स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् १/अध्यायः ०१

विकिस्रोतः तः
Jump to navigation Jump to search

।। श्रीगणेशाय नमः।। ।।
अथ श्रीमदरुणाचलमाहात्म्यपूर्वार्धः प्रारभ्यते।। ।।
ललाटे त्रैपुंड्री निटिलकृतकस्तूरितिलकः स्फुरन्मालाधारः स्फुरितकटिकौपीनवसनः ।।
दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते ।।१।।
।। व्यास उवाच ।। ।।
अथाहुर्मुनयः सूतं नैमिषारण्यवासिनः ।।
अरुणाचलमाहात्म्यं त्वत्तः शुश्रूषवो वयम् ।। २ ।।
तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् ।।
।। श्रीसूत उवाच ।। ।।
एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा ।। ३ ।।
 शृणुतावहिता यूयं तद्वो वक्ष्यामि सांप्रतम् ।।
यदाकर्णयतां भक्त्या नराणां पापनाशनम् ।। ४ ।।
सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम् ।।
सनकः परिपप्रच्छ प्रणतः प्रांजलिः स्थितः ।। ५ ।।
।। सनक उवाच ।। ।।
भुवनाधार देवेश वेदवेद्य चतुर्मुख ।।
आसीदशेषविज्ञानं प्रसादाद्भवतो मम ।। ६ ।।
भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे ।।
बिंबते सकलं ज्ञानं सकृदेवोपदेशतः ।। ७ ।।
सारार्थं वेदवेदानां शिवज्ञानमनाकुलम् ।।
लब्धवानहमत्यंतं कटाक्षैस्ते जगद्गुरोः ।। ८ ।।
लिंगानि भुवि शैवानि दिव्यानि च कृपानिधे ।।
मानुषाणि च सैद्धानि भौतानि सुरनायक ।। ९ ।।
नामस्मरणमात्रेण यत्पातकविनाशनम् ।।
शिवसारूप्यदं नित्यं मह्यं वद दयानिधे ।। ११ ।।
अनादिजगदाधारं यत्तेजः शैवमव्ययम् ।।
यच्च दृष्ट्वा कृतार्थः स्यात्तन्मह्यमुपदिश्यताम् ।। १२ ।।
इति भक्तिमतस्तस्य कौतूहलसमन्वितम् ।।
वाक्यमाकर्ण्य भगवान्प्रससाद तपोनिधिः ।। ।। १३ ।।
दध्यौ च सुचिरं शंभुं पंकजासनसंस्थितः ।।
अंतरंगसुखांभोधिमग्नचेताश्चतुर्मुखः ।। १४ ।।
दृष्ट्वा यदा पुरा दृष्टं तेजःस्तंभमयं शिवम् ।।
उत्तीर्णसकलाधारं न किंचित्प्रत्यबुध्यत ।। १५ ।।
पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः ।।
निर्वर्त्त्य हृदयं योगात्सस्मार सुतमानतम् ।। १६ ।।
शिवदर्शनसंजातपुलकांकितविग्रहः ।।
आनंदवाष्पवन्नेत्रः सगद्गदमभाषत ।। १७ ।।
।। ब्रह्मोवाच ।। ।।
अतः संस्मारितः पुत्र भवताऽहं पुरातनम् ।।
शिवयोगमनुध्यायन्नस्मार्षं तव चादरात् ।।१८।।
शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव ।।
तया मदीयं हृदयं व्यावर्त्तितमिव क्षणात् ।। १९ ।।
पावयंति जगत्सर्वं चरितैस्ते निराकुले ।।
येषां सदाशिवे भक्तिर्वर्द्धते सार्वकालिकी ।। 1.3.1.1.२० ।।
संभाषणं सहावासः क्रीडा चैव विमिश्रणम् ।।
दर्शनं शिवभक्तानां स्मरणं चाघनाशनम्।। २१ ।।
श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा ।।
अव्याजकरुणापूर्णमरुणाद्र्यभिधं महः ।। २२ ।।
अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात् ।।
