सामग्री पर जाएँ

सूत्रार्थरत्नावली/तृतीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः
← प्रथमः पादः सूत्रार्थरत्नावली
द्वितीयः पादः
[[लेखकः :|]]
तृतीयः पादः →

॥ श्रीः ॥
॥ हरिः ॥
॥ अथ द्वितीयः पादः ॥

भक्तिरस्मिन् पाद उच्यते।

1.अधिकरणं ॥

अत्र भगवत्प्राप्तिसाधनभक्त्यर्थमर्थज्ञानात्मकस्य स्वाप्नप्रपंचस्य भगवदधीनत्वमहिमा वर्ण्यते।

<3-2-1>
(1) ॥ संध्ये सृष्टिराह हि ॥

ननु स्वप्नविषयो नेश्वराधीनः। असत्त्वात्। न चासिद्धो हेतुः। प्रागूर्ध्वमनुपलंभात्। न च तत्कालसूष्टिविरोधांगीकारात्प्रागूर्ध्वमुपलंभाभावो न दोषायेति वाच्यं। प्रमाणाभावादिति प्राप्ते सूत्रमाह ॥

॥ संध्ये सृष्टिराह हीति ॥ अस्यार्थः ॥ हि यस्मात्। अथ रथानिति श्रुतिः संध्ये जाग्रत्सुषुप्तिसंधौ भवतीति स्वप्ने भगवतः सृष्टिमाह। अतः सृष्टिः। स्वप्नपदार्थसृष्टिः। भगवत एव जायत इत्यर्थः ॥

एवंचेश्वराधीन एव स्वप्नविषयः। सत्त्वात्। न च प्रागुत्तरकालमुपलंभप्रसंगः। तत्काल एव सृष्टिविरोधांगीकारात्। न च तत्र प्रमाणाभावः। अथ रथानिति [बृ. 6-3-10.] श्रुतेः। अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेर्महामाहात्म्यं तस्येति युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-1>

<3-2-2>
(2) ॥ निर्मातारं चैके पुत्रादयश्च ॥

ननु कर्तुरभावान्न स्वप्नकालीनसृष्टिर्युक्ता। न हि जीवस्तत्कर्ता। सुप्तत्वात्तस्य। नापीश्वरः। तत्प्रमाणाभावात्। न च पक्षद्वयेऽपि सृष्टिरुपपन्ना। तत्काल एवोत्पत्तिविनाशकर्तुरदर्शनादित्याशंकां परिहरत्सूत्रं पठति ॥

॥ निर्मातारं चैके पुत्रादयश्चेति ॥ अस्यार्थः ॥ चो यतः। एके शाखिनः। एनं भगवंतं। य एषु सुप्तेष्विति (कठ. 5-8.) स्वाप्नपदार्थनिर्मातारमामनंति। अपरे च पुत्रादयः। तस्माद्विष्णोरेव जायंत इति वदंति। तस्माद्विष्णोरेव स्वाप्नसृष्टिरित्यर्थः ॥

एवंच न च कर्तुरभावात्सृष्ट्ययोगः। य एष्विति एतस्माद्धेवेति [गौपवन.] श्रुतिभ्यामीस्वरस्यैव कर्तृत्वांगीकारात्। तथा च विष्णोरेव स्वाप्नसृष्टिरिति तत्र युक्ता भक्तिरिति सिद्धं ॥
</3-2-2>

<3-2-3>
(3) ॥ मायामां तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥

ननु ब्राह्य एव स्वप्न उपलभ्यंते। ते च सर्वैः प्रागूर्ध्वं उपलभ्यंत एवेति चेत्। बाह्यार्थान् शरीरे स्थित्वा पश्यतीत्यंगीकारे व्यवहित मेरुमंदारादिदर्शनाभावप्रसंगात्। बहिर्निर्गत्येत्यभ्युपगमे कुरुषु सुप्तस्य पांचालान् पश्यतः प्रबोधे शरीरप्रवेशोऽस्य पश्चादेवेति प्राप्तेः। किंच हेमंते सुप्तस्य वसंतप्रतीतिस्तावदस्ति। न च वसंतसत्ता तदाऽस्ति। येन शरीरे स्थित्वा बहिर्निर्गत्य वा पश्येत्। नापि बाह्यार्थप्रतीतिकारणमस्ति। इंद्रियाणामुपरतत्वात्। मनसो बाह्यार्थेष्वस्वातंत्र्यादिति प्राप्ते सूत्रमाह ॥

॥ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति ॥ अस्यार्थः ॥ तुरेवार्थे संध्यं मायामात्रं निमित्तोपादानभूताभ्यां मायशब्दितेच्छावासनाभ्यामेव निर्मितं न बाह्यकारणकं। कुतः। कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् बाह्यवत्सम्यगनभिव्यक्तस्वरूपत्वादित्यर्थः ॥

एवंचोपादाननिमित्तसद्भावात्। मनोगतांश्च संस्कारानिति [ब्रह्मांडे.] स्मृतिबलेन वासनाया उपादानत्वेनेश्वरेच्छायाश्च निमित्तत्वेनांगीकारात्। वासनामयानां मेर्वादीनां मनसैव दर्शनसंभवात्। बाह्यकारणाभावात्। प्राक्‌पिंडादीनामूर्ध्वं कपालादीनां प्रतीतेरप्रसंगात्। अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेस्तत्र भक्तिर्युक्तेति सिद्धं ॥
</3-2-3>

<3-2-4>
(4) ॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥

ननु यदि स्वाप्नविषया बाह्यार्थजन्यास्तर्हि सत्त्वं न प्राप्नोति। शुक्तिरजतवदित्याशंकां पराकुर्वत्सूत्रं पठति ॥

॥ सूचकश्च हि श्रुतेराचक्षते च तद्विद इति ॥ अस्यार्थः ॥ चो यतः। स्वाप्नपदार्थः सूचकः शुभाशुभज्ञापकः। अतोऽपि नासत्यः। तत्कुतः। यदेति (छां. 5-2-9.) श्रुतेः। प्रत्यक्षतः फलदर्शनाच्चेति हि शब्दः। किंच तद्विदः स्वप्नविदो व्यासादयः आचक्षते च। यदेति श्रुतौ स्वाप्नामर्थक्रियाकारित्वं वदंत्योऽपीत्यर्थः ॥

एवंच शुभाशुभकारणत्वेन सत्यस्यैव निश्चितत्वात्। यदा कर्मस्विति पुरुषमिति [ऐ.आ. 3-2-4.] च श्रतिभ्यामन्वयव्यतिरेकसध्रीचीनप्रत्यक्षेण च कारणत्वसिद्धेः। अपि चैवं व्यासादयो मन्यंते। यद्वा ब्राह्मणो ब्रूयाद्देवतेति वचनबलादिति। अतः स्वप्नविषयस्य भगवदधीनत्वसिद्धेर्माहात्म्यं तस्येति युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-4>
॥ इति संध्याधिकरणं ॥

2.अधिकरणं ॥

अत्र भगवतः स्वप्नतिरोधायकत्वमहिमा वर्ण्यते।

<3-2-5>
(5) ॥ पराभिघ्यानात्तु तिरोहितं ततो ह्यस्य बंधविपर्ययौ ॥

ननु न स्वप्नतिरोभाव ईश्वराधीनः। तस्य बाह्यज्ञानजन्यत्वेनाज्ञाननाशे संतत्यनुसंभवात्। तथा च ज्ञानाज्ञानविनाशद्वारा स्वप्नतिरोभावसंभवान्न तस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति प्राप्ते सूत्रमाह ॥

॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बंधविपर्ययौ इति ॥ अस्यार्थः ॥ हि यस्मात्। ततः परमात्मनः सकाशात्। अस्य जीवस्य। बंधविपर्ययौ बंधमोक्षौ भवतः। तस्मात्पराभिध्यानात्तु परमात्मेच्छयैव। संध्यं तिरोहितं लीनं भवति। न कारणांतरादित्यर्थः ॥

एवंच ज्ञानाज्ञानयोरचेतनत्वेन स्वातंत्र्याभावात्। तयोरपि बंधमोक्षयोरीश्वराधीनत्ववत् स्वप्ननिरोधस्यापि तदधीनत्वेन तस्य महामहिमत्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-5>
॥ इति पराबिध्यानाधिकरणं ॥

3.अधिकरणं ॥

अत्र विष्णोर्जगत्प्रवर्तकत्वमहिमा वर्ण्यते।

<3-2-6>
(6) ॥ देहयोगाद्वासोऽपि ॥

ननु न जागरणं भगवदधीनं। तस्य कालधीनत्वात्। न चाचेतनत्वात्तदधीनत्वानुपपत्तिः। कालाधीनत्वस्यानुभवसिद्धत्वेनाचेतनत्वानुमानस्य बाधितविषयत्वात्। न चानुभवो भ्रमः। बाधकाभावात्। अतो जाग्रदवस्थाया भगवदधीनत्वाभावान्नास्य महामहिमत्वमिति प्राप्ते सूत्रितं ॥

