स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/केदारखण्डः/विषयानुक्रमणिका

विकिस्रोतः तः
Jump to navigation Jump to search

अथ माहेश्वरखण्डे प्रथमं केदारखण्डम् ।। ( १-१) ।।

१ मङ्गलाचरणम, अथ स्कान्दमहापुराणोपक्रमः, तत्र नैमिषारण्ये शौनकादिमहर्षिदर्शनार्थं व्यासशिष्यस्य लोमशसूतमहर्षेरागमनम्, शौनकादिमहर्षिभिर्लोमशं प्रति श्रीशिवमाहात्म्यश्रवणेच्छया प्रश्नकरणम्, अथ लोमशमहर्षिणा पुराणोपक्रमपूर्वकं शिवपरममहिमोपक्रमवर्णनम्, तत्रादौ-दक्षयज्ञविध्वंसवृत्तान्तवर्णनम्, तत्र दक्षेण शिवनिंदाकरणपूर्वकं शिवाय शिवगणेभ्यश्च शापप्रदानम्, शिवशिवकिंकरशापमसहमानेन नन्दिना दक्षादिब्राह्मणेभ्यः शापप्रदानम् , अथ शङ्करेण नन्दिनः सान्त्वनम्, दक्षस्य शङ्करनिन्दनेनाऽशान्तिवर्णनम्.. १ ।

२ दक्षेण कनखलक्षेत्रे यज्ञकर्मप्रारम्भकरणम्, तत्र यज्ञे वसिष्ठादिमहर्षीणां विष्णुब्रह्मेन्द्रप्रभृतीनां देवतानां चागमनम ,तत्र शंकरमनागतं दृष्ट्वा दधीचिमहर्षिणा दक्षं प्रति शंकरानयनार्थमुपदेशकरणम्, दक्षेण शङ्करानादरप्रदर्शनम्, दधीचिना शंकरानादर- णाऽन्यायेन यज्ञविनाशमाश्राव्य यज्ञवाटान्निर्गमनम्, दक्षेण देवयजनारम्भकरणम्, अथ गन्धमादनपर्वते विमानस्थया दाक्षायण्या सत्या स्वपितुर्दक्षस्य यज्ञसमारंभे स्वपत्नीभिः सह गच्छतश्चन्द्रस्य मुखेन यज्ञवृत्तांतं समाकर्ण्य शिवसमीपं समेत्य स्वपितृमंदिरं प्रीत स्वस्या जिगमिषासमुत्कण्ठाप्रदर्शनम्, शिवेन क्रियमाणेऽप्युपदेशे सत्याऽत्याग्रहेण स्वस्या गमनार्थं शिवसकाशादाज्ञाप्रार्थनम्, पित्राऽवमानितायाः सत्याः पुनरनागमनं शिवेन निर्धार्य नन्द्यादिभिः सह तस्याः प्रेषणम्, दक्षयज्ञं प्रति सतोदेव्यागमनवर्णनम् ... ....

३ सतीदेव्या पितृसमीपं गत्वा भृग्वादिसंनिधौ शङ्करानाह्वानकारणे पृष्टे दक्षेण शिवनिन्दाकरणम शिवनिन्दामात्मापमानं चाऽसहमानया सत्या हुताशने प्रवेशकरणमू, तामनुसमागतानां द्व्ययुतगणानां शस्त्रप्रहारैः स्वांगविच्छेदेन नाशः, लोकपालादीनामृषीणां च भयेन स्तब्धीभावः,शंकरेण नारदमुखात्तं वृत्तान्तं श्रुत्वाऽतिकोपेन पर्वतशिखरोपरि निजजटास्फोटनम्, ततो वीरभद्रकालीभूतकोटिप्रादुर्भावः, रुद्रनिःश्वासतः शतसंख्याकज्वरत्रयोदशसंख्याकसंनिपातोत्पत्ति:, ततः शंकराज्ञया वीरभद्रादीनां दक्षयज्ञवाटं प्रत्यागमनम्, तामायांतीं रुद्रसेनां दृष्ट्वा यज्ञवाटस्थितानां भयात्पलायने शक्रादीनां युद्धार्थं संनहनम्, दक्षेण सर्वदेवप्रार्थनाकरणम्, विष्णुना दक्षनिर्भर्त्सनाकरणम्, कर्मफलदातृत्वेन शिवमहिमवर्णनं च. ... --- 3.

४ वीरभद्रादिभिः सहेन्द्रादिदेवानां युद्धम्, जयचिन्तान्वितेन्द्रपृष्टबृहस्पतिकृतेन्द्रादिनिर्भर्त्सना, वीरभद्रस्य लोकपालपराजयपूर्वकं यज्ञवाटमध्य आगमनम्, ततो विष्ण्वादिदेवैः सह वीरभद्रादीनां द्वंद्वयुद्धारम्भः, शिवगणानां पराजयमदृष्ट्वा विष्णोः स्वधामगमनम्. ... ---- ---- - - - ---

५ विष्णोः स्वधामगमनानन्तरं वीरभद्रादिगणैः सर्वदेवान्विजित्य भृग्वादिमहर्षिविडंबनपूर्वकं दक्षशिरश्छित्त्वा यज्ञाग्निकुण्डे होमकरणम्, सर्वेषां देवर्षिपितृयक्ष्रराक्षसादॊनां भीत्या पलायनम्, पुत्रशोकपीडितस्य ब्रह्मणः शंकरं प्रसादयितुं कैलासं प्रति गमनम् , बह्मकृता शिवस्तुतिः, स्तुतिप्रसन्नेन शंकरेण सर्वैर्देवैः सह दक्षयज्ञमण्डपं प्रत्यागत्य दक्षकबन्धोपरि कूर्चयुक्तच्छागपशुशिरःसंयोजनपूर्वकं दक्षस्य संजीवनम्, दक्षकृता शिवस्तुतिः, स्तुतिप्रसन्नेन शिवेन दक्षयोपदेशकरणम्, शिवब्रह्मादीनां स्वस्वलोकगमनम, लोमशेन सूतेन शिवोपासनाशिवव्रतविधिमाहात्म्यवर्णनम्, शिवभक्तिमाहात्म्यप्रसंगेन इन्द्रद्युम्नसुतस्य इन्द्रसेनस्येतिहासवर्णनम्, तत्राऽतिपापिष्ठस्य तस्य यमदूतैर्यमलोकं नीतस्यापि-'आहर प्रहरस्व' इत्यादिशब्दमिषेण पापकर्मस्वपि 'हर' नामोच्चारणप्रभावाद्यमेन सत्कारकरणम, ततः शिवदूतैऽर्विमानमारोप्य तस्य शिवलोकं प्रति नयनम, हरनामोच्चारणमहिम्नेन्द्रसेनस्य चण्डनामकगणत्वप्राप्तिवर्णनम, शिवनाम-भस्म-रुद्राक्ष-त्रिपुंड्रमाहात्म्यम्, शिवपूजनमाहात्म्यम्, तत्प्रसंगेन नन्दिवैश्यकिरातयोरितिहासवर्णनम्, तत्र नन्दिवैश्येन रत्नैराराधिते शिवे किरातेन मुखधृतजलगण्डूषसमर्पणादिरूपभक्तिकरणम्, तद्भक्तिसंतुष्टेन शिवेन किरातस्य किरातप्रार्थनया नंदिवैश्यस्य च महाकालनामकशिवद्वारपालत्वप्रदानम, शिवभक्तिमाहात्म्यम्... ... -.. -.. ६ ५

