स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

।। नंदिकेश्वर उवाच ।। ।।
मुने मनःपरीक्षार्थं तथा त्वं भाषितो मया ।।
तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते ।। १ ।।
त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः ।।
येन स्वल्पायुषाप्येवं नित्येनाभावि भक्तितः ।। २ ।।
कस्यान्यस्य कृते देवः स्वस्यैवाज्ञाकरं यमम् ।।
क्रुद्धो नियंत्रयामास चरणांगुष्ठपीडितम् ।। ३ ।।
त्वमेव शांकरान्धर्मान्सर्वान्विद्धि रहस्यतः ।।
योग्रेऽसि कालवद्भ्रांतः परिपक्वोसि चेतसा ।। ४ ।।
त्वयैवान्येन केनाहमेवं शुश्रूषितश्चिरम् ।।
त्वयीव कस्मिन्नन्यस्मिन्ममापि प्रीतिरीदृशी ।। ५ ।।
उपदेक्ष्यामि ते क्षेत्रं गुप्तं तद्धर्मशासनैः ।।
भक्त्यावधारणीयं यद्भक्तिकैवल्यकांक्षिभिः ।। ६ ।।
आदरादनुयुंजानं शिष्यं यो देशिकः स्वयम् ।।
उपदेशेन संतुष्टं न करोति स किं गुरुः ।। ७ ।।
समाहितमना भूत्वा विश्वासं कुरु शाश्वतम् ।।
मयोपदिश्यमानेऽस्मिन्रहस्ये पारमेश्वरे ।। ८ ।।
स्मर स्मरांतकं देवं वंदस्वाध्याय शांकरीम् ।।
उपांशूच्चारयोंकारं श्रेयस्ते महदागतम् ।। ९ ।।
अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन ।।
अरुणाख्यं महाक्षेत्रं तरुणेंदुशिखामणेः ।। 1.3.2.4.१० ।।
योजनत्रयविस्तीणमुपास्यं शिवयोगिभिः ।।
तद्भूमेर्हृदयं विद्धि शिवस्य हृदयंगमम् ।। ११ ।।
तत्र देवः स्वयं शम्भुः पर्वताकारतां गतः ।।
अरुणाचलसंज्ञावानस्ति लोकहितावहः ।। १२ ।।
आवासः सर्वसिद्धानां महर्षीणां सुपर्वणाम् ।।
विद्याधराणां यक्षाणां गंधर्वाप्सरसामपि ।। १३ ।।
सुमेरोरपि कैलासादप्यसौ मन्दरादपि ।।
माननीयो महर्षीणां यः स्वयं परमेश्वरः ।। १४ ।।
स्पृहयंति यदीयेभ्यो जंतुभ्योपि दिवौकसः ।।
अयत्नलभ्यमुक्तिभ्यो दिवावासप्रवंचिताः ।। १५ ।।
न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहाम् ।।
पत्रपुष्पफलैर्नित्यं येर्चयंति गिरौ हरम् ।। १६ ।।
 हिंसैकरुचयो व्याधा अपि रूपानुसारतः ।।
अनंता यत्र देवस्य प्रादक्षिण्यफलास्पदम्।। १७ ।।
यदुद्देशचरा मेघाः शिखराण्यभिबंधकाः ।।
गंगावतो हिमवतोऽप्यधिकं स्वं विजानते ।। १६ ।।
कलारावाः खगा यत्र क्वणंते कीचका अपि ।।
यक्षकिंनरगन्धर्वैलभ्यते दुर्लभं पदम् ।। १९ ।।
स्मरन्तो यत्र खद्योताः कृष्णपक्षे निशागमे ।।
आरार्तिकप्रदातॄणां देवस्याश्नुवते पदम् ।।1.3.2.4.२०।।
