स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search

।।नंदिकेश्वर उवाच ।। ।।
केतकीबर्हमप्येनं विहस्य पुनरब्रवीत् ।।
।। केतक्युवाच ।। ।।
अपि मूढ न किंचित्त्वं वेत्सि कस्त्वं कुतो न तत् ।। १ ।।
ईदृश्यः परितो लग्ना यस्मिन्ब्रह्मांडकोटयः ।।
तस्य प्रमाणमेतावदिति को वेदितुं क्षमः ।।२।।
चतुर्युगायुतैर्यातं ततो निपततो मम।।
इदानीमपि नाप्रोति तन्मध्यं किल भूतलम् ।।३।।
इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः।।
हित्वा निजमहंकारमभाषत कृतांजलिः।।४।।
ब्रह्मोवाच।।
महात्मन्सत्यमेवास्मि मूढोऽहं केतकच्छद।।
ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता।। ५।।
द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम्।।
यन्नौ महानभूद्गर्वस्सर्गसंत्राणमात्रतः।। ६।।
ह्रेपणी संकथा तावदास्तामद्याप्यहं यतः ।।
स्पर्द्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे ।। ७ ।।
सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि ।। ८ ।।
असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम् ।।
अहं विष्णुश्च मोहांधौ तेजःस्तंभस्य वीक्षणात् ।। ९ ।।
हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् ।।
मूलं दिदृक्षुः स दशां कीदृशीं यातवानिति ।। 1.3.2.13.१० ।।
न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा ।।
गतमुड्डीयमानस्य मे सहस्रेण हायनेः ।। ।। ११ ।।
जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः ।।
दिष्ट्याद्य भद्र लब्धस्त्वं मयाऽऽलंबोवसीदताम्।। १२ ।।
तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम् ।।
सखाहं सहसंजल्पादस्मि दासोनुषंजनात् ।। १३ ।।
तत्त्वया करणीयैवं प्रार्थनैषा कृतांजलिः ।।
यदि पश्यति मूलं स जितोऽहममुना तदा ।। १४ ।।
यद्वा न पश्यति तदाप्यस्मि साम्यमुपेयिवान् ।।
इदं द्वयमपि प्रायो ममातिह्रेपणं सखे ।। १५ ।।
त्वयैव परिहार्यत्वमिदानीं समुपागतम् ।।
अनृतामभिभाष त्वमुचितां च सुहृत्कृते ।। १६ ।।
गिरमेकामिमामग्रे चक्रपाणेरुदीरय ।।
एष हंसाकृतिर्ब्रह्मा तेजःस्तंभस्वरूपिणः ।। १७ ।।
अत्युच्चं दृष्टवानग्रमत्र साक्ष्ये स्थितोऽस्म्यहम् ।।
तेनापि तेजःस्तम्भत्वमेयुषा चन्द्रमौलिना ।। १८ ।।
संभावितोयं सुतरां पित्रेव हि पितामहः ।।
अतोऽयमेवाभ्यधिको भवतो विष्टरश्रवाः ।। १९ ।।
इत्युक्त्वा मम साहाय्यं सुमहत्क्रियतां त्वया ।। 1.3.2.13.२० ।। ।।
।। नंदिकेश्वर उवाच ।। ।।
एवं भूयः प्रार्थितोऽयं विधात्रा दाक्षिण्यार्द्रः केतकीबर्हकोपि ।।
तेजःस्तंभाभ्यर्णभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम् ।। २१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणाऽसत्यसाक्ष्यार्थं केतकच्छदप्राथनावर्णनंनाम त्रयोदशोऽध्यायः ।। १३ ।। ।। छ ।।