स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

पूर्ववर्ती पृष्ठः (अध्यायाः ४१ - ५०)

आगामी पृष्ठः (अध्यायाः ६१ - ७०)

अध्यायाः ५१ - ६०

सनत्कुमार उवाच

सुकेशस्तु ततो व्यास पितुः श्रुत्वा सुदीनवत्१ ।

दुःखित२ श्चिन्तयामास जन्तुना तां गतिं तदा३ ।। १ । ।

 

५८ विद्विष्टः - . । ५९... स्तदा - . । ६.... भक्ष्यो - . । ६१ तव पुत्रक - . । ६२ यथागति - ., यथामति - . । ६३ भक्तः - . । ६४ सर्वयम्येः - . । ६५ धन्यैर्विंशस्य- मायुष्यं - . । ६६ श्राव्यं - . . । ६७ स्वर्गमिच्छता - . । ६८ सुमतिप्रदं - . । ६९ नरककीर्तनं समाप्तं - .

१ दीनवाक् - .. वान् - . . । २ दीनवत् - . . । ३ गतिचिन्तकः - .

 

279

चिन्तयाभिपरीतात्मा दुःखेन च समाहतः४ ।

जन्तूनां मोक्षणोपायं मूढचेता न जज्ञिवान्५ । । २। ।

चिन्तापन्नः६ स तु यदा पितॄँ स्तान्नाभ्यभाषत८ ।

तदा ते पितरः सर्वे सुकेशमिदमूचिरे । ।३ ।।

पितर ऊचुः

अतीव किं चिन्तयसि कुतश्चिन्ता तवानघ ।

ईश्वरस्य सतः पुत्र९ नेदं तव विधीयते ।।४। ।

सुकेश उवाच

जन्तूनां कर्मजं क्लेशं श्रुत्वा युष्माभिरीरितम् ।

चिन्तयामि कथं तेषां मोक्षोपायो भवेदिति ।।५। ।

पितर ऊचुः

अनादृत्य क्षयं१० पुत्र मोक्षस्तेषां न विद्यते ।

कर्मणः स्वकृतस्येह स च भोगात् क्षयो मतः ।।६।।

भोगश्च नरकेवश्यं जन्तुना सं११ विधीयते ।

न च ते नारकाः१२ शक्या हर्त्तुं१३ कर्मक्षयं विना ।।७। ।

अशक्याः खलु ये ह्यर्था न तान् प्राज्ञस्समारभेत् ।

अर्णवस्य१४ प्रतरणं यथा त्वां मृत्युमृच्छति१५ ।।८।।

सनत्कुमार उवाच

एवमुक्तः स१६ तेजस्वी पितॄँ स्तान् हॄच्छयावृतः१७ ।

उवाच प्रणतो भूत्वा मावमध्वं१८ सुतं हि माम् । ।९।।

 

४ सर्वेषां करुणात्मनां - ., समाहितः - . । ५ मूढचेता - ., कथं स्यादिति निश्चयं - ., चिंतयामास वै तदा - . । ६ चिन्तयानः - . । ७ तदा - . । ८ तान्यु (नु) वाच पितॄन् स तु (सुतः?) - ., नाभ्यभाषत - . .,.. .श्चागत्य भाषते - . । ९ महादेवप्रसादाद्धि - . । १०... मनादृत्य - .. पापक्षयं विना - . । ११ स - . . । १२ नरकाः - . . । १३ हन्तुं - . । १४ अर्णवस्येव - . । १५ तीरमप्राप्य नश्यति - . । १६... श्च - . । १७ कृपया वृतः - . । १८ मावमंस्था - . . .

 

280

का शक्तिर्मम१९ तान् जन्तून् बलात् तारयितुं शुभान्२० ।

महादेवप्रसादस्तान्२१ तारयिष्यति२२ दुर्गतीन्२३ । ।8.51.१ ० ।।

यूयं यथैव२४ तीर्णाः स्थ नरकस्था विचेतसः२५ ।

तथा ते२६ जन्तवस्सर्वे तरिष्यन्ति२७ न संशयः । । ११ । ।

सनत्कुमार उवाच

ततस्तान् स तदा२८मन्त्र्य महात्मा गणनायकः ।

संप्रविश्य समुद्राम्भो ह्यन्तर्जलगतस्तदा२९ ।। १२ । ।

जजाप रुद्रान् शुद्धात्मा निश्चलः सुसमाहितः ।

जपतस्तस्य योगेन युक्तस्य च महात्मनः ।।१ ३ । ।

त्रैलोक्यमखिलं व्यास३० तपसाभूत् प्रतापितम्३१ ।

ततो देवास्तदा सर्वे पितामहमथाब्रुवन् ।। १४।।

किमिदं भगवन् सर्वे तप्याम विवशा वयम् ।

कस्येदं तपसो वीर्यं कस्य योगोयमीदृशः ।। १५ ।।

क एष सुरशार्दूल तपस्तप्यति३२ दारुणम्३३ ।

यावदेवं न दहति यावन्नैव न कुप्यते ।। १ ६।।

तावत् सर्वानभिप्रायान् तस्य संपादय प्रभो ।

स एवमुक्तो३४ देवैस्तैर्भगवान् देवसत्तमः३५ । ।१७। ।

उवाच मा भयं वोस्तु नायं कश्चिदसंमतः ।

स एष देवदेवस्य३६ महात्मा३७ गणनायकः । । १८।।

समुद्रान्तर्जलासीनो३८ रुद्रान् जपति योगवान् ।

न चास्य दुष्टोभिप्रायो लोकान्प्रति महाबलाः३९ । ।१ ९ ।।

 

१९ का गतिर्मम - . । २० पितः - . । २१... प्रसादात्तान् - ., प्रसादात्तां - . । २२ नाशयिष्यति - घ नाशयिष्यामि - . . । २३ दुर्गतिम् - . । २४ तथैव - . । २५ पितामहाः - . । २६ तथैव - . । २७ भविष्यान्ति - . । २८ पितरो - . । २९?. .स्तथा - क । ३० सर्वं - . । ३१ प्रधूपित इ (मि) वाभवत् - . । ३२.?. स्तप - ., स्तपस्यति - . । ३३ सुदारुणम् - . । ३४ एवमुक्तः सः - घ । ३५ कमलासनः - ख । ३६ एष देवस्य रुद्रस्य - क घ । ३७ सुकेशो - . । ३८ र्जले सम्यक् - . । ३९ परिपूर्णोर्थः सर्वेषां करुणात्मकः - .

 

281

नारकानेव नरकादुद्धर्तुमभिमन्यते ।

तद्४० यूयं यदि४१ मन्यध्वे४२ गत्वा रुद्रं प्रणम्य च ।।8.51.२०।।

अर्थयामोस्य देवस्य क्रियतामीप्सितो वरः ।

एवमस्त्विति ते सर्वे ब्रह्मणा सह संगताः ।।२१ ।।

गता मन्दरमव्यग्रा४३ नन्दिना संप्रवेशिताः ।

ते दृष्टवा देवमीशानं स्तुत्वेदमब्रुवन्४४ विभुम्४५ ।।२२।।

सुकेशो भगवन् तुभ्यं वल्लभो गणनायकः ।

कारुण्यं४६ प्राणिनां कृत्वा तपस्तप्यति दुश्चरम् । ।२३ ।।

तस्य कामं सकामं४७ त्वं कुरुष्व भुवनेश्वर ।

तेषां विज्ञप्तिमाकर्ण्य देवदेवस्ततो४८ भवः ।।२४।।

ब्रह्माद्यैः सहितोभ्यागात्४९ सुकेशस्य तदान्तिकम्५० ।

समुद्रस्तत्र ये चान्ये५१ मुनयः५२ शंसितव्रताः ।।२५।।

अर्ध्यमादाय शतशो५३ नेमुः शङ्करमागतम् ।

तमसौ गणपश्रेष्ठं देवदेव इदं वचः । ।२६।।

प्रोवाच मधुरं व्यास मनःश्रोत्रसुखावहम् ।

वत्सोत्तिष्ठ सुकेश त्वं प्रार्थयस्व यथेप्सितम् ।।२७।।

सर्वं तत्५४ संप्रदास्यामि त्वं हि५५ नन्दिसमो मम ।

ततः सुकेश उत्थाय स्तुत्वा च५६ वृषभध्वजम् ।।२८।।

प्रणिपत्य पुनर्वव्रे कामं पूर्वसमीहितम्५७ ।

नरकेषु नरा देव यात्यन्ते पापकारिणः५८ ।।२९।।

तेषामुपरि५९ चेतो मे दुःखेनार्दितमीश्वर६० ।

ते यथा प्रतिमुच्यन्ते सर्व एव जगत्प्रभोः६१ । ।8.51.३ ० ।।

 

. ते - . । ४१.. .मभि - . । ४२ मन्यध्वं - . . . । ४३ मन्दिरमव्यग्रा - . । ४४.. .त्वैवमब्रुवन् - घ । ४५ चिरम् - . । ४६ करुणां - . । ४७ सकाम - ., प्रकाम - . । ४८.. सदा - . । ४९ ह्यागात् - . । ५० महात्मनाः (नः) - . । ५१ समुद्रा - , समुद्रो मुनिभिस्सार्धं - . । ५२ यत्र ये - ख । ५३ सततं - . । ५४ तत्सर्वं - ., सर्व हि त्वत् - ख । ५५ तु - . । ५६ तं - क । ५७ तन्निष्पत्ति न संशयः - . । ५८ स्वेन कर्मणा - , पापकर्मिणः - . । ५९ तेषामर्थे - . । ६० मे चिन्ता कृपया परमेश्वर - , मनो मेद्य - . । ६१ सुदुःखिताः - ख ।

 

282

तथा कुरु ममाद्यैव वर एष मयार्थितः६२ ।

ये चाधुना नरा देव यात्यन्ते नरकेषु वै ।।३ १ ।।

तेषान्तु प्रतिमोक्षार्थं याचेहं त्वां सुरेश्वर६३।

ततस्तदर्थितं६४ देवः प्रयच्छन्निदमब्रवीत् ।।३२।।

एवं भवतु ते वत्स मुक्ता६५ नारकिणो नराः ।

अनयापि च भक्त्या त्वं कारुण्येन च वल्लभः६६ । ।३ ३ ।।

सुतरां भव निर्व्यग्रः परमैश्वर्यसंयुतः ।

ततस्ते नारकाः सर्वे६७ विमानानि समाश्रिताः ।।३४।।

देवदेवं ततोभ्येत्य सुकेशञ्च प्रणेमिरे ।

तमुवाच पुनर्देवः सुकेशं गणनायकम् ।। ३५। ।

यो हि६८ तारयते जन्तूनापदः६९ काँश्चिदेव तु ।

तेषां धर्मपिता भूत्वा संसारं न स पश्यति७० ।।३ ६। ।

मनसापि हि यः प्राणी क्लेशाज्जन्तून्सदेच्छति७१ ।

विमोक्तुं७२ सोपि धर्मात्मा सर्वदुःखैः प्रमुच्यते ।।३७। ।

यश्चोपार्ज्य स्वयं धर्मं जन्तुभ्यः संप्रयच्छति ।

सुखार्थं सोपि सर्वेभ्यो७३ दुःखेभ्यः७४ संप्रमुच्यते७५ ।।३८। ।

स त्वं परेण योगेन ऐश्वर्येण च संयुतः ।

जन्तूनां तारणे युक्तस्त्वयान्यः कः समो७६ भुवि ।।३९। ।

सुकेश उवाच

भगवन् त्वत्प्रसादान्मे सर्वमेतद् भविष्यति ।

शक्तिर्मम कुतो देव त्वयैवैतत् कृतं विभो ।।8.51.४० ।।

 

६२ वृतः - . । ६३ याचयेयं - . ., याचयेयन्त्वत्सकाशतः - . । ६४ स्तुष्टस्तदार्थितं - . । ६५ युक्ता - . । ६६ सत्वानां करुणाय च - . । ६७ सत्वा - ., सत्वा मुक्ता यातनसंस्थिताः - . । ६८ मे ( यो) पि - . । ६९ जन्तूनापदं - . . दा - ,.. पादं - . । ७० प्रयच्छति - ख घ. । ७१ समुद्धरेत् - . । ७२ विमुक्तः - . । ७३ धर्मात्मा - ख । ७४ सर्वदुःखै,.. - ख । ७५ संप्रयुज्यते - . । ७६ नरः - ., भवेत् - .

 

283

(?) चान्यदस्ति कर्त्तव्यं७७ कृत्यं७८ यन्मे मनोगतम् ।

तवास्मि किङ्करो दासो नाश्चर्यं यन्ममेदृशम्७९ । ।४१ ।।

सनत्कुमार उवाच

ततः स भगवान् देवो विसृज्य गणनायकम् ।

अभ्यगात् मन्दरं८० व्यास वृतः सर्वामरैस्तदा ।।४२ ।।

देवा अपि विमानस्थान्८१ नारकान् वीक्ष्य सर्वशः ।

शान्तं च जगतो दुःखं दृष्ट्वा जग्मुर्यथागतम् ।।४३ ।।

य इमं नारकोत्तारं शृणुयाद्वा पठेत वा ।

स दुःखं समनुप्राप्य८२ नावसीदति कर्हिचित् । ।४४। ।

एतद्योगविधानसर्वसमयं८३ श्रुत्वा नरो नित्यशः

पापात्मापि सुनिर्घृणं प्रतिभयं नाभ्येति पापाश्रयम् ।

किन्त्वेतद् य इहाभ्युपेत्य सततं शौचान्वितः श्रावयेत्

देवब्रह्मणवैद्यसंसदि दृढं भक्तः८४ सदा शङ्करम्८५ ।।४५। ।

इति स्कन्दपुराणे नारकीयमोक्षणे८६ एकपंचाशोध्यायः 

 

व्यास उवाच

के पुनस्तं न गच्छन्ति नरकं शुभकर्मिणः ।

पापेष्वपि रता ब्रह्मन्नेतदिच्छामि वेदितुम् । । १ ।।

तथा स्त्रीणां च का युक्ता गतिः परमिका शुभा ।

केन कर्मविपाकेन एतदिच्छामि वेदितुम् । ।२। ।

 

७७ कर्ता मां - . । ७८ कृतं - . । ७९ नाश्चर्याय ममेदृशम् - . । ८० मन्दिरं - . । ८१ विमानस्था - . . । ८२ महदप्राप्य - . । ८३... मभयं - . । ८४ भक्त्या - . । ८५ शङ्करेति - . । ८६ सुकेशमाहात्म्यं - .

... भिरताः पापे - . ,... षु निरता - . । २.. श्चैव - ., देव - . .

 

284

सनत्कुमार उवाच

न गच्छन्ति नरा येन३ नरकं तं सुदुःखिताः४ ।

पापकर्मण्यपि रता५स्तानिमान्६ शृणु मानद७ । ।३।।

नाग्निचिन्नरकं याति न त्रिसूत्री८ न गोव्रती९ ।

नाश्वमेधेन यो यष्टा१० गो सहस्रप्रदो न च११ । ।४। ।

न च स्वाध्यायनित्यो यो रुद्रजापी च यो द्विजः१२ ।

ब्राह्मणान्१३ तारयेद्यश्च१४ आपदो मरणान्तिकात् । ।५ । ।

ब्राह्मणं१५ व्याधितं दीनमनाथं दुःखपीडितम्१६ ।

शुश्रूषेद्यावदेतेन युक्तो धर्मेण मानवः१७ ।।६ । ।

ब्राह्मणं वासयेद्यस्तु गृहवासपरिच्छदैः ।

निःस्वं स्वाध्यायसंपन्नं नरकं न स पश्यति ।।७।।

तथा गाञ्चैव संमग्नां१८ पतितां शक्तिवर्जिताम् ।

संरक्षति च युक्तात्मा स च तं नैव गच्छति । ।८। ।

महेशं यश्च भावेन परमेण समाधिना ।

भक्त्या१९ समर्चयेन्नित्यं स च तं२० नैव गच्छति । ।९।।

इतरेषां तु संसारो भवत्येव न संशयः ।

ब्राह्मणास्तं न गच्छन्ति वेदवेदाङ्गपारगाः । । 8.52.१० । ।

षट्कर्मनिरता व्यास आत्मधर्मव्यवस्थिताः२१ ।

तपःशौचसमायुक्ता दयावन्तो दृढव्रताः२२ । ।१ १ ।।

प्रतिग्रहनिवृत्ताश्च ईशभक्ताश्च ये द्विजाः ।

क्षत्रिया ये च रक्षार्थं प्रजानां२३ नित्यमुद्यताः ।। १ २। ।

त्यजन्ति समरे प्राणान् न ते नरकगामिनः ।

वैश्या वार्तासमायुक्ता२४ न्यायधर्मव्यवस्थिताः । । १३ ।।

 

३ तु भूतानि - . । ४ सुदुःखित - घ । ५. भिरता - . विरता - घ । ६  निमान्  .। ७ महामते  .  ८ न सपुत्रो - , न सपुत्री. - . । ९ गोप्रदी - . । १० येन यष्टोश्वमेधेन - . । ११ गोपालनरतश्च यः - . । १२ नरः - . । १३ ब्राह्मणं - . . । १४ यस्तु - . । १५ तमेव - ., तमेवं वादिनं -   १६ न कर्मण्यं तथैव च - . घ । १७ मुक्तः स्यादिह मानवः- - . । १८ संभग्नां  . . । १९ भक्तः - . . । २० तान् - घ । २१ शान्त () दान्त () जितेन्द्रियाः -. । २२ ह्यलोलु (पाः) - . । २३ प्रजाया - . । २४ स्ववृत्तिसंयुक्ता - .

 

285

येषां वृत्तिरविच्छिन्ना२५ देवब्राह्मणपूजकाः२६ ।

नरकं ते न पश्यन्ति स्वर्गगास्ते प्रकीर्तिताः२७ । । १४।।

भक्ता वर्णत्रयं२८ ये च शूद्रा दर्पविवर्जिताः ।

ब्राह्मणांश्च विशेषेण नित्यं ये समुपासते२९ ।।१ ५। ।

ते न३० पश्यन्ति नरकं३१ सुगतिञ्च३२ मृता ययुः ।

चतुर्ष्वपि च वर्णेषु मनुजा भावतः३३ शिवम् । ।१ ६।।

शर्वार्पितक्रियावस्था३४ भक्ता नित्यमनुव्रताः ।

न ते प्रयान्ति नरकं प्राप्नुवन्ति परां गतिम् ।। १७।।

प्रासादं चैव ये कृत्वा देवदेवमुपासते ।

अन्यानपि पितॄँस्ते तु नरकादुद्धरन्त्युत ।।१८।।

खनिताः पुष्करिण्यो यैस्तडागानि ह्रदानि च ।

रोपिता वृक्षषण्डाश्च३५ तेपि तान्३६ न प्रयान्ति३७ हि । । १९।।

परित्राणं द्विजातीनामन्येषां चैव दुःखिनाम् ।

नित्यं प्रकुर्वते ये च तेपि तान्३८ न व्रजन्ति हि ।।8.52.२० । ।

अक्रोधनाश्च ये नित्यं देवब्राह्मणपूजकाः ।

नित्यं दानरताश्चैव३९ न ते गच्छन्त्यधोगतिम् ।।२१ ।।

सत्याभिधानसंयुक्ता दु्ष्टारम्भविवर्जिताः४०।

स्वधर्माचारसंयुक्ताः४१ पश्यन्ति नरकं न ते ।।२२।।

लिङ्गार्चनरतस्तस्मात्४२ सर्वस्मात् परिमुच्यते ।

ध्यानी त सर्वदा यो वै गणाञ्जपति वा शुचिः । ।२३ । ।

योगी तु४३  सर्स(र्व?)पापानि कुर्वन्नपि न लिप्यते ।

स्त्रीणां तु परमो देवः पतिर्भवति सर्वदा ।।२४। ।

 

२५ सततं न व्यवच्छिन्ना - . । २६.. पूजने - . घ । २७ गोप्ता गोब्राह्मणस्य च - . । २८ ... वर्णत्रये - . । २९ ये नित्यमुपसेवते - . । ३० न ते - . । ३१ नरकान् - ., नरकानागतिञ्च - . । ३२.. .रवा - ., खनन्ति - . । एतदनन्तरं - त्रिसंध्यं सततं भक्त्या इति मे व्रत- मास्थिता, ब्राह्मणा ये न पश्यन्ति (?) नरकं न स गच्छति, इति पाठाधिकः ख. पुस्तके । ३३ पुण्यश्च - . ., पुण्यो ये (?) । ३४ तानि - ., शर्वार्पितानि च पुष्पाणि - . । ३५... नि - . । ३६. .नि - ., तत्र --. । ३७ न यान्ति - . ., न व्रजन्ति - . । ३८ तं - . । ३९ ये च - . । ४० दुष्टता - ., ये नरा धर्मशीलिनः - . । ४१ स्वधर्मकरणे शक्ता - . . । ४२ नित्यं लिङ्गार्चनरतः - . । ४३ योगज्ञः - .

 

286

तस्मान्नान्यं४४  प्रपश्यन्ति याः काश्चि४५द्धर्मचिन्तिकाः४६ ।

कर्मणा मनसा वाचा यद् ददाति४७ जुहोति वा ।। २५। ।

परित्यज्य पतिं नारी न तस्य फलमश्नुते ।

पतिशुश्रूषणे रक्ता मनोवाक्कायकर्मभिः४८ ।।२६ ।

पतौ४९ मृतेपि मनसा नान्यमिच्छति या नरम्५० ।

करोति पुण्यं यच्चापि पत्युः सर्वं५१ प्रयच्छति ।

सा नारी नरकान् सर्वान् मनसापि न गच्छति५२ । ।२७।।

संसारं नैव सा घोरं५३ सर्वं संप्रतिपद्यते५४ ।

अन्यासां तु न संदेहो नरकं प्रति सुव्रत५५ ।।२८।।

सनत्कुमार उवाच

सुकेशं त्वनुगृह्यैवं देवोपि वृषवाहनः ।

- - - - - - - - काष्ठकूटाश्रमं गतः ।

अनुजग्राह तं विप्रं काष्ठकूटं तपोधनम् ।।२९।।

व्यास उवाच

किं तपस्तस्य भगवन् ब्राह्मणस्य महात्मनः ।

कियता चैव कालेन वरं लेभे महेश्वरात् ।।8.52.३ ० ।।

कस्य पुत्रः कस्य नप्ता किन्नामा स च सत्तमः ।

एतदिच्छामि कथितं भगवन् विस्तराच्छुभम्५६ ।।३ १।।

सनत्कुमार उवाच

गौतमस्यान्वये५७ विप्रो नाम्ना कृष्ण इति प्रभुः५८ ।

तस्य पुत्रोभवत् ख्यातो भूमन्युरिति नामतः ।।३ २ । ।

तस्य पत्न्यभवत् सुभ्रू रात्रेयी नामतो यशाः ।

स कदाचित् कृतोद्वाहो भूमन्युर्न्नाम गौतमः । ।३ ३ ।।

 

४४... वन्यत् - . । ४५ ये केचिद् - . . । ४६ चिन्तकाः - . . . । ७ करोति. - . । ४८ त्रिविधेनापि कर्मणा - . . । ४९ पत्यौ (?) । ५० न चान्यं सेवते पतिं - घ । ५१ कृत्वा पुण्यानि सर्वाणि फलं पत्युः... - . । ५२ न पश्यति - . । ५३ घोरान् - . । ५४ न प्रतिपद्यते - ख । ५५ प्रतिपद्यते - . । ५६?.? वृतं - . । ५७ गोतमस्यानुजो - . । ५८ प्रभो - .

