स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

।। मार्कंडेय उवाच ।। ।।
स्वामिन्नित्यशिवानन्द भगवन्नंदिकेश्वर ।।
आह्लादितोऽस्मि शोणेशमाहात्म्यसुधया त्वया ।। १ ।।
कथं वज्रांगदः पांड्यराजः शोणव्यतिक्रमम् ।।
चक्रे कथं तद्भक्त्यैव प्राप्तवान्संपदं पुनः ।। २ ।।
कथं विद्याधराधीशौ कांतिशालिकलाधरौ ।।
दुर्वासःशापनिर्विद्धाववितौ शोणशंभुना ।। ३ ।।
।। नंदिकेश्वर उवाच ।। ।।
दीर्घायुष्यत्वसाफल्यं लब्धवांस्त्वं मृकण्डुज ।।
यदियं स्थेयसी भक्तिर्भवतो भूतनायके ।। ४ ।।
वक्ष्ये वज्रांगदोदंतं वृत्तं विद्याभृतोरपि ।।
यतोऽभून्महितो लोके शोणाद्रीश्वरवैभवः ।। ५ ।।
आसीद्वज्रांगदोनाम पुरा पांड्येषु पार्थिवः ।।
आस्ते यस्य भुजस्तम्भे वसुधा सालभंजिका ।। ६ ।।
धार्मिको न्यायविज्ज्ञाता गंभीरो दक्षिणम् क्षमः ।।
शांतो विनयवान्धीमानेकदारव्रतः कृती ।। ७ ।।
शिवपूजार्चनरतः श्रीमाञ्छीलवतां वरः ।।
पृथ्वीमासेतुकेदाराच्छशास जितशात्रवः ।। ८ ।।
कदाचिन्मृगयाव्याजात्स चरन्सुतुरंगमः ।।
अरुणाचलपर्यंतं कांतारं समगाहत ।। ९ ।।
स तत्र बहलामोदं कंचित्कस्तूरिकामृगम् ।।
दृष्ट्वा तमन्वक्तुरगं प्रावर्तयत कौतुकात् ।। 1.3.2.22.१० ।
स मृगोऽनुद्रुतस्तेन अभितः शोणपर्वतम् ।।
प्रादक्षिण्यात्परीयाय पपात च मनोजवः ।। ११ ।।
ततः स भग्नसारोपि राजा जातश्रमश्चरन् ।।
पपात वाहाद्विच्छायः क्षीणपुण्य इव द्युतः ।। १२ ।।
अज्ञातकारणेनैवं मातंगेनेव पीडितः ।।
नाज्ञासीत्क्षणमात्मानं राजा ग्रहगृहीतवत् ।। १३ ।।
अचिंतयच्च कोयं मे निर्हेतुः सत्त्वविप्लवः ।।
क्व गतः स ह्यकस्मान्मे उपवाह्यस्तुरंगमः ।। १४ ।।
इति चिंताकुले तस्मिंस्तज्ज्ञानेप्यपटीयसि ।।
तडित्तटजटालेव सहसा द्यौरदृश्यत ।। १५ ।।
निरीक्षमाण एवास्मिन्हित्वा तिर्यक्कलेवरम् ।।
तूर्णं तुरंगसारंगौ खेचरत्वमुपागतौ ।। १६ ।।
किरीटिनौ कुण्डलिनौ हारकेयूरधारिणौ ।।
क्षौमांतरीयोत्तरीयौ स्रग्विणौ च विरेजतुः ।। १७ ।।
अवोचतां च नृपतिमाश्चर्याकृष्टमानसम् ।।
हरंताविव दन्तांशुजालैस्त्वस्यार्त्तिजं तमः ।। १८ ।।
राजन्नलं विषादेन शोणाद्रीशप्रभावतः ।।
एतां जानीहि संजातां नवां नौ चेदृशी दशाम्।। १९ ।।
तदोवाच तयोः किंचिदाश्वस्तइव पार्थिवः ।।
कृतांजलिरभाषिष्ट तावुभौ विनयान्वितः ।।1.3.2.22.२०।।
कौ युवां निर्मितो याभ्यामभिषंगो ममेदृशः ।।
भद्रौ भणतमार्त्तानां त्राणं हि महतां गुणः ।। २१ ।।
इति तेन कृते प्रश्ने तमुवाच कलाधरः ।।
राजानं जनिताश्चर्यं निर्दिष्टः कांतिशालिना ।। २२ ।।
अवेहि राजन्नावां हि पुराविद्याधरेश्वरौ ।।
परस्परातिसौहार्दौ वसंतमदनाविव ।। २३ ।।
एकदा तु सुवर्णाद्रेः पार्श्वे दुर्वाससो मुनेः ।।
तपोवनमगच्छाव मनसोऽपि दुरासदम् ।।२४।।
क्रोशेद्धां तपसस्तस्य शिवाराधनसाधनीम् ।।
पुष्पोज्ज्वलामपश्याव पुण्यामारामवाटिकाम् ।।२५।।
विनीतावप्यसंजातौ तत्त्वोचितसुधीगणौ ।।
प्राविशाव तदुद्यानं प्रसूनावचयोत्सुकौ ।। २६ ।।
स्थलस्य तस्य सौहार्दात्कांतिशाल्यतिगर्वितः ।।
संचचार मुहुः पादन्यासैराघट्टयन्महीम् ।। २७ ।।
अहं तु तत्र पुष्पाणां गंधातिशयमोहितः ।।
विकस्वरेषु पुष्पेषु न्यस्तहस्तो दुराशयः ।। २८ ।।
