स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/विषयानुक्रमणिका

विकिस्रोतः तः

अथ माहेश्वरखण्डे द्वितीयं कौमारिकाखण्डम् ।। ( १-२) ।।

१ सूतशौनकसंवादे दक्षिणार्णवतीरस्थतीर्थमाहात्म्यवर्णनोपक्रमे पञ्चाप्सरस्तीर्थ माहात्म्य वृत्तान्तवर्णनेऽर्जुनतीर्थयात्रावृत्तान्तः, तत्रार्जुनस्य दक्षिणसमुद्रतीरस्थतीर्थस्नानार्थं प्रवृत्तस्य पञ्चसु तीर्थेषु तत्रत्यैस्तपस्विभिः स्नानार्थं तत्रत्यग्राहभीत्या निवारणम, अर्जुनस्य धर्मबुद्धिं दृष्ट्वा तापसैरर्जुनाय दीर्घायुष्ट्ववरप्रदानम्, ततोऽर्जुने सौभद्रतीर्थमभ्येत्य स्नानार्थमवतीर्य स्नानं कर्तुं प्रवृत्ते ग्राहेण ग्रहणम्, अर्जुनेन बलेन ग्राहोद्धरणे ग्राहस्य नारीरूपता,तया नार्या स्वस्याश्चतसृभिः सखीभिः सह रत्यर्थं प्रार्थितस्य ब्राह्मणस्य शापेन ग्राहत्वप्राप्तिवृत्तान्तवर्णनम्, नारदोक्त्या च पञ्चसु तीर्थेषु ग्राहत्वेनावस्थितिवर्णनम्, ततोऽर्जुनेनान्येपु चतुर्षु तीर्थेषु प्रविश्य स्नात्वा तत्रत्यग्राहोद्धरणपूर्वक सर्वासामप्सरसां समुद्धारवर्णनम्, अर्जुनस्य तीर्थसंरोधकारणजिज्ञासया शंकाप्राप्तावप्सरोभिर्नारदं प्रत्येतद्विषये प्रष्टव्यमित्युक्त्वा स्वर्गं प्रति गमनम्.... ७५ २

२ अर्जुनस्य नारदेन सह समागमः, नारदमुखात्पाण्डवकुशलवृत्तान्तश्रवणोत्तरमर्जुनेन तीर्थमाहात्म्यजिज्ञासया नारदं प्रति प्रश्नकरणम्, अथ नारदेन ब्रह्मलोकवृत्तान्तवर्णनप्रस्तावपूर्वकं सुश्रवःप्रोक्त कात्यायनसारस्वतसंवादवर्णनम् तत्र सारस्वतमहर्षिणा- कात्यायनमहर्षये धर्मतत्त्वकथनम्, ततश्च दानमाहात्म्यवर्णनम्, दानमाहात्म्यश्रवणोत्तरं दानार्थमुत्सुकमानसस्य स्वस्यार्थान्नारदस्य दानदानार्थं द्रव्योपार्जनाय नानादेशपर्यटनवृत्तान्तः - - .. .... ७७ १

३ पृथिवीं पर्यटतो नारदस्य नर्मदातीरे भृगोराश्रमं प्रत्यागमनम, भृगवे नारदेन स्वोद्देशकथनोत्तरं भृगुणा नारदाय दानार्हपवित्रस्थानकथनोद्देशेन महीसागरसंगमस्थस्तम्भतीर्थमाहात्म्यवर्णनम्, तत्र तीर्थतीरस्थित प्रांशुदेवशर्मब्राह्मणस्य वृत्तान्तः, महीसागरसंगमे स्वपितृभ्यो दर्शश्राद्धदानार्थं तत्तीर्थतीरस्थितसुभद्रब्राह्मणाय निजपुण्यचतुर्थांशप्रदानम् भृगुप्रोक्तमहीसागरसंगमस्थस्तंभतीर्थमाहात्म्यं श्रुत्वा नारदस्य महीसागरसंगमे स्थानकरणार्थं चिन्ताकरणम्. - ७९ २

४ नारदेन महीसागरसंगमे स्थानस्थापनार्थं द्रव्यस्यापेक्षितत्वाच्छुद्धन्यायेन द्रव्यार्जनविषयक चिन्ताप्राप्तौ मुनीनां मुखतो धर्मवर्मनृपतिं प्रति गत्वा धर्मवर्मनृपतिश्रुताकाशावाणीकथित द्विहेतु षडधिष्ठानम्' इत्याद्येकश्लोकार्थव्याख्याकरणेन नृपं सन्तोष्य तस्य स्वोद्दिष्टदानधर्मकार्यसाधनाय साहाय्यसंपादनम्. ८१

५ ततो नारदस्य दानपात्रशुद्धब्राह्मणलाभार्थं सर्वत्र संशोध्य पश्चात्कलापग्रामं प्रति ब्राह्मणवेषेण गमनम्, तत्र गत्वा ब्राह्मणपरीक्षणार्थं श्लोकरूपेण प्रश्नकरणम्, तेषां ब्राह्मणानां मध्येऽष्टवर्षीयेण बालकेनैव नारदकृतातिगहनप्रश्नानां यथार्थोत्तर दानम्.. ......... -.... - ८४ १

६ ततो नारदेन स्वरूपेण प्रकटीभूय महीसागरसंगममहातीर्थे ब्राह्मणानामाजीविकाप्रदानपूर्वकं संस्थापनाय संप्रार्थ्य दण्डाग्र आरोप्यानयनवर्णनम्, तत्प्रसंगेन कलापग्राममार्गवर्णनम्, नारदेन विप्रपादप्रक्षालनसमये समागतस्यातिथेः कपिलमहर्षेः प्रार्थनया तस्मा आनीतब्राह्मणमध्यतोऽष्टसहस्रब्राह्मणसमर्पणम्, मधुपर्कार्हणसमये हारीतब्राह्मणेन प्रथमतः प्रक्षालनार्थं वामपादे पुरतः कृते सति नारदेन सर्वेषां ब्राह्मणानां 'यूयं मूर्खा भविष्यथ' इति शापप्रदानम्, तैर्ब्राह्मणैरपि नारदाय तथाविधस्यैव शापस्य प्रदानम्, पुरतो वामपादस्य करणे कारणवर्णनम्, ततो नारदस्य पश्चात्तापेन चिरकारिब्राह्मणवृत्तान्तस्मरणम्, तत्र मेधातिथिगौतमसुतस्य चिरकारिणः पित्राज्ञया व्यभिचारिण्या मातुर्हननाय गमने विचारवशेन विलंबकरणम्, एतस्मिन्नन्तरे ब्राह्मणरूपेणागतस्य शक्रस्योपदेशेन गौतमस्य पश्चात्तापः, वधार्थं मातृसमीपं गच्छतश्चिरकारिणः पृष्ठतो गौतमस्य गमनम्, पितरं दृष्ट्वा चिरकारिणा शस्त्रं भूमौ निक्षिप्य पितुः प्रार्थनाकरणम् गौतमेन पित्रा चिरकारिणश्चिरकारित्वप्रशंसापूर्वकमाशीःप्रदानं गृहं प्रति भार्यायाः पुत्रस्य चानयनम्, नारदेन ब्राह्मणानां प्रदत्तस्य शापस्य कलावुदयो भविष्यतीति शापकालपरिवर्तनम्, ततः सर्वेषां ब्राह्मणानां महीसागरसंगमे कांचनगोगृहधनादिप्रदानपृर्व्क स्वयं विश्वकर्मद्वारा निर्मापिते महीनगरे स्थापनवर्णनम्.... ... ८७ १