॥ देह योगाद्वासोऽपीति ॥ अस्यार्थः ॥ देह योगाद्वासोऽपि देहाभिमानेनावस्थितिरूपजाग्रदवस्थाऽपि पराभिध्यानादेव भवति नान्यत इत्यर्थः ॥

एवंच स एव जागरिते इति[कौँठरव्य.] श्रुतेः। अत एवाचेतनत्वानुंमानमपि कालाधीनत्वनिवर्तकं। श्रुतिविरोधेन प्रत्यक्षस्याप्रामाण्यात्। कालस्य निमित्तमात्रविषयकं प्रत्यक्षं बाधाभावात्प्रमाणमेव। अतो हरेर्जाग्रत्प्रवर्तकत्वेन महामहिमत्वाद्युक्ता भक्तिरिति सिद्धं ॥
</3-2-6>
॥ इति देहयोगाधिकरणं ॥

4.अधिकरणं ॥

अत्र सुप्तप्राप्यत्वमहिमा वर्ण्यते।

<3-2-7>
॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॥

ननु न केवले परमात्मन्येव स्वापो न नाड्यवस्थानविशिष्टे नाडीसंबंधे। दुःखप्रसंगात्। जाग्रदाद्यवस्थासु चक्षुरादिस्थितभगवद्गतस्यापि जीवस्य देहसंबंधेन दुःखदर्शनात्। न चेष्टापत्तिः। सुप्तिकाले सुखैकानुभवस्य उत्तरकालीनानुस्मृतिसिद्धत्वादिति प्राप्ते सूत्रमाह ॥

॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि हेति ॥ अस्यार्थः ॥ अस्य जीवस्य नाडीषु आत्मनि नाडीस्थिते परमात्मन्येव। तदभावः जाग्रत्स्वप्नयोरभावः। सुषुप्तिर्जायते। तस्य तदा तत्प्रवेशो भवति। कुतः। तछ्रुतेः आसु तदा नाडीष्विति (छां. 8-6-3.) श्रुतेः तथा श्रवणादित्यर्थः ॥ हेत्यस्यार्थस्य युक्ततामाह ॥

एवंच नाडीस्थित एव परमात्मनि सुप्तिः। अन्यथा आस्विति सता सौम्येति [छां. 6-8-1.] च श्रुत्योरन्यतरा प्रामाण्यप्रसंगात्। न च दुःखप्राप्तिः। परमात्मन एव नाडीसंबंधांगीकारेण जीवस्य तदनंगाकारात्। अतो भगवतो नाडस्थिस्य सुप्तप्राप्यत्वमहामाहात्म्यक्त्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-7>
॥ इति तदभावाधिकरणं ॥

5.अधिकरणं ॥

अत्र हरेः सुप्तप्रबोधकत्वमाहात्म्यं वर्ण्यते ॥

<3-2-8>
(8) ॥ अतः प्रबोधोऽस्मात् ॥

ननु न सर्वोऽपि सुप्तप्रबोध ईश्वराधीनः। क्वचिद्भेरीताडनादीनां कारणत्वदर्शनात्। अतः सर्वप्रबोधकत्वाभावान्न महैश्वर्यमिति प्राप्ते सूत्रमाह ॥

॥ अतः प्रबोधोऽस्मादिति ॥ अस्यार्थः ॥ अस्य जीवस्य प्रबोधः सुप्तेरुत्थानं। अस्मात् परमात्मन एव भवति। नान्यतः। कुतः। एष एवेति (कौंडिन्य.) श्रुतत्वादित्यर्थः ॥

एवंच भगवत्येव जीवानां सुप्तत्वेन तदाज्ञया विनाऽवबोधायोगात्। भेरीताडनादीनां स्वतंत्रकारणताग्राहिप्रतितेरेष एवेति श्रुतिविरुद्धत्वेनाप्रामाण्यात्। अतस्तस्यैव सर्वप्रबोधहेतुत्वान्महामहिम्नि युक्ता निरतिशया भक्तिरिति सिद्धं ॥
</3-2-8>
॥ इति प्रबोधाधिकरणं ॥

6.अधिकरणं ॥

अत्र सर्वपुरुषीयसार्वकालिकसर्वावस्थानां भगवदधीनत्वमहिमा वर्ण्यते।

<3-2-9>
(9) ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥

ननु नेश्वरः सर्वेषां सर्वकालीनसर्वावस्थाप्रेरकः। अधिपतित्वात्। राजवत्। यत्किंचिन्नियामकपरत्वेनापि योजयितुं शक्यत्वेनैष ह्येवेति [कौ. 3-8.] श्रुतेरविरोधात्। न च विस्पष्टसमाख्या श्रुत्यभावे युक्तिविरुद्धं सर्वनियामकत्वं श्रुत्यर्थतया प्रतिपत्तुं शक्यते। अतः सर्वावस्थाप्रेरकत्वाभावेन न सर्वैश्वर्यं हरेरिति प्राप्ते सूत्रं पठति ॥

॥ स एव च कर्मानुस्मृतिशब्दविधिभ्य इति॥ अस्यार्थः ॥ च शब्दोऽप्यर्थे। स एव ईश्वर एव। सर्वेषामपि सर्वदा सर्वावस्थाप्रेरकः। न देशकालांतरेऽन्यः। कुतः। कर्मानुस्मृतिशब्दविधिभ्यः। एष ह्येवेति कर्मणामीशाधीनत्वश्रुतेः। प्रदर्शक इत्यनुकूलस्मृतेश्च। एष इति शब्दाच्चात्मानमिति (बृ.उ. 3-4-15.) विधेश्चेत्यर्थः ॥

एवंच सर्वकर्मनियामकत्वात्। सुप्त्यादीनां च तदंतर्भावात्। निर्दिष्टश्रुतिस्मृयोः प्रमाणत्वेन सद्भावात्। एष स्वप्नानिति विधेश्च। अन्यस्य स्वप्नादिप्रवर्तकत्वे परमात्मन एवोपास्यत्वासंभवात्। अतः सर्वावस्थाप्रेरके महामहिम्नीश्वरे भक्तिर्युक्तेति सिद्धं ॥
</3-2-9>
॥ इति कर्मानुस्मृत्यधिकरणं ॥

7.अधिकरणं ॥

अत्रेश्वरस्यावांतरावस्थासंस्थितजीवप्राप्यत्वमहिमा निरूप्यते।

<3-2-10>
(10) ॥ मुग्धेऽर्धसंपत्तिः परिशेषात् ॥

ननु न मोहो जीवस्य भगवदितरत्र किंतु परमात्मन्येव जाग्रत्स्वप्नावस्थाविलक्षणत्वादन्यथा तत्संकीर्णतापातात्। न च परमात्मनि मोहांगीकारे सुप्तैकदेशत्वप्रसंगः। बाह्यार्थविषयत्वेन तदेकदेशस्येष्टत्वात्। अतः परमात्मन्येव मोहो जीवस्येति प्राप्ते सूत्रमाह ॥

॥ मुग्धेऽर्धसंपत्ति परिशेषादिति ॥ अस्यार्थः ॥ मुग्धे मूर्च्छायां। जीवस्यार्धसंपत्तिः परमात्मन्यर्धप्रवेशः। कुतः। परिशेषात्। प्रसक्तप्रतिषेधपूर्वकानुमानादित्यर्थः ॥

एवंच भगवति अर्धप्रवेश एव जीवस्य मोहे न समग्रप्रवेशः। परिशेषात्। तथाहि। मोहे तावत्परमात्मविदूरत्वसामीप्यप्रवेशार्धप्रवेशः। न तावत्रयः कल्पाः संभवति। तेषां जाग्रदाद्यवस्थाधर्मत्वात्। एवंच प्रतक्तप्रतिषेधेऽन्यस्याप्रसंगात् परिशिष्टोऽर्धप्रवेशो मोहे जीवस्य। मोहस्यावस्थात्रयातिरिक्तत्वे भवेदेतत्। तदेव कुत इति चेत्। अत्र वक्तव्यं। किं मोहस्य सुप्तावंतर्भाव उच्यते। उत जाग्रत्स्वप्नयोः। नाद्यः। वैलक्षण्यात्। तथाहि। मुग्धः कदाचिदुच्छ्वसति। सवेपधुश्चास्य देहो भवति। भयानकं चास्य वदनं भवति। विस्फुरिते चास्य नेत्रे भवतः। सुप्तस्तु प्रसंनवदनः तुल्यकालं पुनः पुनः उच्छ्वसिति। निमीलितेऽस्य नेत्रे भवतः। न चास्य देहो वेपते। पाणिपेषणमात्रेण च सुप्तमुत्थापयंति। न तु मुग्धं। मुद्‌गरघातेनापि निमित्तभेदस्य भवति मोहस्वापयोः। मुसलघातादिनिमित्तत्वान्मोहस्य सुच्छायानिमित्तत्वात्स्वापस्य च न वदंति मुग्धं सुप्तमिति। नापि स्वाप्नयोरंतर्भावः। दुःखात्मकालातिरिक्तविषयादर्शनात्। अतो मोहोऽवस्थांतरमेव। ततश्च मुग्धप्राप्यत्वेन महामाहात्म्याद्भगवति भक्तिर्युक्तेति सिद्धं ॥
</3-2-10>
॥ इति संपत्त्यधिकरणं ॥

