान्संगमे स्नानमाचरन् ।। १०४ ।।
जात्यंधैरिह ते तुल्यास्तथा पंगुभिरेव च ।।
समेत्यात्र च न स्नान्ति सरयूघर्घरसंगमे ।। १०५ ।।
वर्णानां ब्राह्मणो यद्वत्तथा तीर्थेषु संगमः ।।
सरयूघर्घरायोगे वैष्णवस्थो नरः सदा ।। १०६ ।।
अत्र स्नानेन दानेन यथा शक्त्या जितेंद्रियः ।।
होमेन विधिपुक्तेन नरः स्वर्गमवाप्नुयात् ।। १०७ ।।
नरो वा यदि वा नारी विधिवत्स्नानमाचरेत् ।।
स्वर्गलोकनिवासो हि भवेत्तस्य न संशयः ।। १०८ ।।
यथा वह्निर्दहेत्सर्वं शुष्कमार्द्रमथापि वा ।।
भस्मीभवंति पापानि तत्समागममज्जनात् ।। १०९ ।।
एकतः सर्वतीर्थानि नानाविधिफलानि वै ।।
सरयूघर्घरोत्पन्नसंगमस्त्वधिको भवेत् ।। 2.8.6.११० ।।
सर्वतीर्थावगाहस्य फलं यादृक्स्मृतं श्रुतौ ।।
तादृक्फलं नृणां सम्यग्भवेत्संगममज्जनात् ।। १११ ।।
गोप्रताराभिधं तीर्थमपरं वर्ततेऽनघ ।।
सन्निधौ संगमस्यैव महापातकनाशनम् ।। ११२ ।।
यत्र स्नानेन दानेन न शोचति नरः क्वचित् ।।
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ।। ११३ ।।
वाराणस्यां यथा विद्वन्वर्त्तते मणिकर्णिका ।।
उज्जयिन्यां यथा विप्र महाकालनिकेतनम् ।। ११४ ।।
नैमिषे चक्रवापी तु यथा तीर्थतमा स्मृता ।।
अयोध्यायां तथा विप्र गोप्रताराभिधं महत् ।। ११५ ।।
यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः ।।
अवापुः स्वर्गमतुलं निमज्ज्य परमांभसि ।। ११६ ।।
।। व्यास उवाच ।। ।।
अवापुस्ते कथं स्वर्गं साकेतनगरीजनाः ।।
कथं च राघवो विद्वन्नेतत्कथय सुव्रत ।। ११७ ।।
।। अगस्त्य उवाच ।। ।।
सावधानः शृणु मुने कथामेतां सुविस्तरात् ।।
यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः ।। ११८ ।।
पुरा रामो विधायैव देवकार्य्यमतंद्रितः ।।
स्वर्गं गंतुं मनश्चक्रे भ्रातृभ्यां सह वीरधीः ।। ११९ ।।
ततो निशम्य चारेण वानराः कामरूपिणः ।।
ऋक्षगोपुच्छरक्षांसि समुत्पेतुरनेकशः ।। 2.8.6.१२० ।।
देवगंधर्वपुत्राश्च ऋषिपुत्राश्च वानराः ।।
रामक्षयं विदित्वा तु सर्व एव समागताः ।। १२१ ।।
ते राममनुगत्योचुः सर्वे वानरयूथपाः ।।
तवानुगमने राजन्संप्राप्ताः स्म इहानघ ।। १२२ ।।
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ।।
सर्वे खलु हताः स्याम दण्डेन महता नृप ।। १२३ ।।
श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम्।।
विभीषणमुवाचाथ राघवस्तत्क्षणं गिरा ।। २२४ ।।
यावत्प्रजा धरिष्यंति तावदेव विभीषण ।।
कारयस्व महद्राज्यं लंकां त्वं पालयिष्यसि ।। १२५ ।।
शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु ।।
प्रजास्त्वं रक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। १२६।।
एवमुक्त्वा तु काकुत्स्थो हनुमंतमथाब्रवीत् ।।
वायुपुत्र चिरं जीव मा प्रतिज्ञां वृथा कृथाः ।। १२७ ।।
यावल्लोका वदिष्यंति मत्कथां वानरर्षभ ।।
तावत्त्वं धारय प्राणान्प्रतिज्ञां प्रतिपालयन् ।। १२८ ।।
मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ ।।
यावल्लोका धरिष्यंति तावदेतौ धरिष्यतः ।। १२९ ।।
पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः ।।
एवमुक्त्वा तु काकुत्स्थः सर्वानथ च वानरान् ।।
मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् ।। 2.8.6.१३० ।।
प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः ।।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ।। १३१ ।।
अग्निहोत्राणि यांत्वग्रे दीप्यमानानि सर्वशः ।।
वाजपेयातिरात्राणि निर्यातु च ममाग्रतः ।। १३२ ।।
ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा ।।
चकार विधिवत्कर्म महाप्रास्थानिकं विधिम् ।। १३३ ।।
ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः ।।
कुशानादाय पाणिभ्यां महाप्रस्थानमुद्यतः ।। ।। १३४ ।।
न व्याहरच्छुभं किंचिदशुभं वा नरेश्वरः ।।
निष्क्रम्य नगरात्तस्मात्सागरादिव चंद्रमाः ।। १३५ ।।
रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता ।।
दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः ।। १३६ ।।
नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च ।।
अनुव्रजंति काकुत्स्थं सर्वे पुरुष विग्रहाः ।। १३७ ।।
वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे ।।
ॐकारोऽथ वषङ्कारः सर्वे रामं तदाऽव्रजन् ।। १३८ ।।
ऋषयश्च महात्मानः सर्वे चैव महीधराः ।।
अनुगच्छन्ति काकुत्स्थं स्वर्गद्वारमुपस्थितम् ।। १३९ ।।
तथानुयांति काकुत्स्थमंतःपुरगताः स्त्रियः ।।
सवृद्धाबालदासीकाः सपर्षद्द्वाररक्षकाः ।। 2.8.6.१४० ।।
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।।
रामं व्रजंतमागम्य रघुवंशमनुव्रताः ।। १४१ ।।
ततो विप्रा महात्मानः साग्निहोत्राः समंततः ।।
सपुत्रदाराः काकुत्स्थमनुगच्छति सर्वशः ।। १४२ ।।
मंत्रिणो भृत्ययुक्ताश्च सपुत्राः सहबांधवाः ।।
सर्वे ते सानुगाश्चैव ह्यनु गच्छंति राघवम् ।। १४३ ।।
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।।
गच्छंतमनुगच्छंतिराघवं गुणरंजिताः ।। १४४ ।।
तथा प्रजाश्च सकलाः सपुत्राश्च सवबांधवाः ।।
राघवस्यानुगाश्चासन्दृष्ट्वा विगतकल्मषम् ।। १४५ ।।
स्नाताः शुक्लाम्बरधराः सर्वे प्रयतमानसाः ।।
कृत्वा किलकिलाशब्दमनुयाताश्च राघवम् ।। १४६ ।।
न कश्चित्तत्र दीनोऽभून्न भीतो नातिदुःखितः ।।
प्रहृष्टा मुदिताः सर्वे वभूवुः परमाद्भुताः ।। १४७ ।।
द्रष्टुकामाश्च निर्वाणं राज्ञो जनपदास्तथा ।।
संप्राप्तास्तेऽपि दृष्ट्वैव नभोमार्गेण चक्रिणम् ।। १४८ ।।
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।।
आगत्य परया भक्त्या पृष्ठतः समुपाययुः ।। १४९ ।।
तानि भूतानि नगरे ह्यन्तर्धानगतान्यपि ।।
राघवं तेऽप्यनुययुः स्वर्गद्वारमुपस्थितम् ।। 2.8.6.१५० ।।
यानि पश्यंति काकुत्स्थं स्थावराणि चराणि च ।।
सत्त्वानि स्वर्गगमने मतिं कुर्वंति तान्यपि ।। १५१ ।।
नासीत्सत्त्वमयोध्यायां सुसूक्ष्ममपि किंचन ।।
यद्राघवं नानुयाति स्वर्गद्वारमुपस्थितम् ।। १५२ ।।
अथार्द्धयोजनं गत्वा नदीं पश्चान्मुखो ययौ ।।
सरयूं पुण्यसलिलां ददर्श रघुनंदनः।। १५३ ।।
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ।।
सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ।।
आययौ तत्र काकुत्स्थं स्वर्गद्वारमुपस्थितम् ।। १५४ ।।
विमानशतकोटीभिर्दिव्याभिः सर्वतो वृतः ।।
दीपयन्सर्वतो व्योम ज्योतिर्भूतमनुत्तमम् ।। १५५ ।।
स्वयंप्रभैश्च तेजोभिर्महद्भिः पुण्यकर्मभिः ।।
पुण्या वाता ववुस्तत्र गन्धवंतः सुखप्रदाः ।। १५६ ।।
सपुण्यपुष्पवर्षं च वायुयुक्तं महाजवम् ।।
गन्धर्वैरप्सरोभिश्च तस्मिन्सूर्यउपस्थितः ।।१५७ ।।
शरयूसलिलं रामः पद्भ्यां स समुपास्पृशत् ।।
ततो ब्रह्मा सुरैर्युक्तः स्तोतुं समुपचक्रमे ।।१५८।।
त्वं हि लोकपतिर्देव न त्वां जानाति कश्चन ।।
अहं ते वै विशालाक्ष भूतपूर्वपरिग्रहः ।। १५९ ।।
त्वमचिंत्यं महद्भूतमक्षयं लोकसंग्रहे ।।
यामिच्छसि महावीर्य तां तनुं प्रविश स्वकाम् ।। 2.8.6.१६० ।।
पितामहस्य वचनादिदमेवाविशत्स्वयम् ।।