७ अर्जुनेन विस्तारपूर्वकं महीसागरसंगममाहात्म्यश्रवणेच्छया नारदप्रार्थनम्, नारदेन सविस्तरमहीसागरमाहात्म्यवर्णनार्थमुपक्रमणम्, तत्रेन्द्रद्युम्नभूपतिवृत्तान्तारम्भः, ब्रह्मलोकं गतस्येन्द्रयुम्नस्य बहुकालं तत्र निवासानन्तरं ब्रह्मणा चिरकालाद्भूमौ कीर्तेः पुनर्व्यक्तीकरणर्थमिन्द्रद्युम्नस्य भूलोकंप्रति प्रेषणम्, भूलोकं प्रत्यागतेनेन्द्रद्युम्नेन भूलोकस्थितेभ्योऽपेक्षया दीर्घजीविनो मार्कण्डेयस्य समीपं गत्वा निजवार्ताविज्ञानविषये प्रश्नकरणम्, तेन तद्वार्ताऽनभिज्ञानकथन इन्द्रद्युम्नस्याग्निप्रवेशोद्योगः, ततो मार्कण्डेयेन ततोऽपि दीर्घायुषो नाडीजंघबकस्य समीपे तन्नयनम्, तेनापीन्द्रद्युम्नवार्ताऽनभिज्ञानकथनम्, ततश्चेन्द्रग्रुम्नपृष्टेन नाडीजंघबकेन निजदीर्घायुष्ट्वकारणवर्णनाय निजपूर्वोदन्तकथनम्. ....... ...... . ९०

८ ततो निराशस्येन्द्रद्युम्नस्य वार्ताविज्ञानार्थं नाडीजंघेनात्मनोऽपि दीर्घायुषस्य प्राकारकर्णनामकस्योलूकस्य समीपं प्रति मार्कण्डेयेन्द्रद्युम्नयोर्नयनम्, तेन प्राकारकर्णोलूकेनापीन्द्रद्युम्नवार्तानभिज्ञानकथनोत्तरमिन्द्रद्युम्नप्रश्रे निजदीर्घायुष्ट्वकारणकथनम्,
तत्प्रसंगेन बिल्वदलमाहात्म्यवर्णनम्....... ९२ २

९ प्राकारकर्णोलूकेन निजवार्तानभिज्ञानादुदासीनस्येन्द्रद्युम्नस्य कृते नाडीजंडेनेन्द्रद्युम्नवार्ताविज्ञानस्यावश्यकताप्रदर्शने प्राकारकर्णोलूकेनात्मनोऽपि दीर्घायुषो गन्धमादनस्थस्य गृध्रस्य समीपे प्रतीन्द्रद्युम्नमार्कण्डेयनाडीजङ्घबकान् नयनम्, तेन गृध्रेणापीन्द्रद्युम्नवार्ताऽनभिज्ञानंवर्णनपूर्वकं निजदीर्घायुष्ट्वकारणवृत्तान्तकथनम्, ... ९३

१० गन्धमादनस्थगृध्रेण निजवार्तानभिज्ञानादुदासीनस्येन्द्रद्युम्नस्याग्निप्रवेशोद्योगं दृष्ट्वा प्राकारकर्णप्रार्थनया गृध्रेणात्मनोऽपि दीर्घायुषो मानससरोनिवासिनः कूर्मस्य समीपं प्रतीन्द्रद्युम्नमार्कण्डेयनाडीजङ्घप्राकारकर्णानां नयनम, तत्र सरस्तीरे समागतान तेषां मध्य इन्द्रद्युम्नं नृपं दृष्ट्वा कूर्मस्य तानसत्कृत्यैव जलमध्ये प्रवेशः, ततो गृध्रेण तस्मै जलप्रवेशकारणपृच्छायां तेन कूर्मेणेन्द्रद्युम्नस्य पुराकृतयज्ञवृत्तान्तवर्णनसमय इन्द्रद्युम्नस्य कीर्त्युद्धारे सतीन्द्रद्युम्नोपरि देवैः पुष्पवृष्टिकरणपूर्वकं विमानमानीय देवदूतेनेन्द्रद्युम्नाय ब्रह्मलोकं प्रति गमनायेन्द्रद्युम्नप्रार्थनाकरणम्, इन्द्रद्युम्नेन ब्रह्मलोकं प्रति गन्तुमनिच्छां प्रदर्श्य कूर्मं प्रति तस्यैव दीर्घायुष्ट्वकारणजिज्ञासया प्रश्नकरणम्. ९५

११ निजपूर्वजन्मवृत्तान्तकथनपूर्वकमिन्द्रद्युम्नादीनामातिथ्यकरणानन्तरं तेषामिन्द्रद्युम्नादीनां षण्णामपि कूर्मतोऽपि दीर्घायुषो लॊमशमहर्षेः समीपं प्रत्युपदेशग्रहणाय गमनम् . . . . . . . . . . . . . . . . . ....

१२ लोमशमहर्षिणा सहेन्द्रद्युम्नादीनां समागमोत्तरमतिदीर्घायुषोऽपि लोमशमहर्षेराश्रमकरणाभावकारणपृच्छायां लोमशेन संसारस्थितिवर्णनपूर्वकमात्मनो दीर्घायुष्ट्व कारणकथनम्-तत्र शिवलिंगपूजनमाहात्म्यवर्णनम्. ... --- ... ९७

१३ लोमशवचःश्रवणानन्तरमिन्द्रद्युम्नादीनां सर्वेषां शिवभक्त्येकनिष्ठया शिवदीक्षाग्रहणार्थं लोमशप्रार्थनम्, लोमशमहर्षिणा सर्वेषां तेषां शिवदीक्षाप्रदानपूर्वकशिवलिङ्ग .पूजोपदेशकरणम्-ततस्तेषां मार्कण्डेयादीनां क्रियायोगारम्भपूर्वकं तपश्चर्याकरणम्, तपस्यतां तेषां समीपं प्रति नारदागमनम्, नारदं प्रति शापभ्रष्टानां नाडीजङ्घादीनां स्वमुक्त्यर्थमुपायजिज्ञासया प्रश्नकरणम्, नारदेन तेभ्यो वाराणसीस्थसंवर्तमहर्षि दर्शनार्थ गन्तव्यमित्युपदेशकरणम्, वाराणस्यां संवर्तपरीक्षणार्थमुपायकथनम्, नाडीजंघादिभिर्वाराणसीं गत्वा नारदोक्तोपायेन संवर्तं परिज्ञाय तेन सह समागमकरणम्, संवर्तेन नाडीजङ्घादिभ्यः शापतो विमुक्त्यर्थं महीसागरसंगमे गमनार्थम-
नुज्ञाकरणम्, तत्प्रसंगेन महीनद्युत्पत्तिवृत्तान्तकथनम्, महीसागरसंगमे याज्ञवल्क्यस्य स्थितिकारणतया संजातस्य नकुलावमानवृत्तान्तस्य वर्णनम्, महीसागरसंगमतीर्थसविस्तरमाहात्म्यवर्णनम् संवर्तसकाशान्महीसागरसंगममाहात्म्यं श्रुत्वा बको-
लूकगृध्रकूर्मेन्द्रद्युम्नानां पञ्चानामपि महीसागरसगमं समभ्येत्य शिवलिङ्गस्थापनेन शिवसारूप्यमुक्तिवर्णनम्, लोमशमार्कण्डेययोश्च जीवन्मुक्तिवर्णनम्, तत्र चेन्द्रद्युम्नस्थापितेन्द्रद्युम्नेश्वरलिङ्गमाहात्म्यवर्णनम्, महीसागरसंगमशतरुद्रियादिलिंगमाहात्म्य-
वर्णनं च . ..... ९८ २