8.अधिकरणं ॥

अत्रेश्वरस्य सर्वरूपेषु निर्दोषाशेषगुणत्वं समर्थ्यते।

<3-2-11>
(11) ॥ न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हि ॥

ननु सर्वशरीरास्थितो विश्वादिरूपो हरिः परस्परं भिन्न एव। भिन्नस्थानत्वात्। पटादिवात्। न चाभोदेप्याकाशवद्भिन्नस्थानत्वोपपत्तेरिति वाच्यं। कार्त्स्न्येन भिन्नस्थानत्वस्य हेतुत्वेन विवक्षितत्वात्। अतोऽत्स्येव विश्वादीनां भेदः। ततश्चानुग्राह्यानुग्राहकभावस्यावर्जनीयत्वान्निरतिशयैश्वर्याभावेन न तत्र भक्तिर्युक्तेति प्राप्ते सूत्रितं ॥

॥ न स्थानतोऽपि परस्योभयलिंगं सर्वत्र हीति ॥ अस्यार्थः ॥ परस्य परमात्मनः। स्थानतोऽपि अक्ष्यादिस्थानभेदादपि। उभयलिंगं भिन्नरूपं। नास्ति। किंतु सर्वत्र सर्वस्थानेषु स्थितं रूपमेकमेव। कुतः। हि यस्मात् सर्वेष्विति (ऐ.आ. 3-2-3.) श्रुतिरत्रास्ति। अत इत्यर्थः ॥

एवंच विश्वादिरूपो हरिर्भिन्नस्थानोऽपि अभिन्न एवेति प्रतिपत्तव्यः। भेदसाधकभिन्नस्थानत्वानुमानस्य सर्वेष्विति श्रुतिबाधितत्वात्। अतो हरेः स्वगतभेदशून्यत्ेवन सर्वत्र गुणपूर्णत्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-11>

<3-2-12>
(12) ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥

ननु न विश्वादीनामभेदो युक्तः। कार्यकारणमिति श्रुतौ भेदकधर्मव्यपदेशादित्यादिनोक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्यति ॥

॥ न भेदादिति चेन्न प्रत्येकमतद्वचनादिति ॥ अस्यार्थः ॥ भेदात् कार्यकारणबद्धाविति (मां. 2-16.) स्वप्नजाग्रदनुभवजनकत्वरूपभेदकत्वधर्मश्रवणात् विश्वादिरूपाणां नाभेद इति चेन्न। कुतः। प्रत्येकं परस्परं। तेषां रूपाणां। अतद्वचनात्। य एत आत्मेत्यभेदश्रुतेरित्यर्थः ॥

एवंचैषत आत्मे[बृ. 5-7-3.]त्ययमेव स इत्य[वृ. 4-5-1.]यं वै हरय[बृ. 4-5-19.] इत्यादि श्रुतीनामभेदबोधकत्वात्। अपि चामात्रोऽनंतमात्रेति [मां. 4-7.] श्रुतौ विश्वाद्यनंतरूपेण मूलरूपस्य चाभेदस्योक्तत्वात्। अतो हरेः स्वगतभेदरहितत्वेन तस्मिन्भक्तिः कार्येति सिद्धं ॥
</3-2-12>


<3-2-13>

(13) ॥ अपि चैवमेके ॥

ननु नाभेदश्रुतिभिर्भेदश्रुतेर्बाधो युक्तः. तासां कतिपयरूपविषयत्वेन सावकाशत्वात्। नाप्ययं वै हरय इति श्रुतिविरोधः। तत्र परस्परमभेदानुक्तेर्मुलरूपेणापि। एष त आत्मेति श्रुतिवत्स्पष्टमभेदाप्रतीतेः। अतो भेदश्रुतिबलाद्विश्वादीनां भेद एवेत्याशंकां परिहरत्सूत्रं पठति ॥

॥ अपि चैवमेक इति॥ यतः एवमभेदं च शब्दादनंतरूपत्वं चैके शाखिनः अमात्र इति श्रुतौ पठंति। अपि अभेदेऽपि भेदव्यपदेशः स्थानभेदाद्यज्यत इत्यर्थः ॥

एवंचैके शाखिनो विश्वाद्यनंतरूपेण चाभेदं पठंति। अतो हरेः स्वगतभेदशून्यत्वेन सर्वगुणापूर्णत्वाद्युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-13>
॥ इति न स्थानतोऽप्यधिकरणं ॥

9.अधिकरणं ॥

अत्र विष्णोरप्राकृतरूपं समर्थ्यते।

<3-2-14>

(14) ॥ अरूपवदेव हि तत्प्रधानत्वात् ॥

ननु नांगीकर्तव्याऽतिशया भक्तिर्भगवति। भगवतो रूपित्वांगीकारेऽनित्यत्वप्रसंगात्। तदरूपमिति [कठ. 1-3-15.] श्रुत्यप्रमाण्यप्रसंगाच्च। ततश्च भक्तिविलोपः। न ह्यनित्यशरीरे निरतिशया भक्तिरुपपद्यते। नाप्यरूपित्वश्रुत्यप्रामाण्ये सा युज्यते। अरूपित्वश्रुत्यप्रामाण्येऽविशेषात्। श्रुतिमात्राप्रामाण्यापत्त्या भक्तिप्रयोजकगुणसिद्धेः। ततश्च भक्तेरनुपपन्नत्वाद्‌व्यर्थोऽयं पाद इति प्राप्ते सूत्रितं ॥

॥ अरूपवदेव हि तत्प्रधानत्वादिति ॥ अस्यार्थः ॥ ब्रह्म अरूपवदेव प्राकृतरूपरहितमेव। कुतः। तत्प्रधानत्वात् प्रकृत्याद्युत्तमत्वात्। हि शब्दसूचितास्थूलमिति (बृ. 5-8-8.) श्रुतेश्चेत्यर्थः ॥

एवंचापेक्षितैव भगवद्भक्तिः। तस्यारूपित्वे नानित्यत्वरूपित्वश्रुत्यप्रमाण्यलक्षणदोषरहितत्वात्। न चारूपित्वमसिद्धं। प्रकृत्युत्तमत्वेन प्राकृतरूपवैधुर्यसिद्धेः। तदेवं भक्तेरुपपन्नत्वात्सार्थकोऽयं पाद इति सिद्धं ॥
</3-2-14>

<3-2-15>
(15) ॥ प्रकाशवच्चावैयर्थ्यं ॥

ननु ब्रह्मणो रूपाभावे रुक्मवर्णमि[मुं. 3-1-3.]त्यादिरूपित्वश्रुतिवैयर्थ्यं स्यात्। अपि च सौंदर्यसौलक्षण्याद्यभावापत्तेश्चेत्याशंकां पराकुर्वत्सूत्रं पठति ॥

॥ प्रकाशवच्चावैयर्थ्यमिति ॥ अस्यार्थः ॥ चो हेतुसूचकः। प्रकाशवत् लोकविलक्षणचक्षुरादिप्रकाशे नास्ति प्रकाश इति व्यवहारस्येव। अवैयर्थ्यं न ब्रह्मणो रूपित्वश्रुतीनामप्रामाण्यं। कुतः तस्यारूपित्वेऽपि विलक्षणरूपित्वाभ्युपगमादित्यर्थः ॥

एवंच रुक्मवर्णमित्यादिश्रुतेर्वैयर्थ्याभावः सौंदर्याद्यभावश्च। अप्राकृतशरीरस्यांगीकारात्। अतोऽपेक्षितैव भगवद्भक्तिरिति सिद्धं ॥
</3-2-15>

<3-2-16>
(16) ॥ आह च तन्मात्रं ॥

ननु कथं ब्रह्मणो लोकविलक्षणरूपत्वं। येनानित्यत्वादिदोषाभावः। सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमात्। इतररूपापेक्षया तद्रूपस्य वैलक्षण्यानुक्तेरिति प्राप्ते सूत्रं पठति ॥

॥ आह च तन्मात्रमिति ॥ अस्यार्थः ॥ यतः एकात्म्यमिति (मां. 2-7.) श्रुतिः ब्रह्मणः तन्मात्रं विज्ञानानंदैकस्वरूपमाह वक्तीत्यर्थः। अतो नवैलक्षण्यानिरुक्तिरिति च शब्दार्थः ॥

एवंच निर्दिष्टश्रुतिप्रमाणसद्भावाद्‌ब्रह्मणो विलक्षणरूपत्वमनित्यत्वादिदोषाभावश्चेति सिद्धं ॥
</3-2-16>

<3-2-17>
(17) ॥ दर्शयति चाथो अपि स्मर्यते ॥

ननूक्तश्रुतिद्वये ब्रह्मणो ज्ञानानंदाद्यात्मकत्वमेवोच्यते नत्वानंदादेर्ब्रह्मशरीरत्वं। अतो रूपिपदोक्तदेहित्वश्रुतेर्लोकविलक्षणरूपविषयत्वाभावाद्वैयर्थ्यं सौंदर्याभावश्चापरिहृतः। न च रूपरूपिणोरभेदादिति तत्त्वप्रदीपे तदपि श्रुत्यभिप्रेतमित्युक्तमिति वाच्यं। स्पष्टोक्त्यभावेनानिर्णयादित्याशंकां परिहरत्सूत्रं पठति ॥