६ शौनकादिभिः शंकरस्य मूर्तिं विहाय लिंगपूजाप्रवृत्तिविषयके प्रश्ने कृते सति लोमशेन सूतेन-लिंगपूजाप्रवृत्तिवृत्तान्तनिरूपणम्. तत्र दारुवने शंकरस्य नग्नतया भिक्षार्थमटमानस्य दिगंबरं सुन्दरं स्वरूपं निरीक्ष्य मोहितानां समस्तमुनिपत्नीनां शंकरपृष्ठतोऽनुगमनम, तासां तमनुगमनेन स्वाश्रमाञ्छून्यान्निरीक्ष्य कुपितानां तेषामृषीणां शापेन शिवस्य लिंगपतनम्, पतितेन तेन लिंगेन चराचरसमस्तब्रह्मांडं व्याप्यैकरूपेणावस्थानम्, तद्दृष्ट्वा चकितैः सुरादिभिर्विष्णुब्रह्मणोः प्रार्थना, देवप्रार्थनया लिंगपर्यंतशोधनाय पाताले विष्णोर्गमनम, स्वर्गे च ब्रह्मणो गमनम्, ब्रह्मणो मेरुपृष्ठे सुरभीदर्शनम्, केतकीदर्शनं च, ब्रह्मप्रार्थनया सुरभीकेतकीभ्यां 'ब्रह्मणा लिंगमस्तकं दृष्टम् इति मृषा साक्ष्यप्रदानप्रतिज्ञानानन्तरं ब्रह्मणः प्रत्यावृत्य पुनः पूर्वस्थानं प्रत्यागमनम्, देवाग्रे च सुरभीकेतकीभ्यां मृषासाक्ष्यप्रदानपूर्वकं 'मया लिङ्गमस्तकं दृष्टम्, इति मिथ्याप्रौढिवादकथनम्, भृग्वादिभिश्च तदनुमोदनम्, विष्णुना च पातालात्प्रत्यावृत्य सर्वदेवाग्रे 'मया लिङ्गान्तो न दृष्टः' इति सत्यभाषणकथनम्, सुरभीकेतक्योर्मृषोक्तिमाकर्ण्य कुपितेन भगवता-आकाशवाण्या-अपवित्रमुखत्वेत सुरभ्याः, शिवपूजानर्हत्वेन केतक्याः, अपूज्यत्वेन ब्रह्मणः, क्लेशादिभागित्वेन तदनुमोदकानां भृग्वादिब्राह्मणानां च शापप्रदानम्, एवमाकाशवाण्या शप्तानां ब्रह्मादीनां लिङ्गं प्रति शरणगमनम्.. ............. १० १

७ ब्रह्मदेवर्षिकृत शिवस्तुतिः, ब्रह्मादिकृतस्तुतिसन्तुष्टेन शिवेन व्रह्मादीन्प्रति विष्णुप्रार्थनार्थमाज्ञाकरणम्, ब्रह्मादिभिर्विष्णुस्तवनम्, तत आकाशवाण्या विष्णोः पिण्डीभावेन शिवलिङ्गधारणम्, ततः शिवप्रियेण वीरभद्रेण ब्रह्मादिभिः सह शिवलिङ्गपूजनम्, ततः शंकरस्यानेकैर्देवादिभिरनेकेषु स्थलेषु नानानामकलिङ्गस्थापनम्, तत्रतत्र लिंगार्चनार्थं वीरभद्रांशस्थापनं वीरभद्रादारभ्य लिंगपूजकगुरुपरंपरोत्पत्तिः, नन्दिनो लिंगमहिमप्रशंसकप्रथमाचार्यत्वम्, स्कन्दस्य च लिंगपूजकाचार्यत्वम्, ततश्च लिंगपूजकगुरुपरंपराप्रवृत्तिः, शिवभक्तिमाहात्म्यम्, तत्र पतंग्याः कीटपक्षिण्याः शिवमन्दिरमार्जनपुण्यवशेन काशिराजसुतात्वप्राप्तिवृत्तान्तवर्णनम्, उद्दालकमहर्षे काशिराजसुतया सुन्दर्याख्यया सह संवादः, ....... ... ११ २

८ शिवभक्तिमाहात्म्यप्रसंगेन-तस्करस्य शिवशिरोऽधिरुह्य घण्टां हरतः शिवलोकप्राप्तिवृत्तान्तः, सर्वजगतः शिवशक्तिमयत्ववर्णनम्, तत्र नराणां लिंगयुक्तत्वम् , स्त्रीणां च पिण्डीभूतत्वम्, शिवविष्ण्वोरभेदवर्णनम्, ब्रह्मादिकृतमणिमयादिलिंगपूजावर्णनम्, प्रह्लादबलिबाणासुरादिदैत्यानां शिवलिंगपूजापरत्ववर्णनम, शिवार्चनप्रभावाधिगतदुःसहप्रतापरावणनिर्जितैः सुरैर्नन्दिवाक्याच्छिवलिंगाराधने समुद्योगः. तत्र प्रसंगेन देवपृष्टेन नन्दिना स्वस्य वानराननत्वकारणवर्णनम्, तत्र रावणशापतो नन्दिनो वानराननत्वप्राप्तिः, नन्दिना च 'वानरैः समेतस्य कस्यापि हस्तेन ते मृत्युर्भविष्यति' इति रावणाय शापदानम्. ततो नन्दिप्रभृतिभिः सर्वदेवैर्वैकुंठं गत्वा लिंगस्य पीठिकाभवनाय विष्णोः प्रार्थना, भगवता विष्णुना रावणहननायावतार- ग्रहणे देवानामाश्वासनम्, विष्णोराज्ञया सर्वदेवानां वानरेष्वंशावतारवर्णनम् रामावतारः, रामेण रावणहननम्, रावणस्य शिवसायुज्यप्राप्तिः, शिवलिंगार्चनमहिमवर्णनम्..... ........ ....... १३ १

