सूत्रार्थरत्नावली/तृतीयोऽध्यायः/चतुर्थः पादः
← तृतीयः पादः | सूत्रार्थरत्नावली चतुर्थः पादः [[लेखकः :|]] |
॥ श्रीः ॥
॥ हरिः ॥
॥ अत चतुर्थः पादः ॥
ज्ञानसामर्थ्यमस्मिन्पाद उच्यते ॥
1.अधिकरणं ॥
अत्र ज्ञानस्य सर्वपुरुषार्थसाधनत्वमहिमा वर्ण्यते।
<3-4-1>
(1) ॥ पुरुषार्थोऽतः शब्दादिति बादरायणः ॥
ननु ज्ञानं मोक्षमात्रसाधनं। न स्वर्गादिपुरुषार्थांतरस्य। ज्ञानिनो मोक्षेतरपुरुषार्थे कामनाविरुद्धत्वात्। अकामितपुरुषार्थत्वे चानिष्टपुण्यवन्मोक्षविलंबहेतुत्वेन पुरुषार्थत्वमेव न स्यात्। अतो ज्ञानस्य मोक्षमात्रहेतुत्वात्सर्वपुरुषार्थसाधनत्वबुध्द्या न तदापाद्यमिति प्राप्ते सूत्रितं ॥
॥ पुरुषार्थोऽतः शब्दादिति बादरायणः इति ॥ अस्यार्थः ॥ पुरुषैरर्थ्यमानं यच्छुभफलं तत्सर्वमपि। अतः ब्रह्मदर्शनाद्भवति। न तु मोक्षमात्रं। कुतः। शब्दात् यं यमिति (मुं. 3-1-10) श्रुतेरिति भगवान् बादरायणो मन्यत इत्यर्थः ॥
एवंच ज्ञानेन यावदपेक्षितं भवति तत्सर्वमाप्यते। न तु मोक्षमात्रं। यं यं लोकमिति श्रुतेः। न च परीश्य लोकानिति [मुं 1-2-12.] प्रजहाति यदेति च श्रुतिभ्यां ज्ञानिनां कामाभावस्योक्तत्वेन कामितं ज्ञानेन भवतीत्युक्तमिति वाच्यं। प्रायः कामाभावस्य श्रुत्याद्युर्थत्वेन सर्वथा कामाभावस्यातदर्थत्वात्। इति बादरायणो मन्यते। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वादत्यंतापेक्षितं तदिति सिद्धं ॥
</3-4-1>
<3-4-2>
(2) ॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥
ननु कर्मैव पुरुषार्थसाधनं न ज्ञानमित्याक्षिप्य समादधत्सूत्रमाह ॥
॥ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिरिति ॥ अस्यार्थः ॥ शेषत्वात् ज्ञानस्य कर्मांगत्वात्। निमित्तादेव पुरुषार्थवादः यं यमिति (मुं. 3-1-10.)श्रुतौ ज्ञानस्य स्वर्गादिपुरुषार्थसाधनत्ववादः न तु मोक्ष इव स्वर्गादौ प्राधान्यात्। ततक्थं। यथा अन्येषु स्वर्गसाधनकर्मशेषभूतेषु धनादिषु। यथा स्वर्गं धनादिति प्राधान्यवादः। तथेति नैमिनिराचार्यो मन्यत इत्यर्थः ॥
एवंच ब्रह्मदर्शनस्य मोक्षसाधनत्वसद्भावेन स्वर्गादिषु साधनत्वाभावात्। यं यं लोकमिति श्रुतेः कर्मणैव सिध्यति स्वर्गेऽतिशयाधायकत्वरूपतच्छेषार्थत्वेन पुरुषा्रथवादाविरोधात्। इति जैमिनिराचार्यो मन्यते। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वमिति सिद्धं ॥
</3-4-2>
<3-4-3>
(3) ॥ आचारदर्शनात् ॥
ननु श्रुतिबलात्ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वं युक्तं। ततश्च ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वेन कुतः श्रुतेरर्थांतरपरिकल्पनेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ आचार दर्शनादिति ॥ अस्यार्थः ॥ यज्ञेन यज्ञमिति (तै.आ. 3-12-7.) देवानामपि कर्मानुष्ठानश्रुतेश्च न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्यर्थः ॥
एवंच ज्ञानिनामेव न तु ज्ञानरहितानां देवादित्वप्राप्तानां कर्मानुष्ठानस्य श्रवणात्। देवादिकर्मानुष्ठानवैयर्थ्यप्रसंगात्। अतो न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरिति सिद्धं ॥
</3-4-3>
<3-4-4>
(4) ॥ तच्छ्रुतेः ॥
नन्वेवमस्तु ज्ञानकर्मणोरुभयोरपि स्वर्गसाधनत्वं। ज्ञानस्य कर्मशेषत्वं तु कुत इत्याशंकां परिहरत्सूत्रं पठति ॥
॥ तच्छ्रुतेरिति ॥ अस्यार्थः ॥ यदेव विद्ययेति (छां. 1-1-10) ज्ञानस्य कर्मशेषत्वश्रुतेर्न तत्प्रधानमित्यर्थः ॥
एवंच निर्दिष्टा श्रुतिर्बादरायणमते मानुषविषया तत्कर्तृकज्ञानशेषत्ववादिनी प्रतिबंधकयुक्तदेवताविषया चेतीत्यभिप्रायकत्वात्। ज्ञानिना ज्ञानेन कृतकर्मणोऽधिकफलसाधनत्वात्। अतः कर्मशेषत्वश्रुतेर्न प्रधानमिति सिद्धं ॥
</3-4-4>
<3-4-5>
(5) ॥ समन्वारंभणात् ॥
ननु यथा ज्ञानस्य यं यमिति श्रुतमपि प्राधान्यं न स्वीक्रियते। किंतु शेषत्वमेव। तथा यदेव विद्ययेति श्रुतमपि कर्मणः प्राधान्यं नांगीकार्यं! किं नाम ज्ञानशेषत्वं कर्मणः साम्यं वा भवेत्। विशेषप्रमाणाभावादित्याशंकां पराकुर्वत्सूत्रमाह ॥
॥ समन्वारंभणादिति ॥ अस्यार्थः ॥ न कर्मणः ज्ञानशेषत्वं। तत्साम्यं च। किंतु प्राधान्यं। कुतः। समन्वारंभणात्। कर्मैवेति (माठरश्रुतिः.) प्राधान्येन स्वर्गाद्यारंभकत्वश्रुतेरित्यर्थः ॥