॥ दर्शयति चाथो अपि स्मर्यत इति ॥ अस्यार्थः ॥ चो यतः चः समुच्चये। न केवलं ब्रह्मणः आनंदाद्यात्मकत्वं दर्शयति। किंतु तद्विज्ञानेनेति (मुं. 2-2-8.) श्रुतिर्ज्ञानस्य ब्रह्मात्मकत्वमपि दर्शयति प्रतिपादयति। अथो इत्यर्थांतरवाचि। अथो विज्ञानस्यापि ब्रह्मरूपत्वं स्मर्यते। व्यासादिभिः शुद्धस्फटिकमित्यादिना। अतो न ज्ञानानंदयोर्ब्रह्मरूपत्वमप्रामाणिकमित्यर्थः ॥

एवंच ब्रह्मणो विलक्षणरूपत्वस्य तद्रूपाणां परस्परमभेदस्य च सिद्धत्वात्। शुद्धस्फटिकसंकाशमिति [मात्स्ये.] स्मृतेः। तदेव भक्तेरुपपन्नत्वात्सार्थकोऽयं पाद इति सिद्धं ॥
</3-2-17>
॥ इति अरूपाधिकरणं ॥

10.अधिकरणं ॥

अत्रेश्वरस्य जीवाद्भेदाभेदो निराक्रियते।

<3-2-18>
(18) ॥ अत एव चोपमा सूर्यकादिवत् ॥

ननु जीवस्तावत्परमात्मनो भिद्यत इति श्रुत्यादिसिद्धं। अनुमतं भवतां। एवं सति प्रयुज्यते। जीवः परमात्माभिन्नः। चेतनत्वात्। तदंशत्वात्। मत्स्यादिवत्। एवंचेश्वरस्य जीवेन भिन्नत्वेप्यभेदस्यापि भावात्। दोषेणैक्ये च दुष्टत्वावश्यं भावान्न परमात्मनि भक्तिर्युक्तेति प्राप्ते सूत्रमाह ॥

॥ अतएव चोपमा सूर्य कादिवदिति ॥ अस्यार्थः ॥ अतएव ईशतद्रूपाणामबेदोक्तेरेव। अतए चेतनत्वादिहेतोरेव। उपमा जीवस्य मत्स्यादिसाम्यं। मत्स्यादिवदीश्वराभेद इति चेन्नेतिशेषः। च शब्देन भिन्नत्वसाम्यं समुच्चिनोति। कुतः। यतः सूर्यकादिवत् यथा जलप्रतिबिंबितसूर्यकादेः सूर्यादिप्रतिबिंबाद्भिन्नत्वं तथा जीवस्य प्रतिबिंबत्वात् भिन्नत्वमित्यर्थः ॥ यद्वा ॥ अतएव मत्स्यादीनां ब्रह्मणो ज्ञानादि गुणैरविशेषोक्तेरेव। अतएव सूर्यकादिवत्। उपमा सूर्यकाद्युपमा। जीवस्य मत्स्यादितुल्यांशत्वे तदविशेषापत्तेरेव उपमा ब्रह्मप्रतिबिंबतेत्यर्थः। अतएव ब्रह्मप्रतिबिंबत्वादेव सूर्यकादिवन्न ब्रह्माभिन्नो जीव इति च शब्दार्थः ॥ अथवा ॥ अतएव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव। उपमा सूर्यकादिवदित्युपमा दीवेश्वरप्रतिबिंबत्वात् नोपाध्यधीनत्वादिना न तन्निवृत्त्या प्रतिबिंबतानिवृत्तिरित्यर्थः ॥

एवंच जीवः परमात्मना भिन्नः। तत्प्रतिबिंबत्वात्। यो यत्प्रतिबिंबः च चासौ तदभिन्नः। यथा सूर्यकादिः। ननूपाध्यायत्तः प्रतिबिंब उच्यते। न च स उपाध्यायत्तः। तथात्वेऽनित्यत्वप्रसंगात्। ततश्चासिद्धं प्रतिबिंबत्वं। अथ परमात्माधीनत्वे सति चेतनत्वेन तत्सादृश्यं हेतुतया विवक्षितं। तर्हनुपपन्नो दृष्टांतः प्राप्नोतीति चेन्न। चेतनत्वादिविशेषरूपमविवक्षित्वा तदधीनत्वतत्सादृश्ययोरेव हेतुतया विवक्षितत्वात्। अत एवोपमाप्युपपन्ना। बिंबाधीनत्वमिव बिंबसादृश्यस्यापि तत्र सत्त्वात्। नन्वेवमपि पक्षे सर्वदृष्टांतधर्माभावात्। तता चायमित्युपनयो न संभवतीति चेन्न। यथा दृष्टांतः साध्यव्याप्यसाधनवान् तथा पक्षेपीत्येतावन्मात्रस्योपनये विवक्षितत्वेन यावत्साधर्म्यस्याविवक्षितत्वात्। अन्यथाऽनुमानमात्रोच्छोच्छेप्रसंग इति। अतो जीवपरमात्मनोरभेदाभावाद्युक्त भगवति भक्तिरिति तन्महिमावर्णनमुपपन्नमिति सिद्धं ॥
</3-2-18>
॥ इति उपमाधिकरणं ॥

11.अधिकरणं ॥

अत्रेश्वरे भक्त्यर्थं तस्या जीवस्वरूपाभिव्यक्तिरूपफलं निरूप्यते।

<3-2-19>
(19) ॥ अंबुवदग्रहणात्तु न तथात्वं ॥

ननु न मोक्षो भक्तिफलं। अनादिसिद्धत्वात्। नित्यानंदज्ञानादिमत्त्वं हि मोक्षः। तच्च स्वरूपमेव। न च स्वरूपमागंतुकं चेति संभवति। ततश्च मोक्षस्य भक्तिफलत्वाभावान्न तदर्थं भक्तिः कर्तव्या। नापि प्रयोजनांतरमस्तीत्यकर्तव्यैव भक्तिरिति प्राप्ते सूत्रमाह ॥

॥ अंबुवदग्रहणात्तु न तथात्वमिति ॥ अस्यार्थः ॥ सादृश्यार्थे वतिः। सादृश्यं स्नेहाख्यविशेषणेन विवक्षितं। तथा च यतः अंबुवदग्रहणात् स्नेहसहितमाहात्म्यज्ञानाभावात्। भक्तिं विनेति यावत्। तथात्वं सुखाद्यात्मकत्वरूपेश्वरसादृश्यं। न तु सम्यग्व्यज्यते। अतो भक्तिरेव सम्यक् स्वरूपाभिव्यक्तिजनिकेति तदर्थं सा कर्तव्येत्यर्थः ॥

एवंच भक्तिफलमेव मोक्षः। ज्ञानानंदादेर्जीवस्वरूपत्वेन नित्यसिद्धत्वेऽपि तदाविर्भावस्य भक्तिसाध्यत्वात्। भक्त्यभावे तदभाव इति नियमात्। सुप्तौ भक्त्यभावेन ज्ञानानंदाद्याविर्भावमात्रसद्भावेऽपि सम्यगाविर्भावाभावात्। तथा च सम्यगाविर्भाव एव मोक्ष शब्दार्थो भक्त्या साध्यो नाविर्भावमात्रं। यमैवेष इति [कठ 2-23.] श्रुतेर्महित्वबुद्धिरिति [पाद्मे.] स्मृतेश्च। अतौ मोक्षस्य भक्तिसाध्यत्वात्कर्तव्यैव तदर्थं भक्तिस्तन्महिमावर्णन च सार्थकमिति सिद्धं ॥
</3-2-19>
॥ इति अंबुवदधिकरणं ॥

12. अधिकरणं ॥

अत्र पुरुषेषु भक्तेस्तारतम्येन वृत्तित्वं तदनुसृत्य भगवता फलदातृत्वं च निरूप्यते ।

<3-2-20>
(20) ॥ वृद्धिह्रासभाक्त्वमंतर्भावादुभयसामंजस्यादेवं ॥

ननु ब्रह्मादीनां मनुष्योत्तमानां च भक्तिरेकप्रकारैव। मोक्षैकरूपफलभागित्वात्। न हि यावत्या भक्त्या मनुष्योत्तमानां मोक्षस्तावत्या भ्रह्मादीनां मोक्षसंभवेऽधिकानुष्ठानाय प्रेक्षावत्प्रवृत्तिः संभवति। अथ न तावता भक्तिस्तेषां मोक्षसाधनतयाऽलं। हंत तर्हि मनुष्योत्तमानामपि भक्तिर्न स्यात्। पर्याप्तसाधनाभावात्। न हि दुःखाभावरूपमोक्षे तारतम्यमस्ति येन भक्तितारतम्युमुपपन्नं स्यात्। अतो भक्तिरेकप्रकारैवेति प्राप्ते सूत्रितं ॥