बहु स्यामिति संकल्पं वितन्वानात्सदाशिवात् ।। २३ ।।
स्वभावेन समुद्भूतौ विवदंतौ परस्परम् ।।
न च श्रांतौ नियुध्यंतौ साहंकारौ कदाचन ।।२४।।
परस्परं रणोत्साहमावयोरतिभीषणम् ।।
आलोक्य करुणामूर्तिरचिंतयदथेश्वरः ।। २५ ।।
किमर्थमनयोर्युद्धं जायते लोकनाशनम् ।।
मया सृष्टमहं पातेति विवादमधितस्थुषोः ।। २६ ।।
समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम् ।।
यदि युद्धं न रोत्स्यामि तदा स्याद्भुवनक्षयः ।। २७ ।।
वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम् ।।
न जानाते इमौ मुग्धौ क्रोधतो गलितस्मृती ।। २८ ।।
सर्वोपि जंतुरात्मानमधिकं मन्यते भृशम् ।।
अमतान्यसमाधिक्यस्त्वधः पतति दुर्मतिः ।। २९ ।।
यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः ।।
तदा तद्रूपविज्ञानात्स आत्मा सोपि मामियात् ।। 1.3.1.1.३० ।।
इति निश्चित्य मनसा स्वयमेव सदाशिवः ।।
आवयोर्युध्यतोर्मध्ये वह्निस्तंभः समुद्यतः ।। ३१ ।।
अतीत्य सकलाँल्लोकान्सर्वतोऽग्निरिव ज्वलन् ।। ३२ ।।
अनाद्यंततया चाथ दृगार्तौ संव्यतिष्ठताम् ।।
तेजःस्तंभं ज्वलंतं तमालोक्य शिथिलाशयौ ।। ३३ ।।
आवयोः पुरतो जाता वाणी चाप्यशरीरिणी ।।
किमर्थं बालकौ युद्धं कल्प्यते मूढमानसौ ।। ३४ ।।
युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते ।।
तेजःस्तभमयं रूपमिदं शंभोर्व्यवस्थितम् ।। ३५ ।।
आद्यंतयोर्यदि युवामीक्षिषाथां बलाधिकौ ।।
इति तां गिरमाकर्ण्य नियुद्धाद्विरतौ तदा ।। ३६ ।।
अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ ।।
अग्निस्तंभमयं रूपं शंभोराद्यंतवर्जितम् ।। ३७ ।।
आलोकितुं व्यवसितावावामाद्यंतभागतः ।।
बिंबितं व्योमगं चंद्रं यथा बालौ जिघृक्षतः ।।३८।।
तथैवावां समुद्युक्तौ परिच्छेत्तुं च तन्महः।।
अथ विष्णुर्महोत्साहात्क्रोडोऽभूत्सुमहावपुः ।। ३९ ।।
तन्मूलविचयाऽयाच्च भूमिगर्भं व्यदारयत् ।।
अहं च हंसतां प्राप्तो महावेगं समुत्पतन् ।। 1.3.1.1.४० ।।
दिदृक्षुस्तच्छिरोभागं वियदूर्ध्वमगाहिषम् ।।
अधोधोदारयन्क्षोणिमशेषामपि माधवः ।। ४१ ।।
आविर्भूतमिवाधस्तादग्निस्तंभमवैक्षत ।।
अनेककोटिवर्षाणि विचिन्वन्नपि तेजसः ।। ४२ ।।
अपश्यन्नादिमक्षय्यमार्तरूपः स विह्वलः ।।
विशीर्णदंष्ट्रबलयो विगलत्संधिबंधनः ।। ४३ ।।
श्रमातुरस्तृषाक्रांतो नो यातुमशकद्धरिः ।।
वाराहं रूपमतुलं संधारयितुमक्षमः ।। ४४ ।।
विहंतुमपि विश्रांतो विषसाद रमापतिः ।।
अचिंतयदमेयात्मा परिश्रांतशरीरवान् ।। ४५ ।।
गलितश्रीः क्रियाश्रांतः शरण्यं शिवमाश्रयन् ।।
धिङ्ममेदं महन्मौग्ध्यमहंकारसमुद्भवम् ४८।।।
येनाहमात्मनो नाथमात्मानं नावबुद्धवान् ।।
अयं हि सर्ववेदानां देवानां जगतामपि ।। ४७ ।।
मूलभूतः शिवः साक्षान्मूलमस्य कथं भवेत् ।।
अस्मादेव समुद्भूतोऽस्म्यहमाद्यंतवर्जितात् ।। ४८ ।।