९ बृहस्पतेरपमानेन शक्रस्य राज्यभंगः, बलिपराजितेन शक्रेण ब्रह्मादिभिः सह विष्णुलोकं गत्वा विष्णोः प्रार्थनाकरणम्, विष्णोरुपदेशेन शक्रादीनां बलेः शरणगमनम्, शरणागतस्य शक्रस्य नारदवाक्येन बलिनो संमानकरणम्, रत्नलिप्सार्थं बलिना पृष्टेन शक्रेण समुद्रमन्थनोद्योगप्रशंसनम्, ततः समुद्रमन्थनाय मन्दराचलं प्रति देव दानवानां गमनम्, महता प्रयासेन विष्णुसाहाय्येन मन्दराचलमानीय वासुकिं मन्थनरज्जुं विधाय देवदानवैः समुद्रमन्थनारम्भणम्, मथ्यमानात्समुद्राद्धालाहल- समुद्भवः, नारदेन संकटेऽस्मिञ्छिवः स्मर्तव्य इत्युक्तेऽपि तद्वचनमनाकर्ण्य देवेषु स्वार्थलिप्सया समुद्रमन्थन एव प्रवृत्तेषु प्रवृद्धेन हालाहलेन वैकुण्ठपर्यन्ताष्टावरणसर्वब्रह्माण्डदहनवर्णनम्. १५

१० विषाग्निव्याप्तहरिब्रह्मादिविज्ञप्तहेरंबप्रार्थनया सन्तुष्टात्सदाशिवाज्जगत्कारणयोनिरूप पराशक्तिप्रादुर्भावः, तत्र प्रसंगतः शौनकादिपृष्टेन लोमशाख्यसूतेन हेरंबोत्पत्तिवृत्तान्तवर्णनम्, तत्र पराशक्तेः सकाशाद्धेरम्बोत्पत्तिवृत्तान्तः, ज्ञानवता तेन गणेशेन शक्तियुक्त श्रीशिवस्तुतिकरणम्, हेरंबस्तुतिप्रसन्नेन लिंगरूपेण कालकूटग्रसनम्, ततः समस्तदेवैर्दैत्यैश्च लिंगस्तुतिकरणम्, तत्स्तुतिप्रसन्नस्य शिवस्याविर्भवनम्, शिवेन हालाहलभक्षणोत्तरं सर्वकार्यारम्भे गणेशपूजनं कर्त्तव्यमित्युपदेशकरणम् -.. १७

११ शिवप्रोक्तगणेशपूजाविधिवर्णनम्, शिवान्तर्धानानन्तरं सर्वदेवैः समुद्रमन्थनम्, ततश्चन्द्रोत्पत्तिः, चन्द्रस्य समुद्रादुत्पत्ते कारणवर्णने गर्गप्रोक्तमुहूर्त्तवृत्तान्तः, मथ्यमानात्समुद्रात्कामधेन्वादिरत्नोत्पत्तिः, त्यर्क्ष्णप्रादुर्भावः, लक्ष्मीकृतविष्णुवरण वृत्तान्तवर्णनम्. ... १९ २

१२ अमृतार्थं पुनः समुद्रमंथने सामृतकलशधन्वन्तरिप्रादुर्भावः,धन्वंतरिहस्ताद्वृषपर्वणा दैत्येनामृतकलशहरणपूर्वकं सकलदैत्यैः सह पातालगमनम्, सुरप्रार्थनया विष्णुना मोहिनीरूपेण दैत्यान्वंचयित्वा देवान्प्रत्यमृतपायनम्, देवपङ्क्त्युपविष्टस्य चन्द्रसूर्याभ्यां सूचितस्य राहोः शिरश्छेदकरणम्, अमृतपाने वञ्चितानां दैत्यानां प्रकोपवर्णनम्.... २१ १

१३ देवदैत्यतुमुलद्वन्द्वयुद्धवर्णनम्, तस्मिन्युद्धे शङ्करेण स्वशिरसि राहुमुण्डमालावेष्टनम्, तत्प्रसंगेन शिवभक्तिभस्मत्रिपुंड्ररुद्राक्षधारणादिशिवधर्ममहिमवणर्नम्, देवदैत्यसंग्रामे कालनेमिना देवानां पराजये कृते देवैर्विष्णुस्तवनम, कालनेमिना सह युद्धार्थ विष्णुप्रादुर्भावः ... -.. ...... -..... -. २२ २

१४ कालनेमिं हत्वा विष्णोरन्तर्धानम्, ततः शक्रेणान्यायेन भीतपतितदैत्यहनन आरब्धे नारदेन तन्निवारणम्, ततः सुरसेनासमेतस्येन्द्रस्यामरावतीं प्रति गमनपूर्वकं विजयाभिषेकवर्णनम्, अवशिष्टानां पराजितानां दैत्यानां शुक्राचार्यं प्रति गमनम्, शुक्रेण दैत्यानां विजयसिद्ध्यर्थे तपःकरणम्........ - -. २५ १