१४ अथ कुमारनाथमाहात्म्यवर्णनम्-तत्प्रसंगेन कुमारचरितवर्णनोपक्रमः, तत्र दक्षकन्यायां दित्याख्यायां वज्रांगनामकसुतोत्पत्तिः, वज्रांगेण मातुराज्ञया स्वर्गं गत्वा देवेंद्रं पादेनाकृष्य भानुः समीप आनयनम्, ततो ब्रह्मकश्यपयोः प्रार्थनया वज्रांगेण वासवस्य मोचनम्, ततो ब्रह्माज्ञया वज्रांगस्य तपसि प्रवृत्तिः, वज्रांगे तपसि प्रवृत्ते तत्परिचर्यैकनिष्ठाया वरांगीनाम्न्या वज्रांगपत्न्याः शक्रेण विविधविभीषिकादर्शन- । पूर्वकमतिविडम्बनम्-ततो ब्रह्मणः सकाशाद्वरं प्राप्य तपसः संनिवृत्तेन वज्रांगेण स्वपत्न्या वरांग्याख्याया वित्रासकारणजिज्ञासया प्रश्नकरणम्. .. १०३ १

१५ वरांग्याः शक्रकृतां विडम्बनां निरीक्ष्य तपःप्रभावेणाऽऽसुरभावनिवृत्तस्यापि वज्रांगस्य प्रियायाः प्रियकरणार्थं महेन्द्रप्रतीकारार्थ च भूयोऽपि तपश्चर्याकरणम्, ततस्तत्तपस्तुष्टेन ब्रह्मणा वज्रांगस्य देवदर्पदलनपुत्रप्राप्तिरूपवरं प्रदाय तपसो निवर्तनम्, ततो वज्रांगाद्वरांग्यां तारकासुरस्योत्पत्तिः, सर्वदैत्यैस्तारकासुरस्य दैत्यराज्याभिषेकः, ततस्तारकासुरस्य देवनिर्जिगीषया पारियात्रपर्वतकन्दरां गत्वा तपःकरणम्, तत्तपस्तुष्टेन ब्रह्मणा सप्तवासरं बालकं विनाऽन्यैः सर्वैरवध्यत्वरुपवरप्रदानम्, ब्रह्मवरोर्जितस्य तारकासुरस्य निजराज्येऽवस्थानम्......... ... १०५ १

१६ तारकासुरस्य मन्त्रिभिः सह संमंत्र्य सेनासंनाहपूर्वकं समस्तसुरविजयार्थं स्वर्गं प्रत्यभियानम्, ततो वृहस्पत्यनुमतेन देवेन्द्रेण समस्तसुरसेनासंनाहकरणम्, तारकासुर-देवेंद्रयुद्धोपक्रमः

१७ संग्रामारम्भे तारकसैन्यदेवसैन्ययोर्मध्ये यमग्रसनयोस्तुमुलयुद्धवर्णनम्, तत्र युद्धे
यमस्य पराजयवर्णनम्....... १०८

१८ धनाधिपजंभयोर्युद्धे धनाधिपेन जंभवधे कृते कुजम्भेन सह धनाधिपस्य युद्धे धनाधिपपराजयः, ततः कुजंभनिर्ऋत्योर्युद्धे निर्ऋतेः पराजये वरुणेन पाशेन कुजंसभुजद्वयबन्धनम्, ततो महिषासुरे निर्ऋतिवरुणयोर्ग्रासार्थमुद्युक्ते चन्द्रेण शीतरश्मिप्रसा-
रेणातिहिमतः सर्वेषां दैत्यानामतिव्याकुलीकरणवर्णनम, ततः कालनेमिना पावकार्चिःप्रसारणेन कृतां शीतनिवृत्तिं निरीक्ष्य सूर्येण शंबरास्त्रेण बाणमनुसंधायेन्द्रजालेन देवदानवयो रूपविपर्ययकरणम्, तेन च मोहमापन्नेन कालनेमिना देवबुद्ध्याऽसंख्यातदैत्यानामेव हननम् .. १०९

१९ ततो निमिनाम्ना कालनेमिसुतेन कालनेमेः सूर्यकृतमायातः प्रबोधनम्, ततः प्रबुद्धेन
कालनेमिना सर्वास्त्रनिवारणाय ब्रह्मास्त्रमोचनम, भास्करेण महेन्द्रजालमास्थाय निजतनुं भीषणां विधायात्युष्णतापकिरणप्रसारेण सर्वदैत्यसैन्यव्याकुलीकरणम्, कालनेमिना कालमेघस्वरूपं विधाय वृष्टिकरणपूर्वकं शस्त्रवृष्ट्याऽश्व्यादिसर्वदेवसैन्यपराभवकरणम्, ततः सर्वदेवानां प्रार्थनां श्रुत्वा भगवता महाविष्णुना क्षीरसागरात्पर्यंकादुत्थाय गरुडमारुह्य रणस्थलं प्रत्यागत्य कालनेमिना सह युद्धं कृत्वा कालनेमिपराजयकरणम्... १११ १

२० समस्तदैत्यैर्विष्णुना सह तुमुलयुद्धे विष्णुनाऽसंख्यातदैत्यविध्वंसे कृते जम्भासुरेण
पराजयं प्राप्य संग्रामांगणतः पराङ्मुखीभूय पलायनम्.. ११२

२१ अथ पलायितस्य विष्णोरिन्द्रकृतस्तुत्या स्थिरीभवनम्, विष्णोराज्ञया जम्भासुरहननार्थमिन्द्रस्य संनाहपूर्वकं जम्भासुरेण सह तुमुलयुद्धवर्णनम्, तस्मिन्युद्धे जम्भासुरस्य वधः,जम्भासुरवधोत्तरं देवसैन्यत्रस्तानां कान्दिशीकानां समस्तदैत्यानां तारकासुरान्तिकं प्रत्यागमनम्, ततस्तारकासुरेण सर्वदैत्यैः सह युद्धभूमिं समासाद्य महता पराक्रमेण सर्वदेवसैन्यविध्वंसकरणम्, तद्वीर्यमालोक्य विष्णुना सर्वदेवान्पलायनार्थमाज्ञाप्य स्वयमन्तर्धानम् ऽ तारकासुरस्य विजयलब्धिपूर्वकं महीसागरसंगमतीरवर्तिस्तंभपुरे ( खम्बायतनाम्नि) राज्यसिंहासनोपरि महता समारम्भेणारोहणम्, सिंहासनाधिरूढं तारकासुरं प्रति त्रैलोक्यलक्ष्म्या आगमनपूर्वकं प्रवेशनम्, नारायणेनेद्रादिदेवानां मर्करूपेण तारकासुरं प्रत्यानयनपूर्वकं तारकासुरतोऽभयप्रदापनम्, ततश्च तस्मादभयं प्राप्येंद्रादीनां विष्णोराज्ञया ब्रह्माणं प्रति गमनम्, तारकासुरेणेंद्रादिदेवानां स्थानेष्वात्मादिदैत्यानामधिकारकरणम्.. - ११४ ५

२२ इन्द्रादिदेवैर्ब्रह्माणं प्रति गत्वा स्तुतिपूर्वकमात्मनो दुःखनिवेदनम्, ब्रह्मणा हिमालयगृहे जगदंबाऽवतरिष्यतीति देवान्प्रत्याश्वासनम्, ततो देवहितार्थं रात्रिदेवीस्तुतिकरणपूर्वकं हिमालयभार्यायां जगदम्बामहादेवीप्रवेशात्पूर्वं प्रवेशाय प्रार्थनाकरणम्, ब्रह्मणः प्रार्थनेन विभावर्या मेनानेत्रयोरावेशनम्, ततो मेनायाः सकाशाज्जगदम्बायाः प्रादुर्भावः, जगदम्बाजन्मकालिकोत्सववर्णनम्-. १२१ १,

२३ शक्रवाक्येन हिमालयं प्रति नारदेनागत्य पार्वतीसामुद्रिकलक्षणेपु वचनभंग्या यथा-अयुक्तेषु चिन्तातुरयोर्हिमालयमेनयोश्चातुर्येण सर्वदेवेश्वरमहादेववरप्राप्तिकथनेन पुनः संतोषजननायाश्वासनम्.... १२२ २