॥ वृद्धिह्रासभाक्त्त्वामंतर्भावादुभयसामंजस्यादेवमिति ॥ अस्यार्थः ॥ वृद्धिह्रासभाक्त्वं भक्त्यादेः साधकेष्वाधिक्यन्यूनता न तावदत्रांगीकार्यं। कुतः। अंतर्भावात् महदल्पफलवतां ब्रह्मादीनामन्येषां च भाक्तत्वेंऽतर्भावात्। तथाऽपि कुतो वृद्धिह्रासभाक्त्वं। एवं भक्तितारतम्ये सत्येव। उभयसामंजस्यात् उभयान् महदल्पफलान् ब्रह्मादिजीवान्प्रति फलदातुरीश्वरस्य सामंजस्यात् वैषम्येन फलदानस्य भक्तितारतम्येन युक्तत्वात्। अन्यथाऽयुक्तत्वात्। अतस्तदंगीकार्यमित्यर्थः ॥

एवंच नैकप्रकारा सर्वेषां भक्तिः। किंतु वृद्धिह्रासवती। अन्यथा प्रमाणसिद्धं सर्वभक्तान्प्रति परमेश्वरे सामंजस्यं न स्यात्। साधनस्योत्तमत्वेनेति [ब्राह्मे.] ततश्च भक्तेः फलानुसारेण तारतम्यसद्भावेन युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-20>

<3-2-21>
(21) ॥ दर्शनाच्च ॥

ननु भवेत्साधनतारतम्यं यदानंदतारतम्यं स्यात्। तदेव कुत इति हेत्वसिद्धिमाक्षिप्य परिहरत्सूत्रमाचष्टे ॥

॥ दर्शनाच्चेति ॥ अस्यार्थः ॥ अथात इति (तै. 2-8) श्रुतौ यथेति स्मृतौ च फलतारतम्यदर्शनात् उक्तत्वाच्चोक्तं युक्तमित्यर्थः ॥

एवंच निर्दिष्टश्रुतिस्मृतिभ्यां भक्तेः फलानुसारेण तारतम्यसद्भावेनेश्वरस्य विषमत्वाभावाद्युक्ता तत्र भक्तिरिति सिद्धं ॥
</3-2-21>
॥ इति वृद्धिह्रासाधिकरणं ॥

13.अधिकरणं ॥

अत्र विश्वपालकत्वं समर्थ्यते।

<3-2-22>
(22) ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥

ननु नेश्वरः पालकः। जगत्सृष्ट्‌वा स्थितस्येश्वरस्य विनाशप्रवृत्यभावमात्रेैण कालिविशेषसंबंधरूपस्थितिसंभवेन पालनरूपतद्‌व्यापारानपेक्षत्वात्। न चावांतरोपद्रवनिरासायेश्वरव्यापारोऽपेक्षित इति वाच्यं। ईश्वरस्यैवावांतरोपद्रवकर्तृत्वेन तदकरणमात्रेण समीहितसिद्धेः। यद्यन्यस्योपद्रवकर्तृत्वे तन्निरासकव्यापाररूपत्वं पालकत्वमन्यस्य स्यात्। न चेश्वरादन्यसंहर्ता येन तन्निरासेनेश्वरस्य पालकत्वं स्यात्। विरोधाभावेन स्वस्य स्वनिवारकत्वायोगात्। ततश्च पालकत्वाभावेन महामहिमत्वाभावान्न तत्र भक्तिरिति प्राप्ते सूत्रितं ॥

॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति ॥ अस्यार्थः ॥ हि यतः। नैतावदेनेति (ऋ. 10-31-8.) श्रुतिः प्रकृतैतावत्वं। प्रकृतस्य सृष्ट्यादिकर्तृत्वस्य। एतावत्त्वं सृष्टिसंहारकर्तृत्वमात्रपर्यवसितत्वं। प्रतिषेधति निराचष्टे। ततः सृष्ट्यादिकर्तृत्वात्। भूयः अधिकं। पालकत्वं च ब्रवीति। अतः पालकत्वात्। सृष्टिं चेति बूचितपालकत्वाख्यं महिमांतरमपि हरेस्तीति ज्ञापयतीत्यर्थः ॥ च शब्देन सृष्टिं चेति स्मृतिः (ब्रह्मांडे.) सूचिता ॥

एवंच भवत्येवेश्वरः पालकः। नैतावदेनापर इति [ऋ. 10-31-6,8.] श्रुत्या सृष्टिसंहारमात्रकर्तृत्वं प्रतिषिध्य पालकत्वस्याप्यभिधानात्। न चोपद्रवसंहारविलंबमात्रेणैव स्थितिसिद्धेर्न तदर्थमीश्वरापेक्षेति वाच्यं। सर्वस्य धारणार्थं चेतनानामन्नपानद्यर्थं तद्‌व्यापारस्यावश्यकत्वात्। अतः पालनादिमहामहिम्नि हरौ भक्तर्युक्तेति सिद्धं ॥
</3-2-22>
॥ इति प्रकृत्यधिकरणं ॥

14.अधिकरणं ॥

अत्र भगवद्भक्तेः कर्तव्यता मर्थनाय तस्योपलब्धियोग्यत्वं समर्थ्यते।

<3-2-23>
(23) ॥ तदव्यक्तमाह हि ॥

ननु व्यक्तमेवायमीश्वरः। महत्त्वसमानाधिकरणोद्भूतरूपत्वात्। यदा पश्य इति [मुं. 3-1-3.] श्रुतेश्च। न ह्यव्यक्तस्वभावत्वे साधनशतेनापि दर्शनमुपपद्यते। स्वभावस्यानपायात्। ततश्च स्तंभादिवत्पुरुषप्रयत्नेनैव प्रत्यक्षसंभवाद्‌व्यर्थैव तद्भक्तिरिति प्राप्ते सूत्रितं ॥

॥ तदव्यक्तमाह हीति ॥ अस्यार्थः ॥ तत् ब्रह्मा। अव्यक्तं पुरुषप्रयत्नेन द्रष्टुमशक्यस्वभावं। कुतः। हि यस्मात् । अव्यक्तंच निष्फलमिति (कौंठन्य.) श्रुतिस्थथाऽऽह तस्मादित्यर्थः ॥

एवंचाव्यक्तमेवायमीश्वरः। अरूपमिति श्रुतेः। अत एव प्रत्यक्षताप्रयोजकप्राकृतरूपत्त्वमसिद्धं। ततश्च स्वतोऽव्यक्तस्यापि ईश्वरस्य भक्तिसाध्यप्रसादादापरोक्ष्यसंभवात्सफलत्वाद्भक्ति कर्तव्येति सिद्धं ॥
</3-2-23>

<3-2-24>
(24) ॥ अपि संराधने प्रत्यक्षानुमानाभ्यां ॥

नन्वस्तु स्वतोऽव्यक्तं ब्रह्म। तथाऽपि संराधनेन पुरुषप्रयत्नेन यक्षादिवद्‌व्यक्तं भविष्यति। एवं चेत् किं भक्त्येत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥

॥ अपि संराधने प्रत्यक्षानुमानाभ्यामिति ॥ अस्यार्थः ॥ अपि भक्तिरहिताराधनेनापि न ब्रह्म व्यक्तीकर्तुं शक्यः। कुतः। संराधनेऽपि संपूजनेऽपि। अव्यक्तत्वस्य प्रत्यक्षानुमानाभ्यां ज्ञानिप्रत्यक्षसूक्ष्मत्वहेतुकानुमानाभ्यां। सिद्धत्वादित्यर्थः ॥

एवंच भक्त्यभावे सत्यपि समाराधने ब्रह्माप्रत्यक्षत्वस्य ज्ञानिप्रत्यक्षसिद्धत्वेन समाराधनस्य ब्रह्मप्रत्यक्षहेतुत्वाभावात्। यक्षस्यातिसूक्ष्मत्वाभावेन समाराधनसहकृतोंद्रियग्राह्यत्वेप्यतिसूक्ष्मत्वेन ब्रह्मणो यक्षादिवत्तदयोगात्। ततश्च भक्तेः सफलत्वमिति सिद्धं ॥
</3-2-24>

<3-2-25>
(25) ॥ प्रकाशवच्चावैशेष्यं ॥

नन्वस्तु मूलरूपेणाव्यक्तं ब्रह्म। अनुत्पन्नत्वात्। अवताररूपेण व्यक्तीभविष्यति। उत्पन्नत्वात्। मूलरूपेणाव्यक्तानामप्यनलजलभुवामुत्पन्नरूपेण व्यक्तत्वदर्शनात्। न च मूलरूपमेव दृष्टं मोक्षसाधनं तावता रूपमिति शक्यते वक्तुं। लीलाविग्रहस्य गृहीतत्वेनोत्पत्त्यादोषत्वात्। मूलरूपेण समशक्तिमत्त्वात्। पूर्णमद [बृ. 7-1-1.] इति वचनाच्च। ततो व्यर्था भक्तिरिति प्राप्ते सूत्रितं ॥