१५ अपमानितस्य बृहस्पतेरसांनिध्ये विश्वकर्मसुतस्य विश्वरूपस्य शक्रपौरोहित्यम्, विश्वरूपेण कृता दैत्यानां हविर्दानरूपां देववञ्चनामवेक्ष्य शक्रेण वज्रेण विश्वरूपशिरश्छेदकरणम् ,तद्वधोद्भूतब्रह्महत्ययोपद्रुतस्य शक्रस्याप्सु निमज्जनम् ,ततः सर्वलोकपालैर्गुरोः समीपमभ्येत्य शक्रकृतब्रह्महत्यादिवृत्तान्तनिवेदनम्, ततो नारदोक्त्येन्द्रस्थाने नहुषस्य स्थापनविषये मन्त्रणम्, इन्द्रस्थाने नहुषस्थापनं श्रुत्वा शच्याः शोकेनान्तःपुरं प्रति गमनम्, नहुषस्येन्द्रपदाधिरोहणाय सर्वदेवानुमोदनम्, नहुषस्येन्द्रपदाभिषेकः, नहुषेणेन्द्राणीविषये कामेच्छया बृहस्पतेरिन्द्राणीसंनिधौ प्रेषणम्, इन्द्राण्याऽवाह्य वाहनेनागमनार्थं नहुषाय संदेशप्रषेणम्, नहुषेण शिबिकावाहनार्थमगस्त्यादिब्राह्मणयोजनम्, ततः कुपितेनागस्त्येन नहुषस्याजगरो भवेति शापप्रदानम्, ततोऽजगरत्वप्राप्त्या नहुषस्य स्वर्गात्पतनोत्तरं ययातेरिन्द्रत्वे स्थापनम्, तस्य च स्वपुण्य कीर्तनेन पुण्यक्षयादधः पतनम्, ततः सर्वेषां सुराणां चिन्ताप्राप्तिः... - ... - - २६ १

१६ इन्द्रानयनार्थं शच्या बृहस्पत्यादीन्प्रत्याज्ञाकरणं बृहस्पतेः स्वावहेलनाच्छापप्रदानं च, शचीशापभीत्या भीतस्य बृहस्पतेः शक्रानयनार्थं सरस्तीरप्रतिगमनम्, इन्द्रस्याह्वाने क्रियमाणे सरस्तीरस्थया ब्रह्महत्यया देवान्प्रति निजावासप्रार्थनायां कृतायां सत्यां तस्याश्चतुर्विभागान्पृथिवीवृक्षजलनारीषु वरप्रदानपूर्वकं निक्षिप्य निष्पापमिन्द्रममरावत्यामानीयेन्द्रपदेऽभिषेचनम, ततो विश्वरूपवधकुपितेन त्वष्ट्रा तपसा ब्रह्माणं सन्तोष्य ततो देवभयावहपुत्रप्रार्थनम, ततो ब्रह्मवरात्तस्य वृत्रनामकपुत्रप्राप्तिः, तेन वृत्रासुरेण संजा तहर्षाणां दैत्यानां पातालाद्भूतलं प्रत्यागमनम्, तद्दृष्ट्वा देवानां भयप्राप्तिः परस्परं मन्त्रकरणं च, ब्रह्मण आज्ञया देवैर्दधीचाश्रमं प्रति गत्वा शस्त्रार्थं दधीचिं प्रति तदस्थिप्रार्थनम्, देवैरस्थिकृतेऽभ्यर्थितेन दधीचिना योगेन स्वदेहविसर्जनम्... २८

१७ सुरभ्या कामधेन्वा स्वजिह्वया दधीच्यस्थ्नालेहनेन निर्मांसकरणम् ,देवैस्तदस्थिभिर्व- ज्राद्यायुधनिर्मापणम्, सुवर्चाख्यया दधीचिपत्न्या देवानामप्रजस्त्वशापप्रदानम्, सुवर्चया स्वपुत्रं पिप्पलादमश्वत्थसंनिधौ संस्थितय आज्ञाप्य पत्या सह समाधिनानुगमनम, देवासुरसंग्रामारम्भः, वृत्रासुरसंग्रामारम्भः वृत्रासुरहननाय बृहस्पत्याज्ञयेन्द्रेण शनि- प्रदोषव्रतकरणेन शिवाराधनम्, शनिप्रदोषव्रतविधानम्, वृत्रासुरस्य पूर्वजन्मनि चित्ररथस्य गंधर्वस्य देवीशापेनासुरत्वप्राप्तिवृत्तान्तवर्णनम, शनिप्रदोषव्रतोद्यापनवि- धानम , शनिप्रदोषव्रतप्रभावेनेन्द्रस्य पराक्रमप्राप्त्यनंतरं दैत्यैः सह संग्रामकरणम्, रणात्पलायितानां दैत्यानां वृत्रासुरेण युद्धधर्मवर्णनम्, देवदानवानां तुमुलयुद्धवर्णनम्, वृत्रकृतप्रहारेणेन्द्रस्य मूर्छया पतनम्, ततो लब्धसंज्ञस्येन्द्रस्य ब्रह्माज्ञया वृत्रहननाय शिवाराधनरूपतपःकरणम, शिवोक्त्या वृत्रमजय्यं मत्वा शक्रेण सहस्रवत्सरपर्यंतं वृत्रेण सह मैत्रीं कृत्वा वृत्रसमीपे तद्धननाय निवासकरणम्, वृत्रस्य गर्वः, वज्रपाणिना नर्मदातट ॐकारेश्वरस्य प्रदोषव्रतेन सम्पूजनम्, वृत्रस्य तु प्रदोषसमये शिवपूजां विस्मृत्य निद्राकरणेन तपोहान्या निःश्रीकत्वप्राप्त्या मनोरथभंगः, ततो वृत्रेन्द्रयुद्धे वृत्रेणेन्द्रग्रसनम, ब्रह्मप्रार्थनया संतुष्टेन भगवताऽऽकाशवाण्या ब्रह्माणं प्रति प्रदोषव्रते शक्रस्य पीठिकालंघनकरणदोषकरणाद्दैत्यकृतग्रासरूपापत्प्राप्तिकथनम् ,तत्प्रसंगेन त्रैकालिकलिंगपूजाविधिवर्णनम्, ततः शंकराज्ञया देवैर्यथाशास्त्रं लिंगपूजाकरणम्, तत्प्रभावेनेंद्रस्य वृत्रकुक्षिं भित्त्वा बहिर्निर्गमनम्, वृत्रासुरशरीरस्य च पतन- वर्णनम् , गंगायमुनयोर्मध्येऽन्तर्वेद्यां शरीरपतनम, मालवे च शिरःपतनम्, सवर्देवैः षण्मासपर्यतं वृत्रशिरःकृन्तनम्, इन्द्रस्य जयप्राप्तिः, ततो दैत्यनिवेदितवृत्रवधवृत्तान्तेन बलिना शुक्राज्ञया यज्ञे क्रियमाणे तस्माद्रथप्राप्तिः, तं रथमारुह्य दैत्यसेनासमन्वितस्य बलेः सुरविजयार्थं स्वर्गलोकं प्रति गमनम्, तदागमनं श्रुत्वा शक्रस्य लज्जा- प्राप्तिः. .. ३० १