२४ पार्वत्याः सदैवोत्तानपाणितया सर्वप्राणिनामभयप्रदत्वलक्षणवर्णनम्, शिवसेवार्थं पार्वत्या नियोजनाय हिमवत उपदेशकरणम्, ततो नारदेन हिमालयात्सकाशादिन्द्रं प्रत्यागत्य सकलवृत्तांतनिवेदनपृर्वकं हरस्य विवाहेन देव्या सह संयोजनार्थमाज्ञाकरणम, शक्रेण शंकरमोहनाय मदनायाज्ञाकरणम्, पार्वतीपरिचरणवेलायां मदनेन शंकरे बाणवेधकरणम्, ततो मदनातुरेण हरेण मदनं दृष्ट्वा तृतीयनेत्राग्निना मदनदहनम्, ततो रतिप्रार्थनया शंकरेण मदनस्यानंगरूपेण संजीवनम् .. १२२:

२५ पुनर्हिमाद्रिं प्रत्यागतस्य नारदस्योपदेशेन शिवप्राप्तये पार्वत्यास्तपःकरणवृत्तांतवर्णनम्, शिवेन तपःस्थितायाः पार्वत्या निकटे विप्ररूपेणागत्य निजनिष्ठापरीक्षणम्, ततः सुप्रसन्नेन शिवेन निजरूपप्रकटनपूर्वकं पार्वत्या आश्वासनम्, ततः पार्वत्याः स्वयंव- वरवैवाहिकोत्सवार्थं सर्वदेवानां निमंत्रणम्, तत्र श्रीशंकरस्य बालरूपं विधायागमनम्, तत्र समागतानां तारकादीनां दैत्यानां शिवेन हुंकारमात्रेण स्वस्वस्थानं प्रति समुत्सारणम् सर्वेषां ब्रह्मादिदेवानां विवाहस्थलं प्रत्यागमनम् ततः पार्वत्या सर्वदेवानां प्रत्यक्षं श्रीशंकरचरणयोर्वरणमालासमर्पणम्. . १२५ १

२६ ततो ब्रह्मादिदेवानां समनुमोदनपुरःसरं यथाशास्त्रविधानोक्तपद्धत्या हरपार्वत्योः
सविस्तरविवाहमंगलोत्सववर्णनम्. .. .. १२७ २

२७ विवाहोत्तरं शिवस्य पार्वत्या सह मंदराचलोद्याने भव्यसुंदरमंदिरे गत्वा रमणम्- तस्मिन्नवसरे तारकासुरत्रस्तैर्देवैः स्तुतिकरणोत्तरं पार्वत्या निजांगमलतो गणपतिं निर्माय देवानां साहाय्यार्थं गणपतिप्रदानम्, गणपतिना देवहितार्थदैत्यानां शश्वद्विघ्नकरणम्, ततो वीरकाख्यस्य गणस्य पार्वत्या पुत्रीकरणवृत्तांतवर्णनम्, ततः शिवपार्वत्योः परस्परं नर्मोक्तिवशेन शिवेन पार्वत्याः कालीनाम्नाऽऽह्वाने कृते कुपितायाः पार्वत्याः शिवं प्रति मर्मस्पृङ्मर्मोक्तिभिर्निर्भर्त्सनम् -. १२९ २

२८ ततः पार्वत्या मंदिरान्निर्गम्य गमनावसरे शिवसमीपेऽन्यस्याः स्त्रियाः प्रवेशनिरोधाय, वीरकनामकं गणं प्रत्याज्ञाकरणम्, गणपतिं समादाय हिमवन्तं प्रति त्तपोऽर्थं गमनम्

२९ ततः पार्वत्या निजमातृसख्याः कुसुमामोदिन्याः स्वस्यै शिवसमीपे व्रजन्त्या अन्यस्याः स्त्रियाः प्रवेशवार्तानिवेदनायाज्ञापनम्-ततस्तपश्चर्यारम्भकरणम्, एतस्मिन्नंतरे शिवसमीपं प्रति पार्वतीरूपेणाडिनामकदैत्यस्यागमनम् , शिवेन मैथुनप्रवृत्तो तामासुरीं मायां विज्ञाय निजमेढ्रमध्ये रौद्रास्त्रमाधाय मैथुनेन तद्वधकरणम्, अथ तत्क्षणाद्वायुना पार्वतीकर्णे शिवसमीपेऽन्यस्त्रीप्रवेशवार्तासमुदीरणम्, तच्छ्रुत्वा पार्वत्या वीरकगणाय शापप्रदानम् ततस्तन्मुखात्क्रोधस्य सिंहरूपेण बहिर्निर्गमनम्, तपः कुर्वन्त्याः पार्वत्याः समीपे ब्रह्मण आगमनम्, ब्रह्मणा देव्यै वरप्रदानम्, ततः पार्वतीदेव्याः शरीरान्नीलवर्णाया देव्या निर्गमनम्, तस्याः कौशिकीतिनामकरणम्, ततः पार्वत्याः पूर्वगौरत्वप्राप्तिः, अथ पार्वत्याः शिवसमीपं प्रति गमनम्, तत्र द्वारिस्थितेन वीरकगणेन गौर्या अन्तःप्रवेशार्थं निषेधकरणम्, वीरकवचनं श्रुत्वा पार्वत्याः पूर्वं वृथास्मै मया शापो दत्त इति पश्चात्तापः, ततः पार्वत्या वीरकाय निजवृत्तकथ-
नपूर्वकं शिलादपुत्रनन्दित्वप्राप्तिरूपवरप्रदानम्, देव्याः शिवसमीपं प्रत्येत्य शिवेन सह प्रेमकरणम्, ततः शिवपार्वत्योः सुरतसमारम्भः, तत्र देवप्रेरणया पारावतरूपेणागतस्याग्नेर्मुखे महादेवेन वीर्यभक्षणार्थं प्रेरणम्, ईशाज्ञयाऽग्निनेशरेतोभक्षणम्, तत ऋषिपत्नीः कामयमानं स्वपतिमग्निं निरीक्ष्य षडृषिपत्नीनां षट्कृत्तिकानां रूपेण स्वाहयाऽग्निपत्न्याऽग्नेः सकाशात्कामधर्मेण षड्वारक्रमेण वीर्यं गृहीत्वा शरस्तम्बे निक्षेपणम्-ऋषिपत्नीसंभोगभ्रांत्या शोकसंतप्तस्याग्नेराकाशवाण्या सान्त्वनम्-ततोग्निना श्वेतपर्वतोपरि शरस्तंबमध्यस्थे कुण्डे दिव्यप्रभतनयनिरीक्षणम्-षडृषिपत्नीनां षण्णां चरितम, अथ विश्वामित्रेण कुमारसमीपमागत्याष्टोत्तरशतनामभिः कुमारस्तुतिकरणम्-विश्वामित्रमहर्षिणा स्कन्दकुमारस्य जातकर्मादिकर्मकरणपुरःसरं पौरोहित्यकर्मकरणम्-अग्निना कुमारायाऽवलोकनपूर्वकं पुत्रेत्युक्त्यनंतरं शक्त्यस्त्रप्रदानम् ततः कुमारस्य देवेन्द्रादिभिर्दर्शनम् - ततः शिवपार्वत्योः कुमारं प्रत्यागम्य कुमारं प्रति पुत्रस्नेहकरणम्, ततः कुमारेण सर्वेषां मनोरथप्रपूरणेन प्रियकरणम्- ... १३२ १

३० तारकासुरं हंतुं कुमारस्य समस्तदेवैर्महीसागरसंगमे देवसैनाधिपत्येऽभिषेकवर्णनम १३६

३१ कुमारस्वामिना तारकासुरहननाय प्रतिज्ञाकरणम्, तारकासुरपुरं प्रति सर्वदेवसैनिकैः सह गत्वा कुमारेण युद्धार्थं तारकासुरं प्रति नारदस्य प्रेषणम्, तस्मिन्नवसरे तारकासुरेण गवाक्षमधिरुह्य किंनरैरुद्गीयमानस्य कुमारजयमंगलध्वनेः श्रवणम्- १३७