निष्प्रत्यूहकृताश्लेषा नित्यं यत्तटिनीरुहाः ।।
सौभीग्यगर्वतो देवीमपर्णामवमन्वते ।।२१।।
यस्योत्तुंगस्य शृंगाग्रसंगमा अपि तारकाः ।।
आत्मनो लब्धसामान्याश्चन्द्रेण बहु मन्वते ।। २२ ।।
मृगाः सर्वेपि सततं चरंतो यत्र सानुषु ।।
पाणिप्रणयिनं शम्भोरेणमप्यवजानते ।। २३ ।।
यस्य पादांतिकचरैः प्रायेण शबरैरपि ।।
निकुम्भकुम्भसादृश्यमयत्नादुपलभ्यते ।। २४ ।।
किं बहूक्त्याभ्यसूयंते द्वैमातुरकुमारयोः ।।
यदंगरूढास्तरवस्तिर्यंचः शबरा अपि ।। २५ ।।
सिंहव्याघ्रद्विपा यस्मिन्काले त्यक्तकलेवराः ।।
वासप्रदत्वान्मान्यंते ध्रुवं शोणाद्रिशम्भुना ।। २६ ।।
अस्य भास्करनामाद्रिः पूर्वस्यां दिशि दृश्यते ।।
यत्र स्थितः सदा वज्री सेवते शोणपर्वतम् ।।२७।।
प्रतीच्यां दिशि दंडाद्रिरिति कश्चिन्महीधरः ।।
प्राचेतसस्तदगगः सेवतेऽरुणपर्वतम् ।। २८ ।।
दक्षिणस्यां च शोणाद्रेरद्रिरस्त्यमराचलः ।।
कालः शोणाद्रिसेवार्थमध्यास्ते तदधित्यकाम् ।।२९।।
उत्तरेऽस्मिन्हरिद्भागे सिद्धाध्यासितकन्दरः ।।
विराजते त्रिशूलाद्रिः श्रीदेन परिपालितः ।। 1.3.2.4.३० ।।
तत्पर्यंतप्रभूतानामन्येषामपि भूभृताम् ।।
तटकेष्वपरे चैव दिक्पालाः पर्युपासते ।। ३१ ।।
धारिता येन सततं सर्वेपि धरणीरुहाः ।।
आराधनादप्यधिकमधिगच्छंति वैभवम् ।। ३२ ।।
यस्मिन्गिरीशे संदृष्टे मेनातुहिनभूभृतोः ।।
समानसंबंधतया प्रमोदो वर्द्धतेतराम् ।। ३३ ।।
तरुपल्लवलक्षेण लक्ष्यमाणजटाधरः ।।
स्थावरोयं स्वयं शम्भुरिहेश इव जंगमः ।। ३४ ।।
ज्योतिष्मत्तोयशृंगस्य द्विपार्श्वस्थेन्दुभास्करः ।।
व्यनक्ति स्वस्य लोकेभ्यस्तेजस्त्रितयनेत्रताम् ।। ३५ ।।
वर्षासु शिखराधस्तादभिनीलबलाहकः ।।
विराजते यः कण्ठेन कालकूटमिवोद्वहन् ।। ३६ ।।
सहस्रपादः साहस्रशीर्षो यः पर्वतेश्वरः ।।
उक्तो न केवलं श्रुत्या साक्षादप्युपलक्ष्यते ।। ३७ ।।
शिरोलीनामरसरित्स्रोताः प्रागिति नाद्भुतम् ।।
गिरीशोऽद्यापि यः शृंगलीनानेकसरिद्गणः ।। ३८ ।।
आसादितापकटकः शारदैर्यः पयोधरैः ।।
विडंबयति गोश्रेष्ठमारूढवृषपुंगवम् ।। ३९ ।।
यत्र शृङ्गाग्रसंलग्रसंलग्ननीललोहितः ।।
स्थाणुत्वं स्थावरत्वेन गहनत्वेन भीमताम् ।। 1.3.2.4.४० ।।
सुदुर्गमत्वादुग्रत्वमपि धत्ते न नामतः ।।
क्षुद्राः सरीसृपा यत्र कटकेषु कृतास्पदाः ।। ४१ ।।
तक्षकानंतसर्पाद्यैः स्पर्धन्ते भुजगेश्वरैः ।।
अष्टाभिर्योऽभितः कोणैराविभूर्तो विभूतिभिः ।। ४२ ।।
सुस्पष्टं विशिनष्टीव स्वकीयामष्टमूर्तिताम् ।।