१८ बलेः स्वर्ग आगमनं दृष्ट्वा बृहस्पतिप्रेरणयेन्द्रादिसर्वदेवानां मयूरादिपक्षिरूपाणि विधाय स्वर्गान्निर्गत्य कश्यपाश्रमं प्रत्येत्य निजमातरमदितिं प्रति निजदुःखनिवेदनम् , देवरक्षार्थमदित्या प्रार्थितेन कश्यपेनादित्यै श्रवणद्वादशीव्रतेन विप्णूपासनवर्णनम्, अदित्या तद्व्रताचरणेन विष्णुप्रादुर्भावः, अदित्या देवरक्षार्थं स्तुतेन भगवता बलिदमनार्थं निजगदाचक्राभ्यामाज्ञापिताभ्यां तस्य दमने स्वस्यासामर्थ्यें कथिते चिंताकरणम देवेन्द्रासने शुक्रकृताभिषेकेण बलिना ब्राह्मणेभ्यः समग्रेन्द्रसम्पत्तिप्रदानवर्णनम्, तत्प्रसंगेन-इन्द्रासनस्थितस्य यस्य कस्यापीन्द्रस्य दानाभावात्पुण्यसमाप्त्य नन्तरमिन्द्रकृमित्वप्राप्तिवर्णनम्, बलेः पूर्वजन्मवृत्तान्तवर्णने कस्यचित्कितवस्य गणिकार्थमुपनीतं पुष्पतांबूलादिकं प्रस्खलेन भूमौ पतितं वीक्ष्य शिवार्पणमस्तु इति बुद्ध्या निश्चयेन सर्वपापनिवृत्तिः, ततो मरणोत्तरं यमोक्त्या सार्धत्रिघटिकापर्यंतं तस्य शतक्रतुपदप्राप्तौ तेन तस्मिन्नवसरेऽगस्त्यादिमहर्षिभ्य ऐरावतादिदानवर्णनम्, सार्धघटिकात्रितयोत्तरं पूर्वपुरंदरस्य स्वस्थाने स्थित्वा शचीनिर्भर्त्सनादनन्तरं शचीकृततन्निर्भर्त्सनपूर्वककितवेन्द्रप्रशंसनम् पूर्वेन्द्रस्य लज्जाप्राप्तिः, कितवप्रदत्तै- रावतादिकनिजधनं समवेक्ष्य यमं प्रति गत्वेन्द्रेण कितवनिर्भर्त्सनम्, तदा यमादि- ष्टेन चित्रगुप्तेन शिवोद्देशेन कृतस्य दानस्य महिम्ना कितवस्य नरकानर्हत्ववर्णनम्, तच्छ्रुत्वा लज्जितस्य शक्रस्य स्वर्गगमनम्, तस्य कितवस्य प्रह्लादात्मजविरोचन- पत्न्याः सुरुच्याख्याया गर्भे प्रवेशः, इन्द्रेण विप्ररूपेण विरोचनं बलितातं प्रत्यभ्येत्य शिरोयाचनम्, विरोचनस्य कपटकृतविप्रवेषाय शक्राय स्वशिर उत्कृत्य प्रदानवर्ण- नम्, विरोचनाख्यस्य पितुर्मरणोत्तरं सुरुच्याः सकाशाद्बलेर्जन्म, सुरुच्याः प्रसूत्यनन्तरं पतिलोकं प्रति गमनम्, भार्गवेण बलेः पितुर्विरोचनस्य राज्यासनेऽभिषेचनम् , अथेन्द्रादीनां बलिपराजितानां निर्गमनोत्तरं बलेः स्वर्गेऽधिष्ठानार्थं सर्वेषामा- ज्ञापनम्, ततः शुऽक्रवचनेन स्वर्गे स्थातुमनर्हतां विचार्य बलेः सर्वदैत्यैः सह शुक्रेण च सह वसुधातले नर्मदातीरे गुरुकुल्यतीर्थं प्रत्यागत्याश्वमेधादिबहुयज्ञकरणवर्णनम्- तस्मिन्नेव बलेर्यज्ञसमयेऽदितिकृतव्रतसंतुष्टस्य भगवतो बटुरूपेणावतरणम्, ततस्त- स्योपनयनादिविधेरनन्तरं बलेर्यज्ञवाटं प्रति गमनम्, बलिकृतवामनबदुसत्कारवर्ण- नम्, वामनवटुभगवता बलिं प्रति तदाग्रहेण त्रिपादभूमियाचनम्, बलिना तस्मै भूमिदानप्रतिज्ञायां कृतायां तद्गुरुणा शुक्रेण तस्य बटोर्विष्णुत्ववर्णनपूर्वकं भूमिदान- निषेधकरणम्. ................ ३६

१९ बटवे भूमिदानाय बलेराग्रहं दृष्ट्वा शुक्रेण बलये शापप्रदानम् बलिना संकल्पपूर्वकं भूमिदाने दत्ते मायावटोर्भगवतो वृद्धिवर्णनम्, पदद्वयेन चराचरब्रह्माण्डव्यापनम, तृतीयपादपरिमितभूप्रदानार्थं वामनेन बलिं प्रति गरुडप्रेषणम्, ततो बलिपत्न्या विंध्यावल्याः प्रह्लादेन सह वामनभगवत्समीपं प्रत्यागमनम, ततस्तया स्वस्या निजपुत्रस्य निजपत्युश्चेति त्रिषु शिरःसु वामनरूपेण पदत्रयनिधानप्रार्थनम्, तेन विज्ञापनेन संतुष्टेन भगवता बलेः सुतलं प्रति गमनार्थमाज्ञापनम्, बलिप्रार्थनया विष्णोः पाताले बलिसंनिधाववस्थानम्, एवं पूर्वजन्मनि कितवस्य बलित्वप्राप्तिरूप- शिवभक्तिमहिमप्रभाववर्णनम........... ४० ०