३२ किंनरैर्गीयमानां कुमारस्तुतिं श्रुत्वा तारकासुरेणोपस्थिताद्बालकान्निजवधं निश्चित्य मन्त्रिभिः सह समन्त्र्य समस्तदैत्यसेनासंनाहपूर्वकं देवैः संग्रामार्थं स्वपुरान्निर्याणम्, ततो देवदैत्यसंग्रामारम्भः, तस्मिन्घोरसंग्रामे तारकासुरसैनिकैर्देवसैन्यपराभवकरणम्, अथ कुमारस्वामिनस्तारकासुरसंमुखे युद्धार्थमवस्थानम् तारकासुरं शिवभक्तं दृष्ट्वा कुमारस्वामिनो मनसि विष्णोरुपदेशेऽपि तद्वधकरणेऽप्रवृत्तिः,तस्मिन्नवसरे तारकासुरेण विष्णुरुद्रादिदेवजर्जरीकरणम्, शंकरं प्रत्यभियांतं तारकं दृष्ट्वाऽऽकाशवाण्या कुमारस्वामिनस्तारकासुरहननेच्छोत्पत्तिः, ततः कुमारेण तारकवधार्थं मयूराद्युत्प्लुत्य विष्णुं प्रशस्य तारकस्य शिरसा निर्गतां शक्तिं निरीक्ष्य निःशक्तिकस्य तारकासुरस्योपरि निजशक्तिं विसृज्य तारकासुरवधकरणम्, ततः केशवप्रेरणया निजशक्त्या बाणादिदैत्यव्यालादिसमन्वितक्रौञ्चपर्वतभम्मीकरणम ततः कुमारस्वामिनो देवगन्धर्वादिकृतविजयोत्सववर्णनम् ... . ... ... १३९ १

३३ तारकासुरवधेन कुमारस्वामिनो रुद्रभक्तहननजन्यपापशंकया शोककरणम्, ततो महाविष्णूपदेशेन कुमारस्वामिना रुद्रभक्तवधजनितपातकशांतये विश्वकर्मद्वारा त्रीणि शिवलिंगानि निर्माप्य तन्मध्ये प्रतिज्ञेश्वरच्छिद्रेश्वरयोः स्थापनवर्णनम .. १४२ २

३४ ततः कुमारस्वामिना व्रह्मदेवानीतस्य लिङ्गस्य कुमारेश्वरनाम्ना स्थापनम् कुमारस्य तत्स्थापनोत्तरं शंकराच्छिवपूजाविधिश्रवणमम, कुमारस्वामिकृता कुमारेश्वरमहादेवस्तुतिः, कुमारेश्वरेण कुमारस्वामिने वरप्रदानम्, जगदम्बायाः सदा कुमारेश्वरसंनिधानकथनपूर्वकं कुमारस्वामिने वरप्रदानम्, ततः कपर्दिगणेश्वरकृतवरप्रदानम्, । कुमारेश्वरसंनिधौ कुमारस्वामिनोंऽशेनावस्थानम्, महीसागरसंगमस्थकुमारेश्वरमहा- देवसेवामाहात्म्यवर्णनम्. ...... -. ... ... .१४४ १

३५ अथ महीसागरसंगमे देवानां प्रार्थनया जयस्तम्भं संस्थाप्य तदुपरि विश्वकर्मविनिर्मितस्य तृतीयस्य लिङ्गस्य स्तंभेश्वरनाम्ना संस्थापनम्, कूपतीर्थनिर्माणं च, स्तम्भेश्वरमाहात्म्यवर्णनम् १४६ २

३६ महीसागरसंगमे ब्रह्मेन्द्ररुद्रप्रमुखदेवादिभिः कोटिशो लिङ्गस्थापनम, तन्माहात्म्यं च,
सिद्धाम्बिकासिद्धकूपसिद्धेश्वरादिमाहात्म्यपूर्वकं पञ्चलिङ्गोपाख्यानवर्णनम. -.. १४७ १

३७ बर्बरीतीर्थमाहात्म्यप्रसंगेन कौमारिकाखण्डनामकारणीभूतकन्याकुमारिकाचरित्रवर्णनम्, तत्प्रसंगेन जगदुपत्तिब्रह्माण्डपरिमाणभूगोलसंस्थितिप्रकारकथनम्... १४८

३८ ब्रह्माण्डपरिमाणप्रसंगेन खगोलसंस्थितिवर्णनपूर्वकसमस्तोर्ध्वलोकव्यवस्थितिकथ-
नम्.. - ... -. - -. -. -.. -. -.. १५० १

३९ अथ ब्रह्माण्डपरिमाणप्रसंगेन पाताललोकव्यवस्थितिवर्णनपूर्वकं पातालादधोभागे विविधनरकनिरूपणम्, तत्तत्पातकिनां तत्तन्नरकषु यातनाभोगवर्णनम्, एवं समस्तब्रह्माण्डस्य पालकानां देवानां वसुधानादीनां वर्णनम, एवमनंतकोटिब्रह्माण्डरूपवैभवशालिनो महेश्वरस्य सर्वातिशायिमाहात्म्यकथनम्, अथ कालपरिमाणकथनम, एवं समस्तवैधात्रप्रपञ्चस्य व्यवस्थितिवर्णनम्, अथ ऋषभात्मजभरतभूपपुत्रस्य शतशृंगाख्यस्य नवापत्यमध्ये जायमानाया एकस्याः कुमारिकाया बर्करीमुखत्वकारणकथनप्रसंगेन प्राग्जन्मीयवृत्तान्तस्मरणपूर्वकं महीसागरसंगमे जालिगुल्मान्तरविलग्ननिजाऽजावक्त्रनिक्षेपणात्सद्यः सुन्दरस्त्रीमुखत्वप्राप्तिवृत्तान्तवर्णनम्, तया कुमारिकया बर्करेशस्थापनम्, बर्करेशानेन कुमार्यै वरप्रदानम् शतशृंगभूपेन निजकन्यायै कुमार्याख्यायै नवधा विभक्तरय भरतखण्डस्यैकविभागप्रदानात्तन्नाम्ना तद्विभागस्य कौमारिकाखण्डाख्यया प्रसिद्धिवर्णनम्-भरतखण्डस्थदेशग्रामनगरसंख्यापरिगणनम् , तया च कुमार्या निजभ्रातृपुत्रेभ्यः स्वकीयभागानां यथासंख्यं विभज्य प्रदानपूर्वेकं स्तम्भतीर्थं प्रत्यागत्य कुमारेश्वरकुमारीश्वरसेवाकरणसुप्रसन्नभवानीशङ्करवरप्रसादसंपादनम्-वृद्धया तया रुद्रोपदेशेन सरस्वतीतीरस्थमहाकालनामकसिद्धवरणम्-महाकालवल्लभायास्तस्यास्तपःप्रभावेण चित्रलेखाप्सरत्वप्राप्तिवर्णनम्-बर्करेश्वरलिङ्गमाहात्म्यवर्णनम्.. ..... १५१ २

४० अथ महाकालनामकस्य सिद्धस्य चरित्रवर्णनम्, तत्र वाराणसीनिवासिनो माण्टि महर्षेः शिवप्रसादेन पत्न्याश्चटिकाख्याया उदरे गर्भस्य चतुर्वर्षपर्यन्तं स्थितावपि तस्य गर्भस्य बहिर्निर्गमनाभावं निरीक्ष्य माण्टिना तस्य वहिर्निर्गमनायाज्ञाकरणम्-जन्मसंसारभीत्या गर्भस्य बहिर्निर्गमनेऽनिच्छां दृष्ट्वा माण्टिना शिवं प्रति प्रसादनम् शिवेन तस्य गर्भस्याश्वासनार्थं निजविभूतीनामाज्ञाकरणम्, शिवविभूतिभिर्धर्मादिभिस्तस्य सान्त्वने कृते सति गर्भगृहाद्बालकस्य प्रसूतिः,तस्य बालकस्य कालाद्भीतिमापन्नतया कालभीतिनामकस्य बिल्ववृक्षस्याधस्तात्तपः कुर्वतः समीपे शंकरेण नररूपेणागत्य निजचरणांगुष्ठेन गर्तपूरणेन तीर्थं निर्माय निजरूपप्रकटनम् ततः कालभीतिप्रार्थनया महाकाललिङ्गरूपेण भगवतोऽवस्थानम्, महाकालप्रसादेन कालभीतेर्मोचनान्महाकालत्वप्राप्तिपूर्वकं महाकालभगवतः प्रसादेन नन्दिगणरूपेण शिवप्रतीहारत्वप्राप्तिवृत्तान्तवर्णनम्, अथ महाकालेन करंधमभूपतये धर्मस्वरूपचतुयुर्गव्यवस्थादिधर्मकर्मोपदेशवर्णनम्.. १५५