॥ प्रकाशवच्चावैशेष्यमिति ॥ अस्यार्थः ॥ चो नञर्थः ॥ प्रकाशवत् यथाऽग्नेः स्थूलसूक्ष्माभ्यां व्यक्ताव्यक्तत्वे। तथा ब्रह्म न किंतु स्वतोऽव्यक्तमेव। कुतः। यतः अवैशेष्यं ब्रह्मणि स्थूलसूक्ष्मत्वविशेषो नास्ति। अत इत्यर्थः ॥

एवंच मूलरूपावताररूपयोरुभयोरप्यव्यक्तत्वेन व्यक्तत्वाव्यक्तत्वविशेषाभावात्। स्थूलसूक्ष्मविशेष इति [गारुडे.] वचनात्। अतो भक्तेः सफलत्वमिति सिद्धं ॥
</3-2-25>

<3-2-26>
(26) ॥ प्रकाशश्च कर्मण्यभ्यासात् ॥

ननु ब्रह्माव्यक्तमवे। तथा च व्यर्थैव तद्भक्तिः। अव्यक्तस्वभावस्य साधनशतेनापि व्यक्तीकर्तुमशक्यत्वादिति प्राप्ते सूत्रमुपन्यस्यति ॥

॥ प्रकाशश्च कर्मण्यभ्यासादिति ॥ अस्यार्थः ॥ प्रकाशश्च अपरोक्षज्ञानं च। कर्मणि विषयभूते ब्रह्मणि। अभ्यासात् श्रवणादेरावर्तनात्। भवतीत्यर्थः ॥

एवंच भक्तिपूर्वकश्रवणाद्यभ्यासेन तत्प्रसादे जाते तदापरोक्ष्यांगीकारात्। तथा च भक्तेः सफलत्वमिति सिद्धं ॥
</3-2-26>

<3-2-27>
(27) ॥ अतोऽनंतेन तथा हि लिंगं ॥

नन्वव्यक्तस्वभावस्य श्रवणाद्यभ्यासेनाप्यापरोक्ष्यांगीकारो न युक्तः। अव्यक्तस्वभावत्वरूपयुक्तिविरोधापरिहारादिति चेत् समादधत्सूत्रं पठति ॥

॥ अतोऽनंतेन तथा हि लिंगमिति ॥ अस्यार्थः ॥ अतः अव्यक्तत्वे प्रत्यक्षे च। प्रमाणसद्भावात्। तदन्यथाऽनुपपत्त्या। अनंतेन अपरिच्छिन्नेन ब्रह्मणा। तत्प्रसादेनाव्यक्तस्यापरोक्ष्यं भवतीति ज्ञायते। न केवलमनुपपत्तिमात्रात् कि तर्हि। हि यस्मात्। तथा लिंगं तस्याभिध्यानादित्युक्तमीशप्रसादस्य बंधनिवृत्तिहेतुत्वरूपं। प्रसादस्य दर्शनहेतुत्वज्ञापकमस्ति। तस्मादित्यर्थः ॥

एवंचाव्यक्तस्वभावस्य साधनसामर्थ्येन ग्रहणासंभवेऽपि तत्प्रसादेनापरोक्ष्यांगीकारे बाधकाभावात्। ईश्वरस्याघटितघटकत्वेन सिद्धत्वात्। यद्धि युक्त्येति वचनात्। भगवत्प्रसादस्तदपरोक्षसाधनं मोक्षसाधनत्वादित्यनुमानसिद्धत्वात्। अतो भक्तेः सफलत्वात्तदर्थे तन्महिमावर्णनं सार्थकमिति सिद्धं ॥
</3-2-27>
॥ इति अव्यक्तत्वाधिकरणं ॥

15.अधिकरणं ॥

अत्र भगवतो गुणित्वं समर्थ्यते।

<3-2-28>
(28) ॥ उभयव्यपदेशात्त्वहिकुंडलवत् ॥

ननु न भगवद्भक्तिर्युक्ता। तस्यानंदाद्यात्मकत्वेनानंदत्वादिशून्यत्वात्। न चानंदादिभोक्तृत्वं विना तत्स्वरूपत्वं महिमा। अतो गुणित्वाभावेन तत्र भक्त्ययोगाद्‌व्यर्थं तन्माहात्म्यवर्णनमिति प्राप्ते सूत्रं पठति ॥

॥ उभयव्यपदेशात्त्वहिकुंडलवदिति ॥ अस्यार्थः ॥ ब्रह्म आनंदगुणकं तद्रूपं च भवति कुतः। उभयव्यपदेशात्। आनंदो ब्रह्म (तै. 3-6.)। आनंदं ब्रह्मण (तै. 2-4) इत्यादिश्रतिषु गुणात्मकत्वेन गुणित्वेन च ब्रह्मण उक्तत्वात्। तदपि कथं। अहिकुंडलवत्। यथाऽहेः सर्पस्य। कुंडलत्वं कुंडलित्वंच। विशेषात्तथेत्यर्थः ॥

एवंचोक्तश्रुतिषूभयव्यपदेशबलेन गुणात्मकस्यापि। अहिकुंडलवत् प्रकाशवत् पूर्वकालवत्। भगवतस्तद्धर्माणां च भेदप्रतिनिधिविशेषांगीकारात्। नेश्वरो गुणवान् गुणात्मकत्वात् यथाऽश्वोऽनश्ववान्। आनंदाद्या न ब्रह्मगुणाः तत्स्वरूपत्वाद्‌ब्रह्मवदित्याद्युक्तीनां बाधाभावात्। तस्य श्रुत्यैकसमधिगम्यत्वोक्तेः। अतो गुणगिणिनि हरौ भक्तिसंभवाद्युक्तं तन्माहात्म्यवर्णनमिति सिद्धं ॥
</3-2-28>

<3-2-29>
(29) ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥

दृष्टांतांतरेणैतदेव साधयत्सूत्रमुपन्यस्यति ॥

॥ प्रकाशाश्रयवद्वा तेजस्त्वादिति ॥ अस्यार्थः ॥ यथा प्रकाशाश्रयस्यादित्यस्य प्रकाशरूपत्वं तदाश्रयत्वं च तद्वद्‌ब्रह्मणोऽपि अन्यपरित्यागेनादित्यदृष्टां ते को हेतुरित्यत उक्तं। तेजस्त्वादिति। ब्रह्मादित्ययोरुभयोरपि तेजोरूपत्वात्तदभिप्रायेण तदृष्टांतीकरणमित्यर्थः ॥

एवंच भेदप्रतिनिधिविशेषबलादेव गुणगुणिभावस्य युक्तत्वात्। यावद्‌द्रव्यभाविगुणाभिन्नानां घटादीनामतेजोरूपत्वेन तेषां परित्यागेन तेजोरूपत्वसाधर्म्यविवक्षयाऽऽदित्यदृष्टांतस्योक्तत्वात्। अतो ब्रह्मणि गुणगुणिभावो युज्यत इति सिद्धं ॥
</3-2-29>

<3-2-30>
(30) ॥ पूर्ववद्वा ॥

दृष्टांतांतरेण ब्रह्मणो गुणगुणिरूपत्वं साधयत् सूत्रमुपन्यस्यति ॥

॥ पूर्ववद्वेति ॥ अस्यार्थः ॥ यथाकालः पूर्वेणाभिन्नोऽपि पूर्वकाल इति पूर्वपदेन विशिष्यते तथा ब्रह्म आनंदेन विशिष्यत इत्यर्थः ॥ आदरार्थं सूक्ष्मस्थूलबुद्धिविवक्षया वा। दृष्टांतत्रयोक्तिः ॥

एवंच यथा पूर्वः काल इति प्रयोगे पूर्वेणाभिन्नोऽपि कालः पूर्व इति विशेष्यश्च विशेषबलाद्भवत्येव। यथा चांगे शयनमिति प्रयोर्गेऽगाभिन्नमपि शयनं यथांऽगं शयनविशेषणकं भवत्येव। इत्यादि दृष्टांतानां सद्भावात्। तेषां चैकस्मिन्नेव विशेषणविशेष्यभावस्य सूक्ष्मस्थूलमतीनां प्रदर्शनार्थमुक्तत्वात्। अतो हरौ गुणगुणिभावो युज्यत इति सिद्धं ॥
</3-2-30>

<3-2-31>
(31) ॥ प्रतिषेधाच्च ॥

ननु विशेषणविशेष्यभावांगीकारेण गुणित्वसंभवात्। किमनेन गुणगुणिनोरभेदमंगीकृत्य गुणगुणिभावांगीकारेण भेद एव किं न स्यादित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥

॥ प्रतिषधेधाच्चेति ॥ अस्यार्थः ॥ ब्रह्मगुणानां ब्रह्मणश्च नेह नानेति (कठ. 2-4-11) भेदस्य। प्रतिषेधाच्च ब्रह्म गुणात्मकमित्यर्थः ॥

