सामग्री पर जाएँ

सौन्दरनन्दकाव्यम्/तृतीयः सर्गः

विकिस्रोतः तः
← द्वितीयः सर्गः सौन्दरनन्दकाव्यम्
तृतीयः सर्गः
[[लेखकः :|]]
चतुर्थः सर्गः →

तपसे ततः कपिलवास्तु हयगरथौघसंकुलं ।
श्रीमदभयं अनुरक्तजनं स विहाय विश्चितमना वनं ययौ ।। ३.१ ।।

विविधाग्मांस्तपसि तांश्च विविधनियमाश्रयान्मुनीन् ।
प्रेक्ष्य स विषयतृआकृपणाननवस्थितं तप इति न्यवर्तत ।। ३.२ ।।

अथ मोक्षवादिनं अराडं उपशममतिं तथोड्रकं ।
तत्त्वकृतमतिरुपास्य जहावयं अप्यमार्ग इति मागकोविदः ।। ३.३ ।।

स विचारयन्जगति किं नु परमं इति तं तं आगमं ।
निश्चयं अनधिगतः परतः परमं चचार तप एव दुष्करं ।। ३.४ ।।

अथ नैष मार्ग इति विक्ष्य तदपि विपुलं जहौ तपः ।
ध्यानविषयं अवगम्य परं बुभुजे वरान्नं अमृतत्वबुद्धये ।। ३.५ ।।

स सुवर्णपीनयुगबाहुरृषभगतिरायतेक्षणः ।
प्लक्षं अवनिरुहं अभ्यगमत्परमस्य निश्चयविधेर्बुभुत्सया ।। ३.६ ।।

उपविश्य तत्र कृतबुद्धिरचल्धृतिरद्रिराजवत् ।
मारबलं अजयदुग्रं अथो बुबुधे पदं शिवं अहार्यं अव्ययं ।। ३.७ ।।

अवगम्य तं च कृतकार्यं अमृतमनसो दिवौकसः ।
हर्षं अतुलं अगमन्मुदिता विमुखी तु मारपरिषत्प्रचुक्षुभे ।। ३.८ ।।

सनगा च भूः प्रविचाल हुतवहसकः शिवो ववौ ।
नेदुरपि च सुरदुन्दुभयः प्रववर्ष चाम्बुधरवर्जितं नभः ।। ३.९ ।।

अवबुध्य चैव परमार्थं अजरं अनुकम्पया विभुः ।
नित्यं अमृतं उपदर्श्यितुं स वराञसीपरिकरां अयात्पुरीं ।। ३.१० ।।

अथ धर्मचक्रं ऋतनाभि धृतिमतिसमाधिनेमिमत् ।
तत्र विनयनिमारं ऋषिर्जगतो हिताय परिषद्यवर्तयत् ।। ३.११ ।।

इति दुःखं एतदियं अस्य समुदयलता प्रवर्तिका ।
शान्तिरियं अयं उपाय इति प्रविभागशः परं इदं चतुष्टयं ।। ३.१२ ।।

अभिधाय च त्रिपरिवर्तं अतुलं अनिवर्त्यं उत्तमं ।
द्वादशनियतविकल्पं ऋषिर्विनिनाय कौण्डिनसगोत्रं आदितः ।। ३.१३ ।।

स हि दोषसागरं अगाधं उपधिजलं आधिजनुत्कं ।
क्रोधमदभयतर्ङ्गचलं प्रततार लोकं अपि व्यतारयत् ।। ३.१४ ।।

स विनीय काशिषु गयेषु बहुजनं अथो गिरिव्रजे ।
पित्र्यं अपि परमकारुणिको नगरं ययावनुजिघृक्षया तदा ।। ३.१५ ।।

विषयात्मकस्य हि इअनस्य बहुविविधमार्गसेविनः ।
सूर्यसदृशवपुरभ्युदितो विजहार सूर्य इव गौतमस्तमः ।। ३.१६ ।।

अभितस्ततः कपिलवास्तु परमशुभवास्तुसंस्तुतं ।
वस्तुमतिशुचि शिवोपवनं स ददर्श निःस्पृहतया यथा वनं ।। ३.१७ ।।

अपरिग्रहः स हि बभूव नियतमतिरात्मनीश्वरः ।
नैकविधभयकरेषु किम्-उ स्वजनस्वदेशजनमित्रवस्तुषु ।। ३.१८ ।।

प्रतिपूजया न स जहर्ष न च शुचं अवज्ञयागमत् ।
निश्चितमतिरसिचन्दनयोर्न जगाम दुःखसुखयोश्च विक्रियां ।। ३.१९ ।।

अथ पार्थिवः समुपलभ्य सुतं उपगतं तथागतं ।
तूर्णं अबभुतुरगानुगतः सुतदर्शनोत्सुकतयाभिनिर्ययौ ।। ३.२० ।।

सुगतस्तथागतं अवेक्ष्य नरपतिं अधीरं आशया ।
शेषं अपि च जनं अश्रुमुखं विनीषय गगनं उत्पपात ह ।। ३.२१ ।।