४१ अथ करंधमपृष्टेन महाकालसिद्धेन ब्रह्मविष्णुरुद्रदेवानां भक्तिविषयकसंशयनिराकरणम, नानाविधकर्मभेदसविस्तरविवरणम्, संक्षेपतो यथाशास्त्रशिवपूजाविधानवर्णनम्, नित्याचरणीयसदाचारवर्णनम्, ततश्च महाकालसिद्धस्य शिवलोकप्राप्तिवृत्तांतवर्णनम् - -. -. - १६१ १

४२ अथ नारदस्थापितवृद्धवासुदेवमाहात्म्यवृत्तान्तवर्णनम्, तत्प्रसंगेनैतरेयब्राह्मणचरित्रवर्णनम्, महीसागरसंगमतीरस्थहारीतान्वयोत्पन्नमाण्डूकिनामकस्य ब्राह्मणस्येतरानाम्न्याः पत्न्या उदरे समुत्पन्नस्यैतरेयब्राह्मणस्य जन्मान्तरीयसिद्धत्वेऽपि प्रकृतजन्मनि मूकभावं समाश्रित्य हरिमन्दिरे निरंतरं भगवन्मन्त्रजपतत्परत्वे सति मातुः खेदापनोदार्थं शास्त्रपूतया वाण्या मात्रे संसारासारतोपदेशवर्णनपूर्वकं निजपूर्णज्ञानित्वप्रकटनेनानन्दसमुत्पादनवृत्तान्तवर्णनम्, ततश्चेतराख्यायास्तन्मातुस्तस्य महाज्ञानित्वं दृष्ट्वाऽत्यानन्दप्राप्तिः,ततस्तयोर्मातापुत्रयोरग्रतो भगवतो वासुदेवस्याविर्भावः, ऐतेरयकृता भगवत्स्तुतिः, तत्कृतस्तुतिप्रसन्नेन भगवतैतरेयव्राह्मणाय वरप्रदानम्, भगवत्प्रसादेनेतरेयब्राह्मणस्य विवाहादिस्र्वमंगलप्राप्तिपूर्वकैहिकसकलभोगभोगानंतरं मोक्षप्राप्तिवृत्तान्तवर्णनम्.... ......१६५.... १

४३ महीसागरसंगमे नारदस्थापितभट्टादित्यसूर्यमूर्तिवृत्तान्तवर्णनम्, तत्प्रसंगेन सूर्यपूजा-
विधिवर्णनम्. ............., १७० २

४४ भट्टादित्यस्य पुरतः सद्यःप्रत्ययकारकाष्टविधशपथादिदिव्यप्रकारकथनम्... १७२.२

४५ कपिलस्थापितकपिलेश्वरस्य नंदभद्रवणिजा त्रिकालमर्चाकरणम्,संसारासारविचार पूर्वकं नंदभद्रवैश्यस्य शुद्धसदाचारप्रवृत्तिवणर्नम्, सद्धर्माचरणनिष्ठस्य नंदभद्रस्य दैववशाद्भार्यापुत्रनाशेन दुःखितस्य तत्समीपवर्तिना सत्यव्रताख्येन नास्तिकशूद्रेण बुद्धिभेदार्थं विरुद्ध उपदेशे क्रियमाणे नन्दभद्रेण तद्विरुद्धवादखण्डनपूर्वकं देवतास्तित्वस्थापनपूर्वकं सद्धर्माचरणाय भट्टार्कस्थले बहूदककुंडं प्रत्यागमनम्..... १७४ १

४६ बहूदककुंडसमीपवर्तिकपिलेश्वरमभ्यर्च्य स्वतनुत्यागार्थमुद्यतस्य नंदभद्रवैश्यस्य समीपे कुष्ठरोगार्तेन केनचिद्ब्राह्मणपुत्रेणागत्य नंदभद्राय ज्ञानोपदेशकरणम्, अथ नंदभद्रपृष्टेन ब्राह्मणबालकेन निजचरित्रवृत्तांतकथनम्, तस्माद्ब्राह्मणबालकादुपदेशश्रवणेन सुप्रसन्नेन नंदभद्रेण गुरुदक्षिणार्थं गुरूपदेशेन गुरुनाम्ना बालादित्यस्थापनवृत्तांतवर्णनम्

४७ नारदेन बहूदकर्तार्थरक्षार्थं सिद्धांबिकादिचतुर्दशमहाशक्तीनां सपरिवाराणां स्थापनवर्णनम् तासां सर्वासां महाशक्तीनां माहात्म्यवर्णनम्. १८०

४८ सोमनाथमाहात्म्यवर्णनम्, तत्र चौडदेशीययोर्जयंतप्रालेयनामकविप्रयोर्वृत्तांतवर्णनम्, सोमनाथदर्शनार्थं प्रभासक्षेत्रगमनोद्यतयोस्तयोर्मार्गेऽतिश्रांततया मध्येमार्गं लुण्ठमानयोरनुग्रहार्थं सोमनाथप्रादुर्भावः, महीसागरसंगमवर्तिसोमकुण्डस्नानसोमनाथदर्शन-माहात्म्यवर्णनम्, हाटकेश्वरलिंगमाहात्म्यवर्णनम्. ... १८३ १

४९ नारदस्थापितमहीनगरस्थितविविधतीर्थमाहात्म्यप्रसंगे जयादित्यमाहात्म्यवर्णनम्, तत्र नारदेन सूर्यदर्शनार्थं सूर्यलोकं प्रति गतेन निजस्थापितमहीनगरस्थब्राह्मणप्रशंसायां कृतायां सूर्यनारायणेन तत्रत्यब्राह्मणानां दर्शनार्थं वृद्धातिथिरूपेणागमनम्, तत्र ज्ञानचर्चारूपपरमभोजनमाकाङ्क्षतो भास्करस्य हारीतपुत्रेणाष्टवर्षवयसा क्मठाख्येन सर्वशास्त्रीयसिद्धान्तसिद्धजीवगत्यादिविषयकप्रश्नानां सुस्पष्टतयोत्तरप्रदानेन सूर्यभगवतोऽत्यन्तसंतोषप्राप्तिवृत्तान्तवर्णनम्..... १८३ २

५० अथ भास्करकृतशरीरलक्षणविषयकप्रश्नस्य कमठबालकेन सशास्त्रप्रमाणसिद्धश-रीरलक्षणकथनेन सम्यगुत्तरप्रदानम्, तत्प्रसंगेन जीवस्य पारलौकिकगतिवर्णनम्. -- -. .. ---... १८५ १

५१ अथ भास्करकृतविविधकर्मफलविषयकप्रश्नस्य कमठबालकेन सशास्त्रप्रमाण-सिद्धसकलप्राणिकर्मविपाकवर्णनेन सम्यगुत्तरप्रदानम्, तत्प्रसंगेन धर्मप्रशंसावर्णनम्, कमठप्रोक्तसम्यक्प्रश्नोत्तरश्रवणसंतुष्टेन भगवता भास्करेण तत्पुत्रप्रभृति-हारीतादितन्नगरस्थब्राह्मणप्रशंसापूर्वकं निजनामकथनम्, अथ ब्राह्मणानां प्रार्थनया भगवता भास्करेण जयादित्यनाम्ना तस्मिन्महीनगरे मूर्ताववस्थितिकरणम्, कमठकृताऽष्टकस्तोत्रेण जयादित्यस्तुतिः, भगवता भास्करेण कमठाख्याय हारीतब्राह्मणबालकाय वरप्रदानम्, जयादित्यमाहात्म्यवर्णनम्.... १८७ १