एवंच ज्ञानोत्तरकालीनं शुभाशुभं कर्मैव मनुष्याणामेव देवलोके ज्योतिर्मयदेहं मानुषं वा देहं प्रतिबंधकयुक्तदेवानां चोभयं देहमन्वारभेत्। कर्मातिरिक्तज्ञानादिः शरीराद्युत्पादने प्राधान्येन कारणं न भवति। किंतु कर्मशेषतयैव कारणं भवति। अतो न कर्मणो ज्ञानशेषत्वं किंतु प्राधान्यमिति सिद्धं ॥
</3-4-5>
<3-4-6>
(6) ॥ तद्वतो विधानात् ॥
ननु तथाऽपि न ज्ञानस्य कर्मशेषत्वं युक्तं। किंतु स्वयमेव पुरुषार्थ हेतुः। कस्मात्। कर्मणां फलाभावात्। फलाभावेप्याचारस्तु मुक्तवल्लीलया भवेदित्याशंकां परिहरत्सूत्रं व्याचष्टे ॥
॥ तद्वतो विधानादिति ॥ अस्यार्थः ॥ तद्वतः विधानात् ज्ञानी च कर्माणीति (कमठ श्रुतौ.) कर्मविधानात् न ज्ञानिकर्म लीलारूपमित्यर्थः ॥
एवंच ज्ञानौ च कर्माणीति ज्ञानिनोऽपि कर्मविधानेन फलसिद्धेः। ज्ञानिकृतकर्मफलाभावश्रुतिस्तु दुष्कर्मविषया। एवमेव विदिति [सौपर्णश्रुति,] वचनात्। अतो ज्ञानिकृतकर्म न लीलारूपमिति सिद्धं ॥
</3-4-6>
<3-4-7>
(7) ॥ नियमाच्च ॥
इतश्च ज्ञानिकृतकर्म न लीलामात्रीमत्यभिदधत्सूत्रमुपन्यस्यति ॥
॥ नियमाच्चेति ॥ अस्यार्थः ॥ ज्ञानिनोऽपि कर्मनियमाकरणे प्रत्यवायस्य च कुर्वन्निति (ई. 2) श्रुतेश्च। न ज्ञानिकर्म लीलारूपमित्यर्थः ॥
एवंच कर्मकरणेन पापलेपाभावेन भगवत्पूजात्वेन कर्मकरणस्यावश्यकत्वात्। अपि च कर्माकरणे एवं त्वयीति [ई. 2.] वचनात्प्रत्यवायश्रवणात्। अतो ज्ञानिकर्म न लीलामात्रमिति सिद्धं ॥
</3-4-7>
<3-4-8>
(8) ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥
एवं जैमिनिमतावलंबेन च्चेदिते स्वमतं समर्थयत्सूत्रमुपन्यस्यति ॥
॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनादिति ॥ अस्यार्थः ॥ तु शब्दो व्यासमतविशेषद्योतकः। बादरायणस्य त्वेवं ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्येवं मतं। कुतः। अधिकोपदेशात्। अधिकस्य ज्ञानजन्यमोक्षे कर्माधीनातिशयस्य। ज्ञानादेवेति (कौंठरव्य.) श्रुतावुक्तत्वात्। किंच तद्दर्शनाच्च। तस्य ज्ञानजन्यफले कर्मजन्यातिशयस्य राजसूयादिना (भविष्यत्पर्वणि.) युधिष्ठिरादावुपलंभाच्चेत्यर्थः। अत्र भगवन्मतं देवतानिष्ठज्ञानविषयं। दैमिन्यादिमतं तद्यमनुष्यनिष्ठज्ञानविषयं। अतो न विरोध इति ज्ञेयं ॥
एवंच ज्ञानस्यैव सर्वपुरुषार्थसाधनत्वात्। ज्ञानादेवेति श्रुतौ तथाभिधानात्। युधिष्ठिरादीनां ज्ञानेनैव सिध्यति पुरुषार्थे कर्मणातिशयदर्शनात्। अतो ज्ञानादेव देवानां स्वर्गादिफलस्य कर्मणस्तु तत्रातिशयाधायकत्वेन ज्ञानशेषत्वस्य सिद्धत्वेनाचारादेर्वैयर्थ्याभावाद्विध्यनुपपत्तेरभावात्। ज्ञानादेव सर्वपुरुषार्थप्राप्तिरिति बादरायणमतस्य सद्भावात्। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वेनात्यंतापेक्षितं तदिति सिद्धं ॥
</3-4-8>
<3-4-9>
(9) ॥ तुल्यं तु दर्शनं ॥
नन्वस्तु ज्ञानस्य सर्वपुरुषार्थहेतुत्वं कर्मणस्तु तच्छेषत्वं। शेषत्वं च न ज्ञानफलेऽतिशयाधायकत्वेन। नापि तदुत्पत्त्युपयोगित्वेन तदुत्तरभावित्वात्। किंतु ज्ञानेन फले साधयितव्ये सामर्थ्यसंपादकतया ज्ञानेऽतिशयाधायकत्वेनेति किं न स्यादित्याशंकां परिहरत्सूत्रं पठति ॥
॥ तुल्यं तु दर्शनमिति ॥ अस्यार्थः ॥ ज्ञानिकर्म न ज्ञानेऽतिशयकृत्। किंतु ज्ञानफल एव। कुतः। यतो दर्शनं ज्ञानं। तुल्यं तु कर्मकरणाकरणयोः समानमेव। अत इत्वर्थः ॥
एवंच ज्ञानिकर्म न ज्ञानेऽतिशयाधायकं। किंतु ज्ञानफल एव। कर्मकरणाकरणयोर्ज्ञानस्य समत्वात्। अन्यथा कर्माभावे ज्ञानस्य पुरुषार्थहेतुत्वं न स्यात्। नापि जैमिनिमतस्थाप्रामाण्यं। तस्य भगवन्मतैकदेशत्वेन प्रामाण्यात्। न च विसंवादिद्वयोः प्रामाण्यायोगः। भगवन्मतस्य देवताविषयत्वात्। जैमिनिमतस्य प्रतिबद्धदेवताविषयत्वेन मानुषविषयत्वेन वाऽविरोधात्। अतो ज्ञानस्य सर्वपुरुषार्थसाधनत्वादत्यंतापेक्षितं तदिति सिद्धं ॥
</3-4-9>
॥ इति पुरुषार्थाधिकरणं ॥
2.अधिकरणं ॥
अत्र ज्ञाने सर्वेषामधिकाराभावो वर्ण्यते।
<3-4-10>
(10) ॥ असार्वत्रिकी ॥
नन्वस्ति सर्वेषामपि ज्ञानेऽधिकारः। तदुपयोगिनोऽर्थित्वादेः सर्वत्र सौलभ्यात्। सत्यप्यधिकारप्रयोजके कस्यचिदधिकारे कस्यापि न स्यादिति निरधिकारिताप्रसंगः। अथवा। पुरुषैरर्थ्यमानज्ञानसाध्यस्य मोक्षस्य तदपेक्षितत्वात्। सर्वेषां ज्ञानसाधने श्रवणादौ सामर्थ्यात्तदुपयोगिविद्वत्तासद्भावात्। अतः सर्वेषां ज्ञानाधिकारित्वान्नतदतिशयवदिति प्राप्ते सूत्रितं ॥