सुदिव्यं वैष्णवं तेजः संसारं स सहानुजः ।।
ततो विष्णुतनुन्देवाः पूजयन्तः सुरोत्तमम् ।। १६१ ।।
साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ।।
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसस्तथा ।।
सुपर्णा नागयक्षाश्च दैत्यदानवराक्षसाः ।। १६२ ।।
देवाः प्रहृष्टा मुदिताः सर्वे पूर्णमनोरथाः ।।
साधुसाध्विति ते सर्वे त्रिदिवस्था बभाषिरे ।। १६३ ।।
अथ विष्णुर्महातेजाः पितामहमुवाच ह ।।
एषां लोकं जनौघानां दातुमर्हसि सुव्रत ।। १६४ ।।
इमे तु सर्वे मत्स्नेहादायाताः सर्वमानवाः ।।
भक्ताश्च भक्तिमन्तश्च त्यक्तात्मानोऽपि सर्वशः ।। १६५ ।।
तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत् ।।
लोकं सन्तानिकं नाम संस्थास्यंति हि मानवाः ।। १६६ ।।
स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन् ।।
प्राणांस्त्यजति भक्त्या वै स संतानं परं लभेत् ।। १६७ ।।
सर्वे संतानिकंनाम ब्रह्मलोकादनन्तरम् ।।
वानराश्च स्वकां योनिं राक्षसाश्चापि राक्षसीम्।।१६८।।
यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः ।।
आदित्यतनयश्चैव सुग्रीवः सूर्यमण्डलम् ।। १६९ ।।
ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् ।।
तथा ब्रुवति देवेशे गोप्रतारमुपस्थितम् ।। 2.8.6.१७० ।।
तज्जलं सरयूं भेजे परिपूर्णं ततो जलम् ।।
अवगाह्य जलं सर्वे प्राणांस्त्यक्त्वा प्रहृष्टवत् ।। १७१ ।।
मानुषं देहमुत्सृज्य ते विमानान्यथारुहन् ।।
तिर्यग्योनिगता ये च प्रविश्य सरयूं तदा ।। १७२ ।।
देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः ।।
तथान्यान्यपि सत्त्वानि स्थावराणि चराणि च ।। १७३ ।।
प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् ।।
तस्मिंस्तत्र समापन्ने वानरा ऋक्षराक्षसाः ।।
तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा ।। १७४ ।।
तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम् ।।
जगाम त्रिदशैः सार्द्धं रामो हृष्टो महामतिः ।। १७५ ।।
अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम् ।।
गोप्रतारे परो मोक्षो नान्यतीर्थेषु विद्यते ।। १७६ ।।
जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते ।।
मुक्तिर्भवति तत्त्वेकजन्मना लभ्यते न वा ।। १७७ ।।
गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः ।।
एकेन जन्मनान्योऽपि योगमोक्षं च विन्दति ।। १७८ ।।
गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः ।।
विशत्यसौ परं स्थानं योगिनामपि दुर्लभम् ।। ।। १७९ ।।
कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः ।।
कार्तिके मासि विप्रर्षे सर्वे देवाः सवासवाः ।।
स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः ।। 2.8.6.१८० ।।
गोप्रतारसमं तीर्थं न भूतं न भविष्यति ।।
यत्र प्रयागराजोऽपि स्नातुमायाति कार्तिके ।। १८१ ।।
निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः ।।
शुद्ध्यर्थं साधुकामोऽसौ प्रयागे मुनिसत्तमः ।। १८२ ।।
यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत ।।
कार्तिक्यां तानि सर्वाणि गोप्रतारे वसन्ति वै ।। १८३ ।।
गोप्रतारे जपो होमः स्नानं दानं च शक्तितः ।।
सर्वमक्षयतां याति श्रद्धया नियमव्रतम् ।। १८४ ।।
कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि ।।
गोप्रतारं गमिष्यामः पापं त्यक्तुमितीच्छया ।। १८५ ।।
गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् ।।