५२ अथ महीसागरसंगमे ब्रह्मदेवस्थापितकोटितीर्थमाहात्म्यवृत्तान्तवर्णनम्,कोटितीर्थ-समीपस्थात्रीश्वरभरद्वाजेश्वरगौतमेश्वराहिल्यासरोमाहात्म्यम्, अहिल्यासरोवर्णनप्रसंगेन शक्रकृताहिल्याधर्षणादिवृत्तान्तवर्णनः.. ... १८९ १

५३ अथ महीसागरसंगमे नारदस्थापितस्थानरक्षार्थकत्रिपुरुषशालाव्यवस्थापनादिवृत्तान्तपूर्वकशालामाहात्म्यम, अथ नारदीयसरोवरनागेश्वरमाहात्म्यम्, अपरद्वारकोत्तरद्वारकामाहात्म्यवर्णनम् ..... .... १९० १

५४ अथ महीसागरसंगमवर्तिनारदमूर्तिस्थापनवृत्तान्तः, तत्प्रसंगेन बाभ्रव्यार्जुनसंवादः, बाभ्रव्येणार्जुनाय नारदमूर्तिस्थापनप्रसंगेनोग्रसेनश्रीकृष्णसंवादकथनपूर्वकं श्रीकृष्णेनोग्रसेनशंकापनोदनाय नारदप्रशंसाकथनपूर्वक नारदाष्टकस्तुतिकरणकथनम्, श्रीकृष्णकृतनारदपूजादिकथनम्, नारदमाहात्म्यवर्णनम......... १९० २

५५ बाभ्रव्यमुखादर्जुनेन नारदमाहात्म्यं श्रुत्वा प्रशंसाकरणपूर्वकं गुप्तक्षेत्रमाहात्म्यश्रवणेच्छया प्रश्नकरणम् , नारदेनार्जुनाय गुप्तक्षेत्रस्थितगौतमेश्वरलिंगमाहात्म्यवर्णनप्रसंगेन सविस्तरयोगतत्त्वस्वरूपलक्षणवर्णनम् ......... १९० १

५६ अथ महीनगरकात्पूर्वदिक्स्थितब्रह्मसरोब्रह्मेश्वरलिंगमाहात्म्यवर्णनम्, नारदस्थापित-
जयादित्यकूपगर्भेश्वरापरपर्यायमोक्षेश्वरलिंगमाहात्म्यवर्णनम् - ..... १९५ १

५७ अथ केदारेश्वरनीलकण्ठमाहात्म्यम्...... -..... १९५

५८ अथ तस्य महीसागरसंगमक्षेत्रस्य गुप्तक्षेत्रेतिनामप्रसिद्धौ कारणवर्णनम्, तत्प्रसंगेन ब्रह्मलोके मधुपर्कसमये तीर्थक्षेत्राणां महत्त्ववर्णनप्रस्तावे महीसागरसंगमेन स्वमुखेन स्वप्रख्यातौ क्रियमाणायां ब्रह्मणो ज्येष्ठपुत्रेण धर्मेण तस्मा अप्रख्यातिरूप-. शापप्रदानम्, अथ तच्छापवचनश्रवणोत्तरं गुहस्य तत्रागत्य तदुक्तस्वप्रख्यातिसमर्थनम्, अथ धर्मेण गुहस्याग्रे स्तुतिपृर्वकं स्वापराधक्षमापणम्, महीसागरसंगमक्षेत्रस्य गर्वरूपस्तंभवशेन स्तम्भतीर्थाख्यया प्रसिद्धिवृत्तान्तवर्णनपुरःसरं स्तम्भतीर्थापरपर्यायमहीसागरसंगममाहात्म्यकथनम्, अर्जुनस्य तीर्थयात्रापरिसमाप्तिवृत्तान्त-
वर्णनम.... ... ............ ... १९५ २

५९ अथ सिद्धेश्वरलिंगसिद्धाम्बिकामाहात्म्यम्, तत्प्रसंगेन पाण्डवतीर्थयात्रायां घटोत्कचाख्यस्य भीमपुत्रस्य पाण्डवैः सह समागमः, अथ श्रीकृष्णेन सह पाण्डवानां विवाहमंगलविषये मन्त्रकरणम्, अथ श्रीकृप्णेन कामकटंकटाख्याया वृत्तान्तं संवर्ण्य तस्या विजयपूर्वकं वरणार्थं घटोत्कचस्य प्राग्ज्योतिषपुरं प्रति प्रेषणम्, श्रीकृष्णादीनामनुज्ञया घटोत्कचस्य प्राग्ज्योतिषपुरं प्रति गमनम्.......... १९७ १

६० अथ घटोत्कचस्य कामकटंकटायाः प्रासादे प्रवेशः अथ कामकटंकटाया घटोत्कचेन श्रीकृष्णस्मरणपूर्वकमपूर्वकथाकथनेन प्रश्नद्वारा निरुत्तरीकरणम्, अथ युद्धोपायेन तां कामकटंकटां पराजित्य तस्याः पृष्ठिमारुह्य श्रीकृष्णपाण्डवसमीपं प्रति घटोत्कचस्यागमनम्, अथ घटोत्कचकामकटंकटयोर्विवाहः, ततो हिडिम्बवने घटोत्कचेन राक्षसराज्यकरणम्, घटोत्कचस्य कामकटंकटायां बर्बरीकाख्यसुतोत्पत्तिवृत्तान्तवर्णनम्... १९९ १

६१ अथ घटोत्कचस्य बर्बरीकं पुत्रमादाय श्रीकृष्णदर्शनार्थं द्वारकापुरीं प्रति गमनम् ततः श्रीकृष्णेन बर्बरीकाय संक्षेपतश्चानुर्वर्ण्यधर्मवर्णनपूर्वकं क्षात्त्रधर्मानुसारेण लौकिकबलप्राप्त्यै देव्याराधनार्थमुपदेशपूर्वकं सुहृदयेति नामकरणम, श्रीकृष्णोपदेशेन तेन सुहृदयेन गुप्तक्षेत्रे दग्धस्थलीमागत्य देवीनामाराधनम्, सुप्रसन्नानां देवीनामनुज्ञया तेन सुहृदयेन तत्रैव स्थित्वा विजयनामकमागधब्राह्मणस्य तत्र सिद्धाम्बिकायाः पुरत आगत्य महाविद्यां साधयितुं प्रवृत्तस्य सुहृदयेन विघ्ननिवारणार्थं साहाय्यकरणम्, विजयव्राह्मणेन महाविद्यासाधनार्थमादौ गाणेश्वरकल्पोपासनाकरणवर्णनम् २०० २

६२ अथ गणेश्वरक्षेत्रपालोत्पत्तिवृत्तान्तवर्णनम्, क्षेत्रपालपूजनादिविधानवर्णनम्, ततो विजयब्राह्मणेन वटयक्षिणीविद्यासाधनम्, ततश्चापराजितामहाविद्यासाधनम् २०२ १

