सूर्यसिद्धान्तः/अध्यायः ८

विकिस्रोतः तः
← अध्यायः ७ सूर्यसिद्धान्तः
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →

प्रोच्यन्ते लिप्तिका भानां स्वभोगो +अथ दशाहतः ।
भवन्त्यतीतधिष्ण्यानां भोगलिप्तायुता ध्रुवाः ।। ८.०१ ।।

अष्टार्णवाः शून्यकृताः पञ्चषष्टिर्नगेषवः ।
अष्टार्था अब्धयो +अष्टागा अङ्गागा मनवस्तथा ।। ८.०२ ।।

कृतेषवो युगरसाः शून्यवाणा वियद्रसाः ।
खवेदाः सागरनगा गजागाः सागरर्तवः ।। ८.०३ ।।

मनवो +अथ रसा वेदा वैश्वं आप्यार्धभोगगम् ।
आप्यस्यैवाभिजित्प्रान्ते वैश्वान्ते श्रवणस्थितिः । ८.०४ ।।

त्रिचतुः पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु ।
स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः ।। ८.०५ ।।

रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात् ।
दिङ्मासविषयाः सौम्ये याम्ये पञ्च दिशो नव ।। ८.०६ ।।

सौम्ये रसाः खं याम्ये +अगाः सौम्ये खार्कास्त्रयोदश ।
दक्षिणे रुद्रयमलाः सप्तत्रिंशदथोत्तरे ।। ८.०७ ।।

याम्य +अध्यर्धत्रिककृता नव सार्धशरेषवः ।
उत्तरस्यां तथा षष्टिस्त्रिंशत्षट्त्रिंशदेव हि ।। ८.०८ ।।

दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे ।
भागाः षड्विंशतिः खं च दास्रादीनां यथाक्रमम् ।। ८.०९ ।।

अशीतिभागैर्याम्यायां अगस्त्यो मिथुनान्तगः ।
विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः ।। ८.१० ।।

विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात् ।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ ।। ८.११ ।।

अष्टाभिस्त्रिंशता चैव विक्षिप्तावुत्तरेण तौ ।
गोलं लब्ध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम् ।। ८.१२ ।।

वृषे सप्तदशे भागे यस्य याम्यो +अंशकद्वयात् ।
विक्षेपो +अभ्यधिको भिन्द्याद्रोहिण्याः शकतं तु सः ।। ८.१३ ।।

ग्रहवद्द्युनिशे भानां कुर्याद्दृक्कर्म पूर्ववत् ।
ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च ।। ८.१४ ।।

एष्यो हीने गृहे योगो ध्रुवकादधिके ततः ।
विपर्ययाद्वक्रगते ग्रहे ज्ञेयः समागमः ।। ८.१५ ।।

फाल्गुन्योर्भाद्रपदयोस्तथैवाषाढयोर्द्वयोः ।
विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता ।। ८.१६ ।।

पश्चिमोत्तरताराया द्वितीया पश्चिमे स्थिता ।
हस्तस्य योगतारा सा श्रविष्ठायाश्च पश्चिमा ।। ८.१७ ।।

ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा ।
भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा ।। ८.१८ ।।

रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि ।
यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका ।। ८.१९ ।।

पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः ।
प्रजापतिर्वृषान्ते +असौ सौम्ये +अष्टत्रिंशदंशकैः ।। ८.२० ।।

अपांवत्सस्तु चित्राया उत्तरे +अंशैस्तु पञ्चभिः ।
बृहत्किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे ।। ८.२१ ।।