 

287

नाविन्दत सुतं तस्यां जरया चाभिसंवृतः ।

स भार्यामाह दुःखार्त इदं वचनकोविदः ।।३४। ।

पुत्रेणेच्छन्ति लोकांश्च अनृणाश्च भवन्त्युत ।

जरां परिगत५९ श्चाहं न च मे दृश्यते सुतः ।। ३ ५।।

सा त्वं कञ्चित्६० सगोत्रं मे अनुज्ञाता मया शुभे ।

अभिपद्यस्व६१ पुत्रार्थं याचे त्वां६२ प्राञ्जलिर्न्नतः ।।३६ ।

सुयशोवाच६३

न मया श्रुतमेतत्ते तथा नोक्तं त्वयानघ ।

मादृशी कथमेतद्धि मनसाप्यभिचिन्तयेत् ।।३७।।

अत्रीणान्तु कुले जाता गौतमं कुलमागता ।

मद्विधा कथमेतद्धि कुर्यात् सद्भिर्विगर्हितम् ।।३८।।

तपसा धनमन्विच्छेज्जीवितानि सुखानि च ।

पुत्रान् कुलञ्च लोकांश्च तपः कुरु महामुने ।।३ ९।।

तपसा६४ हि सुतो६५  लब्धः शक्तिना स पराशरः ।

और्वश्च तपसा स्वेन च्यवनेन महामुनिः ।।8.52.४० ।।

वसिष्ठेन कपिञ्जल्यामिन्द्रप्रमतिरेव च ।

शिलादोजनयच्चैव तपसा नन्दिनं सुतम् ।।४१ । ।

तथा भवानपि तपः करोतु सुसमाधिना ।

लप्स्यसे त्वं सुतं श्रेष्ठं महायोगबलान्वितम् ।।४२।।

मां हि दृष्ट्वा पुरा प्राह अत्रिर्ब्रह्मसुतः स्वयम् ।

सत्पुत्रिणी६६ भवित्रीयं न मिथ्या तद् भविष्यति । ।४३ ।।

तपोस्ति मयि यत्किञ्चित् त्वत्प्रसादात् समर्जितम्६७ 

तेन स्वेन च संयुक्तो रुद्रमाराधय प्रभो६८ । ।४४।।

 

५९ जरा - ., जरापरिणतः - . । ६० किञ्चित् - . । ६१ मन्यस्व - . । ६२ ये त्वं - . । ६३ यशोवाच -., आत्रेय्युवाच - ख । ६४ तपसो - . । ६५ सुता - . । ६६ सुपुत्रिणी - . । ६७ समार्जितम् - . . । ६८ प्रभो - क ।

 

288

सनत्कुमार उवाच

एवमुक्तस्स६९ तेजस्वी ह्रिया७० परमया युतः ।

तयैवं७१ समनुज्ञातो रुद्रं शरणमीयिवान्७२ ।।४५।।

त्वरितं स७३ च समागम्य७४ नर्मदां हर्षसंयुतः ।

तस्यास्तीरे७५ समुद्विश्य७६ तस्थौ वाय्वाशनः७७ समाः ।।४६।।

स तु नैवाभवद्विप्रः कृतार्थस्तेन कर्मणा ।

ततस्स दुःखितो७८  भूयः प्राणायामेन तस्थिवान् ।।४७।।

वर्षमेकं ततो देवस्तमुवाच तदा विभुः ।

किमेवं क्लिश्यसे विप्र न तवास्ति सुतः क्वचित् ।।४८।।

व्यर्थस्तेयं श्च(श्र?)मस्तावन्नास्ति पुत्रस्तवानघ ।

स एवमुक्तो निर्विण्णो७९ निराशः पुत्रजन्मनि८० । ।४९।।

चिन्तयामास मरणं न गन्तुं स्वं गृहं८१ प्रति

स काष्ठकूटं संभृत्य गृहीत्वाग्निं सुदुःखितः८२ ।।8.52.५० ।।

विलप्य बहुदुःखार्त्त आत्मानं दग्धुमैच्छत८३ ।

तस्य रुद्र८४ स्तमालक्ष्य८५ व्यवसायं सुदुष्करम् ।।५१ ।।

पुत्र पुत्रेति गम्भीरमदृश्य इदमब्रवीत्८६ ।

पुत्रस्ते भविता गच्छ मा चैवं८७ साहसं कृथाः ।।५२।।

काष्ठकूटेति नाम्ना च८८ भविष्यति स ते सुतः ।

अथ हृष्टमना विप्रो गत्वा पत्न्यां८९ महातपाः ।।५३।।

उत्पादयामास सुतं९० काष्ठकूटं महामुनिम् ।

संस्कृतस्य तु कालेन तस्य बुद्धिरभूत् ततः९१ ।।५४।।

 

६९... श्च - . । ७० क्रि (श्रिया)? - . । ७१ तथैव - . . । ७२.. मेयिवान् - . ख । ७३ तु - . । ७४ समागत्य - . । ७५ तस्यास्तटे - . । ७६ समुद्दिश्य - . . । ७७ वाय्या- शनः - . । ७८ ततस्सुदुःखितो? । ७९... विप्रर्षि - ख । ८० पुत्रमात्नः - . । ८१ स्वगृहं - .. स्वां (न् गृहान्?) - . . । ८२... ञ्व दुःखितः - क ख घ. । ८३... मिच्छति - . । ८४ वज्रः - . । ८५... स्समालक्ष्य - . । ८६ चाभाष्यवचनं चेदमब्रवीत, - . । ८७ मा च त्वं - क घ., मैवं त्वं- . । ८८ वै - . । ८९ पत्नीं - . । ९० पुत्रं - . । ९१ परा - .

 

289

अशक्तोयं वृद्धभावान्मामध्यापयितुं९२ पिता ।

तस्माद् यास्यामि चामत्र्य९३ पितरं वेदकारणात् ।।५५।।

स गत्वा मातरं विप्रः पितरञ्च महायशाः ।

प्रणम्य शिरसा सम्यगिदं९४ वचनमब्रवीत् । ।५६। ।

सुतो युवाभ्यां जातोहं धर्महेतोर्न कामतः९५ ।

आवां९६ तारयिता चायं९७ तथैव च पितामहान् । ।५७। ।

सन्तततिश्चाप्यविच्छिन्ना भविष्यति न संशयः ।

इष्टाँश्च लोकान् प्राप्स्याव सुपुत्रेणेति९८ सर्वथा ।।५८।।

पितॄणाञ्चानृणो स्याव इत्यभीष्टोस्मि वां सुतः ।

सोहं धर्मेष्वकुशलः९९ श्रुतिस्मृतिबहिष्कृतः । ।५९।।

कर्त्ताज्ञानेन१०० तत्कर्म पितरो येन दुःखिताः ।

भवांश्च निरये मग्न१०१ श्चिरं वत्स्यति१०२ दुष्टवत् ।।8.52.६० । ।

भवान्नाध्यापने१०३ शक्तः स्थविरत्वाद्१०४ दिने दिने ।

पुत्रस्नेहाच्च कार्याच्च१०५ न सम्यग् धारयिष्यासि१०६ ।।६ १ ।।

इयं१०७ च जननी नित्यमेकपुत्रोयमित्युत१०८।

त्वया सम्यक् प्रशास्यन्तं नैव मामनुमंस्यते । ।६२।।

सोहमन्यं तपो नित्यं निरनुक्रोशमेव च ।

आचार्यं मतिसंपन्नं१०९ संश्रयामीति मे मतिः । ।६३ । ।

न चापि तद्११० व्यवस्यामि युवयोर्नास्ति कश्चन ।

कुर्याद्यः पादयोर्नित्यं शुश्रूषामिति चिन्तयन्१११ ।।६४।।

न च नाख्येयमेतद्११२ वां मया चिन्ता कृता११३ शुभम्११४ ।

अशुभं वापि यत्किंचिद्युवां मम गतिः परा । ।६५।।

 

९२ ममाध्यापयितुं - . . । ९३ यास्येहमामन्त्र्य - . । ९४ पादौ इद - . । ९५ पा (प्रा) र्थित- श्चैव कामतः - . । ९६ युवां - . । ९७ चाहं - . । ९८ सुपुत्रेणैव - घ । ९९ धर्मेषु कुशलः - . १०० कर्तुं जाने न - ., स ज्ञानैर्विरहितः - ख । १०१ दुखं - . । १०२ वत्स्याम - . । १. ३ न ध्यापने - घ । १०४ स्थविरश्च - ख । १०५... दहार्यश्च - . । १०६ वारयिष्यसि - . । १०७ इद - . . । १०८ नित्यं ममैकः पुत्र इत्युत - घ । १०९... र्यमभिसम्पन्नं - . । ११० तं - . . । १११ चिन्तया - . । ११२ वचनाख्येयमेतद् - . । ११३ कथं - ., कृतं - . । ११४ शुभा - .

 

290

एवमुक्तौ तु पितरौ पुत्रेण सुमहात्मना ।

अश्रुपूर्णेक्षणौ११५ स्थित्वा११६ मुहूर्तमिदमूचतुः ।

आघ्रायालिङ्ग्य११७ संमृज्य११८ स्नेहात् प्रियसुतौ११९ तदा ।। ६६।।

भूमन्युरुवाच

शुश्रूषा द्विविधा पुत्र पितॄणां धर्मसंमिता१२० ।

या कर्तव्या प्रयत्नेन सुतेन सुमहात्मना ।। ६७।।

ऐहिकी चाङ्गशुश्रूषा या परत्र च धर्मदा ।

यया तरन्ति पितरः कामाँश्चाप्नुवतेक्षयान् ।

तत्रैहिकं न नो१२१ हीष्टं१२२ यथा ह्यामुष्मिकं हितम्१२३ ।। ६८। ।

तस्मादामुष्मिकं कर्म यद् भवेत्तत् समाचर१२४ ।

गच्छाधीष्व श्रुतिञ्चैव स्मृतिञ्चैव सुकर्मणाम् ।। ६९। ।

सुयशोवाच१२५

यथा१२६ तेयं पिता पुत्र ब्रवीति विदितात्मवान्१२७ ।

तथा कुरु यथा देवो वरदस्ते१२८ भवेद्१२९ भवः । ।8.52.७० । ।

उदरेण१३० मया दुःखं१३१ धारितस्त्वं महामते१३२ ।

तथा च बहुभिः क्लेशैर्ल्लब्धः सर्वार्थसिद्धये ।।७१ ।।

पित्रा च तपसोग्रेण प्राणाँस्त्यक्त्वातिदुस्त्यजान् ।

महादेवाद् भवाँल्लव्धस्तस्य१३३ युक्तं समाचर । ।७२। ।

यथा तुष्टो त्वया पुत्र जीवौ जीवेन संगतौ१३४ ।

आवामुभावपि स्याव१३५ तथा सम्यक् समाचर१३६ ।।७३ । ।

 

११५ साश्रुपूर्णेक्षणौ - क ख । ११६ दीनौ - . । ११७ आघ्राय्यालिङ्ग्य - ., आध्याय्या. - . । ११८ संमार्ज्य - . . । ११९... सुतं - ख । इतः परं - ``तथा कुरु यशो नित्यं येन नौ दुःखमाप्तवान् इति पाठोधिको घ पुस्तके । १२० धर्मसंहिता - . ख । १२१ न मे - . । १२२... भीष्टं (?) । १२३ कृतं - - । १२४ समाचरेत - . । १२५ मातो.. - . । १२६ अथ - . । १२७ विदितार्थवान् - . । १२८ वदते - . । १२९ भवो - , यमुक्तवान् - ., करुणात्मवान् - . । १३० सुदारुणं - . । १३१ दुःखाद् - . । १३२ महामुने - . । १३३ तपस्तस्माद् - . । १३४ संयुतौ - . । १३५ आवां नैव मरिष्याव - .,... स्यातां - क । १३६ त्वमाचरेः - .

 

291

सनत्कुमार उवाच

ततस्ताभ्यामनुज्ञात आघ्रातश्चैव मूर्धनि ।

प्रदक्षिणमुपावृत्य जगाम स कृतात्मवान्१३७ । ।७४।।

स जगाम१३८ तदा ताभ्यां विसृष्टश्च्यवनं१३९ प्रति ।

ऋग्यजुर्भ्यामिवोत्सृष्टा स्वाहुतिर्वरुणं प्रति ।।७५।।

स तमासाद्य तुष्टेन तेनासौ सफलः१४० कृतः ।

भागधेयमिव प्राप्य देवैर्मन्त्रः पुरस्सरः१४१ ।।७६। ।

अथ पुत्रे गते तस्मिन् पिता दिष्टान्त१४२ मीयिवान्१४३ ।

काष्ठकूटस्ततोभ्येत्य कृतविद्यः सुधार्मिकः । ।७७। ।

अपश्यन्मातरं दीनां वितोयामिव१४४ पद्मिनीम्१४५ ।

सोमहीनामिव१४६ निशामाज्ञाहीनामिव श्रियम्१४७ ।

रुदतीमश्रुपूर्णाक्षीं१४८ विलपन्तीं सुदुःखिताम् ।।७८ ।।

काष्ठकूटस्तु तां दृष्टवा दुःखेन समभिप्लुताम्१४९ ।

जयंत१५० इव पौलोमीं शक्रे नष्टेब्रवीदिदम् । ।७९ । ।

काष्ठकूट उवाच

श्रुतं मयेदं प्रागेव कृतं चैवोर्ध्वदेहिकम्१५१ ।

मा शोके मन आधत्स्व एष धर्मः सनातनः । ।8.52.८० ।।

देवानाञ्च ऋषीणां च योगिनाञ्च महात्मनाम् ।

मर्त्यानां किं पुनर्मातर्मा१५२ शुच१५३ स्तं तपोधनम्१५४ । ।८१ । ।

अहं तेनात्मनात्मा वै१५५  सृष्टः१५६ स्वेनैव१५७ तेजसा ।

पश्य मां कृतकृत्यं त्वं गायत्रीवात्मनः सुतम् । ।८२ ।।

 

१३७ सुकृतात्मवान् - . ., स कृतार्थवान् - . । १३८ आजगाम - . । १३९ विशिष्टश्चार्चनं - . । १४० फलदः - . । १४१ मन्त्रपुरस्सरः - . . . । १४२ कालेन - . . । १४३ मेयिवान् - , संयुक्त - , संमृत - . । १४४ निस्तोयामिव - ., नामतो - . । १४५ पक्षिणीम् - घ । १४६ चन्द्रहीनामिव - . । १४७ यज्ञहीनमपाश्रमम् - , प्रियां - ., प्रिये - . । १४८ साश्रु- पूर्णाक्षीं - . . . । १४९ प्लुतः - . । १५० यजंत - . । १५१ कृता चैवोदकक्रिया - . ख । १५२ किमु तन् मातर्मा - - . । १५३ मा रुद - ., मा रोदी - . । १५४ तपोधने - . । १५५ सृष्टः - , भावः - . । १५६ स्वेन - . । १५७ तेनैव - .

 

292

वेदाः सर्वे मयाधीताः साङ्गोपाङ्गास्सविस्तराः ।

तथोपवेदास्सर्वे च१५८ अध्यात्मञ्चैव कृत्स्नशः ।।८३ ।।

यत्किंचित् पुरुषैर्ज्ञेयं तत्सर्वं ज्ञानमेव च ।

श्रोतव्यं च श्रुतं सर्वमुपास्ताश्चापि१५९ योगिनः ।।८४।।

अनेनापि१६० प्रकर्षेण हृष्यमाणा मुदान्विता ।

मां पालय महासत्वे गायत्रीव सदा क्रतुम् । ।८५। ।

सनत्कुमार उवाच

श्रुत्वा तस्य वच१६१ स्तस्तद्वै१६२ माता१६३ तथ्यं१६४ महात्मनः ।

भूयस्तरेण१६५ दुःखेन१६६ रुदती१६७ तमुवाच ह ।।८६ । ।

सुयशोवाच१६८

पुत्र नैतद्धि दुःखं मे मृतः स इति१६९ संमतः ।

सर्वेषां प्राणिनामेतद्विहितं मर्त्यधर्मिणाम् । ।८७।।

स चापि कृतकृत्यश्च महात्मा तपसान्वितः ।

न तस्य१७० शोच्यमस्माभिरिह किञ्चिद्धि१७१ विद्यते ।।८८। ।

आत्मानं पुत्र शोचामि याहं तेन विना कृता ।

तमेवानु मृता नास्मि तवागमनकांक्षिणी ।।८९।।

नार्था न भोगस्वजना न पुत्रा नैव१७२ बान्धवाः ।

योषितां१७३  तत्र तिष्ठन्ति पतिर्यत्रावतिष्ठते । ।8.52.९ ० । ।

पतिर्यदि१७४ ततः सर्वं१७५ नास्ति किञ्चित् पतिं विना१७६ ।

सर्वं हि दुःखदं तासां१७७ यासां नास्ति पतिः सुत१७८ । ।९१ । ।

 

१५८ तु - ख । १५९.. .श्चैव - . । १६० अनेन हि - . . । १ ६१ तत - . । १६२ सर्वं - . । १६३ याथातथ्यं - . । १६४ तस्य - . । १६५  स्तारेण - . । १६६ दुःखार्ता - . । १६७ रुदन्ती - . । १६८ यशो - . . । १६९ इत्येव - ., स श्रुतिसागरः - . । १७० तस्या घ । १७१ किञ्चिन्न - . । १७२ न ममाद्याखिला भोगाः स्वजनाः पुत्र नाखिलान्भोगान् स्वजनाः.. - . । १७३ योजिता - . । १७४ पतिर्यत्र - . । १७५ न तत् सर्वं - , गतिः सर्वा - . । १७६ पतिव्रता - घ । १७७... मेतासां - . । १७८ सुतः - . .

 

293

इदं च१७९ मे पुनर्दुःखं यत्त्वां तेन१८० सहाद्य वै ।

नाभिनन्दामि संहृष्टा सुतं१८१ श्रीरवि विष्णुना ।।९२।।

बहुशः स हि मामाह१८२ काष्ठकूट इहैष्यति१८३ ।

कृतविद्यस्ततस्तस्य वरयिष्ये स्नुषां शुभाम्१८४ ।।९३ । ।

काश्यपस्योदलस्येयं सुता१८५ गुणवती भृशम्१८६ ।

तामहं वरयिष्यामि काष्ठकूटस्य सुव्रताम् ।। ९४।।

तदा१८७ द्रक्ष्यामि तं पुत्रं सपत्नीकं दृढव्रतम् ।

अग्नीँश्चैवाहरिष्यामि१८८ पत्नीवन्तं१८९ समीक्ष्य वै१९०। ।९५। ।

पत्न्याः१९१ कदाहं पुत्रस्य पाणिग्रहणतोषितः ।

शुभानि मनसा वाचा विधास्यामि बहून्यपि ।।९६।।

एवं मनोरथवतस्तस्य पुत्रवतस्तथा१९२ ।

प्रियपुत्रस्य१९३ नैवाभूदेतद् दहति मां सुत ।।९७। ।

मया त्वमुक्तपूर्वश्च१९४ गच्छन्वै तस्य१९५ सन्निधौ ।

जीवौ१९६ यथा त्वां१९७ पश्यावस्तच्च१९८ नैवाभवत्तथा१९९ । ।९८। ।

वज्रसारमयं मेद्य२०० हृदयं न हि२०१ दीर्यते

या त्वां पश्यामि पुत्रेह विना तेनासती२०२ पुनः ।।९९।।

सनत्कुमार उवाच

ततः सा कुररी यद्वद्विना पत्या महायशा ।

विलप्य बहुदुःखार्त्ता पपात धरणीतले ।। 8.52.१०० ।।

तां काष्ठकूटो दुःखार्तां पतितां गतजीविताम् ।

विसंज्ञामग्निना दग्ध्वा विललाप सुदुःखितः । ।१ ०१ । ।

 

१७९ ततश्च - . । १८० त्वयानेन - . । १८१ सुखं - . ., कामं - . । १८२ तामाह - . । १८३ इहेष्यति - . . । १८४ सुतां - . । १८५ शुभा - . । १८६... रिह - . । १८७ कदा - . । १८८ अग्निं चैवाहरिष्यामि - . । १८९ पत्नीरत्नं - . ख । १९० वे - ., - . । १९१ पत्न्या - . , । १९२... स्तस्य पुत्र तव पितुः... - . । १९३ प्रियश्च तस्य - . । १९४... स्सर्वञ्च - . । १९५ स्वै... - .,.. न्नैतस्य - . । १९६ शिवौ - . । २९७.. .वां - . । १९८ स्तत्र - . । १९९ त्तदा - घ । २०० पुत्र - घ । २०१ यन्न - . . । २०२  नेनासती - क। तेनासतां - .

 

294

हा तात मम दुर्बुद्धेरधर्मज्ञस्य चैव हि २०३ ।

- - - - - - - - - - - - - - - - । । १० २। ।

क्व गतोसि न मेद्य त्वं सभार्यः संप्रभाषसे ।

ननु त्वयाहं निर्दिष्टो२०४ गच्छाधीष्वेति हृष्टवत्२०५ । । १०३ । ।

सोहमद्यागतोधीत्य२०६ कस्मान्मां नाभिभाषसे ।

ननु२०७ ते तपसा लब्धः परेण च२०८ समाधिना । ।१ ०४। ।

पुत्रोहं देवदेवाद्वै रुद्रात् किं नाभिभाषसे ।

किं मयापकृतं२०९ तात सहभार्यस्य तेनघ२१० ।। १०५ । ।

यन्मां सहाम्बयागत्य२११ दृढं नैवाभिनन्दसि२१२ ।

हा हतोसि मयैकेन दुष्पुत्रेण दुरात्मना । १० ६। ।

अराजकमिदं मन्ये पितृघ्नं मां न हन्ति यत् ।

एवं स विलपन् व्यास ऋषिभिर्बहुभिस्तथा । । १ ०७।।

संस्थापितः समाश्वस्ते नाकरोदुदकक्रियाम् ।

इमां प्रतिज्ञां चक्रे च२१३ ऋषिमध्ये महातपाः । । १ ०८। ।

दुष्करां२१४ सर्वभूतानामुपस्पृश्य कृताञ्जलिः२१५ ।

अद्यप्रभृति नोच्छ्वासं करिष्यामि कथञ्चन । । १० ९। ।

वायवो मे शरीरस्था न चरिष्यन्ति२१६ कर्हिचित् ।

निमेषोन्मेषरहित एकपादोर्ध्वबाहुमान्२१७ । ।

काष्ठलोष्ठोपलीभूतो भविष्यामि न संशयः ।। 8.52.११० । ।

रुद्रं द्रक्ष्यामि२१८ यावच्च यावच्च पितरं तथा ।

सभार्यं सं२१९ प्रपश्यामि तावद् व्रतमिदं मम । । १११ ।।

 

२०३ ह - . टि. । २०४ त्वयाहमुद्दिष्टो - ,... हमादिष्टो (?) । २०५.. वान् - - । २०६... धीत्वा - , . । २०७ अम्ब - . । २०८ परेणैव - . । २०९ न कृतं - . । २१० सभार्यस्य स (तो?) नघ - .,... तेन वै - . । २११... गक्वा - . . । २१२... नन्दसे - . । २१३ स - . । २१४ पुष्करात् - . । २१५ कृतांजलिम् - . । २१६ करिष्यन्ति - . । २१७... बाहुना - . । २१८ वक्ष्यामि - . । २१९ च - .