ततः शांडिल्यमूलस्थो व्याघ्रचर्मासने स्थितः ।।
दुर्वासास्तपसां राशिर्ज्वलन्निव हुताशनः ।।२९ ।।
अमर्षोत्कर्षनीरंध्रस्पंदमानाधरच्छदः ।।
कराल भृकुटीबंधसारालितविशालभूः ।। 1.3.2.22.३० ।।
सरोषोऽभूत्तेजसाढ्यो घर्मदंतुरविग्रहः ।।
दहन्निव दृशा पश्यन्नभर्त्सयत नौ मुनिः ।। ३१ ।।
आः पापौ प्रच्युताचारौ कौ युवामतिगर्वितौ ।।
ज्वलतः कोपवह्नेर्मे शलभत्वमुपागतौ ।। ३२ ।।
तपोवनमिदं मत्कं पावनं भूतभावनम् ।।
पादैर्न स्पृशतः क्वापि सूर्याचंद्रमसावपि ।।३३।।
पुरवैरिसपर्यायाः पर्यायकमिदं वनम् ।।
न स्पंदतेऽत्र वातोपि न लिप्यंतेऽत्र षटपदाः ।। ३४ ।।
तदेतत्पादसंचारैर्दूषयन्नेष पातकी।।
हयो भवतु भूलोके परवाह्यत्वपीडितः ।। ३५ ।।
अपरोप्ययमत्युग्रे पतत्वचलकंदरे।
प्रसूनगंधलोभाद्यो गंधसारंगतां गतः ।।३६।।
इति तेनोग्ररोषेण शापवज्रे निपातिते ।।
तत्क्षणाद्विगलद्गर्वावावां तं शरणं गतौ ।। ३७ ।।
अभिधाय च तं देवमाहितांघ्रिपरिग्रहैः ।।
अमोघ एष त्वच्छापस्तदस्यांतो निवेद्यताम् ।। ३८ ।।
अथातिदीनमनसावावामालोक्य पार्थिव ।।
सानुग्रहोऽभून्मुनिराट् कारुण्यादतिशीतलः ।। ३९ ।।
अभाषत च मैवं भो भवतोः क्वापि दुर्धियोः ।।
शापस्य भविता शांतिररुणाद्रेः प्रदक्षिणात् ।। 1.3.2.22.४० ।।
पुरा खलु पुरारातिरध्यतिष्ठच्छुभां सभाम् ।।
पर्युपास्यत दिक्पालैरिंद्रोपेंद्रयमादिभिः ।। ४१ ।।
तदा च देवदेवाय नंदनारण्यदेवता ।।
उपायनीकृतवती फलं किमपि पाटलम् ।। ४२ ।।
बाल्यात्कुतूहलाक्रान्तौ गजाननषडाननौ ।।
पितरं तदयाचेतां लोभनीयतरं फलम् ।। ४३ ।।
अथ ताववदद्देवस्तनयौ फलतर्षितौ ।।
गोपयित्वा फलं पाणिसंपुटेन कुमारकौ ।। ४४ ।।
इमां समस्तां पृथिवीं लोकालोकेन वेष्टिताम् ।।
यो वां प्रदक्षिणीकर्तुमीष्टे तस्मै ददाम्यहम् ।। ४५ ।।
इत्युक्ते पार्वतीशेन स्मयमानमुखेंदुना ।।
स्कंदः प्रदक्षिणीकर्तुं मेदिनीमुपचक्रमे ।। ४६ ।।
लंबोदरस्तु देवस्य शोणशैलाकृतेः पितुः ।।
प्रदक्षिणं ततः कृत्वा पुरस्तादेव तत्क्षणात् ।। ४७ ।।
तद्दृष्ट्वा तस्य चातुर्यं हेरंबाय त्रियंवकः ।।
फलं वितीर्णवानस्मै प्रणयाघ्रातमस्तकः ।। ४८ ।।
अद्यप्रभृति सर्वेषां फलानामधिनायकः ।।
भवेत्यस्मै वरं दत्त्वा ह्येकदंताय शंकरः ।। ४९ ।।
बभाषे च सभास्तारान्सर्वानपि सुरासुरान् ।।
प्रसरद्दशनज्योत्स्नाकर्बुरीकृतमंदिरः ।।1.3.2.22.५० ।।
स्थावरोयं ममाकारः शोणाद्रिर्योऽस्य भक्तितः ।।
प्रदक्षिणां वितनुते स मे सारूप्यभाग्भवेत् ।। ५१ ।।
गिरेः प्रदक्षिणेनास्य यस्य धत्तः पदे रुजम् ।।
स सम्राट्सकलोत्कृष्टं लभते शाश्वतं पदम् ।। ५२ ।।
इति शासनतः शंभोः शोणशैलप्रदक्षिणम् ।।
विधाय सर्वगीर्वाणा लेभिरे स्वं स्वमीप्सितम् ।। ५३ ।।
युवामपि मदोद्भूतमालिन्यौ शिक्षितौ मया ।।
प्रदक्षिणेन शोणाद्रेः शापांतो वां भविष्यति ।। ५४ ।।
तिरश्चोरपि वां सिध्येदरुणाद्रेः प्रदक्षिणा ।।
वज्रांगदस्य पांड्यस्य नृपतेरनुबंधतः ।। ५५ ।।
इत्यमर्षणमहर्षिमहाब्धेः शापहालहल शोषितगात्रौ ।।
पातितौ बहुलपातकभारात्क्षिप्रमश्वमृगजातिषु जातौ ।। ५६ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ऽरुणाचलप्रदक्षिणामाहात्म्ये वज्रांगद वृत्तांतवर्णनं नाम द्वाविंशतितमोऽध्यायः ।। २२ ।। ।। ।।