॥ असार्वत्रिकीति ॥ अस्यार्थः ॥ ज्ञानाधिकरिता सर्वजनस्थितानेत्यर्थः ॥
एवंच न सर्वेषां ज्ञानाधिकार इति सिद्धं ॥
</3-4-10>
<3-4-11>
(11) ॥ विभागः शतवत् ॥
नन्वर्थित्वादेः सर्वेषां सद्भावात्कथं नाधिकारितेत्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ विभागः शतवदिति ॥ अस्यार्थः ॥ विभागः केषांचित्ज्ञानाधिकारिता अन्येवां नेति विभागः। शतवत् परापरब्रह्माधिकदेवताशतस्यैव सोमाधिकारः नान्येषामिति विभागवत् नव काट्यो हीत्यादावुक्तत्वादित्यर्थः ॥
एवंच सत्यपि देवत्वे ब्रह्मद्वयाधिकशतानामेव सोमाधिकार इति विभागः। तथा सत्यप्यार्थत्वे केषांचिदधिकारो न सर्वेषामित्यभिप्रायकत्वात्। अतो ज्ञाने सर्वेषामधिकाराभावेनातिशयितं तदिति सिद्धं ॥
</3-4-11>
<3-4-12>
(12) ॥ अध्ययनमात्रवतः ॥
ननु यद्यर्थित्वादिसाम्येऽपि न सर्वेषामधिकारस्तर्हि कस्याप्यसौ न स्यात्। यदि केषांचिदधिकारोऽस्ति तर्ह्यर्थित्वाद्व्यतिरिक्ताधिकारप्रयोजकविशेषणस्य वक्तव्यत्वात्। न च तस्तीति सर्वेषां ज्ञानाधिकारित्वान्न तदतिशयवदिति प्राप्ते सूत्रमाह ॥
॥ अध्ययनमात्रवत इति ॥ अस्यार्थः ॥ यथाशक्ति सर्ववेदाध्ययनवतो ब्रह्मविद्याधिकारिता नान्वस्येत्यर्थः ॥
एवंच हरिभक्तिपूर्वकाध्ययनवतामेव ग्रहणात्। न चाभक्तस्यानधिकारित्वे चतुर्मुखस्य विरोचनाध्यापने कथं प्रवृत्तिरिति न शंक्यं। अभक्तानामनधिकारितया तदध्ययनस्य वैफल्यमेवेति ज्ञापनायाध्यापनोपपत्तेः। पठेद्वेदानिति [कौषाख.] श्रुतेश्च। अतो ज्ञाने सर्वेषामदिकाराभावादतिशयितं तदिति सिद्धं ॥
</3-4-12>
॥ इति असार्वत्रिकाधिकरणं ॥
3.अधिकरणं ॥
अत्र ज्ञानाधिकारे तारतम्यं समर्थ्यते।
<3-4-13>
(13) ॥ नाविशेषात् ॥
ननु सर्वेषामेकप्रकारेणैव ज्ञानाधिकारः। अधिकारतारतम्यकल्पनाभावात्। न च ज्ञानतारतम्यान्यथाऽनुपपत्त्या तत्सिद्धिः। अधिकारसाम्येऽपि प्रयत्नतारतम्यादेव तत्सिद्धेः। अतो न ज्ञानं कर्मणः सकाशादतिशयवदिति प्राप्ते सूत्रितं ॥
॥ नाविशेषादिति ॥ अस्यार्थः ॥ देवादीनां ज्ञानाधिकारिता। अविशेषात् साम्यात्। न। किंतु तारतम्यादिनेत्यर्थः ॥
एवंच देवादीनां साम्ये न ज्ञानाधिकाराभावः। अन्यथा ज्ञानसाम्यप्रसंगात्। न च शक्तितारतम्येन ज्ञानतारतम्यमुपपन्नं। अधिकारतारतम्याभावे भक्तितारतम्यस्यैवायोगात्। अतः संपूर्णज्ञानाधिकारस्य सर्वसुलभत्वाभावेन सातिशयं ज्ञानमिति सिद्धं ॥
</3-4-13>
॥ इति अविशेषाधिकरणं ॥
4.अधिकरणं ॥
अत्र ज्ञानिनां सदसत्प्रवृत्त्योर्विशेषः साध्यते।
<3-4-14>
(14) ॥ स्तुतयेऽनुमतिर्वा ॥
ननु न सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषोऽस्ति केन स्याद्येन स्यादिति [बृ. 5-5-1.] यथेष्ठप्रवृत्तिविधानात्। न हि मोक्षादतिशयितं फलमस्ति। यत्सत्प्रवृत्त्या भवेत्। नापि मोक्षे दुःखमस्ति। यदसत्प्रवृत्त्या भवेत्। अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषाभावेनाद्याधिकारिणोक्तं कर्मणो ज्ञानविशेषत्वमयुक्तमिति प्राप्ते सूत्रितं ॥
॥ स्तुतयेऽनुमतिवेति ॥ अस्यार्थः ॥ ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्त्येव। कुतः। यतः यथेष्ठाचारो ज्ञानी मुच्यत एवेति ज्ञानिस्तुतय एव येन स्यात्केन स्यादित्युच्यते। अनुमतिर्वा ज्ञानिनां यथेष्ठाचारेऽभ्यनुज्ञामात्रं वा न त्वत्र यथेष्ठाचारविधिरत इत्यर्थः ॥
एवंच केन स्याद्येन स्यादित्यस्य निषेधशास्त्राबद्धतया ज्ञानिनः स्तुतित्वेनाविधित्वात्। अथवाऽनुमतिमात्रमेतत्। अतोऽस्त्येव ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥
</3-4-14>
<3-4-15>
(15) ॥ कामकारेण चैके ॥
ननु सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषांगीकारो न युज्यते। तथा सत्यसत्प्रवृत्त्या कुंठितशक्तेर्ज्ञानस्य मोक्षसाधनत्वाभावप्रसंगात्। तथा च सदसत्प्रवृत्तिभ्यां कथं विशेषो युज्यत इति प्राप्ते सूत्रितं ॥
॥ कामकारेण चैक इति ॥ अस्यार्थः ॥ एके शाखिनः। कामकारेण च यथेष्ठाचारेणापि ज्ञानिनां मोक्षं कामचारा इति (सामशाखा.) श्रुतौ पठंति। अतो न ज्ञानिनः सदसत्प्रवृत्त्योर्मोक्षहानिः किंतु फले विशेषमात्रमस्तीत्यर्थः ॥