स विचक्रमे दिवि भुवीव पुनरुपविवेश तस्थिवान् ।
निश्चलमतिरशयिष्ट पुनर्बहुधाभवत्पुनरभूत्तथैकधा ।। ३.२२ ।।

सलिले क्षिताविव चचार जलं इव विवेष मेदिनीं ।
मेघ इव दिवि ववर्ष पुनः पुनरज्वलन्नव इवोदितो रविः ।। ३.२३ ।।

युगपज्ज्वलन्ज्वलनवच्च जलं अवसृहंश्च मेघवत् ।
तप्तकनकसदृशप्रभया स बभौ प्रदीप्त इव सन्ध्यया घनः ।। ३.२४ ।।

तं उदीक्ष्य हेममणिजालवलयिनं इवोत्थितं ध्वजं ।
प्रीतिं अगमदतुलां नृपतिर्जनता नताश्च बहुमानं अभ्ययुः ।। ३.२५ ।।

अथ भाजनीकृतं अवेक्ष्य मनुजपतिं ऋद्धिसंपदा ।
पौरजनं अपि च तत्प्रवणं निजगाद धर्मविनयं विनायकः ।। ३.२६ ।।

नृपतिस्ततः प्रथमं आप फलं अमृतधर्मसिद्धयोः ।
धर्मं अतुलं अधिगम्य मुनेर्मुनये ननाम स यतो गुराविव ।। ३.२७ ।।

बहवः प्रसन्नमनसोऽथ जननमरणार्तिभीरवः ।
शाक्यतनयवृषभाः कृतिनो वृषभा इन्वानलभयात्प्रवव्रजुः ।। ३.२८ ।।

विजहुस्तु येऽपि न गृहाणि तनयपितृमात्रपेक्षया ।
तेऽपि नियमविधिमामरणाज्जगृहुश्च युक्तमनसश्च दघ्रिरे ।। ३.२९ ।।

न जिहिंस सूक्ष्मं अपि जन्तुं अपि परवधोपजीवनः ।
किं बत विपुलगुञः कुलजः सदयः सदा किमु मुनेरुपासया ।। ३.३० ।।

अकृशोध्यमः कृशधनोऽपि परपरिभवासहोऽपि सन् ।
नान्यधनं अपजहार तथा भुजगादिवान्यविभवाद्धि विव्यथे ।। ३.३१ ।।

विभवान्वितोऽपि तरुणोऽपि विषयचपलेन्द्रियोऽपि सन् ।
नैव च परयुवतीरगमत्परमं हि ता धनतोऽप्यमन्यत ।। ३.३२ ।।

अनृतं जगाद न च कश्चिदृतं अपि जजल्प नाप्रियं ।
श्लक्ष्णं अपि च न जगावहितं हितं अप्युवाच न च पैशुनाय यत् ।। ३.३३ ।।

मनसा लुलोभ न च जातु परवसुषु गृद्धमानसः ।
कामसुखं असुखतो विमृशन्विजहार तृप्त इव तत्र सज्जनः ।। ३.३४ ।।

न परस्य कश्चिदपघातं अपि च स्गृणो व्यचिन्तयत् ।
मातृपिऋसुतसुहृसदृशं स ददर्श तत्र हि परस्परं जनः ।। ३.३५ ।।

नियतं भविष्यति परत्र भवदपि च भूतं अप्यथो ।
कर्मफलं अपि च लोकगतिर्नियतेति दर्शनं अवाप साधु च ।। ३.३६ ।।

इति कर्मञा दशविधेन परमकुशलेन भूरिणा ।
भ्रंशिनि शितहिलगुणोऽपि युगे विजहार तत्र मुन्संश्रयज्जनः ।। ३.३७ ।।

न च तत्र कश्चिदुपपत्तिसुखं अभिललाष तैर्गुणैः ।
सर्वं अशिवं अवगम्य भवं भवसंक्षयाय ववृते न जन्मने ।। ३.३८ ।।

अकथङ्कथा गृहिण एव परमपरिशुद्धदृष्तयः ।
स्रोतसि हि ववृतिरे बहवो रजसस्तनुत्वं अपि चक्रिरे परे ।। ३.३९ ।।

ववृतेऽत्र योऽपि विषमेषु विभवदृशेषु कश्चन ।
त्यागविनयनियमाभिरतो विजहार सोऽपि न चचाल सत्पथात् ।। ३.४० ।।

अपि च स्वतोऽपि परतोऽपि न भयं अभवन्न दैवतः ।
तत्र च सुसुखसुभिक्षगुणैर्जहृषुः प्रजाः कृतयुगे मनोरिव ।। ३.४१ ।।

इति मुदितं अनामयं निरापत्कुरुरघुपुरुपुरोपमं पुरं तत् ।
अभवदभयदैशिके महर्षौ विहरति तत्र शिवाय वीतरागे ।। ३.४२ ।।