स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search

।। गौतम उवाच ।। ।।
पुरा नारायणः कल्पे शयानः सलिलार्णवे ।।
शेषपर्यंकशयने कदाचिन्नैव बुध्यत ।। १ ।।
तमसा पूरितं विश्वमपज्ञातमलक्षणम् ।।
वीक्ष्य कल्पावसानेऽपि विषेदुर्नित्यसूरयः।।२।।
अहो कष्टमिदं रूपं तमसा विश्वमोहनम् ।।
येन कल्पावसानेपि विष्णुर्नाद्यापि बुध्यते ।।३।।
ज्योतिषः पुरुषं पूर्णमपश्यंतं सुरा अपि ।।
कथं वा तमसः शांतिं लभेरन्परिभाविनः ।।४।।
इति निश्चित्य मनसा देवदेवमुमापतिम् ।।
चिंतयामासुरात्मस्थं तेजोराशिं निरंजनम् ।। ५ ।।
ततः प्रसन्नो भगवांस्तेजोराशिर्महेश्वरः ।।
विश्वावनाय विज्ञप्तः प्रणतैर्नित्यसूरिभिः ।। ६ ।।
ततस्तेजोमयाच्छंभोः स्फुलिंगांशुसमुद्भवाः ।।
उदस्तंभंत देवानां त्रयस्त्रिंशच्च कोटयः ।।७।।
बोधितः सकलैर्देवैः समुत्थाय रमापतिः।।
प्रभातं वीक्ष्य सकलं मनस्येवमचिन्तयत् ।। ८ ।।
मया तमसि उद्रेकादकाले शयनं कृतम् ।।
प्रबोधाय परं ज्योतिः स्वयं दृष्टः सदाशिवः ।। ९ ।।
जगदुत्पत्तिकृत्यानि स्वयं कर्तुं व्यवस्यति ।।
किं मयात्र पुनः कार्यं ब्रह्मणा वा स्वयंभुवा।।। 1.3.1.6.१०।।
धिङ्मां स्थितमनात्मज्ञं निद्रया हृतचेतसम् ।।
अथवा सर्वकर्तारं शरणं यामि शंकरम् ।। १ १।।
सर्वदोषप्रशमनं सर्वाभीष्टफलप्रदम् ।।
पवित्रमल्पपुण्यानां दुर्लभं शंभुदर्शनम् ।।१२।।
चिंतयन्नेवमात्मस्थं ज्योतिर्लिंगं सदाशिवम् ।।
प्रणनाम हरिर्भक्त्या देवमष्टांगतो मुहुः।।१३।।
विश्वस्रष्टारमीशानं तुष्टाव दुरितच्छिदम् ।।
अथ तेजोमयः शंभुः शरण्यः शरणागतम् ।। १४।।
अनुगृह्य कटाक्षैस्तं समुत्तिष्ठेत्यभाषत ।।
उत्थाय करुणापूर्णं शंभुं चंद्रार्द्धशेखरम् ।।१५।।
नमस्त्रिभुवनेशाय त्रिमूर्तिगुणधारिणे ।।
त्रिदेववपुषे तुभ्यं त्रिदृशे त्रिपुरद्रुहे ।। १६ ।।
त्वमेव जगतामीशो निजांशैर्देवतामयैः ।।
कार्यकारणरूपेण करोषि स्वेच्छया क्रियाः ।। १७ ।।
मां नियुज्य जगद्गुप्तौ परिमोह्य च मायया ।।
न दोषमुत संकल्पं विहातुमपि नेच्छसि ।। १८ ।।
किं करोमि जगन्मूर्त्तौ न्यस्तभारोऽस्म्यहं त्वयि ।।
न दोषमीहसे नूनमकालशयनेन माम् ।। १९ ।।
हर शम्भो हरेरार्तिमनुतापं समीक्ष्य सः ।।
आदिदेश हरः श्रीमान्प्रायश्चित्तं हरेरिदम् ।। 1.3.1.6.२० ।।
अरुणाचलरूपेण तिष्ठामि वसुधातले ।।
तस्य दर्शनमात्रेण भविता ते तमः क्षयः ।। २१ ।।
पूर्वस्मै विष्णवे तत्र वरो दत्तो मया पुरा।।
तदैव तैजसं लिंगमरुणाचल संज्ञितम् ।।
तेजोमयमिदं रूपं प्रशांतं लोकरक्षणात्।।
यदग्निमयमव्यक्तमपारगुणवैभवम्।। २३।।
नदीनां निर्झराणां च मेघमुक्तांभसामपि ।।
अंतर्ज्योतिर्मयत्वेन लयस्तत्रैव दृश्यते ।। २४ ।।
अंधानां दृष्टिलाभेन पंगूनां पादसंचरैः ।।