 

295

सनत्कुमार उवाच

ततः स ऋषिभिस्तैस्तु२२० दृश्यमानो महातपाः ।

महेश्वरं सदा ध्यायन् तत्रैव समतिष्ठत२२१ ।। ११ २। ।

तस्य देवः२२२ स्थितस्यैवं पितृभक्त्या२२३ तथापि च ।

तुष्टो दिनेष्टमे व्यास स्वयमेवाह शङ्करः । । ११३ । ।

देवदेव उवाच

काष्ठकूट प्रयच्छामि दिव्यं चक्षुस्तवानघ ।

पश्य मां त्वं सुविश्रब्धमदृश्यं योगिनामपि ।। १ १४। ।

ब्रूहि पुत्र वरं चापि यस्ते हृदि समाहितः ।

प्रदास्यामि न सन्देहः सुनिश्चित्याभिधत्स्व२२४ माम्२२५ ।।१ १ ५।।

सनत्कुमार उवाच

ततः स दृष्टवा देवेशमुद्यन्तमिव भास्करम् ।

पपात पादयोर्हृष्ट इदञ्चोवाच सुस्वरम्२२६ ।। ११ ६। ।

काष्ठकूट उवाच

भगवन् मृत्युना माता पिता च मम योजितौ ।

जीवेतां तावुभौ देव एतदिच्छाम्यहं वरम्२२७ ।। १ १७।।

देवदेव उवाच

तावुभौ२२८ नरकं घोरं प्रपन्नौ२२९ मृत्युनार्दितौ ।

न तौ शक्यौ पुनर्जीवौ२३० कर्तुमन्यद्वृणीष्व मे२३१ । ।१ १८ ।।

काष्ठकूट उवाच

नाहमन्यं वरं देव कथञ्चिदपि कामये ।

पित्रर्थोयं समारम्भस्तद्विधत्स्व नमस्तव । । ११९ । ।

 

२२० त (तो) महर्षिभिस्तैस्तु - . । २२१... तिष्ठति - ख । २२२ देवे - , ह्यव - ख । २२३ पितृभक्त - . । २२४ सन्देहं - -क ऽ अचिरेणाभिधत्स्व तत् - ., इतः पूर्वं एतस्मिन्तिरे तत्र देवो रुद्रः समभ्यगात इति पद्यार्धं दृश्यते घ. पुस्तके । २२५ तम् - क । २२६ सत्वरम् - . । २२७ एतदिच्छामि वेदितुं - . । २२८ तौ मृतौ - . . । । २२९ प्रयातौ - . । २३० प्रणेतारौ -. । २३१ मया दुष्कृतकर्मणा - .

 

296

देवदेव उवाच

शरीरं चेन्मृतस्यास्ति तच्छक्यं२३२ जीवितेन हि ।

सयोजयितुमद्यैव२३३ दग्धस्यैतन्न विद्यते । । 8.52.१२० । ।

तयोर्नचास्ति वै देहो२३४ न चान्यत् करणं२३५ तथा ।

यादृक् च स पिता तुभ्यं भवाँस्तादृक् छरीरतः२३६ ।

शरीरमेतत्त्वं यच्छ ततो जीवौ२३७ भविष्यतः२३८ । । १२१ ।।

काष्ठकूट उवाच

ताभ्यां२३९ वै नास्त्यकर्तव्यं२४० कर्तव्यं चेन्मतं भवेत् (?)

शरीरं च विना दृष्टमुत्थानं वै ध्रुवस्य २४१ तु (?) ।। १ २२। ।

न चापि मे शरीरेण विना ताभ्यां२४२ रतिः प्रभो ।

तस्माद् गृहाण देवश शरीरं यदि मन्यसे ।।१ २३ ।।

तस्यैवेदं तहादेव अङ्गादङ्गः समुत्थितम् ।

तस्माद्यच्छस्व देवेश न मे कार्यमनेन हि ।। १ २४।।

सनत्कुमार उवाच

ततः स भगवान्देवः प्रहस्य२४३ ऋषिसत्तम२४४ ।

प्रीतात्मा प्रत्युवाचेदं युयुक्षुस्तं२४५ शुभेन हि ।।१ २५।।

देवदेव उवाच

परीक्षेयं कृता पुत्र तव धर्मवृतां वर२४६ ।

पितृभक्त्यानया सम्यक् तुष्टोस्मि शृणु मे वचः ।।१ २६।।

अक्षयश्चाव्ययश्चापि जरामृत्युविवर्जितः२४७ ।

ऐश्वर्येण च संयुक्तः प्रियो मे गणपो भवान्२४८ ।। १ २७। ।

काष्ठकूट इति ख्यातः सर्वयोगबलान्वितः ।

कामगेन विमानेन मत्कृतेन चरिष्यसि ।। १ २८। ।

 

२३२ न शक्यं ः घ.। २३३ मन्येन  ख घ. । २३४ देहो वै  .। २३५ कारणं क. .. । २३६ समीरितः - घ । २३ '७ जीवो - . । २३८ भविष्यति - घ । २३९ तुभ्यं - ., नान्यं - . । २४. नास्ति कर्तव्यं - घ । २४१ चाध्रुवस्य - . । २४२ विज्ञानाभ्यां - . । २४३ प्रहृष्ट - . । २४४ सत्तमे - . । २४५ मुमुक्षुस्तं - . । २४६ पुत्रवतां - . । २४७ अजरो मृत्युवर्जितः - . । २४८ भव - .

 

297

 

इमे च ऋषयः सर्व आश्रमेस्मिन् तपस्विनः ।

तवैवानुचरा भूत्वा भविष्यन्ति गणेश्वराः । । १ २९। ।

अक्षयाश्चाव्ययाश्चैव२४९ महायोगबलान्विताः२५० ।

ऐश्वर्येण च तुल्यास्ते भविष्यन्ति न संशयः । । 8.52.१३० । ।

अयञ्च ते पिता पुत्र भूमन्युः सह भार्यया ।

तवैवानुचरो२५१ भूत्वा त्वत्समः समुपस्थितः । ।१ ३१ । ।

श्वेतञ्च पर्वतं दिव्यं विमानैरुपशोभितम् ।

कामगं सं२५२ प्रयच्छामि निवासं स्वर्गसन्निभम् । । १३ २।।

सनत्कुमार उवाच

ततः स भगवान्देव अनुगृह्य तमूर्ज्जितम् ।

जगाम मन्दरं भूयः सोपीष्टं देशमाव्रजत् । । १३३ । ।

यावद् देवी तपोयुक्ता पितुः२५३ शिखरमास्थिता २५४ ।

तावद् देव२५५ इदं सर्वं चकार कथितं हि यत्२५६ ।।१ ३ ४।।

य इदं२५७ देवदेवस्य चेष्टितं शृणुयान्नरः ।

श्रावयीत द्विजान् वापि२५८ न स दुर्गतिमाप्नुयात्२५९ ।।१ ३५।।

नित्यमेतदधीयानः२६० शुचिः प्रयतमानसः ।

देहभेदं समासाद्य रुद्रलोकं स गच्छति ।। १३ ६। ।

थ इमं बहुपापनाशनं परमं रुद्रसमीपयोजनम् ।

पठते च गुणप्रसाधनं स मृतो याति न दीनसंभवम् । । १ ३७।।

इति स्कन्दपुराणे काष्ठकूटमहाभाग्यं नाम द्विपञ्चाशोध्यायः 

 

व्यास उवाच

देवी भगवती सा हि हिमवत्तनयाव्यया ।

कियन्तं कालमचरत्तपः परमदुश्चरम् । ।१ । ।

 

२४९ अक्षयश्चाव्ययश्चैव - . . । २५०.. न्वितः - क । २५१ तथैवानुचरो - . । २५२ तं - . । २५३ गिरे. - . । २५४... माश्रिता - . । २५५ तावदेव - . . . । २५६ च - . । २५७ इमं - . . . । २५८ पापा - . । २५९ न दुर्गतिमवाप्नुयात् - ., म सद्गतिमवाप्नुयात् - . । २६० मेतदधीयँश्च - .

 

298

कथं लब्धवती चापि वरं वरशतारणिः १ ।

एतदिच्छामि कथितं सर्व वै द्विजसत्तम२ । ।२। ।

सनत्कुमार उवाच

शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम् ।

प्रयता३ प्राञ्जलिर्भूत्वा समाधाय मनस्तथा ।।३ ।।

दिवाकरेभिसन्धाय४ चक्षुषी५ मन एव च ।

तस्थौ वृक्षावबद्धेव दार्वर्च्चानिमिषेक्षणा६ ।।४।।

सुवर्चलेन७ सादित्यमीक्षती पर्यवर्तत८ ।

एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह९ । ।५। ।

दिव्यं वर्षसहस्रं सा निश्चलोपलवत् स्थिता ।

व्याघ्रद्वितीया रुद्राणी तपोयुक्ता१० शुभव्रता । । ६।।

न चास्या ग्लानिरभवन्न बलक्षय एव वा ।

पूर्ववच्च हि११ सा देवी तपसो वावतिष्ठत१२ । ।७।।

तस्यास्तपःप्रभावेण सर्वं सस्थाणुजंगमम्१३ ।

अभावोपहतं१४ यद्वज्जगदार्त्तमतिष्ठत१५ । ।८।।

नातिदीप्तोभवत् सूर्यश्चन्द्रमा न प्रकाशते१६ ।

ज्योतींषि तिमिराण्यासन् व्योम्नि सिद्धा न यान्ति च ।।९।।

मम्लुश्च देवमाल्यानि विमानानि च पेतिरे१७ ।

स्वर्गेपि न सुखं तेषामौत्सुक्यं चापि जायते१८ ।।8.53.१ ० ।।

धूमायन्ति दिशः सर्वास्त्रैलोक्यञ्चैव कृत्स्नशः ।

विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च१९ । ।१ १ ।।

मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः२० ।

पन्नगा२१ नकुलाश्चैव एकस्थाः सञ्चरन्त्युत । ।१ २ ।।

 

१ त्वन्यदुरासदं - .,.. रणी - ख । २ च विप्रसत्तम - घ । ३ प्रयतः - . . । ४.. .तिसन्धाय - . । ५ चक्षुश्च - . . । ६ सा तदानिमिषेक्षणा - घ । ७ शनैः शनैः - . । ८ पर्यवर्तते - . । ९ च - . । १० तेन युक्ता - ख । ११... च्चापि  - . । १२ तपसैवावतिष्ठत - , तपसे चावतिष्ठत - . । १३ स्थावरगंगमम् - . । १४ अभवोपहतं - ख । १५ त्तं व्यतिष्ठत - . . । १६ कान्तिहीन- श्च चन्द्रमाः - . । १७ निपेतिरे - , निपेदिरे - . । १८ चोपजायते - . । १९ न ज्वलन्त्यायुधानि च - . । २०... पक्षिणः - . । २१ पक्षिणंः - . .

 

299

ततो देवाः समागत्य ऊचुः सर्वे परस्परम् ।

विपर्ययोयं नाकस्मात्२२ त्रैलोक्यस्यास्य दृश्यते२३ ।।१ ३ ।।

कारणं महदत्रास्ति नेदं निष्कारणं भवेत् ।

तस्माद्वयमजानन्त एतं२४ सर्व२५ विपर्ययम्२६ ।।१४।।

किन्तिष्ठामः समुद्विग्ना गच्छाम२७ ब्रह्मणोन्तिकम् ।

इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः ।।१५।।

वैराजभवनं गत्वा ब्रह्माणं२८ संप्रणेमिरे२९ ।

पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः ।।१६।।

पृष्टास्तेनागमे हेतुमूचु३० र्हृच्छोकपीडिताः ।

भगवन् लोकतत्त्वं च३१ सर्वं प्रत्यक्षवद्३२ विभोः३३ ।।१७।।

लोकोयं विपरीतोद्य किमर्थं शंस नः प्रभो३४ ।

तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित् ।।१८।।

उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः ।

एषा हैमवती देवी रुद्राणी लोकधारणी३५ ।

तपश्चरति युक्तात्मा योगमास्थाय निश्चलम् ।।१९।।

अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना ।

वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम् ।।8.53.२०।।

तपश्चरन्त्या३६ योगेन तस्यैषा३७ तपसः सुराः ।

प्रभावो येन लोकानां विपरीतत्वमागतम् ।।२१। ।

देवा ऊचुः

यदि तस्याः प्रभावेण महोत्पातभयं त्विदम् ।

अतो भूयो दहेल्लोकाँस्तस्मात्तां सन्निवारय ।।२२।।

 

२२ त्रैलोक्ये - ., चास्य - घ । २३ अकस्मात्संप्रदृश्यते - . । २४ एतान, - ., एतत् - . । २५ सर्वं - ,, सर्वे - . । २६ विपर्ययान् - ख । २७ गच्छामो - . . । २८ वैराजं - . । २९ संप्रपेदिरे - ., .. - . । ३० हेतुं तमूचुः - . । ३१ लोकतत्वज्ञ - . । ३२ सर्व दृगक्षवद् - . । ३३ विभो - . . । ३४ किंच तत्कारणं ब्रूहि येन सर्वे विमोहिताः - . । ३५ लोकधारिणी - . । ३६ तपश्चरत्या - . . । ३७ तस्यैव - .

 

300

सा हि देवी तपोयुक्ता अतो भूयो विभावरी ।

लोकानिमान् सहास्माभिर्दहेदपि न संशयः । ।२३ ।।

तस्माललोकहितार्थाय अस्माकं वचनादपि ।

तथा कुरु यथा साध्वी३८ विनिवर्त्तेत३९ शोभना । ।२४।।

पितामह उवाच४०

एवं भवतु गच्छध्वं निर्वृता४१ भवता४२ नघाः ।

वरप्रदानेनेष्टेन४३ रुद्राणीं४४ स्थापयाम्यहम् ।।२५। ।

गतेष्वथ तु४५ देवेषु ब्रह्मा लोकपितामहः ।

विमानं काञ्चनं शुभ्रं४६ वेदिकाशतसंकुलम् ।।२६। ।

किङ्किणीजालसन्नद्धं मुक्तादामावभासितम् ।

इन्द्रनीलमयैः स्तम्भै४७ र्जालैर्जाम्बूनदैस्तथा४८ ।।२७।।

घंटाभिर्विश्वरूपाभिः४९ समन्तात् परिवारितम्५० ।

वज्रेन्द्रनील५१ वैदूर्यमहानीलादिभासितम् । । २८।।

स्तूपिकाभिश्च योग्याभिः स्फाटिकाङ्काभिरावृतम्५२।

सर्वलोहमयं५३ तद् वै स्वयं देवेन निर्मितम् ।।२९ । ।

पञ्च भूतमयं५४ तद्धि प्रकृतिस्थमथापि च ।

शब्दाभिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत् । ।8.53.३ ० । ।

मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम् ।

विंशति५५ र्वेदिकाश्चात्र विमानं५६ तन्महाप्रभम् । । ३१ । ।

शतार्द्धलक्षणै५७ र्दिव्यैर्मणिमूभि५८ स्तथाचितम् ।

आसनैर्बहुभिर्युक्तं लोकस्थानैः५९  समन्ततः६० । । ३२ । ।

 

३८ हि - . । ३९ विनिवर्त्तंति - . ख घ. । ४० ब्रह्मा उ - ख । ४१ निवृत्ता - क ख, निर्वृत्ता - क । ४२... था - क । ३ वरदानेन हस्तेन - . । ४८ रुद्राणां - . । ५८५ गतेषु तेषु - घ । ४६ शुभं - घ । ४७र्जालैः - . । ४८ जम्बुनदमयैस्तथा - . । ४९ वेश्मरूपाभिः - ., र्दिव्य... - . । ५. परिनादितम् - ख । ५१ वज्रनीलेन्द्र - . ख घ । ५२ स्फटिकाङ्काभिरावृतम् - . । ५३ सर्वलोकमयं - . . । ५४ पञ्चचूडमयं - . । ५५ विशन्ति - . । ५६ किंमानं - ., विहायं - . । ५७ शातकुम्भमयै - घ । ५८ भूतै क., ख । ५९ स्थाने  क । ६० सुसंमितम् - ,

 

301

आरुरोह विमानं तद् ब्रह्मा स्वमुनिभि६१ स्सह ।

वेदैः६२ सह६३ तथा मन्त्रैः शास्त्रैः६४ सर्वै६५ स्तथैव च । ।३ ३ ।।

मध्ये तस्यासनं दिव्यं६६ स्वर्णपद्मोपगं६७ दृढम्६८ ।

सुखोपविष्टस्तत्रासौ६९ ब्रह्मा लोकपितामहः । । ३४। ।

 तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा ।

ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च७० पश्चिमे ।।३ ५। ।

उत्तरे सामवेदस्तु अग्रतोथर्वणस्तथा ।

प्रायश्चित्तानि धर्माश्च नियमाश्च तपांसि च७१ । ।३ ६। ।

दानानि च विचित्राणि क्रतवः सेष्टयस्तथा७२ ।

सप्तव्याहृतयः७३ पुण्यास्तथा लोकाश्च सर्वशः । । ३७। ।

पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः ।

लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च ।।३८ । ।

भृगुरत्रिर्वसिष्ठश्च७४ पुलस्त्यः पुलहः क्रतुः ।

मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः ।।३ ९।।

ऋभुः सनातनश्चैव विराजश्च महातपाः ।

पितरश्चैव देवाश्च ब्रह्मणो याः७५ प्रसूतयः । ।8.53.४० ।।

पृथिवी वायुराकाशमापो ज्योतिस्तथैव च७६ ।

एते चैव यथोद्दिष्टाः सागरा दिश एव च ।।४१ । ।

विद्याश्च धर्मकाराश्च अग्रतस्तेवतस्थिरे ।

ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा । ।४२ ।।

कमण्डलुश्च तस्यासीत् पार्श्वयोरुभयोरपि ।

यज्ञोपवीतं श्रीमच्च ओङ्कारश्च तथाग्रतः । ।४३ ।।

 

६१ स मुनिभिः - . . . । ६२ देवैः - . । ६३... रिह- , महाभागैः र - . । ६४ चापि - . । ६५ सर्वैः शास्त्रै - . । ६६ हैम - . । ६७ पमं - .   रि - . । ६८ प्रभुः - . । ६९उपोपविष्टस्तत्रासौ - . . । ७०... दोस्य (दस्य) - ख । ७१ तपांसि विविधानि च - . . । ७२ सह इष्टिभिः - ., तपस - ., । ७३ सर्वव्याहृतयः - , तथा व्याहृतयः - . . । ७४ भृगुर्वसिष्ठ अत्रिश्च  . । ७५ ये - ., ब्रह्मणोपि - ., ये च सृष्टयः - . । ७६.. श्च पञ्चमः - .

 

302

अक्षसूत्रं७७ च योगश्च७८ जप्यं७९ चैवाग्रतः स्थिताः८० ।

स्वाहा स्वधा वषट् वौष८१ डग्निश्चैतानि पार्श्वतः८२ ।।४४। ।

यमाश्च नियमाश्चैव साधनानि८३ बहूनि च ।

धर्मस्यैतानि८४ सर्वाणि८५ पार्श्वस्थान्यभवँस्ततः८६ । ।४५। ।

दया कृपाथ८७ दानञ्च श्रद्धा चैव ह्रिया८८ सह ।

ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वगा८९ । ।४६। ।

ततो देवाश्च ये केचिद् ब्रह्मलोकनिवासिनः ।

सर्वे समधिरुह्याशु समन्तादवतस्थिरे । ।४७ ।।

एवं तेषु विमानं तत्९० समारूढेषु सर्वशः ।

सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत् । ।४८। ।

तच्चोदितं योगविदग्रगामिना९१ महाविमानोत्तमसर्वगामिना९२ ।

ययौ प्रभावेण मनोनुगामिना यथा मनः सर्वसृजेव९३ हेतुना ।।४९। ।

इति स्कन्दपुराणे देवीवरप्रदाने ब्रह्मणः प्रयाणं नाम त्रिपञ्चाशत्तमोध्यायः.

 

सनत्कुमार उवाच

ततस्तेन विमानेन सर्वसृक् चतुराननः१ ।

जगाम मन्दरं२ धीमान् विचित्रोपलकन्दरम्३ ।। १ ।।

स तमासाद्य विस्तीर्णमनौपम्यमतिप्रभम् ।

दूराद् दृष्टिसुखं४ दृष्टवा सभास्था५निदमब्रवीत् । ।२।।

इदं रुद्रगृहं शुभ्र६मदृश्यं७ सुकृतामपि८ ।

देवानामपि पश्यध्वं भास्कराकारवर्चसम् । ।३ ।।

 

७७ ब्रह्मसूत्रं - . । ७८ योगञ्च - . . । ७९ जाप्यं - . । ८० स्थितं - घ । ८१ वषट् चैव - ., कारः - . । ८२ श्चैकपार्श्वतः - . । ८३ सध () नानि - . । ८४ धर्माण्येतानि - . । ८५ मार्गाणि - . । ८६... नि समंततः - ,... नाभवँस्ततः - क ख., तथा - . । ८७ क्षमा दीक्षा थ - . । ८८ क्रिया - . । ८९ पार्श्वं त. - घ । ९० तं - क ख. घ । ९१ योगविदा समाधिना - क । ९२ महाविमानं वृषसर्वगामिना - . । ९३ सर्वसृजेन - . .

.. .सूक्ष्मचतुर्मुखः - . । २... मक्षरं - . । ३ शोभितोत्पलकन्दरम् - . । ४ मुख - . । ५ सद्यस्ता - . । ६ शुभ - . । ७ सदृष्यं - . । ८ न कृतात्मभिः - .

 

303

इदं प्रविश्य देवानां९ यज्ञश्री१० 'र्नापसर्पति ।

जयश्च नित्यं युद्धेषु धर्मश्च सुमहानपि । ।४। ।

एतत् सृष्टं स्वयं तेन११ मनसानुपमद्युति ।

न ह्यस्य सदृशं किञ्चिदण्डेस्मिन् विद्यते गृहम् । ।५।।

इदं प्रविश्य धर्मात्मा भूयो१२ दुःखं१३ न विन्दति१४ ।

न चापि जन्म प्राप्नोति१५ नित्यमैश्वर्यगो हि सः । ।६। ।

अनिर्देश्यमिदं योगाद् योगिनामपि नित्यशः ।

अन्यस्तु कुत एवेदं वर्णयीत महानपि ।।७। ।

एतदस्मद्विमानस्य वायुनाभ्याहतं रुषा ।

वर्धते गिरिणा सार्धं विन्ध्यस्य शिखरं यथा । ।८।।

एतदस्मद्विमानस्य मार्गमावृत्यधिष्ठितम् ।

ऊर्ध्वं तिर्यगधस्ताच्च देवदेवस्य तेजसा ।। ९।।

एतदन्धं१६ तमः कृत्वा मेधोसौ जीवनः स्वयम् (?)