एवंच कामचारा इति वचनात्ज्ञानिनां यथेष्ठाचारेऽपि मोक्षाभिधानेनासत्प्रवृत्तेरप्रतिबंधकत्वात्तेषां सदसत्प्रवृत्तिभ्यां विशेषोऽस्तीति सिद्धं ॥
</3-4-15>
<3-4-16>
(16) ॥ उपमर्दं च ॥
सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषोऽस्तीतीदमेव साध्यं कैमुत्येन साधयत्सूत्रं पठित्वा च शब्दस्य विषभक्षान्मृतेरिवानिवार्यतया प्राप्तस्य प्रारब्धकर्मणोऽपीत्येवमप्यर्थत्वेन कैमुत्यद्योतकत्वमभिप्रेत्यव्याचष्टे ॥
॥ उपमर्दं चेति ॥ च शब्दोऽप्यर्थः ॥ यदा ज्ञानिनः प्रारब्धकर्मणोऽपि किंचिद्भुक्तस्य ज्ञानिनोपमर्दं ईषत्फलह्रासं। ओमित्युच्चार्येति (तुर श्रुतिः) श्रुतावेके साखिनः पठंति तदा ज्ञानोत्तर कालोनासत्कर्म न मोक्षप्रतिबंधकमिति किं वर्णनायमित्यर्थः ॥
एवंच प्रारब्धस्यापि पापस्योपमर्देनोमित्युच्चार्येति श्रुतौ मोक्षः श्रूयते। ततश्च ज्ञानिकृतपापस्य मोक्षाप्रतिबंधकत्वमित्यनायासेन सिद्धं ॥
</3-4-16>
<3-4-17>
(17) ॥ ऊर्ध्वरेतःसु च शब्दे हि ॥
ननु यदिकामचाराणामपि ज्ञानिनां मुक्तियोग्यता तर्हि तद्वज्जिज्ञासूनामपि कामचाराणां ज्ञानाधिकारः स्थात्। अविशेषात्। तथा चाध्ययनमात्रवत इत्युक्तस्य विष्णुभक्तिशमदमादिवतामेवाधिकार इत्यस्य बाधः स्यादित्याशंकामपाकुर्वत्सूत्रं पठति ॥
॥ ऊर्ध्वरेतः सु च शब्दे हीति ॥ अस्यार्थः ॥ कामचाराणामपि ज्ञानिनां मुक्त्याधिकारवत्कामचाराणां जिज्ञासूनां न ज्ञानाधिकारः। कुतः। हि यस्मात्। शब्दे य इममिवि (माठर.) श्रुतावूर्ध्वरेतत्स्वादि गुणवत्स्वेव ज्ञानोपदेशो विहितः। तस्मादित्यर्थः ॥
एवंच निर्दिष्टश्रुत्या गुरुकुलवासब्रह्मचर्यापरपर्यायोर्ध्वरेतस्त्वादि गुणवत्स्वेव ज्ञानोपदेशस्य विहितत्वात्कामचाराणां जिज्ञासूनां सुतरामपरोक्षज्ञानाधिकाराभावेन तेषामपरोक्षज्ञानाधिकाराभावत्वमिति सिद्धं ॥
</3-4-17>
<3-4-18>
(18) ॥ परामर्शं जैमिनिरचोदना चापवदति हि ॥
एवं केनस्यादित्यस्य यथेष्ठाचारविधित्वमनंगीकृत्य स्तुत्यनुमतिरूपार्थावुक्तौ। अधुना यथेष्ठाचारविधित्वानंगीकारेणैव यज्जैमिनिनाऽर्थांतरमुक्तं तत्प्रतिपादयत्सूत्रमुपन्यस्यति ॥
॥ परामर्शं जैमिनिरचोदना चापवदति हीति ॥ अस्यार्थः ॥ जैमिनिः परामर्शं येन स्यादिति वाक्ये प्रातरुत्थायेत्यादिश्रुत्युक्तसदाचारस्यैव ग्रहणमभ्युपेत्यात्र सदाचारस्यैव स्वेच्छया नियमेनाचरणं प्रतिपाद्यं। न तु निषिद्धस्य करणमिति मन्यते। कुतः। हि यस्मात्। अचोदना अनिषिद्धं ज्ञानिना कार्यमिति विध्यभावः अपवदति च प्रत्युत ब्राह्मणो न हंतव्य इति श्रुतिः विकर्म निषेधति च इति। तस्मादित्यर्थः ॥
एवंच प्रातरुत्थायाथ संध्यामुपासीतेत्यादिना ज्ञानिनो संध्यावंदनाद्यचारपरामर्शाद्विधिबंधवर्जित्वेन कामचारणमेव येन स्यादिति श्रुत्या चोच्यते। न तु निषिद्धं कर्तव्यमेवेति विधीयते। ब्रह्मणो न हंतव्य इत्यपवाद श्रवणात्। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥
</3-4-18>
<3-4-19>
(19) ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥
एवं येन स्यादिति वाक्यस्य जैमिनिमतानुसारेण स्वेच्छया सदाचारविधित्वमेवोक्त्वा यत्स्तुतयेऽनुमतिर्वेत्युक्तमभ्यनुज्ञानं तदेव कामचारश्रुत्यर्थतया प्रतिपादयत्सूत्रं पठति ॥
॥ अनुष्ठेयं बादरायणः साम्यश्रुतेरिति ॥ अस्यार्थः ॥ बादरायणः भगवान् बादरायणस्तु। अनुष्ठेयं स्वेच्छया श्रुत्याद्युक्तानुष्ठानयोग्यकिंचित्कर्माचरणाभ्यनुज्ञानमेव येन स्यादिति श्रुतेरर्थः। नतु सर्वकर्मकरणाय यथेष्ठाचारविधिरेवेति मन्यते। कुतः। साम्युतेः। केनापि प्रकारेण प्रवृत्तावपि ईदृश एवेति ज्ञानिनः साम्योक्तेः ॥
एवंचानुष्ठेयानां मध्ये कामचारो यस्मिन्करवाणीति कामस्तस्यानुचरणं यस्मिन्न करवाणीति कामस्तस्यानाचरणमित्येवानुष्ठेये कामचारानुमतेरेव न तु सर्वेषां कामचारस्य येन स्यादिति श्रुतावुक्तत्वात्। ज्ञानिनः करणाकरणयोर्येन स्यादिति साम्यश्रुतेः [बृ. 5-5-1.]। इति बादरायणो मन्यते। अतो ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥
</3-4-19>
<3-4-20>
(20) ॥ विधिर्वा धारणवत् ॥
एवं केन स्यादिति वाक्यस्य यथेष्ठाचारविधित्वाभावमभ्युपेत्य नियमेन सर्वदाचारविधित्वमनुष्ठेयानां मध्ये कामचाराभ्यनुज्ञानमित्यर्थद्वयं स्तुत्यनुमतिरूपार्थद्वयं चोक्तं। अधुना स्वेच्छाचारणविधिर्वा भवतीत्यर्थप्रतिपादकं सूत्रमुपन्यस्यति ॥