२ ० शंभोर्लिंगरूपत्वप्राप्तिवर्णने सुरतारकासुरसंग्रामवृत्तान्तवर्णनम्, तत्र पराजयं प्राप्य ब्रह्मसमीपे गतान्देवान्प्रति नभोवाण्या तारकासुरवधाय शिवात्मजस्यैवावश्यकत्व- वर्णनपूर्वकं पत्न्या वियुक्तस्य शिवस्य दारपरिग्रहार्थं यत्नकरणायाज्ञापनम, देवैर्न- भोवाणीश्रवणानन्तरं हिमालयं प्रति गत्वा कन्योत्पादनार्थ प्रार्थनाकरणम्, हिमवता निजभार्यायै मेनायै कन्योत्पादनार्थं देवप्रार्थनाकीर्तनम्, मेनया कन्याजननेः माता- पित्रोर्दुःखकीर्तनम, ततः परोपकारार्थप्रवृत्तेरावश्यकत्वं मन्यमानेन हिमवता बोधि-तया मेनया हिमवतः सकाशाज्जठरेः जगदम्बैविभूतिधारणम्, जगदम्बाविर्भाव- वर्णनम्......... ... .... ४२ १

२१ पार्वत्या सह हिमवतो महेशान्तिकं प्रति दर्शनार्थमागमनम्, शिवेन गौर्याःस्वसेवानुमोदनम्, गौरीकृता शिवपरिचर्या, अत्रान्तरे देवेन्द्रप्रहितमदनेन शंकरे बाणवेध- करणम्, मदनबाणविद्धस्य शंकरस्य पार्वतीं दृष्ट्वा मदनातुरत्वदशावर्णनम्, ततः शंकरेण विवेकेन मनसो मोहकारणं विचार्यात्मानं वेद्धुकाम्यया सज्जधनुषं मदनं विलोक्य क्रोधवशेन तार्तीयिकलोचनाग्निना मदनस्य भस्मसात्करणम्, समस्तदेवै- र्मदनसंजीवनार्थं शिवप्रार्थनाकरणम्, ततः शिवस्यान्तर्धानम्, दग्धं मदनं विलोक्य मदनपत्न्या रत्या विलापकरणम्, गिरिजाया रतिकृतं मदनसंजीवनप्रतिज्ञापूर्वक माश्वासनम्, ततो रत्या मदनदहनस्थान एव तपश्चर्यारम्भः तत्रान्तरे नारदस्य रति समीपमागत्य संभाषणे रतिकृता नारदनिर्भर्त्सना, नारदेन शंबरासुरं प्रति गत्वा रतिहरणार्थमाज्ञाकरणम्, शंबरासुरेण बलात्कारेण रत्याः स्वगृहं प्रत्यानयनपूर्वकं महानसाध्यक्षतायां नियोजनम् , अथ पार्वत्या शिवप्राप्त्युद्देशेन तपश्चर्याकरणम्, तत्तपस्तप्तब्रह्मादिसुरवराणां विष्णुना सह शिवपाणिग्रहणार्थं मन्त्रकरणम्. ४३ १

२२ ब्रह्मादिदेवानां समुद्रस्य परे पारे योगपोठे समाधिस्थं शंकरं प्रत्यागमनम्, ब्रह्मादिकृता महादेवस्तुतिः सुरस्तुतिप्रसन्नेन शंकरेण पार्वतीकरिष्यमाणमदनसञ्जीवना- वधिवर्णनम्, देवान्प्रति कामत्यागोपदेशः, ततः शिवस्य समाधिस्थितो नन्दिकृत- सर्वदेवविसर्जनम्, शिवस्य. स्वरूपानन्दसमाधिस्थितिः, ततो गिरिजाप्रबलतपः प्रभावाच्छिवस्य समाधेश्चलनम्, गिरिजातपःस्थानं प्रति बहुरूपेण शिवस्यागमनम्, गिरिजाचित्तपरीक्षार्थं बटुरूपिणा शिवनिन्दाकरणम्, तदसहमानया गिरजया सखी द्वारा बटोर्विसर्जने कृते शिवस्यान्तर्धानपूर्वकं स्वस्वरूपेण प्रकटनम्, शिवपार्वतीसं- भाषणम्, पार्वत्या स्वोद्वाहार्थं शिवप्रार्थना, ततः पार्वत्यै वरप्रदानपूर्वकं शिवस्य स्वलोकं प्रति गमनम्, ततो हिमालयेन पार्वत्यास्तपःसिद्धत्यनन्तरं ब्रह्मादिदेवैः सह महता समारंभेण स्वगृहं प्रत्यानयनम.. .. ... ४७ १

२३ शिवेन हिमालयं प्रति स्वस्मै पार्वतीप्रदानार्थं माध्यस्थ्यकरणाय सप्तर्षिप्रेषणम्, सप्तर्षिहिमालयसंवादः, सप्तर्षिकृतविवाहनिश्चयानन्तरं शिवं प्रत्यागत्य विवाहनिश्चयनिवेदनम्, महादेवेन विष्ण्वादिदेवनिमन्त्रणार्थं नारदप्रेषणम्, विष्ण्वादीनां शिवसमीपं प्रत्यागमनपूर्वकं शिवस्य महता समारंभेण ग्रहपूजनादिविधिपूर्वकं विवाहार्थं सर्वैः सुरगणैः सह शैलराजपुरं प्रति गमनम्- -.. .. ... - ५०

२४ हिमालयेन स्वसुताया विवाहार्थं गर्गाचार्यपुरोहितं पुरस्कृत्य विश्वकर्मद्वाराऽपूर्वमण्डपनिर्मापणादिवर्णनम्, नारदाद्विश्वकर्मकृतविवाहमण्डपे चातुर्येण सर्वदेवप्रतिकृतिचित्रविन्यासं श्रुत्वा सर्वेषां देवानां शंकाप्राप्तिः, ततश्च हिमवता शिवस्य स्वनगरं प्रत्यानयनम्, सर्वेषां च शिवादिसुराणां विविधभव्यस्थानेषु निवासः ५१