६३ अथ प्रथमयामान्ते विघ्नकरणार्थं समागताया महाजिह्वाराक्षस्याः सुहृदयेन घटोत्कचपुत्रेण दमनम्, ततो मध्यरात्रसमये विघ्नकरणार्थं समागतस्य रेपलेन्द्रस्य घटोत्कचपुत्रेण सुहृदयेन दमनम्, ततस्तृतीययामान्ते विघ्नकरणार्थं समागताया दुहद्रुहाख्याश्वतर्याः सुहृदयेन हनने कृते सति तत्प्रक्षेपस्थले दुहद्रुहाख्यग्रामप्रसिद्धिवर्णनम्, अथ चतुर्थयामे विघ्नकरणार्थं समागतस्य क्षपणकवेषधारिणः पलाशिनाम्नो दैत्यस्य नवकोटिदैत्यसेनासमन्वितस्य भैमिपुत्रेण सुहृदयेन पातालगुहां तमनु गत्वा हननम्, ततश्च तत्कृतेन दैत्यवधेन संतुष्टैर्नागलोकैः सुहृदयाय वरप्रदानम्, अथ पातालविवरस्थरत्नलिङ्गपूजकनागकन्याभिः प्रवर्णितेन मार्गेण सुहृदयस्य -भूतले सिद्धाम्बिकापुरःस्थले विजयाख्यब्राह्मणसमीपं प्रत्यागमनम्, ततः सर्वमहाविद्यासिद्धिसंपन्नतया
सुप्रसन्नेन विजयब्राह्मणेन सुहृदयायाशीःप्रदानम्, ततो भविष्यत्संग्रामे पाण्डवसंरक्षणहेतुना देवानां देवीनां चानुज्ञया विजयब्राह्मणदत्तसिन्दूरसदृशहोमभस्मग्रहणपूर्वक सर्वदेवीदेवैः सुहदयस्य सिद्धसेनेतिनामकरणवर्णनम्..... २०३

६४ अथ देव्याराधनतत्परतया सिद्धाम्बिकासंनिधौ सिद्धसेने स्थिते वनवासप्रसंगेनागतानां पाण्डवानां मध्येऽतितृषार्तेन भीमेन देवीपुरतः स्थिते कुण्डे प्रवेशे कृते सत्यतिक्रुद्धेन सिद्धसेनेन भीमेन सह युद्धं कृत्वा भीमसेनस्य जर्जरीकरणम्, ततो भीमसेनं गृहीत्वा सागरे प्रक्षेप्तुं प्रचलितस्य सिद्धसेनस्य समीपे वियति भगवता रुद्रदेवेन समभ्येत्य सिद्धसेनाय भीमसेनस्य पितामहत्ववर्णनम्, तद्रुद्रवचः श्रुत्वा सिद्धसेनस्य शोककरणपूर्वक भोमसेनाग्रेऽपराधक्षमापणम्, भीमसेनेन स्वपौत्रस्यालिंगनम्, अथ पितामहापराधदोषविषण्णस्य सिद्धसेनस्य समुद्रं प्रति निजप्राणत्यागार्थं गमनम्, तन्निवारणार्थं भीमसेनस्यापि तत्पश्चाद्गमनम्, ततो रुद्रसहिताभिः सिद्धाम्बिकादिदेवीभिः सिद्धसेनस्य सांत्वनपूर्वकं चण्डिलेतिनामकरणम, भीमेन चण्डिलेन सह
युधिष्ठिरादिपाण्डवसमीपं गत्वा सर्ववृत्तनिवेदनम, भीमस्थापितभीमेश्वररुद्रलिंङ्गमाहात्म्यवर्णनम्. -....... ... .. २०५

६५ अथ युधिष्ठिरकृतां सिद्धाम्बिकास्तुतिं निशम्य भीमसेनेन युधिष्ठिरस्य स्त्रीस्तुतिकरत्वं मत्वा निर्भर्त्सनम्, ततो देव्यवज्ञानाद्भीमसेनस्याङ्गवैकल्यप्राप्तौ भीमेन स्वापराधक्षमापणाय सिद्धाम्बिकाजगदम्बिकास्तुतिकरणम, ततो जगदम्बिकया तस्मै वरप्रदानम्, अथ देव्या स्वस्या निमित्तान्तरेण लोहाणास्थकेलेश्वरीदुर्गावत्सेश्वरीगयत्राडेत्यादिनामभेदस्थानभेदेन तत्र क्षेत्रेऽवस्थितिवर्णनपूर्वकं सर्वपाण्डवानामभयप्रदानम् पाण्डवैर्बर्बरीकस्य तत्रैव स्थाने संस्थापनपूर्वकं तीर्थयात्राकरणम्... .. २०७

६६ अथ त्रयोदशवर्षानन्तरं वनवासान्निवृत्य स्वकीयराज्यंप्राप्तये संग्रामांगणं समुपस्थितेषु ससैन्येषु पाण्डवकौरवेषु मध्ये सर्वशत्रुसैन्यवधसमर्थवीरपरिगणनायां प्रक्रान्तायां घटोत्कचपुत्रेण चण्डिलेन सर्वातिशायिस्वसामर्थ्यप्रकटनप्रौढ्या परीक्षाप्रदानार्थं पुरा दॆव्यग्रतः कृतहोमेन विजयनामकसिद्धब्राह्मणेन प्रदत्तस्य सिन्दूराभभस्मनः स्वशराग्रे संयोजनपूर्वक बाणप्रक्षेपेण सर्वशत्रुसैन्यस्य मृत्युमर्मनिदर्शनकरणम, अथ तद्दृष्ट्वा सर्वेषां युधिष्ठिरादीनां तत्प्रशंसापूर्वकं सुमहति साधुवादे संप्रवृते सत्यकस्मादेव कृष्णेन तस्य घटोत्कचपुत्रस्य स्वचक्रेण शिरश्छेद्द्रकरणम्, अथ कृष्णेन तचि्छ्र३छेदं कृतं दृष्ट्वा शेीकाकुलान्पांडवादॊन्घटोत्कचं च प्रति तस्मिन्संप्रामांगणे सिद्धूतः. बिकदिचतुर्दशदेवीनामागमनम, ताभिश्च चण्डिलस्य प्राग्जन्मजातसुवचोनामकयक्षस्य वृत्तान्तकथनपूर्वकं सर्वेषां सान्त्वनम् , अथ श्रीकृष्णेन तच्छिरश्छेदकरणम् , अथ कृष्णेन तच्छिरश्छेदं कृतं दृष्ट्वा शोकाकुलान्पांडवादीन्घटोत्कचं च प्रति तस्मिन्संग्रामांगणे सिद्धाम्बिकादिचतुर्दशदेवीनामागमनम्, ताभिश्च चण्डिलस्य प्राग्जन्मजातसुवर्चोनामकयक्षस्य वृत्तान्तकथनपूर्वकं सर्वेषां सान्त्वनम्, अथ श्रीकृष्णेन तच्छिरश्छेदकारणकथनम्, ततो देव्यामृतसिञ्चनेन तच्छिरसोमृतीकरणम्, अथ श्रीकृष्णेन शिरोरूपस्य चण्डिलस्य वरप्रदानम्, अथ श्रीकृष्णाज्ञया युद्धभूमिसमीपवर्तिगिरिश्रृंगमधिरुह्य तेन बर्बरीकेण पाण्डवकौरवाणां युद्धनिरीक्षणम्, अथ भारतमहायुद्धनिवृत्यनन्तरं गर्वान्वितस्य भीमस्य श्रीकृष्णेन बर्बरीकमुखत: परमपुरुषेण हरिहराभिन्नरूपेण केनचित्परमपुरुषेण सर्वं सैन्यं निर्दलितमिति सत्यापयित्वापि लंकाद्वा:स्थितकुम्भकर्णशिरःकरोटिकादर्शनेन गर्वपरिहरणवृत्तान्तवर्णनम्, अथ रणाजिरं प्रत्येत्य घटोत्कचपुत्राय बर्बरीकाय श्रीकृष्णेन वरप्रदानम्, अथ बर्बरीकस्तवः, बर्बरीकपूजनमाहात्म्यम्, अथ महीनगरस्थकेदारेश्वरात्रीश्वरनीलकण्ठेश्वरजयादित्यमाहात्म्यम, एवं सप्तक्रोशात्मकगुप्तक्षेत्रापरपर्यायमहीसागरसंगमक्षेत्रमाहात्म्यश्रवणपठना
दिफलश्रुति-- - - ---- --- - 209