॥ विधिर्वा धारणवदिति ॥ अस्यार्थः ॥ यथा वेद धारणविधेः त्रैवर्णिकाधिकारिकत्वमेव न तु सर्वाधिकारिकत्वं। तथा विधिः ज्ञानिनामेव येन स्यादिति स्वेच्छाचारविधिः नत्वज्ञानिनामित्यर्थः। वा शब्दः प्रागुक्तपक्षद्वयात् अस्य पक्षांतरावद्योतकः ॥
एवंच त्रैवर्णिकानां वेदविधिधारणवद्येन स्यादिति स्वेच्छाचारविधेर्ज्ञानिनामेव सद्भावात्। ततश्चोक्तं युक्तमेवेति सिद्धं ॥
</3-4-20>
<3-4-21>
(21) ॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥
उक्तमाक्षिप्य समादधत्सूत्रं पठति ॥
॥ स्तुतिमात्रमुपादानमिति चेन्नापूर्वत्वादिति ॥ अस्यार्थः ॥ केन स्यादिति वाक्यं पूर्वोक्तम्तुतिरेव न स्वेच्छाचरणविधिः। कुतः। उपादानात् ज्ञानिभिरपि संध्यामुपासीतेत्यादिसाधारणविधस्वीकारादिति चेन्न। कुतः। अपूर्वत्वात् अ शब्दवाच्यपरमात्माधीनत्वादित्यर्थः ॥ तथा च ज्ञानिनः स्वेच्छाचरणविधेरप्यभावे सर्वविध्यतिदूरत्वप्रसंगेन परमात्माधीनत्वं न स्यादिति भावः ॥
एवंच विरिंचस्य पूर्वमनादिब्रह्मत्वाभावेन परब्रह्मणो वशगत्वात्। अनादिभिन्नस्य कस्माच्चिदुत्पत्तेरावश्यकत्वे तस्य तदधीनत्वात्। सर्वविधिनिषेधगोचरत्वेन विधिविषयत्वं विना स्तुमिमात्रविषयत्वस्य ब्रह्मण्येव सत्त्वात्। विधीनां विषया इति [ब्रह्मतर्के.] वचनात्। अत उक्तं युक्तमिति सिद्धं ॥
॥</3-4-21>
<3-4-22>
(22) ॥ भावशब्दाच्च ॥
ननु ज्ञानिनां स्वेच्छाचरणविधेः स्फुटप्रमाणसिद्धत्वे भवेत् येन स्यादिति वाक्यं स्वेच्छाचरणविध्यर्थकं। विधेः स्फुटप्रमाणसिद्धत्वमेव कुत इत्याशंकायां सूत्रमुपन्यस्यति ॥
॥ भावशब्दाच्चेतिन ॥ अस्यार्थः ॥ भावः इच्छाभावशब्दघटित यथा विधानमिति (तुर श्रुतिः) श्रुतेश्च केन स्यादित्ययं कामचार विधिरित्यर्थः ॥
एवंच केन स्यादित्यस्य विध्यति दूरत्वेन ज्ञानिनः स्तुतित्वे संध्यावंदनादिसामान्यविध्यभावस्यानने वाक्येनोक्तत्वात्। स्वेच्छाचरणविधेश्च वादिनाऽनंगीकारात्। सर्वविध्यतिदूरत्वेन स्तुतित्वप्रसंगात्। न च तदिष्टं। तस्येश्वरधर्मत्वात्। अत उक्तं युक्तमिति सिद्धं ॥
</3-4-22>
<3-4-23>
(23) ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥
ननु केन स्यादिति वाक्यस्य प्रातरुत्थायेति वाक्यानुसारेण जैमिनिमतमवलंब्य ज्ञानिभिः समस्तं कार्यमित्युक्तं। तथा च यस्त्वात्मरतिरिति [गी. 3-17.] वाक्यानुसारेण स्वेच्छाचरणानुज्ञानमर्थ उक्तः। पुनश्च यथापि विधानमित्याद्यनुसारेण स्वेच्छाचरणविधायकत्वमुक्तं। ततश्चैवं वाक्यं न कस्याप्यर्थस्य निश्चायकं स्यादिति प्राप्ते सूत्रितं ॥
॥ पारिप्लवार्था इति चेन्न विशेषितत्वादिति ॥ अस्यार्थः ॥ नियमेन सर्वधर्माचरणविधिपक्षस्यानुष्ठेयानां मध्ये स्वेच्छया कतिपयधर्माचरणाभ्यनुज्ञानपक्षस्य स्वेच्छाचरणविधिपक्षस्य च परस्परविरुद्धत्वात्। येनस्यादित्यादयः पारिप्लवार्थाः अव्यवस्थितार्थका इति चेन्न। कुतः। विशेषितत्वात् त्रेधा हि ज्ञानिना इति (गौपवन.) श्रुतौ ज्ञानिनां विधिनियतादि पदैर्विशेषितत्वेन तेषामनेकप्रकारत्वस्योक्तत्वादित्यर्थः ॥
एवंच ज्ञानिनां त्रिविधत्वेन तदधिकारानुसारेण तत्तन्निश्चायकत्वसंभवात्। तत्र विधिनियतामनुष्या अनियता देवाः स्वेच्छानियतस्तु चतुर्मुख इति विवेकः। अत उक्तं युक्तमिति सिद्धं ॥
</3-4-23>
<3-4-24>
(24) ॥ तथा चैकवाक्योपबंधात् ॥
ननु ज्ञानिनामनेकप्रकारत्वोक्त्या कथं परिहारो जात इत्याशंकां पराकुर्वत्सूत्रं पठति ॥
॥ तथा चैकवाक्योपबंधादिति ॥ अस्यार्थः ॥ उक्तपक्षत्रयानुसारिवाक्यानां अधिकारिभेदमाश्रित्याविरोधोनैकवाक्यतायाः युक्तत्वात्। तथा च श्रुतीनामेकवाक्यत्वे सिद्धे येन स्यादिति वाक्यस्यापि एकवाक्योपबंधात् अधिकारिभेदेन व्यवस्थितार्थकत्वोपपत्तेः न पारिप्लवार्थत्वमित्यर्थः ॥ तथा च जैमिनिमतं मनुष्यज्ञानिविषयं। व्यासमतं देवताविषयं। विधिर्वेति मतं विधिवेत्तविषयमिति न विरोध इति भावः ॥
एवंच प्रातरुत्थायेत्यादीनां तथा यथा विधानमपर इति [तुर श्रुतिः] वाक्यस्य चाविरोधेनोक्तं युक्तमिति सिद्धं ॥
</3-4-24>
<3-4-25>
(25) ॥ अत एव चाग्नींधनाद्यनपेक्षा ॥