२५ सर्वेषां सुराणां पृथक्पृथक्प्रशस्तस्थानेषु निवासानन्तरं मेनायाः शिवं नीराज्य तत्सौन्दर्यं दृष्ट्वा सन्तोषः, ततः पार्वत्या वैवाहिकवस्त्रपरिधानपूर्वकं हस्ते वरवरणार्थ हारं वृत्वा परमेश्वरं ध्यात्वा तत्प्रतीक्षार्थमवस्थानम्, पाणिग्रहणार्थ विवाहमण्डपं प्रति गर्गोक्तमुहूर्ते महता समारम्भेण शिवस्यानयनम्, शिवपार्वत्योर्विवाहमंगलम्, लक्ष्मी सावित्र्यरुन्धत्यादि पुण्यसुवासिनीभिः शिवपार्वतीनीराजनम्, ततो मेनया सहितेन हिमालयेन कन्यादानसंकल्पकरणे शिवस्य नामगोत्रोच्चारविषयजिज्ञासाप्रसंगे नारदेन शिवपरमेश्वर्यवर्णनम् .... .. .... .. ... ... ५३

२६ हिमालयेन कन्यादानकरणम्, शिवपार्वतीकृतगृह्याग्निहोमप्रसङ्गे पार्वतीचरणनखेन्दुदर्शनस्खवलितब्रह्मरेतसः षष्टिसहस्रवालखिल्योत्पत्तिवृत्तान्तः, ततो हिमवत्कृतवरपक्षीयसमस्तसुरसत्कारपूर्वकविवाहमङ्गलोत्सववर्णनम् -. ... ... ५५

२७ ततश्च वरपक्षीयेण विष्णुना वधूपक्षीयाणां सह्याचलविन्ध्याचलादिविविधपर्वतान् यथायोग्यसत्कारकरणम्, ततश्च वरयात्रासमारम्भः, वरयात्रायां सर्वपर्वतैः शिवार्च-नम्, अथ सर्वेषां देवानां स्वस्वस्थानं प्रति गमनम्, ततश्च शिवपार्वत्योर्गन्धमादनपर्वते रमणम्, ततश्चैकान्ते शिवपार्वत्योः सुरतसमारम्भारम्भः, अत्यद्भुततत्सुरतसंजातवित्रासैर्ब्रह्मादिभिः सुरैरेकान्ते तत्समीपं प्रत्यग्नेः प्रेषणम्, भिक्षुकव्याजेन सुरतसमये समागतेनाग्निना पार्वतीशापेन शिवस्य रेतो भक्षयित्वा देवानां समीपं प्रत्यागमनम्, अग्निमुखोद्भवरेतसा सर्वेषां देवानां सगर्भत्ववर्णनम् ततः सर्वदेवानां विष्णुं प्रति शरणगमनम् ,विष्णुप्रेरणया सर्वदेवैः शिवप्रार्थनम्, ततः सन्तुष्टस्य शिवस्याज्ञया सर्वदेवैर्मुखतो रेतश्छर्दनम्, सर्वदेवच्छर्दितरेतसः सुवर्णमयपुञ्जत्ववर्णनम्, ततः शिवेनाग्नये योनौ रेतःसेचनाज्ञाकरणम, अथाग्नेः समुज्ज्वलितस्य समीपेंऽगतापार्थं समागतानां षट्कृत्तिकाख्यानां षडृषिपत्नीनां शरीरेषु निजज्वालाद्वारा रेतः परमाणुप्रवेशनेन नीरेतस्त्वप्राप्तिपूर्वके विश्रान्तिः, ताभिः कृत्तिकाभिर्व्यभिचारशंकया तप्यमानाभिर्हिमवतो गिरेः पृष्ठे गंगायां तस्य रेतसो युगपदेव विसर्जनम्, तद्रेतसः सकाशात्तत्क्षण एव षण्मुखबालकोत्पत्तिः, तस्य बालकस्य जन्मसमय एवाकस्माद्गिरिजायाः स्तनप्रस्रवः, तदानीमेव नारदेन शिवं प्रत्यागत्य कुमारजन्मवृत्तान्तकथनम्, तस्य कुमारस्य दर्शनार्थं सर्वसुरैः सह शिवपार्वत्योः कुमारसमीपं प्रत्यागमनम्, कुमाराभ्युदयोत्सवसमारम्भः, शिवपार्वत्योर्हर्षप्राप्तिः. ५६ २

२८ ततस्तारकासुरविजयार्थं कुमारं पुरस्कृत्य शिवाज्ञया सर्वदेवानां निर्गमनम्, तस्मिन्समये नभोवाण्या देवानां विजयाभिशंसनम, एतस्मिन्नेवान्तरे समागताया मृत्युकन्यायाः सेनाख्यायाः कुमारेण ब्रह्मवाक्याद्वरणम्, ततः कुमारस्य सेनापतित्वप्राप्तिवर्णनम्, तस्मिन्नेव समये समागतानां गंगागौरीकृत्तिकानां स्कन्दमातृत्वमभिलषन्तीनां स्कन्देन मातृगणत्वेन स्थापनम् ततः कुमारस्य सर्वदेवैः सह तारकासुरं प्रत्यभियानम्, ततश्च देवदैत्यसेनासंनाहः.. ... ५८ २

२९ देवासुराणां संग्रामे सर्वदेवपराजये विष्णुकृतया प्रशंसया कुमारस्य तारकासुरेण सह संग्रामार्थं पुरतोऽवस्थितौ तारकासुरेण निजप्रौढिप्रशंसाकरणम् ६० १

३० स्वप्रौढिं वल्गमानस्य तस्येन्द्रादिभिः सह तुमुलसंग्रामे देवानां पराजयं दृष्ट्वा कार्तिके यस्वामिनस्तारकासुरेण सह द्वन्द्वयुद्धवर्णनम्, कुमारस्य युद्धं दृष्ट्वा खिन्नानां युद्धावलोकनार्थं समागतानां हिमालयादीनां कुमारेण सान्त्वनम्, ततः कुमारेण तारकशिरश्छेदकरणम्, ततस्तारकवधेन कुमारस्य जयप्राप्तिपूर्वकं सर्वदेवकृतकुमारविजयोत्स- ववर्णनम्.. ... ६१