अपुत्राणां च पुत्राप्त्या मूकानां वाक्प्रवृत्तिभिः ।। २५ ।।
सर्वसिद्धिप्रदानेन सर्वव्याधिविमोचनैः ।।
सर्वपापप्रशमनैर्यत्सर्ववरदं स्थितम् ।। २६ ।।
इत्युक्तांतर्दधे शम्भुर्हरिश्चैवारुणाचलम् ।।
आगत्य तप आस्थाय शोणाचलमुपास्त च ।। २७ ।।
तमद्रिं परितो दृष्ट्वा सुरान्काननसंश्रयान् ।।
ऋषीणामाश्रमान्पुण्यान्स्थापयामास वै हरिः ।।
वेदान्सांगोपनिषदान्समंतान्मूर्तिधारिणः ।। २८ ।।
ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम् ।।
नृत्यैर्गीतैश्च वादित्रैस्सेवध्वमिति चादिशत् ।। २९ ।।
स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः ।।
प्रदक्षिणं चकारामुमरुणाद्रिं समर्चितम् ।। 1.3.1.6.३० ।।
अपापः सर्वलोकानामाधिपत्यं च लब्धवान् ।।
रमया सहितो नित्यमभिरूपसुरूपया ।। ३१ ।।
भास्करस्तेजसां राशिरसुरैरपि पीडितः ।।
ब्रह्मोपदेशादानर्च भक्त्यारुणगिरीश्वरम् ।। ३२ ।।
निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते ।।
प्रदक्षिणं चकारैनमरुणार्द्रि स्वयंप्रभुम् ।। ३३ ।।
अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम् ।।
लेभे च परमं तेजः परतेजःप्रणाशनम् ।। ३४ ।।
दक्षशापानलाक्रांतस्सोमः शिववचोबलात् ।।
अरुणाचलमभ्यर्च्य लब्धरूपोऽभवत्पुनः ।। ३५ ।।
अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः ।।
अपूतोऽपि पवित्रोऽभूदरुणाचलसेवया ।। ३६ ।।
शक्रो वृत्रं बलं पाकं नमुचिं जृंभमुद्धृतम् ।।
शिवलब्धवरान्दैत्यान्पुरा हत्वा जगत्पतीन् ।। ३७ ।।
पातकैश्च परिक्षीणस्तथा लोकांतमाश्रितः ।।
शम्भुं प्रसाद्य तपसा शिवेन परिचोदितः!।। ३८ ।।
अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः ।।
इष्ट्वा च हयमेधेन प्रीणयामास शंकरम् ।। ३९ ।।
लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसांकुलम् ।।
सेवार्थमादिशन्छ्रीमान्दिव्यदुंदभिसेवया ।। 1.3.1.6.४० ।।
पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः ।।
समर्चयति शोणाद्रिं दिवि नित्यं च वंदते ।। ४१ ।।
शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया ।।
अभजत्कामरूपत्वं महीमण्डलधारकः ।। ४२ ।।
अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः ।।
दिक्पालाश्च तमभ्यर्च्य लेभिरेऽपेक्षितान्वरान् ।। ४३ ।।
देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः ।।
प्रार्थितः सर्वतोऽभीष्टवरदोऽरुणभूधरः ।। ४४ ।।
त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन् ।।
ग्रहनाथस्तु शोणाद्रिं विलंघयितुमुद्यतः ।। ४५ ।।
रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः ।।
सोऽपि श्रिया विहीनश्च जातः गोणाद्रितेजसा ।। ४६ ।।
नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः ।।
स तु ब्रह्मोपदेशेन समाराध्यारुणाचलम् ।। ४७ ।।
प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान् ।।
ततः प्रभृति तिग्मांशुः स हि शोणाख्यपर्वतम् ।। ४८ ।।
न लंघयति किं त्वस्य प्रदक्षिणपरिक्रमैः ।।
दक्षयागपरिध्वस्ता हीनांगास्त्रिदशाः पुरा ।। ४९ ।।
अरुणाचलमाराध्य नवान्यंगानि लेभिरे ।।
पूषा दन्तं शिखी हस्तं भगो नेत्रं त्वखंडितम् ।। 1.3.1.6.५० ।।
घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात् ।।
भार्गवः क्षीणनेत्रस्स विष्णुहस्तकुशाग्रतः ।। ५१ ।।
बलिदत्तावनीदानजलधारानिरोधतः ।।
स तु शोणाचलं गत्वा तपः कृत्वातिदुष्करम् ।। ५२ ।।
लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः ।।
अरुणाचलनाथस्य सेवया सूर्यसारथिः ।। ५३ ।।
प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम् ।।
अरुणाद्रिपतेर्गानं कुर्वंतीं सादरोऽभवत् ।। ५४ ।।
क्षणात्कपिमुखो जातो मंत्रिभिश्चोदितो नृपः ।।
प्रत्यर्प्य तां पुनश्चान्याः प्रादादरुणभूभृते ।। ५५ ।।
ततश्चारुमुखोजातः प्रसादादरुणेशितुः ।।
सायुज्यमस्मै सकलं दत्तवान्भक्तिभावतः ।।५६।।
अरुणाचलनाथस्यसंनिधौ ज्ञानदुर्बलः ।।
गंधर्वः पुष्पकाख्यस्तु भक्तिहीनो ह्यगात्पुरा ।। ५७ ।।
ततो व्याघ्रमुखं दृष्ट्वा गंधर्वपरिचारकाः ।।
किमेतदिति साश्चर्यं पप्रछुस्ते परस्परम् ।। ५८ ।।
अथ नारद निर्दिष्टमवज्ञाफलमात्मनः ।।
बुद्ध्वारुणाद्रिं संपूज्य पुनश्च सुमुखोऽभवत् ।। ५९ ।।
शिवभूमिरियं ख्याता परितो योजनद्वयम् ।।
मुक्तिस्तत्र प्रमीतानां कदापि विलयो न हि ।। 1.3.1.6.६० ।।
सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः ।।
सिषेविरेरुणाद्रिं वै नाथो ज्ञात्वा विनिश्चयम् ।। ६१ ।।
शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम् ।।
सप्तर्षिभिः कृतं तीर्थं सर्वपापविनाशनम् ।। ६२ ।।
शोणाचलस्य निकटे दृश्यते पावनं शुभम् ।।
पंगुर्मुनिः शोणशैलात्पादौ लब्धुं समागतः ।। ६३ ।।
अंतर्हितप्रार्थितार्थो दारुहस्तपुटे वहन् ।।
जानुचंक्रमणव्यग्रः शोणनद्यास्तटं गतः ।। ६४ ।।
दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः ।।
जानुचंक्रमणे तस्मिन्धूर्तस्तोयं पिपासति ।। ६५ ।।
अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः ।।
किमेतदिति तं पृच्छन्नाधावत्कलितत्परः ।। ६६ ।।
लब्धपादश्च सहसा जगाम च निजालयम् ।।
नाद्राक्षीत्पुरुषं तत्र दारुहस्तौ पुरोगमौ ।। ६७ ।।
स्वयं गृहीत्वा चालोक्य ववंदेऽरुणपर्वतम् ।।
ननंद लब्धचरणो लब्धरूपो महामुनिः ।। ६८ ।।
विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः ।।
पूजितो लब्धपादः सञ्जगाम च यथागतम् ।। ६९ ।।