एवं ज्ञानिनः केन स्यादिति श्रुतिबलेन सदसत्प्रवृत्त्योः शंकितो विशेषः श्रुतेरर्थांतरोक्त्या परामर्शमित्यादिना परिहृतः। तत्रोक्तं ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषे ज्ञानस्यासत्प्रवृत्तिकुंठितशक्तेर्मोक्षसाधनविधुरत्वं कामकारेण चैक इत्यादिना परिहृतं। अत्र तु सत्प्रवृत्त्या ज्ञानिनां विशेषस्यासत्प्रवृत्तिसमुचितमेव ज्ञानं मोक्षसाधनमिति तद्विधुराणां ज्ञानिनां मोक्षो न स्यादित्याशंकां पराकुर्वत्सूत्रं पठति ॥
॥ अत एवचाग्नींधनाद्यनपेक्षेति ॥ अस्यार्थः ॥ ज्ञानस्य मोक्षसाधनत्वे अग्नींधनाद्यनपेक्षा अग्निहोत्रादिसत्कर्मसापेक्षितत्वं नास्ति। कुतः। अत एव कामचाराणामपि मोक्षस्य प्रमाणसिद्धत्वादित्यर्थः ॥
एवंच न ब्रूमो वयमग्निहोत्रादिसमुचितस्यैव ज्ञानस्य मोक्षसाधनत्वं येनोक्तदोषः स्यात्। न चैवं। किं नाम केवलस्यैव मोक्षहेतुत्वं। कामचाराणमपि मोक्षश्रवणात्। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावेन मोक्षो नियत एवेति सिद्धं ॥
</3-4-25>
<3-4-26>
(26) ॥ सर्वापेक्षा च यज्ञादिश्रुतेरस्ववत् ॥
नन्वस्तु ज्ञानिनः सत्प्रवृत्त्या विशेषः। स च मोक्षप्राप्तिरूप एव। नाधिक्यरूपः। न चैवं ज्ञानिनां सुकृतौ कृतावकृतौ च मोक्षश्रुतिविरोधः। तत्प्रवृत्तेर्मोक्षहेतुत्वेप्यसत्प्रवृत्तेरप्रतिबंधकत्वेन तदुपपत्तेरित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ सर्वापेक्षा च यज्ञादिश्रुतेरस्ववदिति ॥ अस्यार्थः ॥ अश्ववत् यथा गतिसाधनाश्वादयः गतिनिष्पत्यर्थमेवापेक्षंते न तत्फलग्रामादिप्राप्त्यर्थ। तथा मोक्षसाधनज्ञानोत्पत्तावेव। सर्वापेक्षा सर्वधर्मापेक्षा। न तु ज्ञानफलमोक्षेऽपि। कुतः। यज्ञादिश्रतेः विवदिष्यंति यज्ञेनेति (बृ. 6-4-22.) श्रुतेरित्यर्थः ॥
एवंच ज्ञानार्थं तावत्सर्वकर्मणोऽपेक्षितत्वेन तेषां निष्पन्नज्ञानस्य मोक्षप्राप्त्यर्थमनपेक्षणात्। तत्र निर्दिष्टनिदर्शनसद्भावात्। अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनां विशेष इति सिद्धं ॥
</3-4-26>
<3-4-27>
(27) ॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदंगतया तेषामवश्यानुष्ठेयत्वात् ॥
ननु यदि सदसत्प्रवृत्तिभ्यां मोक्षतदभावयोरभावस्तर्हि ज्ञानिनस्ताभ्यां विशेषो नास्तीति न तेन सत्कर्म कार्यमसत्कार्यं त्याज्यं। न च ताभ्यां मोक्षे आधिक्यादि भवतीत्युक्तमिति वाच्यं। ज्ञानादेवेति श्रुतेर्ज्ञानादेव तदुपपत्तेरित्याशंकां पराकुर्वत्सूत्रं पठति ॥
॥ शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधस्तदंगतया तेषामवश्यानुष्ठेयत्वादिति ॥ अस्यार्थः ॥ यद्यपि ज्ञानेनैव मोक्षो नियतः। तथाऽपि ज्ञानी शमदमाद्यपेतः स्यात् शमदमादियुक्तो भवेत्। कुतः। तद्विधेः आचार्यादिति (माठर श्रुतिः) श्रुत्या तस्य ज्ञानिनः शमदमादेर्विधानात्। तथाऽपि न ज्ञानिनः शमदमादिवैयर्थ्यं। कुतः। तदंगतया ज्ञानगंतया तेषां शमदमादीनामवश्यानुष्ठेयत्वात्। अवश्यमनुष्टानार्हत्वात् । तु शब्दः शमदमादेः पूर्णफलार्थत्वं सूचयति ॥
एवंच न च ज्ञानिनां सत्कार्यमसत्त्याज्यमित्यनियमः सदसदनुष्ठानपरित्यागाभ्यां विशेषाभावादिति वाच्यं। अचार्याद्विद्यामिति माठर श्रुतौ ज्ञानिनोऽपि तद्विधानात्। ब्राह्मी वावेति श्रुतौ [केन. 4-7-9.] शमदमादीनामंगत्वाभिधानाच्च। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेष इति सिद्धं ॥
</3-4-27>
<3-4-28>
(28) ॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥
ननु यदि सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेषः। कथं तर्ह्येवं विन्निखिलं भक्षयीतेति तस्य निषिद्धान्न भोजनेऽपिह्रासाभावोक्तिः संभवति। तस्मानन विशेषः स्यादिति पूर्वोक्तस्य तर्कपराहतिमाशंक्य परिहरत्सूत्रमाचष्टे ॥
॥ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनादिति ॥ अस्यार्थः ॥ च शब्द एवार्थे। ज्ञानिनः सर्वान्नानुमतिः यदि ह वा अप्येवं विदिति निषिद्धानिषिद्धभक्षणस्याभ्यनुज्ञानश्रुतिः। प्राणात्यये प्राणत्यागकालविषयैव न तु सर्वकालविषया। कुतः। तद्दर्शनात् तस्मिन्नर्थे न वाऽजीविष्यमिति (छां. 1-10-4.) श्रुतेस्तदर्थरूपलिंगदर्शनाच्चेत्यर्थः ॥
एवंच जीवनोपाययुक्तनिषिद्ध भक्षणानुमतिस्ततोऽधिकरागप्राप्तानुपानप्रत्याख्यानरूपलिंगप्रतिपादकवचनात्। अतो ह्रासाभावोक्तेरन्यथोपपन्नत्वेन न तद्बलाज्ज्ञानिनः सदसत्प्रवृत्त्योरविशेषः शंकनीय इति ज्ञानिनाऽपि निषिद्धं न कार्यमेव। ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषाम्युपगमे यदि ह वा इति सर्वान्नानुमतिश्रुतेः प्राणात्ययकालविषयत्वेन तद्बाधाभावात्। अतः सदसत्प्रवृत्तिभ्यां ज्ञानिनो विशेष इति सिद्धं ॥