एवंच नेह नानेत्येकमेवाद्वितीयमि[छां. 6-2-1.]त्यादिश्रुतिषु भगवतो ज्ञानानंदादिगुणैरवयवैश्चाभिन्नमिति समाभ्यधिकशून्यमिति चोक्त्वा हीनाधिकभावस्यान्योन्याभावस्य पृथक्त्वरूपस्य च भेदस्य निषिद्धत्वात्। अतो गुणगुणिनि हरौ भक्तिसंभवाद्युक्तं तन्माहात्म्यवर्णनमिति सिद्धं ॥
</3-2-31>
॥ इति अहिकुंडलाधिकरणं ॥

16.अधिकरणं ॥

अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते।

<3-2-32>
(32) ॥ परमतः सेतून्मानसंबंधभेदव्यपदेशेभ्यः ॥

नन्वीश्वरानंदादिर्लौकिकानंदादिवदानंदादिरेव। न पुनर्ज्ञानादिरपि। आनंदशब्दवाच्यत्वात्। न हि ज्ञानात्मक आनंदशब्दो युज्यते। पटेऽपि टशब्दप्रयोगप्रसंगात्। ततश्चेश्वरानंदस्य लोकविलक्षणत्वाभावान्न तत्र निरतिशयाभक्तिरित प्राप्ते सूत्रितं ॥

॥ परमतः सेतून्मानसंबंधभेदव्यपदेशेभ्य इति ॥ अस्यार्थः ॥ ब्रह्मगुणजातं परं लोकविलक्षणं। कुतः। सेतून्मानसंबंधव्यपदेशेभ्यः। एष सेतुरिति (छां. 8-4-1.) सेतुत्वोक्तेः। यतो वाच (तै. 2-4.) इत्युन्मानशब्दितपूर्णत्वोक्तेः। एतस्यैवानंदस्येति (बृ. 6-3-32.) बिंबप्रतिबिंबभावसंबंधोक्तेः। अन्यज्ञानंत्विति लौकिकानंदाद्भेदोक्तेश्चेत्यर्थः ॥

एवंच निर्दिष्टश्रुत्यादिभिर्ब्रह्मानंदादिसेतुत्वपूर्णत्वबिंबत्वादीनां वैलक्षण्यस्योक्तत्वादलौकिकगुणे हरौ भक्तिः कर्तव्येति सिद्धं ॥
</3-2-32>

<3-2-33>
(33) ॥ दर्शनात् ॥

नन्वन्यानंदादीनां मनोवाग्गोचरत्वाद्भवतु लौकिकत्वं। तावता ब्रह्मानंदादेः कथमलौकिकत्वसिद्धिः। मानाभावादित्यतस्तत्प्रमाणत्वेन दर्शनपदोक्तां श्रुतिं हेत्वंतरेणानंदादेरलौकिकत्वं समर्थयत्सूत्रं पठति ॥

॥ दर्शनाच्चेति ॥ अस्यार्थः ॥ अन्यानंदादीनां प्रत्यक्षसिद्धत्वान्मनोवाग्विषयत्वाच्च ब्रह्मानंदस्यातथात्वादेव लोकविलक्षणत्वमित्यर्थः ॥

एवंच लौकिकानंदादिकं हि दर्शनयोग्यं। ईश्वरानंदादि तु `अदृष्टमव्यवहार्यं' [कौंडिन्य.] इत्यादिना दर्शनायोग्यमित्युच्यते। ततश्च तल्लोकविलक्षणमेवेति तस्मिन्भक्तिः कर्तव्येति सिद्धं ॥
</3-2-33>

<3-2-34>
(34) ॥ बुध्यर्थः पादवत् ॥

ननु यदीश्वरानंदादिर्लोकानंदादिविलक्षणः। कथं तर्हि लोकानंदादिः श्रुतिपुराणादौ गृहीतसंगतिकस्यानंदादिशब्दस्य तत्र प्रयोगः। न हि लवणेगृहीतसंगतिकः सैंधवशब्दोऽश्वे पृथक् संगतिग्रहं विना युज्यते। येनेहापि तत्र संगतिग्रहाभावेऽपि लौकिकेषु संगतिग्रहणमात्रेण तत्र प्रयुज्यत इति प्राप्ते सूत्रितं ॥

॥ बुध्यर्थः पादवदिति ॥ अस्यार्थः ॥ यथा लोकपादविलक्षणेषु जीवाख्यभूतेषु पादोऽस्य विश्वा बूतानीति (ऋ. 10-90-3.) पादपदप्रयोगः। बुध्यर्थः भूतानां ईशांशत्वज्ञापनार्थः। तथाऽलौकिकेऽपि ब्रह्मानंदादावानंदपदप्रयोगः। बुध्यर्थः अनुकूलतया वेदनीयत्वादिधर्मज्ञापनार्थ इत्यर्थः ॥

एवंच लौकिकपादस्वरूपांशाभ्यां विलक्षणेषु भिन्नांशेषु जीवेषु पादोऽस्येति पादशब्दप्रयोगवत् लौकिकानां बुध्यर्थमेव लोके गृहीतसंगतिकस्यानंदादि शब्दस्य किंचित्सादृश्यमात्रेण भगवदानंदादौ प्रयोगोपपत्तेः। ज्ञाततावन्मात्रस्य प्रमाणांतरवशात् वैलक्षण्ये ज्ञाते शब्दानां तत्र परममुख्यवृत्तिग्रहोऽपि भवति। अतोऽलौकिकगुणे हरौ भक्तिः कार्येति सिद्धं ॥
</3-2-34>
॥ इति परमताधिकरणं ॥

17.अधिकरणं ॥

अत्र ब्रह्माद्यानंदादीनां भगवदानंदादिप्रतिबिंबत्वं पूर्वनयोक्तं समर्थ्यते।

<3-2-35>
(35) ॥ स्थानविशेषात्प्रकाशादिवत् ॥

ननु न ब्रह्माद्यानंदादयो भगवदानंदादिप्रतिबिंबभूताः। तथात्वे वैचित्र्याभावप्रसंगात्। प्रतिबिंबैवचित्र्ये हि कारणद्वयं। बिंबवैचित्र्यं स्थानवैचित्र्यं चेति। न चात्र ब्रह्मादिस्थानवैचित्र्यं प्रतिबिंबवैचित्र्योपपादकं संभवति। तस्यापि भगवद्धर्मप्रतिबिंबत्वेन वैचित्र्यसिद्धये स्थानगुणांतरवैचित्र्यानुसरणेऽनवस्थानात्। नापि बिंबानंदादिवैचित्र्यं। भक्त्यभावप्रसंगात्। ततश्च कारणाभावेन वैचित्र्यासंभवात्। न ब्रह्मानंदादिर्भगवदानंदादिप्रतिबिंब इति तस्यालौकिकत्वाभावान्न तत्र निरतिशयाभक्तिरिति प्राप्ते सूत्रमाह ॥

॥ स्थानविशेषात्प्रकाशादिवदिति ॥ अस्यार्थः ॥ प्रकाशादिवत्। यथा सूर्यकांतादिगतसूर्यादिप्रतिबिंबेऽग्निजनकत्वादिवैचित्र्यं। स्थानविशेषात्। सूर्यकांतादिस्थानगुणवैचित्र्यादुपपद्यते तथा ब्रह्मादिस्थानगतभक्त्यादिगुणवैचित्र्याद्भगवदानंदप्रतिबिंबेषु ब्रह्माद्यानंदेष्वपि वैचित्र्यमुपपद्यत इत्यर्थः ॥

एवंच प्रतिबिंब एव ब्रह्माद्यानंदादिः। भगवदानंदादेर्ब्रह्मादीनामनादिकालीनभक्त्यादिगुणवैचित्र्यपरमैश्वर्याभ्यां सूर्यप्रतिबिंबवैचित्र्यवत् आनंदादिवैचित्र्यसंभवात्। ब्रह्मादिगुणेति (वाराहे.) स्मृतेः। अतो ब्रह्मादिगुणबिंबालौकिकगुणे हरौ भक्तिर्युक्तेति सिद्धं ॥
</3-2-35>

<3-2-36>
(36) ॥ उपपत्तेश्च ॥

युक्त्यंतरेणबिंवानंदाद्यवैचित्र्येऽपि प्रतिबिंबवैचित्र्यमुपपादयत्सूत्रं पठति ॥

॥ उपपत्तेश्चेति ॥ अस्यार्थः ॥ बिंबभूतभगवदैश्वर्यवशादेव प्रतिबिंबभूतब्रह्माद्यानंदवैचित्र्योपपत्तेश्च तत्प्रतिबिंबत्वमितरेषां युक्तमित्यर्थः ॥

एवंच भक्त्यादिवैचित्र्यानुपपत्त्यभावात्। तस्य परमेश्वरैश्वर्यादेवोपपत्तेः। परमेश्वरोहि वेदाप्रामाण्यकारणवैषम्यादिपरिहाराय भक्त्यादिवैचित्र्यमपेक्ष्यैव विचित्रानंदादीन् ददाति। अनादिकालीनभक्त्यादिविचित्रगुणांस्तु स्वैच्छयैवैश्वर्यवशाद्ददाति। तत्र वैषम्यादेरदोषत्वात्। ऐश्वर्यात्परमादिति (पाद्मे.) स्मृतेः। अतो ब्रह्मादिगुणबिंबालौकिकगुणे हरौ युक्तैव भक्तिरिति सिद्धं ॥
</3-2-36>
॥ इति स्थानविशेषाधिकरणं ॥