वाली शक्रसुतः श्रीमाञ्छ्रंगादुदयभूभृतः ।।
अस्ताचलस्य शिखरं प्रतिगन्तुं समुद्यतः ।। 1.3.1.6.७० ।।
आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम् ।।
ऊर्ध्वं गंतुं समुद्युक्तः क्षीणवीर्योऽपतद्भुवि ।। ७१ ।।
पित्रा शक्रेण संगम्य चोदितः शोणपर्वतम् ।।
लिंगं तैजसमभ्यर्च्य लब्धवीर्योऽभवत्पुनः ।। ७२ ।।
नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः ।।
पालयामास धर्मात्मा नीतिसारसमन्वितः ।। ७३ ।।
इलः प्रविश्य सहसा गौरीवनमखंडितम् ।।
स्त्रीभावं समनुप्राप्तः पप्रच्छ स्वं पुरोधसम् ।। ७४ ।।
वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत् ।।
तपसाराध्य देवेशं पुनः पुंस्त्वमुपागतः ।। ७५ ।।
सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम् ।।
ईशानुग्रहतो लेभे शापमोक्षं तपोधिकः ।। ७६ ।।
लेभे च परमं स्थानमप्राप्यममरैरपि ।।
भरतो मृगशावस्य स्मरणादायुषोऽत्यये ।। ७७ ।।
न मुक्तिं प्राप योगेन मृगजन्मनि संगतः ।।
पत्नीविरहजं दुःखं प्राप्तवानमितं हरिः ।। ७८ ।।
पुनर्भृगूपदेशेन शोणाद्रिमिममर्चयन् ।।
अवतारेषु सर्वेषु सर्वदुःखान्यपाकरोत् ।। ७९ ।।
सरस्वती च सावित्री श्रीर्भूमिः सरितस्तथा ।।
अभ्यर्च्य शोणशैलेशमापदो निरतारिषुः ।। 1.3.1.6.८० ।।
भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे ।।
पश्चिमे वरुणो भागे त्रिशूलं चोत्तराश्रयम् ।। ८१ ।।
योजनद्वयपर्यंते सीमाः शैलेषु संस्थिताः ।।
चतस्रो देवतास्त्वेताः सेवंते शोणपर्वतम्।। ८२ ।।
स्थिताः सीमावसानेषु शोणाद्रीशमवस्थितम् ।।
नमंति देवाश्चत्वारः शिवं शोणाचलाकृतिम् ।। ८३ ।।
अस्योत्तरस्मिञ्छिखरे दृश्यते वटभूरुहः ।।
सिद्धवेषः सदैवास्ते यस्य मूले महेश्वरः ।। ८४ ।।
यस्य च्छायातिमहती सर्वदा मण्डलाकृतिः ।।
लक्ष्यते विस्मयोपेतैः सर्वदा देवमानवैः ।। ८५ ।।
अष्टभिः परितो लिंगैरष्टदिक्पालपूजितैः ।।
अष्टासु संस्थितैर्दिक्षु शोभते ह्युपसेवितः ।। ८६ ।।
नृपाणां शम्भुभक्तानां शंकराज्ञानुपालिनाम् ।।
अत्रैव महदास्थानमादिदेवेन निर्मितम् ।। ८७ ।।
बकुलश्च महांस्तत्र सदार्थितफलप्रदः ।।
आगमार्थविदा मूले वामदेवेन सेव्यते ।। ८८ ।।
अगस्त्यश्च वशिष्ठश्च संपूज्यारुणभूधरम् ।।
संस्थाप्य लिंगे विमले तेपाते तादृशं तपः ।।८९।।
हिरण्यगर्भतनयः पुरा शोणनदः पुमान्।।
अत्र तीव्रं तपस्तप्त्वा गंगाभिमुखगोऽभवत ।। 1.3.1.6.९० ।।
अत्र शोणनदी पुण्या प्रवहत्यमलोदका ।।
वेणा च पुण्यतटिनी परितः सेवतेऽचलम् ।। ९१ ।।
वायव्याश्च दिशो भागे वायुतीर्थं च शोभते ।।
तत्र स्नात्वा मरुत्पूर्वं जगत्प्राणत्वमाप्तवान् ।। ९२ ।।
उत्तरेऽस्य गिरेस्तीर्थं सुवर्णकमलोज्ज्वलम् ।।
दिव्यसौगंधिकाकीर्णं हंसभृंगमनोहरम् ।। ९३ ।।