येर्ण्याशक्तितरंगिण्यो इडापिंगलयोः स्वयम् ।। ४३ ।।
शिवस्य शृङ्गतो मध्ये सुषुम्ना कमलापगा ।।
ज्योतिःस्तंभस्वरूपस्य मूलाग्रे यस्य वीक्षतुम् ।। ४४ ।।
कोलहंसाकृती नालं ब्रह्मविष्णू बभूवतुः ।।
ताभ्यां च प्रार्थितः शम्भुस्तस्मिन्सांनिध्यवानभूत् ।। ४५ ।।
अरुणाचलनाथाख्यं प्रपन्नः प्रमदैः समम् ।।
गौतमस्तत्र योगींद्रः सहस्रं परिवत्सरान् ।। ४६ ।।
तप्त्वा तपांसि तीव्राणि साक्षाच्चक्रे सदाशिवम् ।।
प्रालेयशैलकन्यापि तत्र कृत्वा तपः पुरा ।। ४७ ।।
अलब्ध वामदेहार्द्धं मन्मथारेः प्रसेदुषः ।।
गौर्या प्रतिष्ठितं तत्र प्रवालाद्रीश्वराभिधम् ।। ४८ ।।
लिंगं भोगप्रदं पुंसां कैवल्याय प्रकल्पते ।।
तत्र गौरीनिदेशेन दुर्गा महिषमर्दिनी ।। ४९ ।।
साक्षाद्भूय सतां दत्ते मन्त्रसिद्धिमविघ्नतः ।।
खड्गतीर्थमिति ख्यातं तत्र गौर्याश्रमे नवम् ।। 1.3.2.4.५० ।।
सकृन्निमज्जनान्नॄणां पंचपातकनाशनम् ।।
दुर्गया चार्चितं लिंगं पापनाशननामकम् ।। ५१ ।।
सकृत्प्रणाममात्रेण सर्वपापप्रणाशनम् ।।
तत्र वज्रांगदो राजा वित्तसारो व्यतिक्रमात् ।। ५२ ।। पुनस्तद्भक्तिमाहात्म्याच्छिवसायुज्यमाप्तवान् ।।
तस्य प्रदक्षिणेनैव कांतिशालिकलाधरौ ।। ५३ ।।
विद्याधरेश्वरौ मुक्तौ दुर्वासःशापबन्धनात् ।।
नास्ति शोणाद्रितः क्षेत्रं नास्ति पंचाक्षरान्मनुः ।। ५४ ।।
नास्ति माहेश्वराद्धर्मो नास्ति देवो महेश्वरात् ।।
नास्ति ज्ञानं शिवज्ञानान्नास्ति श्रीरुद्रतः श्रुतिः ।।५५ ।।
नास्ति शैवाग्रणीर्विष्णोर्नास्ति रक्षा विभूतितः ।।
नास्ति भक्तेः सदाचारो नास्ति रक्षाकराद्गुरुः ।। ५६ ।।
नास्ति रुद्राक्षतो भूषा नास्ति शास्त्रं शिवागमात् ।।
नास्ति बिल्वदलात्पत्रं नास्ति पुष्पं सुवर्णकात्।।५७।।
नास्ति वैराग्यतः सौख्यं नास्ति मुक्तेः परं पदम् ।।
नारुणाद्रेः समो मेरुर्न कैलासो न मंदरः ।। ५८ ।।
ते निवासा गिरिव्याप्ताः सोऽयं तु गिरिशः स्वयम् ।। ५९ ।।
इति वदति शिलादनंदने मुदितमनाः स मृकण्डुनंदनः ।।
पुनरपि बहुशः प्रणम्य तं चकितमना भवतो व्यजिज्ञपत् ।। ।। 1.3.2.4.६० ।।
किं किं नृणां कर्म भवाय जायते कथं नु तत्तन्नरकाय श्रूयते ।।
तेषां च तेषां च कथं प्रतिक्रिया कथं नु तत्तन्मम कथ्यतामिति ।। ६१ ।।
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उतरार्धेऽरुणाचलस्थानमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।। ।। छ ।।