गोप्रतारे नरः स्नात्वा दृष्ट्वा गुप्तहरिं विभुम् ।।
सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा ।। १८६ ।।
विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः ।।
कर्त्तव्यं श्रद्धया युक्तैः स्नानपूर्वं यतव्रतैः ।। १८७ ।।
पयस्विनी च गौर्देया सालंकारा च शक्तितः ।।
विप्राय वेदविदुषे नियमव्रतशालिने ।।
ब्राह्मणायातिशुचये विष्णुप्रीत्यै यतात्मना ।। १६८ ।।
अन्नं बहुविधं हेम वासांसि विविधानि च ।।
दातव्यानि हरेः प्राप्त्यै भक्त्या परमया युतैः ।। १८९ ।।
सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे ।।
तुलादानस्य यत्पुण्यं तदत्र दीपदानतः ।। 2.8.6.१९० ।।
घृतेन दीपको यस्य तिलतैले न वा पुनः ।।
ज्वलते मुनिशार्दूल हयमेधेन तस्य किम् ।। १९१ ।।
तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ।।
दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ।। १९२ ।।
नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च ।।
गोप्रतारस्य तान्यत्र कलां नार्हंति षोडशीम् ।। १९३ ।।
स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे ।।
शुभां गतिमवाप्नोति ह्यग्निवच्चैव दीप्यते ।।१९४।।
गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज ।।
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ।। १९५ ।।
तत्र स्नानं तु यः कुर्याद्विप्रान्संतर्पयेन्नरः ।।
सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः ।। १९६ ।।
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ।।
यावज्जीवकृतं पापं सहसा तस्य नश्यति ।। १९७ ।।
अग्निप्रवेशं ये कुर्युर्गोप्रतारे विधानतः ।।
ते विशंति पदं विष्णोर्निःसंदग्धं तपोधन ।। १९८ ।।
कुर्वंत्यनशनं येऽत्र विष्णुभक्त्या सुनिश्चिताः ।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।। १९९ ।।
अर्चयेद्यस्तु गोविंदं गोप्रतारे हि मानवः ।।
दशसौवर्णिकं पुण्यं गोप्रतारे प्रकथ्यते ।। 2.8.6.२०० ।।
अग्निहोत्रफलो धूपो गोविंदस्य समर्पितः ।।
भूमिदानेन सदृशं गंधदानफलं स्मृतम् ।। २०१ ।।
अत्यद्भुतमिदं विद्वन्स्थानमेतत्प्रकीर्तितम् ।।
कार्त्तिक्यां तु विशेषेण अत्र स्नात्वा शुचिव्रतः ।। २०२ ।।
स्वर्गद्वारे नरः स्नात्वा दशस्वर्णफलं लभेत् ।।
स्वर्णदः स्वर्गवासी च यो दद्याच्छ्रद्धयान्वितः ।। २०३ ।।
सुतीर्थे पर्वणि श्रेष्ठे दशस्वर्णफलप्रदे ।।
ज्येष्ठशुक्लचतुर्दश्यां रात्रौ जागरणं चरेत् ।। २०४ ।।
उपोषितः शुचिः स्नातो विष्णुपूजनतत्परः ।।
दीपं दद्यात्प्रयत्नेन नानाफलविधायिनम् ।। २०५ ।।
तावद्गर्जंति पुण्यानि स्वर्गे मर्त्ये रसातले ।।
यावद्दद्याज्जले दीपं कार्त्तिके केशवाग्रतः ।। २०६ ।।
पौर्णमास्यां प्रभाते तु स्नात्वा निर्मलमानसः ।।
हरिं संपूज्य विधिवद्विधाय श्राद्धमादरात् ।। २०७ ।।
दत्त्वान्नं च यथाशक्त्या संतोष्य ब्राह्मणांस्ततः ।।
वस्त्रादिभिरलंकारैः संपूज्य द्विजदंपती ।। २०८ ।।
विभुं गुप्तहरिं दृष्ट्वा संपूज्य तु विशेषतः ।।
नमस्कृत्यानु तत्तीर्थं शुचिस्तद्गतमानसः ।। २०९ ।।
स्वर्गद्वारे च विधिवन्मध्याह्ने स्नानमाचरेत् ।।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ।। 2.8.6.२१० ।।
इति परमविधानैर्गोप्रतारे विधाय प्रथितसुकृतमूर्त्तिः स्नानमुच्चैः प्रयत्नात् ।।
कलितनिखिलपापः पूजयित्वादरेणाच्युतममलविकाशो विष्णुसायुज्यमेति ।। २११ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।।