वज्रोद्यतकरः स्रग्वी प्रत्युद्यात्यभिनादयन् । । 8.54.१० । ।

सनत्कुमार उवाच

ततः स भगवान्देवो ब्रह्मा लोकपितामहः ।

विष्टभ्य तत्१७ विमानाग्य्रमवतस्थे कृताञ्जलिः । । ११ ।।

तुष्टाव च१८ तदा देवं शर्वमुग्रं कपर्दिनम् ।

ते चैव ऋषयः सर्वे विमानस्था सुसंयताः । ।१ २ । ।

प्रकाशं चक्रिरे सर्वं जगत् स्थावरजंगमम् ।

ततस्स मेघः स्वं स्थानमगमद् वृष्टिसर्जनः । ।१ ३ ।।

दिशश्च विमलाः सर्वाः प्रकाशश्चाभवद् भृशम् ।

तं जपन्तं विदित्वा च भगवान् गोवृषध्वजः१९ ।। १४। ।

 

९ प्रविश्य तां देव - ., देवाश्च - . । १० यद्भीतो - ,... -र्नो - . । ११ दुरारोहं - . । १२ दुःखं - . । १३ भूयो - ., विन्देन्न - क । १४ न विद्या - ., दुःभाक् - . । १५ जायते भूयो - . । १६ एतदन्तं - . । १७ तं - . . । १८ स - ., तदेवं हि - . । १९ स वृषध्वजः - .

 

304

नन्दिनं द्वारदेशस्थमिदमाह सुरेश्वरः२० ।

एष ब्रह्मा विमानेन मामिह द्रष्टुमागतः । । १ ५। ।

ब्रूहि येनागतोसीह कार्येण विदितोसि मे ।

कुरु तद् गच्छ शीघ्रं तु२१ कालस्तस्यायमागतः । । १ ६। ।

सनत्कुमार उवाच

स एवमुक्तो रुद्रेण नन्दी प्रमथनायकः२२ ।

द्वाःस्थ२३ एव२४ विमानस्थं ब्रह्माणमिदमब्रवीत्२५ ।।१७। ।

नन्द्युवाच

यूयं ज्ञाता भगवता येन कार्येण चागताः ।

कुरुध्वं किल२६ तच्छीघ्रं कालोयं२७ तस्य वर्तते । ।१८। ।

सनत्कुमार उवाच

ततः स कृत्वा मनसा नमस्कारं हि शम्भवे ।

प्रदक्षिणमुपावृत्य२८ मन्दरं प्रजगाम ह । ।१ ९। ।

स मन्दरगिरिं सर्वं परिहृत्य महामनाः ।

शाकद्वीपस्य मध्येन जम्बूद्वीपमुपागमत्२९ ।।8.54.२ ० । ।

स दृश्यमानो देवैश्च३० मुनिभिश्च यतव्रतैः ।

हिमवन्तं गिरिश्रेष्ठमुपागम्येदमब्रवीत्३१ । । ३१ ।।

एतद्धिमवतः शृङ्गमुच्छ्रितं कान्तिमत् स्थितम् ।

युगान्तादित्यसंकाशं दूरात् समभिलक्ष्यते ।।२२ । ।

अत्र३२ सा जगतो३३ धात्री धात्री३४ पुत्रमिवौरसम् ।

पालयन्ती जगत् सर्वं तपस्तप्यति३५ शैलजा । ।२३ । ।

अहो नु३६ शिखरं पुण्यं भाग्यवच्चापि सर्वथा ।

यदेनं३७ गिरिपुत्र्यर्थे३८ वरैर्योक्ष्यति कामहा । ।२४।।

 

२० महेश्वरः - . । २१ त्वं - . । २२ प्रथमनायकः - . । २३ स्वयं - . । २४... मेव - . . . । २५... स्थमिदं ब्रह्माणमब्रवीत् - . . । २६ किं न - . । २७ किल तच्छीघ्रकालोयं तपसः - . । २८ मुपासृत्य - . । १९ मयागमत् - क । ३० देवेण - . । ३१ मुपगम्येदमब्रवीत् - ख । ३२ यत्र - . । ३३ जगतां - . । ३४ कालं - . । ३५ स्तप्स्यति - . । ३६ महांतं - . । ३७ यदेतद् (?) । ३८ गिरिपुत्र्यर्थं - .

 

305

पश्यध्वं तपसो वीर्यं देव्याः सुचरितस्य वै ।

यदेतच्छिखरं दृष्टवा न पश्याम३९ पुनर्भवम्४० । ।२५।।

स एवं कथयन्नेव विमानेन४१ चतुर्मुखः ।

ऋषिभिः सहितः सर्वैः शिखरद्वारमागतः । । २६ । ।

तत्रैनं४२ रुद्रसचिवा उद्यतायुधपाणयः४३ ।

भर्त्सयन्तोभ्यवर्तन्त तिष्ठतिष्ठेतिवादिनः । । २७। ।

तान् ब्रह्मा श्लक्ष्णाया वाचा सान्त्वपूर्वमुवाच ह ।

प्रशंसमानस्तान्सर्वान्४४ प्राञ्जलिर्मुक्तमानसः ।।२८। ।

ब्रह्मोवाच

यूयं सर्वे महात्मनान ऐश्वर्येण समन्विताः ।

अक्षया४५ ह्यमराश्चैव तथाप्रतिहताश्च ह । । २ ९। ।

महायोगबलोपेता अजय्या युधि केनचित्। ।

को युष्मानतिवर्तेत४६ शक्रोपि४७ प्रवरेश्वराः४८ ।। 8.54.३० ।।

देवदेवाज्ञया योहमागतो४९ मन्दरादिह ।

देव्या वरप्रदानार्थमनुज्ञा क्रियतां मम५० । । ३१ । ।

गणेश्वरा ऊचुः५१

देव्या दाता स्वयं देवो वरानिष्टान् महामनाः ।

वरं हि५२ देवी त्वन्यस्मान्५३ मनसापि५४ न चिन्तयेत् ।।३ २।।

शक्तो देवोनुग्रहीतुं जगत्सर्वं महेश्वरः५५ ।

त्वामप्येषोनुगृहणाति किमु देवीं५६ जगत्पतिः५७ ।। ३३ । ।

पितामह५८ उवाच

अशक्तो न महादेवो वरं दातुं महामनाः ।

य एवं चिन्तयेद् देवं न भवेत् स कथञ्चन ।।३४।।

 

३९ पश्यामः  - . । ४० पार्वती पुनः - .,... र्भयं - .,.. र्वयं - . । ४१ विमानेव (वै) - . । ४२ तत्र ते - . । ४३ आयुधोद्यतपाणयः - क ख. ., उक्षतायुध... (?) । ४४ प्रवेपमानस्तान् सर्वान् - . । ४५ अक्षरा - ख । ४६. .नभिवर्तेत - ख । ४७ शक्तोपि - (?) । ४८. श्वरः - . । ४९ सोहमायातो - - । ५० तामिति - ख । ५१ गणेश उवाच - ., गणेश्वर उवाच - . । ५२ न चैव - . घ । ५३ युष्मत्तो - , त्वद्विधान् - . । ५८ तु - , हि - . । ५५ सर्वमशेषतः - . । ५६ किमुतांवै - ., किन्न - . । ५३ जगस्थितिम् - क । ५८ ब्रह्मो - ख ।

 

306

न देवी भगवत्पार्श्वादिच्छते किल पार्वती५९ ।

वरानिष्टाँस्ततो देवो मामिह प्रैषयच्छिवः६० । ।३ ५ ।।

सनत्कुमार उवाच

अथ ते६१ युक्तमनसो६२ युक्तं प्रत्यक्षमीश्वराः ।

महेश्वरमपश्यन्त कृतानुज्ञं च६४ लोकपम्६५ ।।३ ६। ।

नियुक्ताश्च६६ पुनः६७ सर्वे ब्रह्माणं लोककारणम् ।

ऊचुर्गणेश्वराँस्तत्र६८  विदितार्था६९ महामुने७० । ।३७। ।

प्रेषितो देवदेवेन ज्ञातोस्माभिः पितामह ।

त्वं विशस्वाधुना देव पार्वत्या वरदित्सया७१ ।।३८। ।

अवतीर्य विमानात्तु ततः शीघ्रं पितामहः ।

निलिल्ये७२ शिखरे तस्मिन्नानाधातुविचित्रिते । ।३ ९। ।

अथ सोपलधातुनिर्झरो७३ गिरिराजोतिमहाशिलोच्चयः७४ ।

विनिसृष्टदिवाकरामलो७५ दिदिवे७६ दिव्य इवोदयाचलः७७ । ।8.54.४० ।।  .

इति स्कन्दपुराणे देव्या वरप्रदाने बह्मागमनं नाम चतुष्पञ्चाशत्तमोध्यायः 

 

सनत्कुमार उवाच

अथ तं सहसायातमपश्यत्साचलात्मजा ।

ऋषिभिस्तैर्महाभागैस्समन्तात्परिवारितम् । ।१ । ।

रश्मिभिस्तेजसां योनिं मध्याह्न इव भास्करम् ।

सा तमर्घेण१ पाद्येन मधुपर्केण चैव हि२ ।

पूजयामास रुद्राणी चतुर्वक्त्रमुपागतम् ।।२।।

 

५९ न देवीं भगवान् दद्यान्नेच्छते किं न पार्वती । - . । ६० प्रेशयच्छिवः - . . । ६१ तं - . . । ६२ युक्तमनसा - . । ६३ युक्ता - . । ६४ कृतानुज्ञाश्च - . . । ६५ लोकपः - . । ६६ बुद्ध्वा कार्यं - . । ६७ ततः - . । ६८.. स्सर्वे - . ख घ. । ६९ विदितात्मा - . । ७० महात्मनि - . । ७१... लिप्सया - . । ७२ निलिख्य क. । ७३ सोत्पलधातुनिर्झरो - . । ७४ शिलोच्चये - . । ७५... लः - .,.. .लं - .,... लः - . । ७६ स गिरिं - ., स गिरिर्दिव्य - . . । ७७ इवोदयाकरः - . . .

... मर्घ्येण - क । २ ह - .

 

307

ब्रह्मोवाच

लोकस्य जननी भूत्वा धारयित्वा जगत्तथा ।

किमिदं तपसा भूयो लोकं दग्धुमिहेच्छसि । । ३ । ।

मा सृष्ट्वा जगदेतत्त्वं तपस्यन्ती विनाशय ।

बुद्ध्वैवं३ धारयस्वेमं लोकं देवि नमस्तव । ।४।।

त्वत्तो रुद्रेण लोकोयमहञ्चैव पुरानघे ।

सृष्टाः स्मो४ वरदे देवि मा नः कृत्वा विनाशय ।।५। ।

तपसा तव५ रुद्राणि जगत् स्थावरजङ्गमम् ।

तप्यते ग्रीष्ममध्याह्ने जलात्६ पद्ममिवोद्धृतम् । ।६ ।।

किं वा ते हृदये देवि यद्यपि७ स्यात् सुदुष्करम् ।

वरं वृणीहि सर्वाणि दातास्मि हिमवत्सुते । ।७। ।

देव्युवाच

वरदोसि यदीशान मम देव चतुर्मुख ।

अयं भक्तोनुरक्तश्च मम नित्यं प्रियः प्रभो । ।८।।

व्याघ्रोस्य८ तावद्यच्छस्व ततो दास्यसि मे वरम् ।

अद्य वर्षसहस्रं वै स्थितस्यास्य ममाग्रतः । । ९। ।

ध्यायतो निमिषस्यैव स्तब्धकर्णस्य लोकप ।

अस्मै धत्स्व वरं देव नास्मि तावद्वरार्थिनी । ।8.55.१ ० ।।

पितामह९ उवाच

एष तिर्यग् दुरात्मा च त्वां भक्षयितुमागतः ।

नास्य शुद्धं मनो देवि क्रूरोयं पापचेतनः१० ।

पश्यैनं दुष्टमनसं११ नास्य श्रेयो मनस्त्वयि१२ ।। ११ ।।

 

... मं - .,. - . । ४ स्म - . . . । ५ .. तीव - . । ६ दिनात् - . । ७ यदपि? । ८ व्याघ्रस्य - . . । ९ ब्रह्म - , देव - . । १० पापचेतसः - . । ११ दुष्टचेतासौ - . । १२ मनस्विनि - .

 

308

सनत्कुमार उवाच

अथ सा तद्वचः श्रुत्वा रुद्राणी लोकभावनी१३ ।

दिव्येन चक्षुषापश्यदज्ञानात् कृतसाहसम् ।।१२।।

अनन्यभक्तः१४ पूर्वञ्च१५ जातिदोषेण दूषितः१६ ।

विदितार्था ततो भूत्वा उवाच हिमवत्सुता । ।१३।।

भगवन् को१७ हि लोकेषु१८ तिर्यक्त्वे सति निश्चलः१९ ।

स्तब्धकर्णेक्षणो दिव्यमहोप्येकमभोजनः ।।१४।।

अवतिष्ठेत किं योयं सहस्रमवतिष्ठत ।

वर्षाणां सुमहातेजा नायं तिर्यक्षु संस्कृतः२० ।।१ ५।।

भवत्वयं दुष्टचेतास्त्वदुष्टो२१ वा महाबलः२२ ।

ममानुग्राह्य इत्येव२३ वरो ह्यस्य२४ प्रदीयताम् ।।१६।।

सनत्कुमार उवाच

ततः स भगवान् देवश्चतुर्वक्त्रः पितामहः ।

उवाच वचनं देवीमृषीणां शृण्वतां तदा ।।१७।।

आर्याणां दस्यवोपीह२५ संसर्गात् सिद्धिमाप्नुयुः ।

यथायं क्रूरकर्मापि२६ सिद्धिं प्राप्स्यत्यनुत्तमाम्२७ ।।१८।।

तस्मादार्याः सदा सेव्या नित्यं पापकृतापि२८ हि ।

सिद्धिमेति नरः क्षिप्रमपापानां समीपगः२९ । ।१ ९।।

अनुग्राह्यस्तवानिन्द्ये पापोयं दुष्टचेतनः ।

अतोस्मै३० ब्रूहि देवेशे वरो यस्तव रोचते ।।8.55.२० ।।

देव्युवाच

अमरो जरया त्यक्त अक्षयश्चाव्ययस्तथा ।

महायोगबलोपेतो महदैश्वर्यसंयुतः३१ ।

गणेश्वरो ममेष्टश्च भवत्वेष यदीच्छसि ।।२१।।

 

१३ भाविनी - . । १४ अत्यन्तभक्त - . । । ९ पूर्वम्मे - ख । १६ दूषित - . । १७ भगभक्षो - क । १८ लोकोयं - . । १९ निश्चलं - क । २० संवृतः (संभृतः) - ., स्वयं गतः - . । २१ अ दुष्टो - . . । २२ महामनाः - . । २३ इत्येवं - . । २४ ह्यस्मै - ., ह्येष - घ । २५ दर्प (र्श) नादेव - . । २६ हि कुकर्मापि - , कुरुतेकर्म - . । २७ यास्यत्यनु्त्तमाम् - . घ । २८ पापकृतोपि - . . । २९ समीपत - . । ३० अतो मे - . । ३१ महदाश्चर्यमयुतः? - .

 

309

पितामह३२ उवाच

एवं भवतु भद्रं ते सर्वमेतद् भविष्यति ।

जानासि ब्रह्मबन्धूनां ब्रह्मदत्तस्य मंत्रिणम् । ।२२ । ।

त्वयि भक्तिः३३ पुराप्यस्य शापाद् व्याघ्रगतिं गतः ।

पञ्चालस्य च यक्षोयं प्रतीहारोभवत् पुरा । । २३ ।।

त्वया मया यदद्यास्य कृतेयं नन्दिरीदृशी ।

तस्माद् गमिष्यति ख्यातिं सोमनन्दीति नामतः । ।२४। ।

यश्चैनं३४ कीर्तयेद् दुर्गे कान्तारेषु भयेषु३५ च ।

शार्दूलसिंहद्वीपिभ्यो न भयं तस्य जानते । । २५। ।

वद३६ त्वमपि चेशानि३७ यस्ते प्रियमनोरथः ।

यावद्३८ ददामि३९ सर्वन्ते४० नियोगात् पारमेश्वरात्४१ । ।२६।।

देव्युवाच

इच्छामि भगवन् दिव्यं वर्णं कनकसप्रभम् ।

गौरीति४२ लोके ख्याता च भवेयं कमलोद्भव । ।२७। ।

पितामह४३ उवाच

एवमस्तु जगन्मातर्यदिच्छसि तपोधने४४ ।

अन्यं वरय भद्रन्ते४५ वरं४६ देवि ददामि४७ ते । ।२८। ।

महद्धीदं तपस्तप्तं भवत्या लोकभावनम् ।

नानुरूपो वरस्तस्य तस्मादन्योपि मृग्यताम् ।।२९। ।

देव्युवाच

इच्छामि भगवन्पुत्रं सर्वधर्मभृतां४८ वरम् ।

महाबलं महोत्साहं४९ सर्वलोकनमस्कृतम् । ।8.55.३ ० । ।

 

३२ ब्रह्मो - . । ३३ भक्तिं - घ । ३४ यश्चैवं - ख । ३५ वनेषु - . । ३६ वरं - . । ३७ याचस्व - . । ३८ तावद् - . । ३९ ददानि - क घ. । ४० देवेशि - . । ४१ परमेश्वरात् - . । ४२ सौरीति - . । ४३ ब्रह्मो - . । ४४ महामते - , महाधने - . । ४५ वरं प्रयच्छामि - ख । ४६ ब्रूहि - ख । ४७ यत्प्र ददानि - क ख । ४८ लोकधर्मभृतां -    ४९ महात्मानं - .

 

310

पितामह उवाच

पुत्रस्ते भविता देवि महायोगबलान्वितः ।

अजेय५० स्सर्वभूतानामष्टैश्वर्यगुणान्वितः५१ । ।३ १ ।।

जेता हन्ता तथा देष्टा५२ अजरोवध्य एव च ।

अनादेश्यश्च५३ सततं सर्वेषां प्राणिनां वरः ।। ३ २। ।

सदा बालोथ सुभगो धर्मज्ञो धर्मवत्सलः ।

देवब्राह्मणगोप्ता च विद्वान् सर्वज्ञ एव च । । ३३ ।।

षण्मुखो द्वादशभुजः शक्तिपाणिस्तथैव च ।

ब्रह्मण्यश्च शारण्यश्च५४ देवद्विट्संघहा तथा ।। ३४। ।

अयोनिजो महातेजा५५ लोकानां सुखकृच्च हि५६ ।

शनैरेतदुवाचासौ ततश्च विरराम ह । ।३ ५। ।

सनत्कुमार उवाच

वरान् स५७ दत्त्वा देवेशः कृत्वा चापि५८ प्रदक्षिणाम्५९ ।

विमानं तं समारुह्य स्वं लोकमगमत्तदा६० ।३ ६।।

रुद्राण्यपि गते तस्मिन् सोमनन्दिपुरःसरा ।

स्थिताकाशं समास्थाय रोहिणीव बुधानुगा । ।३७ । ।

मन्त्रानुगेव गायत्री जयन्तेन शची यथा ।

तथा सा भाति रुद्राणी सोमनन्दिपुरःसरा । । ३८ । ।

य इमं पठते सदा विपश्चित् पुरुषः प्रातरतन्द्रितो हि कश्चित्६१ ।

कुरुते न भयं हि सोमनन्दिर्वरदस्तस्य हरश्च सोमनन्दी६२ ।। ३९ ।।

इति स्कन्दपुराणे सोमनन्दिदेव्योर्वरप्रदानं नाम पंचपंचाशत्तमोध्यायः

 

५० अजय्यः - ख । ५१ समन्वितः - . । ५२ तथा चेष्टा - . । ५३ अनावेश्यश्च - . । ५४ सदा देवि - . । ५५ महातेजो - क ख । ५६ त्सदा - (?) । ५७ दत्त्वा च - . । ५८ चाभि... - . . । ५९ प्रदक्षिणं - क ख. . । ६० स्वर्लोकमगमत्तदा - . । ६१ कर्हिचित् - . । ६२ सोमनन्दिरिति - .

 

311

व्यास उवाच

भगवन् यत्त्वयाख्यातं पूर्वं नरकवर्णने१ ।

दुष्कृतं कर्म कृत्वा तु नरा नरकगामिनः२ । ।१ ।।

भवन्ति३ सुकृताः सर्वे४ स्वर्गसौख्यसमायुताः५ ।

ब्राह्मणा दुष्कृतं कृत्वा गत्वा दुर्गतिमापदम् ।।२। ।

कथं भूयः समायन्ति स्वर्ग७सौख्यफलं महत् ।

योनीर्वा कथमागम्य बह्वीः संकरजातिषु ।

भूयः सुकृतिनो भूत्वा प्राप्नुवन्ति शुभां गतिम् ।।३ । ।

सनत्कुमार उवाच

शृणु व्यास पुरावृत्तं८ दशार्णेषु तु यच्छ्रुतम्९ ।

सप्तानां१० द्विजशिप्याणामशुभं शुभमेव च । ।४। ।

आसीत् सुपर्वा विख्यातः कौशिको ब्राह्मणः शुचिः ।

धार्मिकश्च वदान्यश्च विद्वान् विप्रैः सपूजितः । ।५ । ।

तस्य शिष्या बभूवुर्हि सप्त दुर्मेधसश्च ते११ ।

गुरुशुश्रूषणेसक्ता१२ नामतस्तान्निबोध मे ।।६। ।

आत्रेयः कण्डरो१३ नाम उपमन्युश्च दामनः१४ ।

शाण्डिल्यश्चैव हालोभूद् गार्ग्यश्च१५ विदलस्तथा । ।७।।

शैशिरो गौतमश्चैव दण्डकीलश्च काश्यपः ।

विदर्भश्चैव हारीत इतीमे सप्त विश्रुताः । ।८ ।।

उपाध्यायोथ तान्विप्रान् प्रोवाचेदं महातपाः ।

अचिराद् गामितो गत्वा याज्यदत्तां सुरूपिणीम् । ।९।।

गत्वानयत होमार्थे१६ शीघ्रं माहिष्मतीं पुरीम् ।

त एवमुक्तास्तेनैव माहिष्मत्यास्त्वतन्द्रिताः । । 8.56.१० ।।

 

१ नरकवर्णनं - . । २ - - निर्भयाः - . । ३ तरन्ति - . । ४ स्वर्गे - . ख । ५ सर्वसौख्यसमायुताः - . . । ६ ब्राह्मणं - . । ७ स्वर्गे - . । ८ यथावृत्तं - . । ९ यच्छुभं - . ., द्विजन्मनां - . । १० मर्त्यानां - . । ११ स्तु - ., स्तथा - . । १२ भक्ता - ., रक्ता - ., शुश्रूषणरताः - . । १३ कुंडुरो - घ । १४ नामतः - . . . । १५ ... द्दर्भश्च - . । १६ होमार्थं  - .