कौबेरं तीर्थमेशान्यामैशान्यं तीर्थमुत्तमम् ।। ९४ ।।
तस्यैव पश्चिमे भागे विष्णुः कमललोचनः ।।
स्नात्वा विष्णुत्वमभजत्कमलालालिताकृतिः ।। ९५ ।।
नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदं गताः ।।
नवग्रहप्रसादश्च जायते तत्र मज्जताम् ।। ९६ ।।
दुर्गा विनायक स्कन्दो क्षेत्रपालः सरस्वती ।।
रक्षंति परितस्तीर्थं ग्राहयमेतदनन्तरम् ।। ९७ ।।
गंगा च यमुना चैव गोदावरी सरस्वती ।।
नर्मदासिन्धुकावेर्यः शोणः शोर्णनदी च सा ।। ९८ ।।
एता गूढा निषेवंते पूर्वाद्याशासु संततम् ।।
नश्यंत्यः सकलं पापमात्मक्षेत्रसमुद्भवम्।। ९९ ।।
अन्याश्च सरितो दिव्याः पार्थिव्यश्च शुभोदकाः ।।
उदजृंभंत सहसा शोणाद्रीशप्रसादतः ।। 1.3.1.6.१०० ।।
आगस्त्यं दक्षिणे भागे तीर्थं महदुदाहृतम् ।।
सर्वभाषार्थसंसिद्धिर्जायते तत्र मज्जताम् ।। १०१ ।।
अत्रागस्त्यः समागत्य स्नात्वा मुनिगणावृतः ।।
अभ्यर्चयति शोणाद्रिं मासि भाद्रपदे सदा ।। १०२ ।।
वाशिष्ठमुत्तरे भागे तीर्थं दिव्यं शुभोदयम् ।।
सर्ववेदार्थसंसिद्धिर्जायते तत्र मज्जनात् ।। १०३ ।।
अत्र मेरोः समागत्य वशिष्ठो भगवानृषिः ।।
करोत्याश्वयुजे मासि शोणाद्रीशनिषेवणम् ।। १०४ ।।
गंगानाम महत्तीर्थं पूर्वोत्तरदिशि स्थितम् ।।
तत्र स्नानाद्भवेन्नृणां सर्वपातकनाशनम् ।। १०५ ।।
गंगाद्याः सरितः सर्वाः कार्त्तिके मासि संगताः ।।
अत्रारुणाद्रिनाथस्य सेवां कुर्वंति सादरम् ।। १०६ ।।
ब्राह्म्यं नाम महातीर्थमरुणाद्रीशसन्निधौ ।।
तस्योपसंगमात्सद्यो ब्रह्महत्यादि नश्यति ।। १०७ ।।
मार्गे मासि समागत्य ब्रह्मलोकात्पितामहः ।।
स्नात्वा तत्प्रत्यहं देवमर्चयत्यरुणाचलम् ।।।। १०८ ।।
पौषे मासि समागत्य स्नात्वा तीर्थे निजैः सुरैः ।।
महेन्द्रः शोणशैलेशमभ्यर्चयति शंकरम् ।। १०९ ।।
शैवंनाम महातीर्थं संनिधौ तत्र वर्तते ।।
रुद्रो ब्रह्मकपालेन सह तत्र न्यमज्जत ।। 1.3.1.6.११० ।।
अत्र शम्भुर्गणैः सार्द्धं माघे मासि प्रसीदति ।।
प्रायश्चित्तानि सर्वाणि नॄणां सफलयन्भुवि ।। १११ ।।
आग्नेयमग्निदिग्भागे तीर्थं सौभाग्यदायकम् ।।
अग्निरत्र पुरा स्नात्वा स्वाहया संगतः सुखी ।। ११२ ।।
अनंगोपि स्मरः स्नात्वा फाल्गुने मासि संगतः ।।
अभ्यर्च्य शोणशैलेशमभूत्सर्वसुखाधिपः ।। ११३ ।।
दिशि दक्षिणपूर्वस्यां वैष्णवं तीर्थमद्भुतम् ।।
ब्रह्मर्षयः सदा तत्र वसंति कृतकौतुकाः ।। ११४ ।।
चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः ।।
स्नात्वाभ्यर्च्यारुणाद्रीशमभवल्लोकनायकः ।। ११५ ।।
सौरंनाम महातीर्थं कौबेरदिशि जृंभितम् ।।
सर्वरोगोपशांतिश्च जायते तत्र मज्जनात् ।। ।। ११६ ।।
वैशाखे मासि दिनकृत्स्नात्वात्रेशं निषेवते ।।