३१ कुमारस्वामिमाहात्म्यवर्णनम्, तत्र कुमारदर्शनमात्रेण पापिनामपि पवित्रतां दृष्ट्वा यमलोकस्य वैयर्थ्यं मन्यमानेन यमेन ब्रह्मविष्ण्वादिदेवान्पुरस्कृत्य शिवं प्रत्यागत्य शिवं स्तुत्वा कुमारदर्शनमाहात्म्यतोखिलपापिजनानां स्वर्गप्राप्तौ निजाधिकारवैयर्थ्यनिवेदनम्, ततः शंकरेण संसारनिवृत्त्यै विशुद्धभावनाप्राप्त्यर्थं शुद्धधर्मस्वरूपोपदेशकरणम्, शंकरकृतोपदेशेन यमस्य विशुद्धात्मताप्राप्तिवर्णनम्, अथ कुमारस्य सर्वगिरिभिः स्तुतिकरणम, कुमारेण गिरिभ्यः शिवलिंगरूपत्ववरप्रदानम्, नन्दिना शिवलिंगपूजनविषये प्रश्ने कृते सति कुमारेण नानाविधरत्नलिंगनार्मदेश्वर- लिंगपूजामाहात्म्यकथनम् ...... - - ६२

३२ शिवाराधनमाहात्म्यप्रसंगेन श्वेताख्यभूपतेश्चरित्रवर्णनम्, तत्राजन्मतः शिवभक्तिपरायणस्य श्वेतभूपस्यान्तकाले ध्यानावस्थितस्य संहरणेऽशक्नुवतां यमादीनां पश्यतां सतां कालेन खड्गेन हंतुं कृतमुद्योगं दृष्ट्वा परमात्मना शिवेन स्वभक्तरक्षणार्थं तृतीय- लोचनाग्निना कालस्य भस्मीकरणम्, अथ समाधेर्व्युत्थितेन श्वेतभूपेन पुरतो दह्यमानं कालं दृष्ट्वा व्यग्रीभूय रुद्रस्तुतिकरणम्, रुद्रेण तस्मै हंतुकामः कालो मया दग्ध-इति कालदह्नकारणकथनम्, ततः श्वेतभूपप्रार्थनया महेश्वरेण कालसंजीवनम्, कालकृता भगवत्स्तुतिः, ततः कालेन परोपकारपरायणस्य श्वेतभूपस्य प्रशंसा. करणम, अथ कालेन यमादिभिः सह शिवं प्रणम्य श्वेतभूपं च संस्तुत्य स्वालयं प्रत्यागत्य त्रिपुण्ड्र जटा भस्म रुद्राक्ष धारणादिरूप शिवधर्ममाहात्म्यवर्णनपूर्वकं निजदूतानां शिवदूता यमलोके नानेया-इत्याज्ञाकरणम्, श्वेतभूपस्य शिवसायुज्यवर्णनम्, शिवधर्मविषये किरातवृत्तान्तप्रस्तावः- ... .. .. ६४

३३ चण्डनामकस्य कस्यचित्किरातस्य कदाचिन्माघकृष्णचतुर्दश्यां महाशिवरात्र्यां मृगयार्थं विचरतो यावद्दिनं मृगादिवध्यजीवाऽप्राप्तौ रात्रौ बिल्ववृक्षोपरि स्थित्वाऽज्ञानतोऽनायासेन बिल्वपत्रच्छेदनेन वृक्षाऽधःस्थितस्य शिवस्य पूजनम्, गंडूषजलेन शिवस्नपनं च भक्ष्यालाभादनायासेनोपोषणं च- तस्य भोजनाभावात्तद्भार्याया अपि तत्प्रतीक्षणनोपोषणं च, अथापरेद्युर्नदीतीरे तद्भार्ययाऽन्ने समानीय स्थापितेऽकस्माच्छुनाऽऽगत्य भक्षिते सति किरातस्यान्नदानं संजातमिति मत्वा महान्संतोषः, तेनाज्ञानसंजातशिवरात्रिव्रतमहिम्ना किरातस्य शिवलोकप्रापणाय शिवगणैर्विमानानयनम्-शिवगणैः सह किरातस्य शिवलोकं प्रति गमनम् ः शिवरात्रिव्रतोत्पत्तिवर्णनम्- शिवरात्रिव्रतमाहात्म्यप्रसंगेन विधवाब्राह्मणीपुत्रस्य श्वपचादुत्पन्नस्य शिवरात्रिव्रतप्रभावाज्जन्मान्तरे शिवाद्वीरभद्राख्यया जन्मप्राप्तिवृत्तान्तवर्णनम्-शिवरात्रिव्रतेन भरतादिमहीपतीनां सिद्धत्वप्राप्तिवर्णनम्. ६६

३४ अथ कदाचित्कैलासपर्वते निजमन्दिरे सुखासीनयोः शिवपार्वत्योर्द्यूते प्रवृत्ते पार्वत्या सर्वस्वपणे जिते सति पार्वतीहारितसर्वस्वस्य शिवस्य कैलासं विहाय तपोवनगमनवर्णनम.. ६९

३५ अथ शिवनिर्गमनोत्तरं विरहातुरायाः पार्वत्याः शबरीरूपं धृत्वैकान्ते समाधिस्थस्य शिवस्य समीपं प्रति गमनम् तया दृष्टमात्रस्य शिवस्य समाधितो व्युत्थानम, शिवेन दृष्टमात्रायाः पार्वत्या अन्तर्धाने शिवस्य विरहावस्थापन्नत्वम्, अथ शिवेन शबरीं प्रति स्ववरणप्रार्थना, ततः शबर्या कामवशंगतं शिवं प्रति स्वप्राप्तये स्वपितुः समीपे प्रार्थनार्थं गंधमादनपर्वते पितुः समीपं प्रत्यानयनम, शिवेन हिमालयं प्रति कन्याप्रार्थनम्, अत्रांतरे तत्र नारदेनागत्य शिवं प्रति प्रबोधकरणम्, अथ शिवस्य पार्वतीकृतां निजवञ्चनां निरीक्ष्य रोषेण वनांतरं पुनः प्रस्थातुकामस्य हिमालयादिगिरिभिर्गिरिजां पुरस्कृत्य प्रार्थनायां कृतायां रोषशांतेरनंतरं गंधमादनपर्वते दिव्यसिंहासनोपर्यंगिरोमहर्षिद्वाराभिषेकवर्णनम्, एवं केदारनाथमाहात्म्यप्रसंगेन समस्तशिवधर्मप्रशंसावर्णनम्. -..... - -. ... ७२ १


इति माहेश्वरखण्डे प्रथमं केदारखण्डम् ।। ( १-१) ।।