यन्मयान्वेष्टुमारब्धं शिवं पशुवपुर्धृता ।।
अव्याजकरुणाबन्धोः पितुः शंभोः प्रसादतः ।। ४९ ।
पुनरेवेदृशी लब्धा मतिर्मे स्वात्मबोधिना ।।
स्वयमेव महादेवः शंभुर्यं पातुमिच्छति ।। 1.3.1.1.५० ।।
तस्य सद्यो भवेज्ज्ञानमनहंकारमात्मजम् ।।
न शक्नोमि पुनः कर्तुं पूजामस्य जगद्गुरोः ।। ५१ ।।
निवेदयामि चात्मानं शरणं यामि शंकरम् ।।
इति दध्यौ शिवं विष्णुः स्तुत्यामर्पितचेतनः ।।। ।। ५२ ।।
सत्प्रसादाद्भूतपतेः पुनरेवोद्धुतः क्षितौ ।।
अहं च गगनेऽभ्राम्यमनेकानपि वत्सरान् ।। ५३ ।।
आघूर्णमाननयनः श्लथपक्षः श्रमं गतः ।।।
उपर्युपरि चापश्यं ज्वलनं पुरतः स्थितम् ।। ५४ ।।
तेजःस्तम्भं स्थूललिंगाभं शैवं तेजः सुरार्चितम् ।।
आहुः स्म केचिदालोक्य सिद्धास्तेजोंशसंभवाः ।। ५५ ।।
नित्यां शंभोः परां कोटिं दिदृक्षुं मां कृतोद्यमम् ।।
अहोऽयं सत्यमुग्धत्वमद्यापि च चिकीर्षति ।। ५६ ।।
आसन्नदेहपातोऽपि नाहंकारोऽस्य वै गतः ।।
विशीर्यमाणपक्षोऽयं श्रांत्वा विभ्रांतलोचनः ।। ५७ ।।
अपारतेजसि व्यर्थो विमोहोऽयं भविष्यति ।।
एवं व्याकुलचित्तोऽयं क्रोडरूपी जनार्दनः ।। ५८ ।।
व्यावर्त्तितः शिवेनैव निर्व्याजकरुणाजुषा ।।
ईदृशां ब्रह्ममुख्यानां सुराणां कोटिसंभवः ।। ५९ ।।
यत्तेजःपरमाणुभ्यस्तस्य पारं दिदृक्षते ।।
स्वात्मनो यो गतो ध्यात्वा समये भगवाञ्छिवः ।। 1.3.1.1.६० ।।
यदि बुद्धिं ददात्यस्मै तस्य नश्येदहंक्रिया ।।
इत्येवं वदतां तेषां सिद्धानां सदयं वचः ।। ६१ ।।
आकर्ण्य शीर्णाहंकारो ह्यहमात्मन्यचिंतयम् ।।
न वेदराशिविज्ञानात्तपस्तीर्थनिषेवणात् ।। ६२ ।।
संजायते शिवज्ञानमस्यैवानुग्रहादृते ।।
शीर्णेऽपि पक्षयुगले सीदत्यंगे ह्यचंचले ।। ६३ ।।
पुनरुत्सहते चेतः स्वाहंकारस्य संग्रहे ।।
धिङ्मामहं क्रियाक्रांतमनात्मबलवेदिनम् ।। ६४ ।।
शिवार्पितमनस्केभ्यः सिद्धेभ्यः सततं नमः ।।
येषां संसर्गलब्धेन तपसा शोधिताशयः ।। ६५ ।।
शिवमेनं विजानामि स्वात्महेतुं पुरःस्थितम् ।।
यत्प्रसादोपलब्धेन विभवेन समन्विताः ।। ६६ ।।
देवाः सर्वे भविष्यंति सततं शमितारयः ।।
यस्य वेदा न जानंति परमार्थं महागमैः ।। ६७ ।।
तमेव शरणं यामि शंभुं विश्वविलक्षणम् ।।
अवादिषमथाभाष्यं विष्णुं कमललोचनम् ।। ६८ ।।
लब्धदेहः शिवं भक्त्या संश्रितश्चन्द्रशेखरम् ।।
अहो किमिदमाश्चर्यमागतं शौर्यशालिनाम् ।। ६९ ।।
शंभुना यत्समुद्भूतमहंकारमुपाश्रितौ ।।
आवां परस्परं युद्धमाकर्ण्य विपुलं महत् ।। 1.3.1.1.७० ।।
स एव शंकरः सर्वमहंकारमथावयोः ।।
अपाहरदमेयात्मा स्वमाहात्म्यप्रकाशनात् ।। ७१ ।।
इममीश्वरमानतं सुरैरनलस्तम्भमयं सदाशिवम् ।।
अभिपूजयितुं प्रवर्तते स भवेद्वै भवसागरस्य नौः ।। ७२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मसनकसंवादे लिंगप्रादुर्भाववर्णनंनाम प्रथमोऽध्यायः ।। १ ।।