</3-4-28>
<3-4-29>
(29) ॥ अबाधाच्च ॥
ननु यदत्रोक्तं ज्ञानिनां न निषिद्धं त्याज्यमिति तत्र किं निषिद्धाकरणे बाधकसद्भावान्निषिद्धं न कर्तव्यमित्युच्यते उत विधिसद्भावादिति प्राप्ते सत्रमुपन्यस्यति ॥
॥ अबाधाच्चेति ॥ अस्यार्थः ॥ ज्ञानिनां निषिद्धाकरणे बाधकाभावाच्च निषिद्धं न कार्यमित्यर्थः ॥
एवंच न केवलं निषिद्धकरणे साधकप्रमाणाभावात्ज्ञानिनः सदसत्प्रवृत्त्योरपिशेषो न युक्तः। किंतु निषिद्धाकरणे बाधकाभावात्। अन्याय्यचरणाभाव इति [ब्रह्मतर्के.] वचनादुक्तहेत्वोरसिद्धेः ततश्च ज्ञानिनः सदसत्प्रवृत्तिभ्यां विशेषोऽस्तीति सिद्धं ॥
</3-4-29>
<3-4-30>
(30) ॥ अपि स्मर्यते ॥
ननु ज्ञानिनो निषिद्धकरणनिषेधकप्रमाणाभावान्न सदसत्प्रवृत्त्योर्विशेषो युक्त इत्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ अपि स्मर्यत इति ॥ अस्यार्थः ॥ तत्करणेऽल्पफलता च अतीते(हरिवंशेषु.)त्यादिना कृष्णादिभिः स्मृतिभिर्निषिद्धं न कार्यमिति स्मर्यते च। अतोऽपि न निषिद्धं ज्ञानिभिः कार्यमित्यर्थः ॥
एवंच ज्ञानिनस्त्रैलोक्यस्य पापोद्धरणक्षमत्वात्। अतीतानागतेति हरिवंशवचनात्सत्कर्मकरणस्य निषिद्धाकरमस्य च परित्यागं न कार्यमित्युक्तत्वात्। अतोऽपि न ज्ञानिभिर्निषिद्धं कार्यमिति सिद्धं ॥
</3-4-30>
<3-4-31>
(31) ॥ शब्दश्चाऽतोऽकामचारे ॥
ज्ञानिना निषिद्धकरणे न केवलं स्मृतिरेव निषेधिका किंतु श्रुतिरपीत्याह सूत्रकृत् ॥
॥ शब्दश्चाऽतोऽकामचार इति ॥ अस्यार्थः ॥ चो यतः अकामचारे निषिद्ध कर्माभावे। शब्दः स य एतदेवं विदिति (कौडिन्य.) श्रुतिरस्ति। अतोऽपि न निषिद्धं ज्ञानिना कार्यमित्यर्थः ॥
एवंच निर्दिष्टश्रुत्या कामचारस्याल्पफलत्वोक्तेः। सत्प्रवृत्तेः पूर्णफलकत्वसूचनेनासत्प्रवृत्तेरल्पफलत्वस्यार्थादागतत्वात्। अतः पूर्णं यत्ज्ञानफलं तदिच्छुः सन् निषिद्धानि कर्माणि नानुवर्तेतेति सिद्धं ॥
</3-4-31>
<3-4-32>
(32) ॥ विहितत्वाच्चाश्रमकर्माऽपि ॥
नन्वस्तु निषिद्धाचरणे पलह्रासादिबाधकसद्भावात्तत्परित्यागस्तथाऽपि न हानिर्वर्णाश्रमोचितं कार्यं। ह्रासकारणाभावे ज्ञानादेव पूर्णफलसिद्धेरित्याशंकां परिहरत्सूत्रं पठति ॥
॥ ॥ विहितत्वाच्चाश्रमकर्माऽपीति ॥ अस्यार्थः ॥ चः कारणसमुच्चये। अपि वर्णाश्रमधर्मसमुच्चये ज्ञानिना न केवलं निषिद्धमकार्यं। किंत्वाश्रमधर्मोऽपि वर्णाश्रमोचितकर्माऽपि संपूर्णफलार्थं कार्यं। कुतः। विहितत्वात्। पश्यन्नपीति (कौषारव.) श्रुतिविहितत्वादित्यर्थः ॥
एवंच निर्दिष्टश्रुत्या ज्ञानिनां संपूर्णफलार्थं वर्णाश्रमोचितमपि न कार्यमिति सिद्धं ॥
</3-4-32>
<3-4-33>
(33) ॥ सहकारित्वेन च ॥
ननु विहितत्वेऽपि न ज्ञानिना सत्कर्मानुष्ठेयं। फलाभावात्। ह्रासकारणाभावे ज्ञानादेव पूर्णफलसिद्धेः। अन्यथा समुच्चयवादापत्तिरित्याशंकामपाकुर्वत्सूत्रं पठति ॥
॥ सहकारित्वेन चेति ॥ अस्यार्थः ॥ ज्ञानिना फलसंपूर्णसिध्यै सत्कर्म कार्यमेव कुतः। यथा राज्ञ इति (कमठ.) श्रुतौ मोक्षफलातिशयकर्मणो ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थः ॥
एवंच यथा मंत्रिणं विनाऽपि कार्यकरणसमर्थस्य राज्ञः फलातिशयहेतुत्वेन मंत्रीसहकार्येवं सदाचारं विनाऽपि मोक्षदानसमर्थस्य फलातिशयहेतुत्वेन सहकारिणः सदाचारस्यावश्यकत्वात्। अतो ज्ञानिनां सदसत्प्रवृत्तिभ्यां विशेषसद्भावेऽपि मोक्षो नियत एवेति सिद्धं ॥
</3-4-33>
॥ इति स्तुत्यधिकरणं ॥
5.अधिकरणं ॥
अत्र ब्रह्मज्ञानस्याधिकारिमात्रप्राप्यत्वं वर्ण्यते।
<3-4-34>
(34) ॥ सर्वथाऽपि तु त एवोभयलिंगात् ॥
नन्वनधिकारिभिरपि ज्ञानमाप्यते। असुराणामपि प्रल्हादादीनां ज्ञानस्मृतेः। न च स्मृत्युक्तमप्यसंभावितत्वान्न सिध्यतीति वाच्यं। वेदानधिकारेऽपि शूद्राणां वेदप्राप्तेर्दृष्टत्वेन तदनधिकारिणां तत्प्राप्तेः संभावितत्वात्म। अतोऽयोग्यैरपि ज्ञानस्य प्राप्तुं शक्यत्वेनायोग्यानामपि मोक्ष इति प्राप्ते सूत्रितं ॥
॥ सर्वथाऽपि तु त एवोभयलिंगादिति ॥ अस्यार्थः ॥ सर्वथाऽपि देशकालगुरूपदेशाद्यनेकसाधनसंपत्तावपि ये ज्ञानयोग्याः त एव ज्ञानमाप्नुवंति। नायोग्याः। कुतः। उभयलिंगात्। उभयोः योग्यायोग्ययोः इंद्रविरोचनयोः। विरिंचोपदेशसाम्येऽपि सम्यग्विपरीतज्ञानप्राप्तिरूपज्ञा पकादेवेत्यर्थः ॥