 

312

गामादाय निवर्तन्तो१७ मृत्तिकावतिमन्तशः१८ ।

अनावृष्ट्या ततस्तेतु दुर्भिक्षे परिवर्तति१९ ।। ११ । ।

क्षुधापरिगताः सर्वे किंभक्षाः संबभूविरे ।

सप्तमेहनि२० संजाते२१ निराहाराः सुदुःखिताः ।। १२ ।।

अमन्त्रयन्त२२ गामेतां भक्षयाम किमास्यते ।

तेषां यः कण्डरो२३ नाम आत्रेयकुलसंभवः ।। १३ ।।

स तानुवाच मा धेनुं भक्षयाम गुरोरिमाम् ।

गुरोरर्थे हि नः श्लाघ्या२४ मृत्युरप्यविचक्षणाः । ।१४।।

मा गुरोः क्रोधनिर्दग्धा यास्याम निधनं वयम् ।

ते यदा तद्वचो नैव जगृहुः क्षुत्प्रपीडिताः ।। १५। ।

स तदोवाच भूयस्तानिदं वचनमर्थवत् ।

यदि वोवधृतं२५ विप्रा भक्षणेस्यास्तपोधनाः ।। १ ६।।

मा वृथा भक्षयामैनां पित्रर्थे२६ प्रोक्षयामहे ।

मा नो दोषद्वयेनेह लोपो२७ भवतु शोभनाः ।। १७।।

एवं ह्यल्पेन दोषेण२८  वयं योक्ष्येम२९ सर्वथा ।

त एवमुक्ताः सम्यक्तु वचस्तस्यावधार्य च३० । ।१८। ।

प्रोक्षयामासुरव्यग्रा पित्रर्थे तां३१ पयस्विनीम् ।

ततः संस्कृत्य विधिवद् निवेद्य च महामुने३३ । ।१ ९।।

हुताग्नयस्ततो भूत्वा प्रत्येकमुपभुज्य३४ च ।

वत्समेकं गले बद्ध्वा आनिन्युर्गुरवे३५ तदा । ।8.56.२ ० । ।

अथ दृष्टवा स३६ तं वत्सं धेनुं पप्रच्छ३७ तान्द्विजः ।

त ऊचुः पथि शार्दूलोवधीत्तामिति निर्घृणाः३८ ।।२१ ।।

 

१७ वर्तन्ते - . । १८ मृत्युकालवशं गता - - .,. तरः - - . । १९ परिवर्तत - . । २० मासि - . । २१ जाते च - ., एते च - . । २२ आमन्त्रयन्त - . घ । २३ काण्डरो - . । २४ श्लाघ्यो - . । २५ वोवभृतं - ,, वा निश्चितं - घ । २६ पित्र्यर्थे - , पित्र्यर्थं - ., पितॄणां - . । २७ लेपो - ., लोभाद्. घ । २८ श्रिया पुष्ट्या ततस्ते तु - , त्व (स्व) - . । २९ योक्ष्य - ., योक्ष्या - ., मोक्षा -. । ३० वचस्तस्य प्रधार्य च - . । ३१ तु - . । ३२ तपस्विनीम् - . । ३३ महात्मने - . . । ३४ मुप. - . । ३५ बद्धमानिन्युर्गुरवे (?)  । ३६., .धार्य च - . । ३७ यच्छ मे - . । ३८ तमूचूस्तस्य वै शिष्या न लब्धा गोरितस्ततः - .

 

313

अथ तेषां वचः श्रुत्वा शंकया च दुरात्मनाम् ।

दिव्येन चक्षुषापश्यद् भक्षितां तैर्महातपाः । । २२ । ।

सतः स रोषाद् रक्ताक्षो३९ निर्दहन्निव ताँस्तदा४० ।

उवाच वत्सं दृष्टवा च४१ कृपया भृशदुःखितः४२ ।।२ ३ । ।

युष्माभिर्भक्षिता सा हि तथ्यं४३ न कथितं च मे ।

कर्मणा तेन तस्माद्वो गतिः कष्टा४४ भविष्यति४५ । ।२४। ।

प्रसादितः स तैः शिष्यैर्ब्राह्मणः सुमहाद्युतिः४६ ।

कृपया स च तानाह भूयः सर्वानिदं वचः ।।२५।।

यदुक्तं४७ तन्मया तथ्यं४८ न४९ तन्मिथ्या५० भविष्यति ।

येषां तु कृतवन्तः५१ स्थस्तेध्यवस्यन्ति५२ यच्छुभम्५३ ।।२ ६।।

मत्समीपे च न स्थेयमिदानीं वः कथञ्चन ।

दृष्टवा वत्समिमं बालं मा वो धक्ष्यामि गच्छत५४ ।।२७।।

अथ ते सहिताः सर्वे नष्टसंज्ञा विचेतसः५५ ।

कालेन समयुज्यन्त चिन्तयन्तो गुरोर्वचः । ।२८। ।

दशार्णा नाम सा व्यास सरित् पुण्यजला शुभा५६ ।

तस्यास्तीरे वनं दिव्यं विश्रुतं तत् सुभास्वरम् ।।२९। ।

तत्र व्याधोभवच्छूरः क्षुपको५७ नाम वीर्यवान् ।

तस्य पुत्राभवँस्ते वै चितकायां महाबलाः ।।8.56.३ ० ।।

चितका संप्रसूता५८ तु पुत्राँस्तान् सप्त संमतान् ।

व्याधाः सर्वेभवंस्ते वै चैतका इति विश्रुताः ।। ३ १। ।

चरन्ति सधनुष्कास्ते निघ्नन्तो५९ मृगपक्षिणः ।

सिंहान् व्याघ्रान् गजाँश्चैव६० वराहादीँश्च सर्वशः६१ । ।३ २।।

 

३९ रोषताम्राक्षो - . । ४. तेजसा - . । ४१ तु - . । ४२ च सुदुःखितः - ., दुःखपीडितः - क घ. । ४३ तया - . । ४४ नष्टा.. - . । ४५ संसारान् प्रतिपद्य (त्स्य) - ख । ४६ ब्राह्मणैस्स महाद्युतिः - . ख घ । ४७ यद्युक्तं - . । ४८ चोक्तं - . । ४९ च - . । ५०... थ्यं - क । ५१. न्तो - क । ५२ योध्य... - . । ५३ योध्यवस्यत - . । ५४ व्याधत्वं समगच्छत - . । ५५ विसंज्ञा नष्टचेतसः - . . । ५६ पुण्यजला सदा - . । ५७ क्षुपजो - . । ५८. ते - . । ५९ घ्नन्तो वै - . . । ६० गणाँश्चैव - . । ६१ वराहाँश्च सुदारुणः - .

 

314

तेषां नामानि यानि स्म व्याधत्वे६२ तानि मे शृणु ।

काण्डारोर्जुनको नाम दमनः सिंहकोभवत्६३ । ।३ ३ ।।

हालोभूद् व्याघ्रकश्चैव विदलः६४ शरभस्तथा ।

शैशिरो हिमवाँश्चैव हस्तिको दण्डकीलकः । ।३४।।

विदर्भो६५ वज्रकश्चैव नामान्येतानि तेषु हि६६ ।

एकश६७ स्तेटवीं घोरां चरन्ति६८ पिशिताशनाः६९ । ।३५।।

हिंस्राः सत्वान्तकाः सर्वे योनिं दुष्टामुपागताः ।

कदाचिद्विचरन्तस्ते मृगान् घ्नन्तस्तथैव च । ।३ ६ ।।

उपाध्यायाश्रमं प्राप्ताः कर्मणा७० सुकृतेन ह ।

तत्र७१ तेषां भयोद्विग्नाः सर्व एवाभवन् मृगाः । ।३७। ।

मृगान् भीतान् समालक्ष्य स विप्रः सुमहातपाः ।

न्यवैक्षत७२  दिशः सर्वा व्याधाँश्चापश्यदागतान् ।। ३८।।

स्वशिष्याँस्तान्७३ परिज्ञाय ध्यानाद् व्याधत्वमागतान्७४ ।

प्रोवाच करुणाविष्टस्तेषामेव शुभेप्सया७५ । ।३ ९।।

शुश्रूषितः पुरा विप्रैर्युष्माभिरहमादरात्७६ ।

कर्मणा तेन चेदानीं गोबध्याकृतशापतः । ।8.56.४० । ।

व्याधत्वमिह संप्राप्ताः कुत्सितं हिंस्रवृत्ति यत्७७ ।

सा च७८ गौः पितृकार्येण भक्षिता वो न हिंसया । ।४१ ।।

तस्माद् यूयमितो भ्रष्टा७९ जातिस्मरणसंयुताः ।

मृगाः कालञ्जरे भूत्वा८० चक्रवाकाः पुनः८१ सरे ।।४२ । ।

द्वीपे ततः पुनर्हंसा भूत्वा वै मानसे ह्रदे ।

भूयश्च मानुषा भूत्वा जातौ जातौ८२ सचेतनाः ।।४३ । ।

योगयुक्ता महात्मानो मत्प्रसादादतन्द्रिताः ।

सर्वकिल्बिषनिर्मुक्ता ब्रह्मलोकमवाप्स्यथ । ।४४।।

 

६२ व्याधानां -. । ६३ शिशिरो हिमवाँश्चैव विरूपो विश्वरेतनः । वीरो वीरतरुः स्वेदो नामान्येतानि तेषु च- . । ६४ विशदः - . । ६५ विभर्गो - , विभग्नो - . । ६६ च - . । ६७ एकदा - . . । ६८ चरन्तः - . । ६९ पिषितैषिणः - . । ७० कर्म स्म (स्व?) - . । ७१ तस्य - . । ७२ अवैक्षत - ख । ७३ स शिष्याँस्तान् - ., स मुनि - . । ७४ ध्यानात्मा समुपस्थितान् - . । ७५ शुभं वचः - . । ७६... रिदमातरात् - . । ७७ हिंस्रवृत्तिमत् - . . । ७८ साधु - . । ७९ भूय इयमितो - , तस्मात् शापात् परिभ्रष्टा - . । ८० भूता - . । ८१ पुरा - . । ८२ याताः - .

 

315

एतच्छ्रुत्वा ततस्तेषां पूर्वा स्मृतिरजायत ।

उपाध्यायोयमस्माकमिति बुद्धौ८३ तदा८४ भवत् ।।४५।।

ततः कर्म जुगुप्सन्तः पूर्व८५जातिकृतं च यत्८६ ।

प्रदक्षिणमुपावृत्य दशार्णामभितो८७ ययुः ।।४६। ।

दशार्णातीरमासाद्य संमन्त्र्य च परस्परम् ।

जातिं पूर्वां८८ स्मरन्तस्ते मृत्युमेव प्रवव्रिरे ।।४७।।

निश्चितानां८९ ततस्तेषां काण्डरो९० योभवद् द्विजः ।

व्याधोर्जुनकनामा९१ स इदं वचनमब्रवीत् ।।४८।।

भवन्तो यन्मया९२ पूर्वमुक्तास्तन्न कृतं हि वः ।

इदानीं समनुप्राप्तं मावमन्यत मे वचः ।।४९।।

श्रेयो वोहं प्रवक्ष्यामि शृणुध्वं कुरुतैव च ।

जातिमेतां विमोक्ष्याम येन हास्याम न स्मृतिम् । ।8.56.५० ।।

पुत्रानिच्छन्ति पितरः पुष्ट्यर्थं तारणाय च ।

वयं च जनितास्तेन व्याधेन सुमहात्मना ।।५१ । ।

संवर्द्धिताश्च क्लेशेन मात्रा पित्रा तथैव च ।

अनापृच्छ्य९३ कथं तौ तु मृत्युमिच्छामहे वयम् ।।५२। ।

ते यूयं९४ यदि मन्यध्वं तावापृच्छ्य९५ विसर्जिताः९६ ।

योक्ष्याम श्रेयसात्मानमेतद्वो९७ हितमुत्तमम् । ।५३ । ।

न चेद्विसर्जयेतां तौ९८ तयोः९९ शुश्रूषणे रताः ।

ततस्तावद्धि तिष्ठामो यावत् कालेन तौ मृतौ । ।५४। ।

ततो वयं कृतात्मानो ह्यनृणाः१०० सर्वथापि च ।

गमिष्यामो गतिं१०१ पुण्यामेतन्नः श्रेय उत्तमम् ।।५५। ।

एवमस्त्विति ते सर्वे गृहीत्वा तस्य तद्वचः ।

चिन्तयन्तः पुरो१०२ जन्म गृहानेवाभिजग्मिरे ।।५६। ।

 

८३ बुद्धि - घ । ८४... स्ततो - . । ८५ जुगुप्समानास्ते पूर्वं - ख । ८६ तत् - . । ८७ दशार्ण- मभितो - क घ. । ८८ पूर्वां जातिं - . । ८९ निश्चिन्तानां - . । ९. काण्डारो - . । ९१ जनकनामा - . । ९२ ये मया - . । ९३ दृष्ट्वा - ., दृष्टा - . । ९४ तद्यूयं - ., ते मृत्युं - . । ९५ मा पृष्ट्वा तौ - . . . । ९६ विवर्जिताः - . । ९७ श्रेयसे मानमेतद्वो - . । ९८ तं - . । ९९ ताभ्यां - . . . । १०० कृतात्मान अनृणाः - . ख । १०१ मतिं - . । १०२ पुरा - . .

 

316

तानागतान् पिता दृष्ट्वा माता च चितका तदा ।

तुष्ट्या परमया१०३ युक्ता इदं तानूचतुर्वचः१०४ ।।५७। ।

पुत्रकाः सुचिरादद्य यूयमभ्यागता गृहम्१०५ ।

अद्यावां१०६ सुदृढं मूढौ१०७ किं चिरं कृतमित्युत१०८ ।।५८।।

चितकोवाच

क्षुधाविष्टः पिता वोद्य१०९ पुत्रस्नेहेन पुत्रकाः ।

नात्ति मांसमिदं११० पक्बं सुराञ्च न पिबत्ययम् । ।५९।।

सनत्कुमार उवाच

तेपि जातिं जुगुप्सन्तः सर्वे वै पापयोनयः ।

इदमूचुः क्षुपं चैव चितकाञ्च शुभं वचः ।। 8.56.६० । ।

भवन्तोश्नन्त्वविघ्नेन पुष्टये शान्तयेपि च ।

नाश्नीमो१११ वयमद्येह११२ श्वो भोक्ष्यामो११३ न संशयः ।।६१ । ।

ततस्तौ वृद्धभावेन न बुभुक्षासहौ तदा ।

आहारयेतामाहारं सुतुष्टौ च बभूवतुः ।। ६२। ।

तौ तु तुष्टौ समालक्ष्य सर्वेथ शिरसा नताः ।

ऊचुः प्रयत्नतो११४ वाक्यमैक११५मत्येन ते तदा । । ६३ । ।

पितरौ परिनिर्विण्णा वयमेतेन जन्मना ।

इच्छामस्तत् परित्यक्तुं११६ तन्नः संमन्तुमर्हथः११७ ।।६४।।

तेषां तद्वचनं श्रुत्वा पिता तानिदमब्रवीत्११८ ।

परिष्वज्य सुतान्११९ सर्वान् बाष्पपर्याकुलेक्षणः१२० । ।६५। ।

अहमासं पुरा पुत्रा ब्राह्मणः शंसित१२१व्रतः१२२ ।

दिवोदासस्य राजर्षेः सखा परमसंमतः । ।६६। ।

 

१०३ च परया - . । १०४ तावूचतुर्वचः - . । १०५ गृहान् - . । १०६ अद्य वः - . । १०७ किंचित् - ., भूमौ - . । १०८ चैवं कृत्यमित्युत - ., चिरादागम्यतेत्युत - . । १०९ चाद्य - . । ११० मांसमिमं - . . । १११ म - , नाश्नीया - . । ११२. .मद्याहं - . . । ११३ वयमद्य न भुंजाना भक्षात्मानो - .,.. - . . । ११४ प्रयततो - , प्रमनसो - ख घ । ११५ मेकमत्येन - . . । ११६. संपरित्यक्तुं - .,.. स्तौ - ., इदं तु सं... - घ । ११७ शंसितुमर्हथः - . । ११८ माता समब्रवीत् ख, । ११९ स तान् - घ । १२०... लेक्षणौ - ख । १२१ सं शितव्रतः - घ । १२२... व्रताः - .

 

317

स कदाचिद्वने रम्ये धनुषा कुरुते भृशम् ।

    .........                           ।।। ६७। ।

योग्यात्तमहमाहेदं१२३ न त्वं१२४ वेत्सि धनुर्नृप ।

अजानन्१२५ किमिदं क्लेशं व्यर्थमेव१२६ करोषि च ।।६८। ।

प्रोवाच राजा विप्राणां मन्त्रज्ञानं विधीयते ।

आमन्त्रणे भोजने च वाचा च कुशला द्विजाः१२७ ।।६९।।

- . . . . . .. .  .                       -

स मया हसता१२८ प्रोक्त आनयस्व धनुर्मम ।।8.56.७० । ।

यावत् क्षिपामि लक्ष्याय१२९ शरं यत्र ब्रवीषि माम्१३० ।

स तथोक्तस्तदा१३१ मह्यं सशरं धनुरर्पयत् ।।७१। ।

तेनोक्तं लक्ष्यमुद्दिश्य१३२ शरः क्षिप्तो मया ततः ।

तत्राभवत् स्थितो विप्रो मृगचारी दृढव्रतः ।।७२ । ।

स तेन विद्धस्तेजस्वी ममार सहसैव च ।

सोहं१३३ तं मृतमालक्ष्य१३४ राज्ञा तेन विसर्जितः । ।७३ ।।

ब्रह्मवध्याभयाद् घोरात् पितरं परिपृष्टवान् ।

प्रोवाच न भयं तेस्ति ब्रह्मवध्या कुतस्तव ।।७४।।

जात्यन्तरशतं१३५ गत्वा दृष्टमेतत्१३६ स्वयंभुवा ।

ततोहं परया भक्त्या पितृशुश्रूषणे रतः ।।७५। ।

अनया भार्यया सार्धं१३७ स्थितो वै१३८ बहुलाः समाः ।

स कदाचित् पिता चापि मम कालेन संयुतः१३९ ।७६।।

अवतस्थे च तत्रैव अनयैव सहानघाः ।

अथ कालेन महता गवाहं विनिपातितः ।।७७। ।

 

१२३ यो स्यान्त... - , यो ध्यातु मृगकामे - . । १२४ तत्त्वं - . । १२५ न जानन् - ., अज्ञानं-  (नात्) - . । १२६ व्यर्थं कर्म - . । १२७ सदा - . ., तदा - ख । १२८ सहसा - . । १२९ लक्षाय - . . घ । १३० हि - ख । १३१ तदोक्तस्तदा - . . घ । १३२ लक्षमुद्दिश्य - क ख. । १३३ साह - . । १३४ मृगमालक्ष्य - . ख घ । १२५ जात्यन्तारगतं - ., ज्ञातं - . । १३६ हृष्टमेतत् - ., दृढमेतत् - ख । १३७ साकं - घ । १३८. हं - . । १३९ संवृतः - . .

 

318

अग्निस्थं चावरूढैषा रुदन्ती मां१४० शुभेक्षणा ।

सोहं गवा हतश्चेति मृगचारिवधेन च । । ।७८ ।।

व्याधजन्मनि विप्रत्वाद् भ्रष्टः१४१ पापेन जज्ञिवान् ।

जातोस्मि१४२ जन्मनां पुत्राः सहस्रं भृशदारुणम् ।।७९। ।

पितृभक्त्या च हि तया सम्यगाराधनेन च ।

नानशन्मे१४३ स्मृतिः पुत्रा ज्ञानं चापि प्रवर्तते१४४ । ।8.56.८०।।

जानामि ब्राह्मणान् भ्रष्टान्१४५ सर्वान् वै गोकृतेन वः१४६ ।

गुरोश्चैवानुशापेन भ्रष्टसज्ञाँस्तथैव च१४७ । ।८१ । ।

पश्चात्तदाज्ञया पुत्रान् सर्वान्वै मुक्तचेतसः ।

लब्धसंज्ञाँस्तथा चैव सर्वानद्य महाबलाः१४८ ।।८२।।

माता चेयं१४९ हि वो१५० वेत्ति साध्वी नित्यं पतिव्रता ।

यदहं वो ब्रवीम्यद्य तत्कुरुध्वं मम प्रियम१५१ । ।८३ ।।

अवाप्स्यथ१५२ ततः श्रेयः सर्वे यूयमतन्द्रिताः१५३ ।

अनामया विशोकाश्च१५४ न च संज्ञां प्रहास्यथ१५५ । ।८४। ।

पुत्रा जन्मेदमन्त्यं मे१५६ मनुष्येषु१५७ न संशयः ।

इतो मृतेन गन्तव्यं मया ब्रह्मसदः शुभम् । ।८५। ।

ते१५८ यूयं मां प्रतीक्षध्वं कंचित्काल१५९मतन्द्रिताः१६० ।

स्वर्गते मयि यच्छ्रेयस्तत्करिष्यथ मा शुचः । ।।८६।।

अवश्यञ्च सुतैर्माता पिता चैव सुदुःखितौ१६१ ।

शुश्रूषितव्यौ१६२ नान्योस्ति धर्मोस्माद्१६३ बलवत्तरः ।।८७। ।

सनत्कुमार उवाच

ततस्ते विस्मिता भूत्वा नष्टशोका विमत्सराः ।

तं१६४ कालं पर्युपासन्त यावत्तौ जहतुस्त्वसून्१६५।।८८।।

 

१४० रुदती - . । १४१ विप्रत्वभ्रष्टः - . । १४२. .स्मिन् - . . । १४३ न नाशं मे - . । १४४ मे संप्रवर्तते - ., चाप्यप्रवर्तते - ., प्रवर्तत - . । १४५ तुष्टान् - . । १४६ सर्वानाग (स्) ।। कृतेन वः - . । १४७ भ्रष्टसंगाँस्तथैव च - . । १४८ महाबलान् - . । १८९ मात्रेयं (यी) - . । १५० नो - . । १५१ कुरुध्वमतन्द्रिताः - क । १५२ अवाप्स्यत - . । १५३.. मतन्त्रिताः - . । १५४ विकोशाश्च - ख । १५५ प्रहास्यते - घ । इतः पूर्वं क्षुप उ. इति क. - . । १५६ ममेदं- यज्जन्म - . । १५७ मनुष्यत्वे - . । १५८ तद् - ख । १५९ किंचित्काल. - . . . । १६०... मतंत्रिताः - , । १६१ सुदुःखितैः - ., सुखेधितैः - . । १६२ शुश्रूषितव्यो - . ख घ । १६३ धर्मोन्यो - ख । १६४ तत् - . . । १६५... स्तनूम् - .