वालखिल्यैः समं श्रीमान्वेदैश्च सह संगतः ।। ११७ ।।
आश्विनं पावनं तीर्थमीशब्रह्मोत्तरे स्थितम् ।।
आप्लुतौ भिपजौ दस्रौ पूतावत्र निमज्जनात् ।। ११८ ।।
अत्राश्विनौ समागत्य स्नात्वाभ्यर्च्य च शंकरम् ।।
दक्षिणे शोण शैलस्य निकटे वर्त्तते शुभम् ।। ११९ ।।
कामदं मोक्षदं चैव तीर्थं पांडवसंज्ञितम् ।।
पुरा हि पांडवास्तत्र मजनात्क्षितिनायकाः ।। 1.3.1.6.१२० ।।
अत्र धात्री समागत्य सर्वौषधिफलान्विता ।।
ज्येष्ठे मासि समं देवैरार्चयच्चारुणाचलम् ।। १२१ ।।
आषाढे मासि संत्यक्ता विश्वेदेवा महाबलाः ।।
अभ्यर्च्य शोणशैलेशमागच्छन्मखराध्यताम् ।। १२२ ।।
वैश्वदेवं महातीर्थं सोमसूर्योत्तराश्रयम् ।।
विश्वाधिपत्यमतुलं लभ्यते तत्र मज्जनात् ।। ।। १२३ ।।
परितो लक्ष्यते तीर्थं पूर्वस्यां दिशि शोभने ।।
अत्र लक्ष्मीः पुरा स्नात्वा लेभे पुरुषमुत्तमम् ।। १२४ ।।
उत्तरस्यां दिशि पुरा पुण्या स्कंदनदी स्थिता ।।
अत्र स्नात्वा पुरा स्कंदः संप्राप्तो विपुलं बलम् ।। १२५ ।।
पश्चिमस्यां दिशि ख्याता परा कुंभनदी शुभा ।।
अगस्त्यः कुंभकः कुंभस्तत्र नित्यं व्यवस्थितः ।। १२६ ।।
गंगा च मूलभागस्था यमुना गगने स्थिता ।।
सोमोद्भवा शिरोभागे सेवंते शोणपर्वतम् ।। १२७।।
बहून्यपि च तीर्थानि संभूतानि समंततः ।।
तेषां भेदान्पुरा वेत्तुं मार्कण्डेयस्तु नाशकत् ।। १२८ ।।
तपोभिर्बहुभिस्सोयं शोणाद्रीशमतोषयत् ।।
प्रार्थयामास च वरं प्रीतात्तस्मान्मुनीश्वरः ।। १२९ ।।
।। मार्कण्डेय उवाच ।। ।।
भगवन्नरुणाद्रीश तीर्थभेदाः सहस्रशः ।।
प्रख्याताश्च प्रकाशंते दुर्बोधास्त्वल्पचेतसाम् ।। 1.3.1.6.१३० ।।
कथमेकत्र सांनिध्यं लभेरन्भुवि मानवाः ।।
अपर्याप्तश्च भवति पृथगेषां निषेवणे ।।१३१।।
अंतर्निगूढतेजास्त्वं गत्वा यस्सकलैः सुरैः ।।
आरण्यसे कुरु तथा शोणाद्रिस्पर्शभीरुभिः ।। १३२ ।।
अहं च शंभुमभ्यर्च्य तपसारुणपर्वतम् ।।
सर्वलोकोपकारार्थं सूक्ष्म लिंगमपूजयम् ।। १३३ ।।
विश्वकर्मकृतं दिव्यं विमानं विविधोत्सवम् ।।
संकल्प्य सकलान्भोगान्नित्यानजनयत्पुनः ।। १३४ ।।
धर्मशास्त्राणि विविधान्यवापुर्मुनिपुंगवाः ।।
शिवकार्याणि सर्वाणि चक्रुभक्तिसमन्विताः ।। १३५ ।।
मया च शंभुमभ्यर्च्य कृताग्न्याहुतिसंभवाः ।।
सप्त कन्या वरारोहाः पूजार्थं विनियोजिताः ।। १३६ ।।
हतशत्रुगणैभूपैर्लब्धराज्यैः पुरा नृपैः ।।
प्रत्येकं विविधैर्भोगैः शोणशैलाधिपोर्चितः ।। १३७ ।।
इदमनुभववैभवं विचित्रं दुरितहरं शिवलिंगमद्रिरूपम् ।।
अमलमनभिगम्यनामधेयं वरमरुणाद्रिनायकं भजस्व ।। १३८ ।।
अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य ।।
भजनममितपुण्यराशियोगादरुणगिरेः कृतिनः परं लभस्व ।। १३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ।। ६ ।।