स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/अयोध्यामाहात्म्यम्/अध्यायः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

।। व्यास उवाच ।। ।।
भगवन्ब्रूहि तत्त्वेन कथं निर्बंधतो मुनिः ।।
विश्वामित्रो निजं शिष्यं कौत्सं क्रोधेन तादृशम् ।। १ ।।
दुष्प्राप्यमर्थं यत्नेन बहु प्रार्थितवांस्तदा ।।
एतत्सर्वं च कथय मयि यद्यस्ति ते कृपा ।। २ ।।
।। अगस्त्य उवाच ।। ।।
शृणु द्विज कथामेतां सावधानेंद्रियः स्वयम् ।।
विश्वामित्रो मुनिश्रेष्ठः स दिव्यज्ञानलोचनः ।। ३ ।।
निजाश्रमे तपो दुर्गं चकार प्रयतो व्रती ।।
एकदा तमथो द्रष्टुं दुर्वासा मुनिरागतः ।। ४ ।।
आगत्य च क्षुधाक्रांत उच्चैः प्रोवाच स द्विजः ।।
भोजनं दीयतां मह्यं क्षुधापीडितचेतसे ।।
पायसं शुचि चोष्णं च शीघ्रं क्षुधार्त्तिने द्विज ।। ५ ।।
इति श्रुत्वा वचः क्षिप्रं विश्वामित्रः प्रयत्नतः ।।
स्थाल्यां पायसमादाय तं समर्प्य ततः स्वयम्।। ६ ।।
तदादायोत्थितं दृष्ट्वा दुर्वासास्तं विलोकयन् ।।
उवाच मधुरं वाक्यं मुनिं लक्षणतत्परः ।। ७ ।।
क्षणं सहस्व विप्रेन्द्र यावत्स्नात्वा व्रजाम्यहम् ।।
तिष्ठतिष्ठ क्षणं तिष्ठ आगच्छाम्येष साप्रतम् ।। ८ ।।
इत्युक्त्वा स जगामैव दुर्वासाः स्वाश्रमं तदा ।। ९ ।।
विश्वामित्रस्तपोनिष्ठस्तदा सानुरिवाऽचलः ।।
दिव्यं वर्षसहस्रं स तस्थौ स्थिरमतिस्तदा ।। 2.8.5.१० ।।
तस्य शुश्रूषणपरो मुनिः कौत्सो यतव्रतः ।।
बभूव परमोदारमतिर्विगतमत्सरः ।। ११ ।।
पुनरागत्य स मुनिर्दुर्वासा गतकल्मषः ।।
भुक्त्वा च पायसं सद्यः स जगाम निजाश्रमम् ।। १२ ।।
तस्मिन्गते मुनिवरे विश्वामित्रस्तपोनिधिः ।।
कौत्सं विद्यावतां श्रेष्ठं विससर्ज गृहान्प्रति ।। १३ ।।
स विसृष्टो गुरुं प्राह दक्षिणा प्रार्थ्यतामिति ।।
विश्वामित्रस्तु तं प्राह किं दास्यसि दक्षिणाम् ।।
दक्षिणा तव शुश्रूषा गृहं व्रज यतव्रत ।। १४ ।।
पुनःपुनर्गुरुं प्राह शिष्यो निर्बन्धवान्यदा ।।
तदा गुरुर्गुरुक्रुद्धः शिष्यं प्राह च निष्ठुरम् ।। १५ ।।
सुवर्णस्य सुवर्णस्य चतुर्दश समाहर ।।
कोटीर्मे दक्षिणा विप्र पश्चाद्गच्छ गृहं प्रति ।। १६ ।।
इत्युक्तो गुरुणा कौत्सो विचार्य समुपागमत् ।।
काकुत्स्थं दिग्विजेतारं ययाचे गुरुदक्षिणाम्।। १७ ।।
इत्युक्तं ते मुनिवर त्वया पृष्टं हि यत्पुनः ।।
अतोऽन्यच्छृणु ते वच्मि तीर्थकारणमुत्तमम् ।। १८ ।।
तस्माद्दक्षिणदिग्भागे संभेदः सिद्धसेवितः ।।
तिलोदकीसरय्वोश्च संगत्या भुवि संश्रुतः ।। १९ ।।
तत्र स्नात्वा महाभाग भवन्ति विरजा नराः ।।
दशानामश्वमेधानां कृतानां यत्फलं भवेत् ।।
तदाप्नोति स धर्मात्मा तत्र स्नात्वा यतव्रतः ।। 2.8.5.२० ।।
स्वर्णादिकं च यो दद्याद्ब्राह्मणे वेदपारगे ।।
शुभां गतिमवाप्नोति अग्निवच्चैव दीप्यते ।। २१ ।।
तिलोदकीसरय्वोश्च संगमे लोकविश्रुते ।।
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते ।। २२ ।।
उपवासं च यः कृत्वा विप्रान्संतर्पयेन्नरः ।।
सौत्रामणेश्च यज्ञस्य फलमाप्नोति मानवः ।। २३ ।।
एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ।।
यावज्जीवकृतं पापं सहसा तस्य नश्यति ।। २४ ।।
नभस्य कृष्णामावस्यां यात्रा सांवत्सरी भवेत् ।।
रामेण निर्मिता पूर्वं नदी सिंधुरिवापरा ।। २५ ।।
सिंधुजानां तुरंगाणां जलपानाय सुव्रत ।।
तिलवच्छ्याममुदकं यतस्तस्यां सदा बभौ ।। २६ ।।
तिलोदकीति विख्याता पुण्यतोया सदा नदी ।।
संगमादन्यतो यस्यां तिलोदक्यां शुचिव्रतः ।।
स्नातो विमुच्यते पापैः सप्तजन्मार्जितैरपि ।। २७ ।।
तस्मात्तिलोदकीस्नानं सर्वपापहरं मुने ।।
कर्त्तव्यं सुप्रयत्नेन प्राणिभिर्धर्मकांक्षिभिः ।।
स्नानं दानं व्रतं होमं सर्वमक्षयतां व्रजेत् ।। २८।।
इति विविधविधानैस्तीर्थयात्रांक्रमेण प्रथितगुणविकासः प्राप्तपुण्योविधाय ।।
हरिमुपहृतभावः पूजयन्सर्वतीर्थं व्रजति परमधाम न्यस्तपापः कथञ्चित् ।। २९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोयामाहात्म्ये तिलोदर्काप्रभाववर्णनंनाम पञ्चमोऽध्यायः ।। ५ ।।