 

319

तयोरतीतयोः सम्यक्१६६ कृत्वा ते ह्यौर्ध्वदेहिकम्१६७ ।

दशार्णायां महानद्यां विधिनानशनेन१६८ ह ।।८९। ।

असाधयन्त आत्मानं व्याधाः सप्तापि ते तदा१६९ ।

कालञ्जरे गिरौ१७० भूयो मृगाः सप्तैव जज्ञिरे । ।8.56.९० ।।

स्मरन्तस्तत्र ते जातिं मरुत्प्रपतनेन ह ।

साधयित्वा तदात्मानं चक्रवाकेषु१७१ जज्ञिरे१७२ ।।९ १ । ।

मृगत्वे यानि नामानि तेषां तानि निबोध मे ।

दीर्घजीवी ह्यनाधृष्टो वायुवेगोभिकम्पनः१७३ ।।९२ ।।

श्रीपार्श्वः शंखपाच्चैव सोमलक्ष्यश्च१७४ सप्तमः ।

जातिं स्मरन्तस्ते पूर्वामन्योन्यमभिमान्य१७५ च । ।९३ । ।

सहिताः सहसा प्राणान् मरुत्प्रपतनाज्जहुः ।

ते सप्तसंख्या व्याधेषु मृगेषु च तथा पुनः । ।९४।।

जन्म प्राप्य पुनर्जाताः शरद्वीपे खगास्ततः ।

शरद्वीपमिति ख्यातं१७६ काम्पिल्येषु सरः शुभम् । ।९५।।

तत्रापि चक्रवाकास्ते सप्ताजायन्त सोदराः ।

मरुद्देवः१७७ शिखंडी च रथनेमिस्वरस्तथा१७८ ।

शिखी जीवोथ वृक्षश्च ध्वज इत्येव ते स्मृताः ।।९६ ।।

तेषां तत्रोपपन्नानां कदाचिदणुहः स्वयम् ।

काम्पिल्यको महातेजा राजा तं देशमागमत् । ।९७। ।

स तत्सरः समासाद्य स्त्रीभिः सहः१७९ मुदान्वितः ।

रेमे मन्दाकिनीं प्राप्य अप्सरोभिरिवामरः ।।९८। ।

तं क्रीडमानं संदृश्य मरुद्देवस्य तत्र वै ।

चक्रवाकस्य तस्यासीत्१८० स्पृहा तान् विषयान् प्रति१८१ ।।९९। ।

 

१६६ सद्यः - . । १६७ ह्यूर्ध्वदैहिकम् - , ह्यूर्ध्वदेहिकम् - . । १६८ नसनेन - ., ना शकेन - . . । १६९ सप्तव्याधास्तथापि ते - . । १७० कालाञ्जरगिरौ - ख । च ७१ चक्रवाकाश्च - . । १७२ जग्मिरे - . । १७३... तिकोपनः - ख । १७४... क्ष्योथ - . । १७५ मतिमान्य - . । १७६ इति ख्यातः - . . । १७७ मनोदेव - . । १७८ रथनेमिस्वनस्तथा - , । १७९ सहस्त्रीभिः - . । १८. तत्रासीत् - . । १८१ विषयानपि (भि) - ., विषयं प्रति - .

 

320

यद्यस्याहं१८२ सुतः स्यां वै प्राप्नुयां राज्यमेव च१८३ ।

ततोहं विषयानेतान् प्राप्नुयां नात्र संशयः । ।8.56.१ ०० ।।

तस्य तच्चिन्तितं ज्ञात्वा द्वितीयश्चक्रसाह्वयः ।

शिखंडीति समाख्यातः स तमाह तदा हसन् । । १०१ । ।

भवता राजपुत्रत्वं राज्यं चैव विचिन्तितम् ।

तत्राहं ते१८४ पुरोधाः स्यां ममाप्येष मनोरथः ।। १० २। ।

ताभ्यां१८५ तच्चिन्तितं ज्ञात्वा रथनेमिस्वरस्ततः१८६ ।

अचिन्तयत तत्राहं सचिवः स्यां तव प्रभो१८७ । ।१ ०३ । ।

सनत्कुमार उवाच

तेषां तथा चिन्तयतां त्रयाणामितरे ततः१८८ ।

चक्राह्वयास्तदा क्रुद्धा इदं तानब्रुवन् वचः ।। १ ०४।।

अचिन्तनीयं युष्माभिश्चिन्तितं विषयार्थिभिः ।

तस्माद् यूयमितो१८९ मुक्ता अवाप्स्यथ मनोरथम् । ।१ ०५। ।

ताञ्छप्त्वा१९० दीनमनसः समालक्ष्य पुनश्च ते ।

येन तद्राजपुत्रत्वं चिन्तितं राज्यमेव च । ।१ ० ६।।

कृपया तमिदं वाक्यमब्रुवन्नष्टचेतसम् ।

बहुसान्त्वगुणोपेतं१९१ स्वयं दुःखितवद्यथा१९२ । । १ ०७।।

वयं तव प्रभावेण तीर्णाः कृच्छ्रमिदं प्रभो ।

भवान् मतिप्रदोस्माकं सेतुभूतो मतो हि नः ।।१ ०८। ।

भवान् यदि१९३ हि न ब्रूयात् पितॄणां गौर्निवेद्यताम् ।

शुश्रूषेमश्च न१९४ पितॄन् न स्म१९५ संज्ञा ततो भवेत् । ।१ ०९।।

तव प्रभावादेतन्नो१९६ यौगैश्वर्यप्रवर्तनम् ।

ततो वयं पुनः१९७ श्रेयस्तव ब्रूमः शृणुष्व नः१९८ ।।8.56.१ १० ।।

 

१८२ अद्यास्याहं - . । १८३ प्राप्नुयाद्राज्यमेव च - . . । २८४ त्वत् - . । १८५ तस्य - . । १८६... स्वनस्ततः - . । १८७ प्रभोः - ख । १८८... मितरेतरं - . । १८९ भूय इतो - . । १९० तान्दृष्टवा - घ । १९१ बहुशास्त्रगुणोपेतं - . । १९२ त्तथा - . । १९३ भवानपि - . । १९४ शुश्रूषध्वमपि - . । १९५ नष्ट () संज्ञा -क । १९६ तस्मात्तव प्रभावान्नो - . । १९७ भूयोप्यथ वयं - . । १९८ स्तु शृण्वत ख , तत् घ ।

 

321

तावत्त्वं सक्तहृदयो१९९ भविष्यसि नराधिप ।

यावदस्मद्वचस्तत्थ्यं न श्रोष्यसि सहायवान् ।

योगज्ञानमवाप्यैव२०० प्राप्स्यसे च गतिं शुभाम२०१ । ।१ ११ ।।

सनत्कुमार उवाच

ततस्ते सहिताः सर्वे युक्तात्मानो२०२ महाखगाः 

खगत्वं संपरित्यज्य२०३ योनिमन्यां२०४ प्रपेदिरे. ।।१ १२।।

सर्वे ततस्ते मुनिकोपदग्धा व्याधा मृगाश्चक्रसमाह्वयाश्च ।

जाताः पुनर्मानुषविग्रहेषु योगेश्वरास्ते त्रय एव राज्ये ।।१ १३ । ।

इति स्कन्दपुराणे सप्तव्याधोपाख्याने कौशिकशापे षट्पञ्चाशोध्याय

 

सनत्कुमार उवाच

चत्वारस्ते तु शास्तारः१ खगाः स्वच्छन्दतः पुनः ।

यायावरस्यः विप्रस्य सुता जाता२ महात्मनः । । १ ।।

तेषु जातेषु विप्रोसावक्लेशेन३ महातपाः ।

वृत्तिं समानयामास४ तेषां भाग्यपुरःसरः । । २। ।

चीर्णवेदव्रतास्ते तु वेदान्साङ्गानधीत्य च ।

योगमेव न्यषेवन्त६ तन्निष्ठास्तत्परायणाः ।।३ । ।

इतरेपि७ त्रयो व्यास कर्मणा स्वेन चोदिताः८ ।

प्रत्यपद्यन्त तज्जन्म यत् पुरा तै९ र्विचिन्तितम् .।।४।।

प्रथमो ह्यणुहाज्जज्ञे ब्रह्मदत्त इति स्मृतः ।

एकोणुहस्य पुत्रोभूद् द्वितीयस्तत्पुरोधसः । ।५।।

 

१९९-सत्वहृदयो ख, शक्रभवने - घ । २०० मथाप्येवं - ..... मवाप्यैनं - . . । २०१ शुभां गतिं - ख । २०२ ... मुक्तात्मानो - . । २०३ योगज्ञत्वं परित्यज्य - . । २०४ गतिमन्यां - . । शप्तारः -ख । २, जज्ञे - ., जज्ञु.. - ., जग्मु.. - . । ३... सौ क्लेशेन च - .,  सा बहुमान- पुरःसरः - .   ४ संजनयामास - . । ५ दांता देवव्रतास्तेपि - . । ६ -.. नाभ्यसेवन्त -. । ७ अपरेपि - . । ८ तेजसा - . । ९ पुरा तैर्यत्, - घ ।

 

322

तृतीयः सचिवस्याथ त्रयस्ते जन्म तद्१० गताः ।

त्रयोग्नय इवासंस्ते लोकास्त्रय११ इवाथवा ।

अवर्द्धन्त महात्मान१२ स्त्रयस्ते सागरा इव । ।६।।

तेषामवाप्तविद्यानां योग्यानां च स्वकर्मणि१३ ।

पितरः स्वानि कर्माणि१४ प्रददुर्हृष्टमानसाः ।।७।।

अणुहः प्रददौ राज्यं ब्रह्मदत्ताय पुष्कलम् ।

कीर्तिमत्या च सहितस्ततो वनमगाच्य सः ।।८। ।

पुरोधा धृतरातस्तु१५ पुत्रं स्वे कर्मणि प्रभुः ।

स्थापयित्वा जगामाथ१६ पंचालं शंसितव्रतः । ।९।।

सचिवोपि सुधन्वा तु ब्रह्मधन्वानमच्युतम्१७ ।

पुत्रं स्वे कर्मणि स्थाप्य जगाम सह भार्यया ।। 8.57.१ ०। ।

गतेषु तेषु स्वाँल्लोकान्१८ ब्रह्मदत्तः प्रतापवान् ।

पञ्चालब्रह्मधन्वभ्यां१९ सह राज्यं चकार ह ।।१ १ ।।

प्रशासतस्तथा राज्यं यजतो भुञ्जतश्च ह२० ।

जग्मुः सुखेन बहुलाः समाः सुकृतिनस्तदा२१ ।।१२।।

अथ कालेन महता सभार्यः ससुहृज्जनः ।

तस्थौ स वेश्मनि२२ सुखं कुबेर इव पुष्पके२३ । ।१३ ।।

ततः सर्वरुतज्ञाता२४ पिपीलं कामकारणात्२५ ।

पिपीलिकायाञ्चाटूनि२६ कुर्वाणं सोन्वपश्यत२७ ।। १४। ।

स तु ज्ञानाद्२८ विनिश्चिन्त्य२९ कृमियोनावपीदृशम् ।

विवृतं३० शब्दवच्चैव हासमुत्सृजतानघ३१ । ।१ ५। ।

 

१० तां - घ । ११ लोकपाला घ.,  भूयस्ते - . । १२ शिवात्मान - . । १३ स्वेन कर्मणा - . । १४ स्वामिकर्माणः - . । १९ धृतराष्ट्रस्तु - ., श्रुतवागस्तु - . । १६ जगामाशु - ख । १७... प्रच्युतः - - । १८ स्वर्लोकान् - . । १९... न्याभ्यां - . ., सत्वाभ्यां - . । २० जयतस्तस्य तैः सह - . । २१ स्तथा - ख घ. । २२ स्ववेश्मनि - . । २३ पुष्करे - . । २४ सर्वरुतं ज्ञात्वा - . . घ । २५ पिपीलकमकारणात् - ., कामकारिणं - . । २६... श्चाटूनि - . .,  ... ञ्चाशक्तमानसं - . । २७ सोनुपश्यत - . घ । २८ ज्ञात्वा - . . . । २९ विनिश्चित्य - , .. । ३०..  निमित्तं - . । ३१... नघ - .

 

323

तत्तस्य हसितं दृष्ट्वा पत्नी नीलोत्पलेक्षणा३२ ।

चुकोप किमिदं मेद्य विकृतं लक्षितं त्वया ।। १६ ।।

तां स राजा स३३माविग्नः३४ प्रियां प्राणैर्गरीयसीम् ।

प्रसादय३५न्न चैवास्य प्रसीदत३६ शुभानना ।।१७।।

सा यदा बहु तथ्यञ्च३७ उच्यमाना न तुष्यति ।

तदा तस्याः प्रसादार्थे ३८ स विष्णुं संप्रसादयत् । ।१८।।

देवं३९ सालवनं४० गत्वा पञ्चालेन सहैव सः ।

ब्रह्मधन्वपुरोवाहो रथेन महता महान्४१ । ।१ ९। ।

तत्रासौ सप्तमे त्वह्नि४२ विष्णुनाभिविसर्जितः ।

जगाम नरशार्दूलः काम्पिल्यं४३ स्वं पुरोत्तमम्४४ ।।8.57.२० ।।

एतस्मिन्नेव काले तु चत्वारो ब्राह्मणाः शुभाः ।

योगेन महता युक्ता इदमूचुः परस्परम् ।।२१ । ।

वयं कृतार्थाः किं कार्यमिह तिष्ठाम मानुषे ।

गच्छाम४५ ब्रह्मयोनिं स्वां मुच्यामोस्मान्महाभयात्४६ ।।२२।।

अवसीदन्ति ते चैव४७ त्रयोस्माकं४८ सहव्रताः ।

बोधयामेह४९ ताँश्चैव यथा नेयुः पराभवम्५० ।।२३ ।।

ततस्ते पितरं सर्वे प्रणम्योचुर्द्विजातयः ।

वयं योगेश्वरास्तात सिद्धा वै५१ स्वेन कर्मणा । ।२४।।

आपृच्छामो गमिष्यामः स्वां योनिं ब्रह्मनिर्मिताम् ।

त्यक्त्वेमान्५२ मानुषान् देहान्न५३ विसर्जय नमस्तव ।।२५।।

 

३२ निलोत्पलेक्षणं - . । ३३ राजान - . । ३४ समाश्वास्य - ., समाविग्नां- . । ३५ अडभवि आर्ष? । ३६ प्रसीदति - . । ३७ बहुधा तेन - . । ३८ प्रसादार्थं - . । ३९ देव - . । ४० सप्तनंदं - . । ४१ तदा - . । ४२ चाह्नि - . . । ४३ कम्पिल्यं - . . । ४४ स्वपुरोत्तमम् - . । ४५ गच्छामो गतिमिष्टां स्वां - . । ४६... पि मुच्यामो महाभयात् - . । ४७ चैवात्र - . । ४८ येस्माकं च - . 8९ अवबोधेम - . ., आराधयाम - . । ५० पराभवः - . । ५१ सिद्धाश्च - , । ५२ त्यक्त्वेमं - . । ५३ मानुष देहं - .

 

324

पित्रोवाच

पुत्रानिच्छन्ति पितरस्तारयिष्यन्ति नो भयात् ।

भयं तच्चैहिकं पुत्राः परत्र च दुरासदम् । ।२६।।

ते यूयमृणसंयुक्ता५४ अमुक्त्वा स्वं५५ निबन्धनम् ।

कथं गच्छथ५६ भद्रं वो नाधर्मं परिपश्यथ५७ । ।२०।।

सुता ऊचुः

वयं योगेश्वरास्तात लोकाँस्तुभ्यमनामयान्५८ ।

प्रयच्छामो५९ न संदेहो यत्र६० गत्वा न शोचसि६१ ।।२८।।

अस्माभिस्त्वं कथं पुत्रैर्ब्रह्मत्वं नाप्नुयाः पितः ।

इहापि लोके द्रव्यं ते विधास्यामस्तथा६२ शृणु ।।२९।।

इदं६३ त्वं६४ पत्रमादाय६५ ब्रह्मदत्तस्य दर्शय ।

स वाचयन्नेव६६ नृपो वृत्तिं ते संविधास्यति ।।8.57.३ ० । ।

सनत्कुमार उवाच

प्रभावज्ञस्ततस्तेषां६७ पिता स मुनिपुङ्गव६८ ।

मेने तद्वै६९ तथा सर्वमनुमेने च तत्पुनः । ।३ १ ।।

अथासनानि बद्ध्वा ते युक्ता जग्मुस्तपोधनाः७० ।

ज्योतिर्भूतानपश्यच्च पिता तेषामतिद्युतिः । ।३२।।

स तु लेखं समादाय पुत्रान्स्वानभिचिन्तयन्७१ ।

काम्पिल्यमगमत्तूर्णं दिदृक्षुर्नृपसत्तमम् ।। ३३ ।।

स च राजा सालवना७२ दागतः प्राविशत्७३ पुरम् ।

ब्राह्मणो दूरत७४ श्चास्य तं लेखं समदर्शयत ।।३४।।

 

५४ यूयं मृगसंमुक्ता?- . । ५५ अनुक्रोश - . । ५६ गच्छत - . । ५७  पविपश्यत -   खः- परिपच्यत- घ । ५८ -.. स्त्वद्य निरामयान् - . । ५९ प्रयच्छाम - . . । ६० येषु - ., घ । ६१ न शोचति - घ । ६२ तथा - ख । ६३ इम - क ख. । ६४ त - . । ६५ पुत्रमादाय - - ख मंत्रमादाय - घ ।  ६६ धारयन्नेव - घ । ६७ प्रभावान्निर्गतस्तेषां  - . । ६८ मुनिपुङ्गवः - ., . । ६९ तच्च - घ । ७० युक्तात्मानस्तपोधना. - . । ७१ परिचिन्तयन् - घ । ७२ राजा सालवनात् तस्मात्  - । ७३ प्रविशन् - . । ७४ ब्राह्मणैर्दूरत - .

 

325

निमित्तानि च संलक्ष्य शुभानि स नराधिपः ।

लेखमानयतेत्युक्त्वा धारयामास तं रथम् ।।३ ५। ।

स पुरद्वारसंस्थस्तु रथेन महता तदा ।

ब्रह्मधन्व७५ धृतच्छत्रः७६ पञ्चाला७७ वीजिताननः ।।३ ६ ।।

गृहीत्वा लेखमव्यग्रमवाचयत७८ तं तदा ।

श्लोकद्वयं७९ चाप्यभवत्तस्मिँल्लेखे शुभप्रदम् ।।३७।।

ये ते गुरुकृताच्छापाद् गोवधेनावपीडिताः ।

पितृभक्त्या कृतज्ञाना८० जाताः सर्वे शुभोदयाः ।।३८। ।

सप्तव्याधा दशार्णेषु८१ मृगाः कालञ्जरे गिरौ ।

चक्रवाकाः शरद्वीपे८२ हंसाः सरसि मानसे ।।३ ९। ।

तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।

प्रस्थिता दीर्घमध्वानं यूयं किमवसीदथ । ।8.57.४० । ।

सनत्कुमार उवाच

श्लोकद्वयं८४ तथा८५ श्रुत्वा त्रयस्ते विषपीतवत् ।

मोहं तदा तु८६ संप्राप्य लब्धसंज्ञा विशन्पुरम् ।।४१।।

ते प्रविश्य पुरञ्चैव वेश्म८७ चैवाप्यतन्द्रिताः ।

इति चेति च संचिन्त्य८८ वनाय दधिरे मनः । ।४२। ।

सा च८९ पत्नी महाभागा अभिगम्य९० नराधिपम् ।

इदमाह मुदा युक्ता राजानं ससुहृज्जनम् । ।४३।।

भवान् योगेश्वरो भूत्वा सक्तो भोगेषु सर्वशः ।

प्रबोधार्थं ततोहन्ते क्रोधमाहारयन्तदा ।।४४।।

 

७५ पुरोधसा - ष । ७६ धृतं छत्रं - . । ७७ पाञ्चाली - . । ७८ अवाचयत् - . । ७९ श्लोक्त्रयमित्यन्यत्र । ८० हृतज्ञाना - . । ८१ तु - . । ८२ सरद्वीपे । ८३ तेभ्यः - . . । ८४ श्लोकत्रयमित्यन्यत्र । ८५ तदा- - ; । ८६ नु - . । ८७ वेश्यं - ख । ८८... नुता - . वेनाय - . । ८९ सापि - . । ९०. अधिगम्य ख;

 

326

जानामि त्वां रुतज्ञञ्च९१ जानामि त्वां खगन्तथा ।

अतोहं जानती राजन् प्रतिबोधार्थमुद्यता ।।४५।।

तस्माद्विप्रमिमञ्चैव तेषां पितरमव्ययम् ।

धनेन योजयस्वाद्य पुत्रं९२ राज्येभिषिच्य च९३ । ।४६। ।

श्वो गच्छाव९४ वनं राजन९५ मा कालं प्रतिपालय ।

राजा तत्कृत्यमखिलं९६ कृत्वा पत्न्या सहव्रतः९७ । ।४७। ।

जगाम वनमुद्दिश्य योगेन च दिवं ययौ ।

पंचालोपि गते तस्मिन् तपः कृत्वा सुदुश्चरम्९८ ।।४८ । ।

चकार पारणं९९ चैव यक्षत्वं१०० चाप्यवाप१०१ ह ।

ब्रह्मधन्वा च कालेन१०२ सुमहात्मा१०३ दृढव्रतः ।।४९। ।

हिमवत्तनयां देवीं तपसा समपश्यत१०४ ।

वरदां तां तदा दृष्टवा१०५ ब्रह्मधन्वाब्रवीच्छुभाम् ।।8.57.५० ।।

इच्छामि कामरूपित्वं१०६ त्वद्भक्तिं चैव१०७ नित्यदा ।

कृच्छ्रं महच्च प्राप्तस्य१०८ त्वयैवोद्धरणं ततः ।।५१ ।।

एवमस्त्विति सा चोक्त्वा जगामेष्टां गतिं तदा ।

बह्मधन्वापि मत्तोभून्मदनेन दुरात्मवान्१०९ ।।५२। ।

स भूत्वा धार्मिकः पूर्वमधर्मेणाभिपीडितः११० ।

अभिमेने१११ स कन्याश्च११२ ऋषीपत्नीश्च सर्वशः ।।५३ । ।

भर्तृरूपेण गत्वा च कामेन स विमोहितः ।

न च कश्चिद्विजानाति११३ तथा११४ वर्तन्तमन्तशः । ।५४। ।

अथ हाल११५ इति ख्यातो मृगचारी महातपाः ।

तस्य पत्नी सुधर्माभून्नाम्ना रूपवती११६ दृढम् ।।५५।।

 

९१ मृगी तं च - . । ९२ पुत्रो - . । ९३... भिषेच्यतां - .,. .ते - . । ९४ गच्छावो -., गच्छाम - ख घ ।. ९५ राज्या (त्) - . । ९६ तत्सर्वमखिलं - . । ९७ दृढव्रतः - . । ९८ सुदुस्तरम् - .. । ९९ परमं - ., पावनं - . । १०० पञ्चत्वं - . । १०१ चैवमाप - . । १०२ कामेन - . । १०३ स महात्मा - . । १०४ तामपश्यत - घ । १०५ ब्रह्मन - . । १०६ कामरूपत्व - . । १०७ त्वद्भक्तत्वं च - ख । १०८ कृच्छ्रे महति संप्राप्ते - . । १०९ दुरात्मना - . । ११० तिपीडितः -ख । १११ अभिमाने - ., अभिरेमे - . । ११२ शकल्याश्च - ., कामाच्च - . । ११३ न कश्चित्तं- विजानाति - . । ११४ वृत्तं - . । ११५ काल - . । ११६ धर्मवती - ,

 

327

कथयन्ति हि तां देवाः सिद्धाश्च सह चारणैः ।

असमा रूपतोन्याभि११७स्त्रिषु११८ लोकेषु भामिनी११९ ।। ५६। ।

न च तस्य सभार्यस्य१२० अन्तरं स बुबोध ह ।

कस्मिन्१२१ काले भवेत्तस्या१२२ विरहः१२३ पतिना सह ।।५७।

स ब्रह्मधन्वा तां श्रुत्वा तथा रूपवतीं सतीम् ।

पत्यास्या विरहाकांक्षी व्याघ्ररूपं चकार ह ।।५८ ।।

कृत्वा च सुमहद्रूपं विकृतं भैरवं तदा ।

अत्रसयत् मृगान् व्यास दर्शनेन सुबालिशः१२४ ।।५९। ।

तद्१२५ व्याघ्रभयसंत्रस्तमृगयूथं तदा विभो ।

मनोनिलजवव्यग्र१२६मदृश्यं संप्रपद्यत ।।8.57.६० । ।

मृगैः सह च हालोपि१२७ जीवितैषी तदा गतः ।

सुधर्मा१२८ ब्राह्मणी सापि१२९ भयाद् व्याघ्रस्य भामिनी१३० ।।६ १ । ।

स्त्रीस्वभावाच्च पतिता१३१ नान्वगच्छन्मृगव्रजम् ।

एकाकिनीञ्च तां दृष्टवा ब्रह्मधन्वा दुरात्मवान् ।।६२।।

व्याघ्ररूपं समुत्सृज्य तामिदं प्रत्यभाषत ।

मृदुना सान्त्वयुक्तेन१३२ वचसा भयपीडिताम् ।।३ ३ ।।

मा भीर्भवतु ते भद्रे१३३ पतिस्तेहं सुमध्यमे ।

मृगराजो गतोसौ च समाश्वस मम प्रिये ।। ६४।।

तं समाश्वस्य सापश्यत् पतिरूपं महायशा ।

हृदा चाचिन्तयद्१३४ दृष्टो मयासौ तैर्मृगैः सह ।।६५ ।।

जीवितैषी पलायन् वै१३५ कुतोयं पुनरागतः ।

देवेन्द्रो मा दुराचारः सदा धर्ष१३६त्यतन्द्रितः ।।६६।।

 

११७ रूपेणासमतां - ., अभिरेमे स तां चापि - . । ११८ स्त्रीषु - . । ११९ भाविनी - . . । १२० न स तस्याः शुभापांग्या - ख घ. । १२१ तस्मिन् - ., यस्मिन् - . . । १२२... भवत्तस्या - . । १२३ विवाहः - घ । १२४ दिवानिशं - घ । १२५ तं - . । १२६ मनोनिलवदव्यग्र - . ., मनोनी.. - . । १२७ सहचरः सोपि - . । १२८ सुधन्वा - . । १२९ चापि - . । १३० कामिनी - . । १३१ पतिना- . । १३२  शन्तियुक्तेन घ. । १३३ भद्रं मे (ते) - क ख । १३४... पचिन्तयद् - . । १३५ पलायँश्च - . । १३६ धर्त्तु - . खः. । धर्षं?