18.अधिकरणं ॥

अत्र ब्रह्मणो ध्यानप्रतीतादन्यत्वोक्त्या पुनरव्यक्तत्व समर्थ्यते।

<3-2-37>
(37) ॥ तथाऽन्यत्प्रतिषेधात् ॥

ननु व्यक्तमेव ब्रह्म। ध्यानकाले प्रतीयमानत्वात्। न च ध्येयानां बहुत्वेन ब्रह्मभेदापत्तिः। विशेषबलेनैव बहुत्वोपपत्तेः। ध्येयस्याब्रह्मत्वे च ब्रह्मध्यानाभावेन फलं न स्यात्। अतो ध्यानकाले प्रतीतस्य ब्रह्मत्वेनाव्यक्तत्वाभावाद्‌व्यर्था भक्तिरिति प्राप्ते सूत्रितं ॥

॥ तथाऽन्यत्प्रतिषेधादिति ॥ अस्यार्थः ॥ यथा जीवानंदादि ब्रह्मानंदादेर्विलक्षणं। तथा ध्यानकाले प्रतीतं वासनात्मकं वस्तु। ब्रह्मणोऽन्यत् तद्भिन्नं। कुतः। यन्मनसेति (केन. 1-6.) श्रुतावन्यस्य ब्रह्मत्वप्रतिषेधादित्यर्थः ॥

एवंचाव्यक्तमेव ब्रह्म। जीवानंदाद्‌ब्रह्मानंदस्य भिन्नत्ववत्ध्येयस्य दुर्लक्षणत्वेन ब्रह्मणस्तदन्यत्वात्। तदेवेति ध्येयस्य ब्रह्मत्वनिषेधाच्च। प्रतिमोपासनवत्प्रतिबिंबोपासनस्यापि ब्रह्मोपासनत्वेन ध्यानकालानुपपत्त्यभावात्। अतो ध्यानकाले प्रतीतस्याब्रह्मत्वेनाव्यक्तत्वात्कर्तव्यैव तद्भक्तिरिति सिद्धं ॥
</3-2-37>
॥ इति तथाऽन्यत्वाधिकरणं ॥

19.अधिकरणं ॥

अत्र भगवत एव सर्वकर्तृत्वादि समर्थ्यते।

<3-2-38>
(38) ॥ अनेन सर्वगतत्वमायामयशपब्दादिभ्यः ॥

ननु न भगवत एव सर्वसृष्ट्यादिक्रिया युज्यते। किंतु देशकालांतरेऽन्यतोपि जगतः सा भवति। राजादौ तथा दर्शनात्। तथा च न ब्रह्मणः सकाशादेव सर्वसृष्ट्यादिकं युक्तमिति प्राप्ते सूत्रं पठति ॥

॥ अनेन सर्वगतत्वमायामयशब्दादिभ्य इति ॥ अस्यार्थः ॥ अनेन भगवतैव। सर्वदेशकालयोः सृष्ट्यादिर्भवति। न तु देशकालांतरयोरन्येन। कुतः। सर्वगतत्वमायामयशब्दादिभ्यः। एष सर्वगत इति (भाल्लवेय.) सर्वगतत्वश्रुतेः। तस्य च सृष्ट्याद्यर्थत्वात्। विष्णौ प्रयुक्तमायामयशब्दव्याख्यानरूपसर्वत्रेत्यादि (चतुर्वेदशिखायां.) श्रुतेश्चेत्यर्थः। अन्यत्र प्रामाणाभावाच्चेत्यादि शब्दार्थः ॥

एवंच भगवतैव सर्वदेशकालीनसृष्ट्यादि। अनुप्रविश्येति (छां. 6-3-3.) श्रुतिसिद्धसृष्ट्युपयोगिसर्वगतत्वस्यैष सर्वगत इति श्रुतौ विष्णोरभिधानात्। मायामयशब्दव्याख्यानरूपसर्वत्र सर्वमेतस्मादिति चतुर्वेदशिखोक्तेश्च। कालतोऽन्यस्य जगत्कारणत्वे प्रमाणाभावात्। तदभावे संभावनामात्रस्याप्रयोजकत्वात्। अतः सर्वजगजन्मादिकर्तरि ब्रह्मणि भक्तिः कार्यैवेति सिद्धं ॥
</3-2-38>
॥ इति फलाधिकरणं ॥

20.अधिकरणं ॥

अत्र भगवतः स्वर्गादिकर्मफलदातृत्वं साध्यते।

<3-2-39>
(39) ॥ फलमत उपपत्तेः ॥

नन्वीश्वरो न फलदाता। अवश्यक्लृप्तनियतपूर्ववृत्तिना कर्मणैव फलसंभवेनान्यथासिद्धत्वात्। ततश्च न तद्भक्तिः कार्येति प्राप्ते सूत्रमाह ॥

॥ फलमत उपपत्तेरिति ॥ अस्यार्थः ॥ फलं स्वर्गादि। अतः ईश्वरादेव भवति। न कर्मतः। कुतः। उपपत्तेः। ईश्वरस्य चेतनत्वेन फलदातृत्वस्य युक्तत्वादित्यर्थः ॥

एवंचाचेतनत्वात्कर्मणैव फलसंभवाभावेनान्यथासिद्धत्वहेतोरसिद्धत्वेन बाधकाभावात्। अतः परमेश्वर एव कर्मफलदातेति तस्मिन्भक्तिः कार्येति सिद्धं ॥
</3-2-39>

<3-2-40>
(40) ॥ श्रुतत्वाच्च ॥

नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसंभावनैव भवेत्। न निश्चयः। अतः कुतोऽसौ निश्चय इत्याशंकां परिहरत्सूत्रं पठति ॥

॥ श्रुतत्वाच्चेति ॥ अस्यार्थः ॥ श्रतत्वाच्च। रतिरिति (बृ. 5-9-28.) श्रुत्युक्तत्वाच्चेश्वरस्यैव फलदार्तृत्वमित्यर्थः ॥

एवंच न केवलं चेतनत्वाद्युपपत्तेः किंतु श्रुत्युक्तत्वाच्चेश्वरस्य फलदातृत्वेन निश्चितत्वात्तस्मिन्भक्तिः कार्येति सिद्धं ॥
</3-2-40>

<3-2-41>
(41) ॥ धर्मं जैमिनिरत एव ॥

ननु नैतच्छ्रुतिबलेनेश्वरस्य फलदातृत्वमंगीकार्यं। कारणस्य कर्मण ईश्वरजन्यत्वेन श्रुतावीश्वरस्य फलदातृत्वस्योपाचारेणैवोक्तत्वात्। किंचैवमाप्ततमो जैमनिराचार्यो मन्यत इतिचेत्तत्परिहरत्सूत्रमुपन्यस्यति ॥

॥ धर्मं जैमिनिरत एवेति ॥ अस्यार्थः ॥ जैमिनिराचार्यः धर्मं फलप्रदमाह। तं च धर्मं। अत एव ईश्वरादेव जन्यं मन्यते। कुतः। अत एव एष ह्येवेति (कौ. 3-8.) श्रुतेरेवेत्यर्थः ॥

एवंचोक्तश्रुत्या जैमिन्याचार्याभिप्रायेण यतः फलं तस्मादीश्वरादेव कर्म भवतीति सिद्धं ॥
</3-2-41>

<3-2-42>
(42) ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥

एतत्परिहाराय सूत्रमुपन्यस्यति ॥

॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् इति ॥ अस्यार्थः ॥ बादरायणाचार्यस्तु। पूर्वं पूर्वोक्तं। ब्रह्म धर्मं चोभयं फलहेतुं मन्यते। तत्र ब्रह्म कर्तृत्वेन कर्मकरणत्वेन हेतुरिति विशेषस्तु शब्दार्थः। कुतः। हेतुव्यपदेशात् पुण्येनेति श्रुतौ (प्र. 3-7) ब्रह्मकर्मणोः कर्तृत्वकरणत्वरूपहेतुत्वस्योक्तत्वादित्यर्थः ॥

एवंच श्रुतेरौपचारिकत्वकल्पनं भवेत्। यदीश्वरं विना केवलेन कर्मणा फलं भवेत्। न च तत्संभवति। अचेतनस्य स्वतः प्रवृत्त्ययोगात्। एवंच श्रुत्यन्वयव्यतिरेकबलादुभयोरपि कारणत्वे सिद्धे कर्मैवेश्वरप्रयोज्यमभ्युपगंतव्यं। पुण्येन पुण्यं पापेन पापमिति हेतुव्यपदेशात्। जैमिनिरपि कर्मादिरीश्वराधीनकारणत्वमभिमतमिति न तन्मतमप्रमाणं। अतः परमेस्वरस्यैव कर्मफलदातृत्वान्निरतिशयमहिम्नि तस्मिन्भक्तिः कर्तव्येति सिद्धं ॥
</3-2-42>
॥ इति फलाधिकरणं ॥
॥ इति तृतीयाध्यायस्य द्वितीयः पादः ॥