 

328

सोयं कामयितुं प्राप्तः किन्न स्यादन्तरैषिवान् ।

तस्माद् द्रक्ष्याम्यहं सम्यग् दुष्टं दिव्येन चक्षुषा।।६७।।

सनत्कुमार उवाच

एतस्मिन्नन्तरे सोथ ब्रह्मधन्वा करेग्रहीत् ।

तामिदं चोचिवान् हष्टः१३७ किं त्वं चिन्तयसे हृदा ।।६८। ।

न मामालिङ्गसेद्य त्वं१३८ मृत्योरास्याद्विनिर्गतम्१३९ ।

 ननु तेहं प्रियो भर्ता मा क्रुधो वरवर्णिनि ।।६९।।

ततस्तां स तदा दौष्ट्यात् कपोले समजिघ्रत ।

परिष्वज्य च दुष्टात्मा गात्रैर्गात्राण्यपीडयत् ।।8.57.७०।।

नीवीं व्यस्रं सयच्चैव१४० अधरं चापिबद् बलात् ।

बुबुधे सा च तं दुष्टं कर्मणा तेन शोभना ।।७१ ।।

सुधर्मोवाच

न त्वं मम पतिर्मूढ शक्रस्त्वं नात्र संशयः ।

न भूयो१४१ मदनस्यास्मि१४२ विषयोहं१४३ सुदुर्मते।।७२।।

स तयाप्येवमुक्तस्तु अवधूतश्च सर्वशः ।

पपात धरणीपृष्ठे स्वं च रूपं प्रपद्यत ।।७३। ।

ततः सा क्रोधताम्राक्षी धक्ष्यमाणेव चक्षुषा ।

निरीक्ष्य वदनं सुभ्रूरिदं वचनमब्रवीत् ।।७४। ।

ऋषिपत्न्यस्त्वया बह्व्यो व्यंसिताः दुष्टचेतसा११४ ।

न मादृशी त्वया काचिदन्या ह्यसादिता१४५ पुरा ।।७५।।

इदानीं कर्मणस्तस्य पूर्वमाचरितस्य ते१४६ ।

फलं प्राप्तमिदं पश्य मत्सकाशाद् दुरासदम्१४७. ।।।७६।।

 

१३७ दृष्टवा - ., धृष्ट? । १३८ सोहमालिंग हेभद्रे - . । १३९ विनिर्गतः - - . । १४० विस्रंयच्चैव - . ., विस्रंसयँश्चैव - . । १४१  न भये -, उभयो. । १४२. .स्ति -.. . । १४३ बिक्षयोर्ध्वं - , विषमेर्ध्वं  -  . ' १४४ दुष्टचेतसः - । १४५.. .प्यासादिता - . । १४६ च - . । १४७ दुरासद - . .

 

329

यदेव रूपं कृत्वा त्वं१४८ मृगानत्रासयो१४९ बलात् ।

विचरिष्यसि तेनैव रूपेण बहुलाः समाः । ।७७। ।

अशक्तश्चापि हन्तुं त्वं भविता मानुषं१५० क्वचित् ।

षष्ठे च काले संप्राप्ते मृगं भक्ष्यमवाप्स्यसि ।।७८। ।

सनत्कुमार उवाच

अभिव्याहृत्य तं क्रूरं शुभाचारा मनस्विनी ।

जगाम तान्मृगाँस्त्वेव ततः पतिमपश्यत । ।७९। ।

सोपि दुःखेन सन्तप्तो मन्वानस्तां हतेति१५१ च ।

विलपन्नेव१५२ तां दृष्टवा परिष्वज्येदमब्रवीत् ।।8.57.८० ।।

दिष्ट्या त्वमसि संप्राप्ता मृत्योरास्याद्विनिःसृता ।

कच्चिन्न तेन दृष्टासि मृगराजेन शोभने । ।८१ । ।

सुधर्मोवाच

नासौ मृगेन्द्रो दुर्बुद्धिः कोप्यसौ कामरूपवान् ।

मदर्थं१५३ समनुप्राप्तो मया१५४ दग्धः पतङ्गवत् ।।८२। ।

स शापान्मम दुष्टात्मा१५५ शार्दूलप्रकृतिं गतः ।

राजेव शक्तिशापेन सौदासो राक्षसीं तनुम् । ।८३ । ।

सनत्कुमार उवाच

तस्यास्तद्वचनं श्रुत्वा हालो धर्मार्थतत्त्ववित् ।

दिव्येन चक्षुषापश्यद् ब्रह्मधन्वानमव्ययम्१५६ । ।८४।।

तामुवाच सतीं भार्यामिदं स करुणात्मकः ।

कृतं दुष्टं त्वयात्रेयि सद्भिः कर्म विगर्हितम्१५७ ।।८५।।

महतस्तपसस्तेद्य क्षयोयं सुमहान् कृतः ।

न दुष्यन्ति स्त्रियः साध्वि नद्यो यद्वद् विगाहनैः१५८ ।।८६।।

 

१४८ सो (दौ?) - ., तु - . । १४९... नत्रासयद् - क ख । १५० मानुषान् - . । १५१ मत्वातस्तां हतेति च - ., प्रियां पत्नीमचिन्तयत् - . । १५२ विललाप च - . । १५३ मदनं - क । ५५४ समनुप्राप्तस्ततो - . । १५५ शापाद् दुष्टकर्मासौ  - . । १५६.. मप्युत - . । १५७ सर्वं - क । कर्मसङ्गिन् विगर्हितम्? । १५८ द्धिजन्तुभिः - ., द्विजान्तवैः - .

 

330

न चैव शक्यं१५९ धर्मेण संगुप्तां त्वां प्रमर्दितुम्१६० ।

यथा विषेण संछन्नमन्नं भोक्तुं हि मानवैः । ।८७। ।

अत्र ते वर्त्तयिष्यामि पुरावृत्तं महातपे ।

यत् पतिव्रतया पूर्वं कृतं दीप्तेन तेजसा ।।८८। ।

आसीद् भलन्दनो१६१ नाम ऋषिः परमधार्मिकः ।

विद्वाँश्चैव१६२ दयावाँश्च पृथिवीवद् व्यवस्थितः१६३ । ।८९ ।।

ऋग्नाम्नी१६४ तस्य भार्याभूद् वासिष्ठी पुण्यलक्षणा ।

रूपेणाप्रतिमा साध्वी न तस्याः स्त्रीः१६५ समा क्वचित् ।।8.57.९० । ।

पतिव्रता महाभागा सर्वधर्मविदुत्तमा ।

तस्याः पतिमृते नान्यद्दैवतं भुवि विद्यते ।। ९१ । ।

अपश्यत कदाचिद्वै देवास्तौ कमलेक्षणाम् ।

तस्या रूपगुणोन्मत्ता१६६ लेभुर्न१६७ धृतिमेकशः । ।९२। ।

न शक्यते च सा प्राप्तुं न दूतीभिर्न कर्मणा१६८ ।

न दानेन१६९ न संमानै१७० र्न बलेन न सेवया ।।९३ ।।

वह्निस्तामग्न्यगारस्थां१७१ प्रविष्टामग्रहीच्छुभाम्१७२ ।

न चापि१७३ साहमस्मीति१७४ न च नास्मीत्यथा१७५ब्रवीत् ।।९४।।

न क्रोधो नापि दर्पोस्या न मानो१७६ न च मत्सरः१७७ ।

तस्याः प्रियमभून्नान्यत् पतिमेवान्वचिन्तयत्१७८ । । ९५ ।।

विभावसुरपि१७९ व्यक्तमियं मामिच्छतीति ह ।

अभ्युपेत्य न१८० दुष्टेति१८१ भावेन सुरसत्तमः१८२ ।।९६। ।

अथ हित्वा स्वकं देहमदेहः१८३ समपद्यत ।

एवं वै भास्करो वायुर्वरुणश्चन्द्र एव च ।।९७। ।

 

१५९ शक्तो - क ख. । १६० प्रधर्षितुं  -   । १६१ भलन्दलो - , भगन्दलो - . । १६२ सिद्धश्चैव - . । १६३ पृथिव्यामध्यवास्थितः - . । १६४  ऋन्नाम? - , ऋग्नामा - . । १६५. सीत् - . । १६६ रूपगु- णैर्मत्त- - . । १६७ लेभिरे नैकशो धृतिमिति लेभिरे नैव ते धृतिमिति वा पाठः साधीयान् स्यात्। १६८... भूतैर्न कर्मणा - . . । १६९ दान्येन - क । १७० - -चान्येन - क। १७१... मग्रतीरस्थां - . । स्थः। १७२ मतनीच्छुभाम्  ख। १७३  चाहं  ख। १७४ मस्तीति क., मास्मेति (?), १७५ तथा - ख । १७६  न च मानो  , ख। १७७  न मत्सरः - क ख. । १७८... भ्यचिन्तयत् - . । १७९.. मपि  - ख । १८०..न्न - कः, नु - . । १८१ न - ख । १८२ मं - . । १८३ देहं विदेहः - .

 

331

सर्वे विदेहाः संवृत्तास्ततस्तां संप्रसादयन् ।

सापि तान्नावदत् किञ्चित् पुरुषानघशंकया१८४ । ।९८ । ।

भर्तुश्चाकथयत् सर्वं स तानिदमुवाच१८५ ह ।

इयं पत्नी महाभागा मम सर्वाङ्गसुन्दरी । ।९९। ।

नेयं कुप्यति युष्माकं जाने१८६ ह्यस्या व्रतं शुभम् ।

मत्तोपि वो भयं नास्ति नाहं कुप्ये कथञ्चन ।। 8.57.१०० ।।

मत्प्रसादाद्विदेहापि देहवन्तो भविष्यथ ।

ततस्ते देहवन्तो वै तुष्टुवुस्तं भलन्दनम्१८७ । । १०१ । ।

ऊचुर्वरं वृणीष्वाद्य तुष्टाः स्मस्तव१८८ सर्वथा ।

सोवाच रजसा१८९ नार्यः१९० शुद्ध्यन्तु१९१ मदनुग्रहात् ।। १०२ ।।

कर्मणा च विमुच्यन्तां१९२ व्यवहार्या भवन्तु च ।

सर्वशौचा भवेयुश्च अदुष्टाः सर्वकर्मसु१९३ ।। १०३ । ।

हाल१९४ उवाच

ततस्ते तं नमस्कृत्य सभार्यं१९५ ब्रह्मवादिनम् ।

जग्मुर्देवाः प्रशंसन्तः सर्वे१९६ वह्निपुरोगमाः । । १ ०४। ।

एवं त्वमपि धर्मज्ञे१९७ नित्यं पतिमनुव्रता ।

कस्त्वां समर्थो देवोपि स्प्रष्टु१९८मन्ये१९९ कुतो जनाः२०० ।।१ ०५। ।

तीर्थभूताः स्त्रियश्चापि न दुष्यन्ति कथञ्चन ।

मद्रूपं कृतवान् यस्मात्तस्माच्छापं न चार्हति२०१ । ।१ ० ६। ।

तस्मात्करिष्ये तस्याहमदृष्टस्यापि२०२ शोभने२०३ ।

अनुग्रहं धर्मयुक्तं येन श्रेयो ह्यवाप्स्यति२०४ ।। १ ०७। ।

 

१८४ न्यर्त्ति... - .,.. त्मनः - , परिशंकया - . । १८५ तामिदमुवाच - . । १८६ सत्वं - . । १८७ भलन्दलं - ., भगन्दलं - ख । १८८ तव - क । १८९ वचनं - . । १९० स्त्रीणां - . । १९१ शुद्धिः स्यानृ... - . । १९२ मनोवाक्कर्मभिर्मुक्ता - . । १९३ पवित्राः सर्वतः शुद्धाः स्त्रिय एव हि कर्मसु - . । १९४ सन. - . । १९५ संभाष्य - . । १९६ इन्द्रपुरोगमाः - घ । १९७ धर्मज्ञा - . । १९८ द्रष्टुं - . । १९९... मन्यत् - . ., मन्यः - घ । २०० जनः - . घ । २०१ च नार्हति - . . । २०२... मदुष्टस्यापि - .,.. न्दुष्टस्यापि करिष्यति - ख । २०३ हि शोभते - . । २०४ यमाप्स्यसि - .

 

332

व्याघ्रस्यापि प्रिये तस्य स्मृतिर्नित्यं भविष्यति ।

सर्वकार्येषु२०५ धर्मेषु२०६ धर्मेण च चरिष्यति२०७ ।।१ ०८।।

यतोस्य२०८  कामरूपित्वं येन मत्तः सदा ह्यभूत् ।

तत एव पुनः श्रेयः प्राप्स्यते मदनुग्रहात् ।। १०९।।

सनत्कुमार उवाच

स एष व्यास२०९ दुष्टात्मा विश्वामित्राश्रमे रतः ।

अग्रारण्ये२१० सदा ह्यासीद्देव्या गणापतिः कृतः ।।8.57.१ १ ०।।

य इदं२११ तस्य माहात्म्यं धारयेच्छ्रावयीत वा ।

सततं ब्राह्मणं२१२ व्यास योगैश्वर्यमवाप्नुयात् ।।१ १ १।।

योगेश्वरत्वं कांक्षद्भिरेतदध्येयमन्तशः ।

जन्मान्तरं समासाद्य प्राप्नुवन्ति न संशयः ।।११२।।

शृणुयाच्च इमं सततं प्रयतः शुचिरेकमना मनुजः२१३ ।

प्रियवत्स हि शक्रसमानवपुः सुकृतेन कृतेन पुमान्२१४ ।।१ १ ३।।

इति स्कन्दपुराणे सप्तपंचाशोध्यायः

 

व्यास उवाच

वरान् गृहीत्वा रुद्राणी१ तस्मिञ्छिखरिसत्तमे२ ।

अकरोत् किमिति ब्रूहि सर्वं देव्या विचेष्टितम् ।।१।।

सनत्कुमार उवाच

स्वयम्भुवि गते देवी तपसो विरराम ह ।

सा तुष्टा वरलाभेन४ चिन्तयन्ती तदा वरम् ।।२।।

न्यवैक्षत५ दिशः सर्वाः प्रसन्नवदनेक्षणा ।

कस्यैतत्६ कथयामीति देवं हित्वेति चाब्रवीत् ।।३ ।।

 

२०५ सर्वाः कार्येषु - . । २०६ ष्वधः?, धर्म्येषु? । २०७ करिष्यति च - ., करिष्यति - , तत्तथा - . । २०८ जातोस्य - . । २०९ एष एव स - . । २१० अग्न्यारण्ये - घ । २११ इमं - क ख. घ । २१२ ब्राह्मणान् - घ। २१३.. प्रिय. - . । २१८ मनुजस्स जहाति अधर्मकृतं ससुरेन्द्र- पुरं व्रजते - . घ ख ।

१ शर्वाणी - . । २ शिखर - . । ३ देव्या सर्व - . । ४ वरदानेन - क ख घ । ५ न्यवेक्षत - , न्यरीक्षत - , निरीक्ष्य च - . । ६ कस्यैनं ( नत् ?) - .

 

333

शास्त्रज्ञं कञ्चिदुद्दिश्य७ यथार्थं८ शास्त्रचिन्तकः९ ।

पुत्रलभ्भकृतं१० हर्षं चिन्तयन्त्या मुहुर्मुहुः । ।४।।

अपतज्जलमत्यर्थं११  शीतलं सु१२ सुगन्धि च ।

बह्वभूत् सरसि स्वच्छं तस्यास्तत्तेजसा जलम् । । ५ । ।

शिष्ये बुद्धिगुणेनेव१३ गुरुणा ज्ञानमाहितम् ।

विगाहमाना सा देवी तत्सरो विमलोदकम् । । ६ । ।

रेजे वियन्मध्यगता दीप्तेव सवितुः प्रभा ।

विगाहमाना व्यजहत् कृष्णां कोशीं तदानघा । ।७। ।

सा विरेजे तया मुक्ता कलेवेन्दोर्घनात्यये ।

तस्याः१४ कोश्याः१५ समभवत् कौशिकी लोकविश्रुता ।

विश्वं सिसृक्षतो धातुर्देहादिव पुरा निशा । ।८। ।

विम्बाधरा तीक्ष्णसुचारुदंष्ट्रा प्रसन्नताराधिपचारुवक्त्रा ।

सुजातनीलांचितदीर्घकेशी किञ्चित्समभ्युन्नतरोमराजी ।।९। ।

सुसंस्थिताभ्यां चरणाम्बुजाभ्यां प्रदक्षिणावर्तनिमग्ननाभिः ।

विगूढजान्वस्थिशिरा सुगुल्फा विनाकृतेवाम्बुरुहेण१६ लक्ष्मीः । । 8.58.१० ।।

प्रसन्नरूपा प्रथमोद्गतस्तनी प्रफुल्लनीलाम्बुजचारुलोचना१७ ।

सुसंस्कृतैर्वज्रमणिप्रवेकिभिर्विभूषिता चाभरणै१८ स्सुमध्यमा ।। ११ ।।

साङ्गदा बद्धकेयूरा१९ कटकोद्भासितत्विषा२० ।

बिभर्त्ति सा भुजानष्टौ सायुधानपराजिता ।। १२ । ।

बद्धगोधाङ्गुलित्राणा कवचं बिभ्रती शुभम्२१ ।

दुर्भेद्यं२२ सहजं भास्वत् सेन्द्रैरपि सुरासुरैः ।।१ ३ ।।

निबद्धतूणीरयुगा२३ प्रगृहीतशरासना ।

वसाना पद्मकिञ्जल्करुचिरे वाससी तदा । ।१४। ।

 

७ किंचिदुद्दिश्य - . । ८ यथार्हं - . । ९... चिन्तकम् - घ । १० पुत्रलाभकृतं घ । ११.. च्च जलं सद्यः- . । १२ च (?) । १३ शिष्यैर्बहुगुणेनैव - . । १४ तस्यां - क । १५ कोश्यां - क। । १६... वाम्बुरूहेव - क । १७ प्रसन्ननीलाम्बुजचारुनेत्रः- - . । १८ विभूषितेवाभरणैः - ., विभूषितैर्वा - ,?.. तैराभरणैः - घ । १९ वज्रकेयूरा - . । २० करकोद्भासितत्विषा -   . । २१ शुभा - . । २२ दुर्भेदं - घ । २३... युग्मा - घ ।

 

334

जानुभ्यामवनिं गत्वा शिरस्याधाय चाञ्जलिम् ।

व्यज्ञापयत सा देवी ब्रूहि किङ्करवाणि ते ।। १ ५। ।

मूर्ध्न्युपाघ्राय तां देवीं परिष्वज्य च पीडितम्२४ ।

भवानी प्राह संहृष्टा२५ मूर्त्तिस्थानं२६ ममाव्यये ।।१ ६। ।

जरामरणहीना त्वं शोकदुःखविवर्जिता ।

भविष्यसि महायोगा संयुगेष्वपराजिता ।। १७। ।

कौशिकीति च नाम्ना त्वं लोके ख्यातिं२७ गमिष्यसि ।

अन्यैश्चनामभिः श्लाघ्यैर्गुणकर्माभिसंश्रयैः ।।१८।।

तव भक्ताः२८ स्मरिष्यन्ति येति२९ दुर्गेषु संस्थिताः ।

दुर्गाणि ते तरिष्यन्ति त्वत्प्रसादाद्वरानने । ।१९। ।

वरा वरेण्या वरदा दुर्गा३० सर्वार्थसाधनी ।

इत्थं त्वां नामभिर्दिव्यैः स्तोष्यन्ति मुनयः सदा । ।8.58.२० ।।

जापैः प्रणतिभि३१र्होमैरुपहारैः पृथग्विधैः ।

प्राणिनः पूजयिष्यन्ति भवतीं भुवि सर्वदा ।।२१ ।।

सिंहयुक्तं ततो३२ देवी३३ रथमादित्यवर्चसम् ।

ससर्ज सपताकं च किंकिणीजालमण्डितम् ।

विन्ध्यं गिरिवरं चास्या निवासाय समादिशत् ।।२२। ।

सनत्कुमार उवाच

सैव३४ मुक्ता तदा देवी प्रणम्य भुवनेश्वरीम् ।

आरुरोह रथं दिव्यं कार्तस्वरमयं शुभम् । । २३ ।।

व्योमगेन रथेनाथ नानारत्नांशुमालिना ।

जगामाशु ततो विन्ध्यं नानाद्रुमलतान्वितम् । ।२४। ।

 

२४ निपीडितम् - ., निपीडितां - . । २५ संयुक्ता - क ख, घ । २६ मूर्त्तिस्थासि - . । २७ ख्यांति- लोके - . । २८ भक्त्या - . । २९ येपि - ख । ३० वरेण्या वरदा दुर्गा वरा - . । ३१ जप्यैः  प्रणामैः - . । ३२ महद् - , महा - . । ३३ दिव्यं - क ख. . । ३४ एवमुक्ता - . . .

 

335

विहङ्गविरुतै३५र्विन्ध्यः स्वागतेनेव३६ कौशिकीम् ।

अपूजयदमेयां तां तत्र प्राप्तां तदानघाम्३७ । ।२५।।

वारिभिर्विमलैः शोक्तंनिर्झरोदरनिःसृतैः३८ ।

स पुष्पनिकरैः पुण्यैरर्घञ्चास्यै ददन्निव । । २६। ।

अथ मृगपतिनागं त्रस्तपर्यन्तनागं

चकितहरिणयूथक्षुण्णदर्भाङ्कुराग्रम् ।

वरमहिषविषाणच्छिन्नगुल्मावतानं

गिरिवरमति रम्यं कौशिकी साभ्यपश्यत् । ।२७।।

व्यरोचयत सा३९ देवी वासाय शिखरं गिरेः४० ।

उत्फुल्लं४१ पादपालीनविहङ्गगणनादितम्४२ । ।२८। ।

निर्झरोदकसंपर्कहरितोपलशाद्वलम् ।

नानाद्रुमलतापुष्पसुरभीकृतमारुतम् ।। २९ ।।

तुहिननिकरशीतैर्निर्झराम्बुप्रवाहै-

र्निचितपृथुनितम्बोत्तुङ्गपर्यन्तसानुम् ।

गिरिवरशिखरं तत्साध्युवासाथ देवी

कुसुमिततरुशाखाश्लिष्टमत्तद्विरेफम् । ।8.58.३ ० । ।

य इदं४३ पठते नित्यं शृणुयाद्वा समाहितः ।

कौशिक्याः संभवं सम्यक् स याति परमां गतिम् ।।३ १ ।।

इति स्कन्दपुराणे कौशिकीसम्भवो नाम अष्टपञ्चाशत्तमोध्यायः

 

सनत्कुमार उवाच

ततस्तां कौशिकीं तत्र प्रस्थाप्य हिमवत्सुता ।

विरेमे तपसस्तीव्रात् सस्नौ च विधिवत्तदा ।।१ । ।

 

३५ विकलै (विहङ्गमकलै?) - . । ३६.. नेह - . । ३७ उमाम् - घ । ३८ निर्झरोदकनिःसृतैः - . . । ३९. .त्तदा - . । ४० गिरौ - . । ४१ तत् फुल्ल  . । ४२... वादितम् - , . । ४३ इमं - . .

 

336

वसाना वाससी शुक्ले१ दिव्य२ स्रगनुलेपना ।

पार्श्वस्थं पर्वतं वीक्ष्य प्रोवाच वरदास्मि ते । । २।।

एवमुक्तवतीं४ देवीं५ शिखरी६ मूर्त्तिमान्७ तदा ।

प्रणिपत्य वरं वव्रे मयि सान्निध्यमस्तु८ ते ।।३ । ।

नाम चैव मम ख्यातिं तव नामा९ भिलक्षितम् ।

यातु लोकेषु सर्वेषु त्वत्प्रसादान्महेश्वरि । ।४।।

अग्निश्च वरदां वव्रे मागाः कोपं मयीश्वरि ।

सदा पुष्पफलत्वं च वृक्षास्तां तत्र वव्रिरे ।।५। ।

सुप्रसन्ना भवास्माकं त्वयि भक्तिश्च नोस्त्विति ।

ततस्तां वव्रिरे देवीं सर्वाश्च परिचारिकाः१० । ।६ ।।

उपास्यमाना बह्वीभिर्देवताभिर्गिरीन्द्रजा ।

अभिभूयान्यतेजांसि भानवीव११ बभौ१२ प्रभा । ।७।।

हृदयेपि स्थिता पत्युः पत्यौ१३ हृदयसंस्थिते ।

सा वै गिरीन्द्रतनया वियुक्ता१४ स्मीत्यमन्यत ।।८। ।

अथ सा तेजसां धाम१५ पतिं सर्वजगत्पतिम् ।

वरदा वरदं द्रष्टुं गमनायोपचक्रमे । ।९।।

नमस्कृता तद्वनदेवताभिः१६ प्रदक्षिणीकृत्य समिद्धमग्निम् ।

ऋषीँस्ततो वन्द्यतमाभिवन्द्य जनञ्च तेषां प्रतिपूज्य पूज्यम् ।।8.59.१ ० । ।

उत्पपात ततो व्योम सा सार्द्धं सोमनन्दिना ।

सिंहेन च१७ जगद्धात्री गणैः परिजनेन च । । ११ । ।

 

१ शुभ्रे - घ । २ दिव्यगन्धानुलेपना - . । ३.. स्थमचलं - .,... स्थमथ संवीक्ष्य - . । ४.. मुक्तवती - . . । ५ देवी - . ख घ. । ६ शिखरो - ., शिखरं - . । ७ मूर्तिमत् - . . .,... माँस्तदा - . । ८ सान्नैध्यमस्तु - . । ९ नाम्ना - घ । १० परिचारकाः - . । ११ भवानी - ., भवानी च - . । १२ विबभौ - ., ददौ - . । १३ पतौ - क । १४ विमुक्ता - . । १५ धामं - . । १६ सा वरदेवताभिः - . । १७ सिंहेनैव - .,.. .नैव - .

 

337

वियति जलदवृन्दान् विक्षिपन्ती स्वधाम्ना

हिमजलकणशीतैर्वीज्यमाना मरुद्भिः ।

गिरिवरतनया सा पत्युरेव स्मरन्ती

मदनदहनमूर्तेराशु पार्श्वं जगाम ।। १२ । ।

इति स्कन्दपुराणे ऊनषष्टितमोध्यायः

 

सूत१ उवाच

अथासौ ब्रह्मणः पुत्रं व्यासः प्राह कृताञ्जलिः ।

किमर्थं कौशिकी विन्ध्यं देव्या संप्रेषिता तदा । । १ । ।

एवमुक्तस्तदा धीमान् व्यासेन ब्रह्मणः सुतः ।

यथावृत्तं पुरा सर्वमाख्यातुमुपचक्रमे ।।२ । ।

आरिराधयिषुर्देवीं विन्ध्यस्तेपे पुरा तपः ।

ततस्तुष्टाब्रवीन्विन्ध्यं पार्वती वरदास्मि ते । ।३ । ।

मयि वासोस्तु ते नित्यमेवमादित्यरोधनः ।

वव्रे गिरीन्द्रतनयां प्राह सा च तथास्त्विति ।।४।।

स्वतनुं सा द्विधाभूता२मग्नेर्दीप्तां शिखामिव ।

दाहाय दानवेन्द्राणां प्राहिणोत् कौशिकीमतः३ । ।५ । ।

अथ तं ब्रह्मणः सूनुमुवाच मुनिसत्तमः ।

गिरिर्विन्ध्यो महाप्रज्ञ४ कथमादित्यरोधनः । । ६। ।

सनत्कुमारः प्रोवाच पृष्टो व्यासेन धीमता ।

शृणु यस्मादभूद्विन्ध्यो गिरिरादित्यरोधनः । ।७ ।।

पुरा विन्ध्योब्रवीत् सूर्यं कस्मात्त्वं न करोषि माम्५। ।

प्रदक्षिणं यथा मेरुं का तेवज्ञा मयि प्रभो६ । ।८।।

 

१ व्यास उ. - , सनत्कुमार उ. - . । २ द्विधीभूता - क ख. । ३ कौशिकी ततः - . । ४ महाप्रज्ञः - . । ५ किमवज्ञां करोषि मां - . । ६ प्रभो - .

 

338

स उवाच तदा विन्ध्यं नैवं कर्तुं हि शक्यते ।

प्रत्याख्यातः स सूर्येण विन्ध्यो गिरिरवर्धत ।

रुद्धा तस्य स्थितो मार्गं७ तस्मादादित्यरोधनः । ।९ ।।

नष्टालोके ततो लोके देवाः संविग्नचेतसः ।

अगस्त्यमुपसंगम्य वाक्यमूचुः समाहिताः । । 8.60.१० । ।

सवितुर्मार्गमावृत्य गिरिर्विन्ध्यो व्यवस्थितः ।

तं वारय महाप्राज्ञ गतिर्नः सर्वदा भवान् । । ११ ।।

ततो८गस्त्यो गिरिं गत्वा प्रोवाचेत्थं महातपाः ।

यास्यामि दक्षिणामाशां पन्थानं देहि पर्वत ।। १ २।।

यावत्प्रतिनिवर्त्तेयं९ तावच्च१० स्थातुमर्हसि ।

ततः प्रभृति चैवेह नाभूदागमनं मुनेः ।।१ ३।।

अथ पप्रच्छ तं व्यासः पितामहसुतं प्रभुम् ११ ।

कौशिकी प्रहिता विन्ध्यं दानावानां विनाशने ।।१४।।

के ते१२ कस्य किमर्थं वा कौशिक्या दानवा हताः ।

एतत् सर्वं समासेन मुने१३ मे वक्तुमर्हसि ।।१ ५।।

पितामहसुतो धीमान् व्यासेनैवं१४ प्रचोदितः ।

प्रश्नमेतं१५ समासेन व्याख्यातुमुपचक्रमे ।। १६ । ।

देवासुरे पुरातीते संयुगे परमाद्भुते ।

सुन्दो निसुन्दश्च सुतौ निशुम्भस्य बभूवतुः । । १७। ।

हतान् निशम्य तौ बन्धून्सुरैः सर्वान्महाहवे ।

देवान्प्रति सुसंक्रुद्धौ गर्जन्तौ गोवृषाविव ।। १८ ।।

सिंहाविव महासत्त्वौ हृतदंष्ट्रानखायुधौ१६ ।

श्वसन्तौ सविषावुग्रौ भग्नदंष्ट्राविवोरगौ ।। १९।।

अशक्तौ तौ सुरैर्योद्धुं हतपक्षौ महासुरौ ।

सुपर्णाविव संक्रुद्धौ छिन्नपक्षौ महाबलौ ।।8.60.२ ० ।।

 

७ मार्गे - . । ८ तस्या - ., अगस्त्यः सुमहातेजास्तत्र गत्वाब्रवीद्वचः - घ । ९ यावच्च न निवर्तेयं (?) । १० त्वं - . । ११ प्रभुः - . । १२ कृते - . । १३ मुने - ., प्रश्नं - . . । १४ व्यासेनैव - . । १५ प्रश्नमेनं - . । १६ कृतदंष्ट्रानाखायुधौ - .

 

339

- - - णः१७ सुतौ चैतौ१८ गोकर्णं प्रति जग्मतुः ।

आरिराधयिषू देवं ब्रह्माणममितौजसौ । ।२ १ ।।

अथोवाच ततो व्यासो गोकर्णं कथयस्व मे ।

कस्मिन्देशे किमर्थं वा केन वोत्पादितं१९ पुरा ।।२२।।

प्रोवाच ब्राह्मणः सूनुर्व्यासेनैवं प्रचोदितः ।

शृणु वत्स समासेन पुण्यं गोकर्णसंभवम् ।।२३ । ।

हते त्रिशिरसि त्वष्टा पुत्रे ज्यायसि वज्रिणा ।

बृत्रं२० नाम ततः२१ पुत्रमसृजत्तपसां निधिः२२ । ।२४। ।

प्रलम्बबाहुं वृत्तास्यं पीनविस्तीर्णवक्षसन् ।

सुश्लिष्टजानु सहनुं जलदध्वाननिस्वनम् ।।२५। ।

स्वक्षं सुपार्श्वं सुकटिं दीर्घरक्तान्तलोचनम् ।

समरे सर्वदेवानां जेतारमपराजितम् । ।२६ ।।

स निर्जित्यामरान् सर्वान् जग्रासेन्द्रं महाद्युतिः ।

ततो महर्षिभिः सृष्टा जृम्भिका तं समाविशत् ।।२७।।

तस्याथ जृम्भमाणस्य निर्जगाम शतक्रतुः ।

वदनादाशु२३ संक्षिप्य स्वां तनुं योगमायया । ।२८ ।।

तस्य योगबलं दृष्ट्वा वीर्यं शौर्यं च संयुगे ।

ततो भीताः सुराः सर्वे ब्रह्माणं शरणं ययुः । ।२९। ।

तान्दृष्ट्वा स तदा भीतानमरान् सुरविद्विषः ।

प्रोवाचाशु२४ प्रजेशानः पद्मयोनिः पितामहः ।।8.60.३ ० । ।

पराजितान् वो जानामि वृत्रेण रणमूर्धनि ।

उपायं तं न पश्यामि येनासौ जीयते युधि । ।३ १ः ।

यास्याम२५ सहिताः सर्वे देवं द्रष्टुमुमापतिम् ।

विश्वेश्वरं विधातारं वरदं भक्तवत्सलम् ।।३ २।।

 

१७ न पश्यंतौ (तपस्यन्तौ?) - घ । १८ चेतौ - ., चोभौ - . । १९... त्पादितः - . । २० वृन्दं - . । २१ पुनः - ख । २२ निधिम् - . . । २३ वरदानात्तु - . । २४ प्रोवाचासौ - . । २५ यास्यामः - .

 

340

स नः प्रणामैर्भक्त्या च स्तुत्या चाराधितः प्रभुः ।

महादेवो महायोगी२६ शम्भुः शान्तिं विधास्यति ।।३३।।

अथोत्तस्थुः सुराः सर्वे देवदेवं दिदृक्षवः ।

अपश्यन्तो विचेरुश्च महीं सोदधिपर्वताम् ।।३४।।

अथ विष्णुर्महायोगी देवीं हिमवतः सुताम् ।

अपश्यत् पांशुदिग्धाङ्गीमासीनां बालरूपिणीम् । ।३५।।

लेखामिव नवामिन्दोः प्रातः सूर्यप्रभामिव ।

हविषा हूयमानस्य तन्वीमग्नेः शिखामिव ।।३६।।

विज्ञाय स तदा योगान्महायोगां सुरेश्वरीम् ।

ईश्वरो जगतो विष्णु२७र्जिष्णुस्तुष्टाव पार्वतीम् ।।३७।।

विष्णुरुवाच

त्वं स्रष्ट्री२८ सर्वभूतानां संहर्त्री त्वं सुरेश्वरि ।

त्वमस्य जगतो धात्री नित्या प्रकृतिरव्यया । ।३८।।

त्वं प्रभा शर्वरी ज्योत्स्ना कीर्तिस्तुष्टिरुमा धृतिः ।

बुद्धिमेधा स्मृतिः प्रज्ञा सन्ध्या कान्तिः स्तुतिर्मतिः ।।३९।।

त्वमीशा देवि देवानां गणमाता गणाम्बिका ।

भद्रकाली महागौरी कौशिकी विन्ध्यवासिनी ।।8.60.४० । ।

दुर्गा ख्यातिर्महाविद्या गायत्री त्वं सरस्वती२९ ।

स्वाहा स्वधा महामाया लक्ष्मीर्योगेश्वरेश्वरी ।।४१ ।।

उल्का सती गिरेः पुत्री मैत्रेयी ब्रह्मचारिणी ।

तापसी३० रेवती षष्ठी वरावरसहस्रदा३१ । ।४२ । ।

कुन्दकार्मुकसारङ्गकोकिलाशोकपल्लवैः ।

तुल्यासि३२ दन्तभ्रू नेत्रस्वरपाणिभिरीश्वरि३३ । ।४३ ।।

प्रमत्तोत्फुल्लपूर्णन्तान् नागोत्पलनिशाकरान् ।

विशिनक्षि सदा देवि गतिलोचनकान्तिभिः ।।४४। ।

 

२६ महायोगः - . ख । २७ धाता - . । २८ सृष्टिः- - . । २९ सुरेश्वरी - क । ३० तामसी? । ३१ चराचरसहस्रदा - . । ३२ तुल्यास्य - . । ३३... रीश्वरी - .

 

341

शिरोभिर्महिषोद्भ्रान्तरक्तपर्यन्तलोचनैः ।

नृभिः क्षितितलन्यस्तकरजानुमिरिज्यसे३४ ।।४५।।

मत्तान्यपुष्टाकलवल्गुभाषिता द्विरेफमालासितचारुमूर्धजा ।

प्रफुल्लपुष्पस्तबकोद्गतस्तनी विराजसे कल्पलतेव पुष्पिता ।।४६।।

देवि देवीभिरनिशं भक्त्याभिवन्द्यसे दिवि ।

इज्यसे३५ मुनिभिः शश्वद् गिरिजे गिरिमूर्धसु ।।४७।।

अर्च्यसे द्धिगन्धर्वैर्गन्धपुष्पोत्करैः सदा ।

सदागतिपथं प्राप्ता३६ प्राप्त्या च स्तूयसेनघे ।।४८।।

भासि सिंहं समारूढा चलत्पिङ्गलकेसरम् ।

दीप्ता प्रभेव सावित्री मेरुमूर्धानमास्थिता ।।४९।।

जिघांसती रणे दैत्याञ्छरौघैर्भास्यजिह्मगैः ।

रवेर्मूर्तिस्तमांसीव विकिरन्तो गभस्तिभिः ।।8.60.५०।।

परशुं शितमुदगृह्य देवदानवसंयुगे३७ ।

भ्राजसे देवि संक्रुद्धा पाटयन्तीव३८ रोदसी ।।५१।।

अथ सा शैशवं हित्वा तनुमन्यां समाददे३९ ।

एकीकृतामिवाकाशे संहतिं सर्वतेजसाम् । ।५२।।

दीप्तामपि सुखालोकां शान्तामपि सविभ्रमाम्४० ।

बालामपि जगद्धात्रीं तन्वीमपि सुसंहताम्४१ ।।५३।।

उवाचेदं च सा प्रीता४२ वरदास्मि तव प्रभो ।

एवमुक्तस्तया४३ सोथ प्रोवाचाम्भोदनिस्वनः४४ ।।५४।।

शरण्ये देवि भक्तानां शरणागतवत्सले ।

भवानि भव मे नित्यं सुप्रसन्ना महेश्वरि ।।५५।।

कथयस्व च४५ देवेशं शाश्वतं स्थाणुमव्ययम् ।

विश्वात्मानं महादेवं सर्वयोगेश्वरेश्वरम् ।।५६।।

 

३४... रीज्यसे - . । ३५ ईज्यसे -घ । ३६ सदागतिपथप्राप्ता - क । ३७ संयुते- . । ३८ पातयन्तीव - . । ३९ समादधे - . ।। ४० तपन्तीमप्यविभ्रमाम् - क घ. । ४१ सुसंयतां  . । ४२ सुप्रीता - , , । ४३... स्तदा  . । ४४ निस्स्वनः - . । ४५ त्वं च - .

 

342

तथास्त्विति प्रतिज्ञाय कथयामास शंकरम् ।

मृगयूथस्य मध्यस्थं क्रीडन्तं४६ मृगरूपिणम् ।।५७। ।

एकशृङ्गं महाग्रीवमेकाक्षममितौजसम् ।

एकपादं सुसंश्लिष्टमापाण्डुकपिलोदरम् । ।५८। ।

अथ विष्णुर्द्रुतं गत्वा शृङ्गे जग्राह तं४७ प्रभुम् ।

तस्मिन्नेव ततो ब्रह्मा जग्राहेन्द्रश्च वीर्यवान् ।।५९। ।

त्रिधा तदभवच्छृङ्गं चलितं४८ दीप्ततेजसम्४९ ।

त्रयाणां सुरमुख्यानां पृथक् पाणिषु संस्थितम् । ।8.60.६० । ।

अथादृश्यस्तदा शर्वस्तानुवाच सुरोत्तमान् ।

यदर्थमागता यूयं तद् ब्रूत सुरसत्तमाः ।।६१ ।।

अथोवाच तदा५० ब्रह्मा परमेशं वृषध्वजम् ।

राज्यं पुनरवाप्नोतु हत्वा वृत्रं५१ पुरन्दरः । । ६२ ।।

ततस्तानमरान् तत्र वृषकेतुः समागतान् ।

स्वरेण वारिदध्वानगम्भीरेणाब्रवीत्ततः । ।६३ ।।

वैष्णवं परमं तेजः फेनमाचक्ष्यते सुराः५२ ।

शिरश्छेत्स्यति वृत्रस्य तदादाय शतक्रतुः । ।६४। ।

हृषीकेशोथ तत्खण्डमनयत् स्वं निकेतनम् ।

न्यवेशयत५३ तत्रैव५४ वारिजोदरसंभवः५५ ।। ६५।।

नीयमानं तृतीयं५६ च खण्डमाखण्डलेन तु ।

रक्षसामधिपः श्रीमान् जग्राहाथ दशाननः ।।६६।।

चकार सन्ध्यामुदधौ दक्षिणे न्यस्य तत्तदा ।

न विचालयितुं शक्तः सन्ध्यामास्थाय रावणः५७। ।६७।।

तत्पुण्यं देवदेवस्य व्यास क्षेत्रं महाद्युते ।

गोकर्णमिति नामास्य चकार कमलासनः ।। ६८। ।

 

४६ क्रीडया - . । ४७ स - . । ४८ चलिते - . . । ४९ दीप्ततेजासां - ., दीप्ततेजसि - . । ५० ततो - . । ५१ वृत्रं हत्वा - . । ५२ केन वै निर्मितः पुरा - घ । ५३ निवेशयत - . । ५४. त्वद्वारि - . । ५५ वारिधेरुदरे ततः - . । ५६ द्वितीयं - . । ५७ सत्वमन्विष्य वारुणः - .

 

343

तत्र गत्वा नरो भक्त्या प्रणिपत्य महेश्वरम् ।

अश्वमेधमवाप्नोति सर्वपापैः प्रमुच्यते । ।६९।।

गोकर्णमुत्तरं५८ व्यास स्थापितं पद्मयोनिना५९ ।

उदन्वतः स्थितं तीरे स्वयमेव तु दक्षिणे ।।8.60.७०।।

यः शृणोति नरो नित्यं पुण्यगोकर्णसंभवम् ।

सर्वपापविधूतात्मा स यातिपरमां गतिम्६० ।।७१ ।।

अथ तौ दानवौ व्यास गोकर्णमभिजग्मतुः ।

तत्र चेरतुरत्युग्रं तपोम्बुपवनाशनौ ।।७२।।

कस्यचित्त्वथ कालस्य विदित्वोग्रं तयोस्तपः ।

आजगाम तयोः पार्श्वं ब्रह्मा सुरनमस्कृतः ।।७३।।

अथ तौ विश्वधातारं चतुर्वक्त्रं पितामहम् ।

अपश्यतां महाबाहू &