एवंच गुरूपसत्त्याद्यनेकोत्साहेऽपि योग्यानामेव ज्ञानप्राप्तिर्नायोग्यानां। य आत्मेती [छां. 8-7-3.] द्रविरोचनयोरेकप्रकारेण चतुर्मुखोपदेशेऽपद्रि एव सम्यग्ज्ञानमाप। विरोचनस्तु विपरीतज्ञानमापेत्युभयविधलिंगात्। अतो भगवत्ज्ञानस्य योग्यैकसाध्यत्वेन योग्यानामेव मोक्ष इति सिद्धं ॥
</3-4-34>
<3-4-35>
(35) ॥ अनभिभवं च दर्शयति ॥
ननु महताप्रयत्नेनायोग्यताया अभिभावयितुं शक्यत्वादयोग्यानामपि ज्ञानप्राप्तिर्भवेत्। दृष्टं हि विश्वामित्रस्य महताप्रयत्नेन विप्रत्वमित्याशंकामपाकुर्वत्सूत्रं पठति ॥
॥ अनभिभवं च दर्शयतीति ॥ अस्यार्थः ॥ चो यतः। दैवीमेवेति श्रुतिः। न केवलं योग्यायोग्यस्वरूपं दर्शयति। किंत्वनाभिभवं च। दर्शयति प्रतिपादयति। अतो नायोग्यानां ज्ञानप्राप्तिरित्यर्थः ॥
एवंच निर्दिष्टश्रुत्या देवासुरस्वभावस्य योग्यायोग्यत्वयोः प्रतिपादितत्वाद्योग्यानामेव मोक्ष इति सिद्धं ॥
</3-4-35>
<3-4-36>
(36) ॥ अंतरा चापि तु तद्दृष्टेः ॥
ननु मास्तु तमोयोग्यानां मुक्तियोग्यानां चातिदार्ढ्येन स्वभावाभिभवायोगेन सम्यग्विपरीतज्ञानप्राप्तिः। तथाऽपि सा मध्यममनुष्याणां भवतु। कोटिद्वयविषयकतया तत्ज्ञानस्य दार्ढ्याभावेन तत्स्वभावाभिभवस्य कर्तुं शक्यत्वादित्याशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ अंतरा चापितु तद्दृष्टेरिति ॥ अस्यार्थः ॥ च शब्दस्तु शब्दोऽवधारणे। अंतरा सम्यग्ज्ञानविपरीतज्ञानयोर्मध्ये। स्थितानां नित्यसंसारिणामपि मिश्रस्वभावानभिभव एव कुतः। तद्दृष्टेः तेषां तस्मिन्मिश्रज्ञान एव तस्योदाहृतस्य दृष्टेर्दर्शनादित्यर्थः ॥
एवंच मिश्रज्ञानं एव तेषां दार्ढ्यदृष्टेस्तत्स्वभावाभिभवाभावान्मोक्षो योग्यानामेवेति सिद्धं ॥
</3-4-36>
<3-4-37>
(37) ॥ अपि स्मर्यते ॥
ननु देवानां मानवानां सम्यग्ज्ञानादिस्वभावत्वे तद्योग्यतास्वभावत्वे च भवेदभिभवाभावः। तदेव कुतः। तादृशस्वभावत्वे च तथा फलेन भाव्यं। तदपि कुत इत्याशंकां स्मृत्या परिहरत्सूत्रमुपन्यस्यति ॥
॥ अपि स्मर्यत इति ॥ अस्यार्थः ॥ कृष्णादिभिः स्वभावानभिभवः असुरा इति (स्कांदे.) स्मर्यते च अतोऽपि देवदानवमानवस्वभावानां नाभिभव इत्यर्थः ॥
एवंचासुरा आसुरेणैवेति स्कांदवचनाद्देवादीनां तत्तत्स्वभावानुसारिणा कर्मणा ज्ञानेन च तत्तत्स्वभावस्य तादृश फलस्य च तथा तत्तत्फलस्वभावायोर्व्यत्यासाभावस्य चोक्तत्वेनोक्तं युक्तमिति सिद्धं ॥
</3-4-37>
<3-4-38>
(38) ॥ विशेषानुग्रहं च ॥
हेत्वंतरेण देवानामेव सम्यग्ज्ञान तत्फले नान्येषामित्यर्थप्रतिपादकसूत्रमुपन्यस्य तदपेक्षितं पूरयति ॥
॥ विशेषानुग्रहं चेति ॥ अस्यार्थः ॥ च शब्दो युक्तिसमुच्चये। यतः शृण्वे वीर (ऋ. 6-47-16.) इति श्रुतिः परमेश्वरस्य विशेषानुग्रहं च। दर्शयति प्रतिपादयति। अतो देवानामेव सम्यक् ज्ञानतत्फले नान्येषामित्यर्थः ॥
एवंच शृण्वे वीर इत्यसुरान्दमयन्निति [भविष्यत्पर्वणि.] च श्रुतिस्मृत्योर्देवेषु विशेषानुग्राहकयोः प्रमाणत्वेन देवानामेव नान्येषां सम्यज्ञानफले भवत इति सिद्धं ॥
</3-4-38>
<3-4-39>
(39) ॥ अतस्त्वितरज्ज्यायो लिंगाच्च ॥
ननु यदुक्तं श्रुतिस्मृतिभ्यां न दैत्यानां तत्स्वभावाभिभवेन देवत्वप्राप्तिरिति तदेव युक्त्याऽपि समर्थयत्सूत्रं पठति ॥
॥ अतस्त्वितरज्ज्यायो लिंगाच्चेति ॥ अस्यार्थः ॥ तु शब्दोऽवधारणे। अतो देवभागादसुरभागस्य कदाप्यूनत्वाभावात्। इतरत् असुरवृंदमेव। अतो देवभागाज्ज्यायः बहुलं। कुतः। लिंगात् तस्माज्जनतां न यियादिति (बृ. 3-3-10.) जनसंघप्रवेश निषेधोक्त्यन्यथाऽनुपपत्तिरूपलिंगात्। च शब्दसूचित ततः कनीयस इति (बृ. 3-3-1.) श्रुतेश्चेत्यर्थः ॥
एवंचासुराणां देवत्वे प्राप्ते दैत्यभागस्य कालक्रमेण क्षीणत्वमापन्नं स्यात्। प्रत्यहं ब्राह्मणाय दीयमानधान्यादिराशेः क्षयदर्शनात्। न च तदस्ति। असुरा बहुला इति वचनात्। तेन न दैत्यानां स्वरूपोपमर्देन देवत्वं भवतीति सिद्धं ॥
</3-4-39>
<3-4-40>
(40) ॥ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमात्तद्रूपाभावेभ्यः ॥
जैमिनिमतेनापि स्वरूपाभिभवो नेत्यर्थं समर्थयत्सूत्रं पठति ॥
॥ तद्भूतस्य तु तद्भावो जैमिनिरपि नियमात्तद्रूपाभावेभ्य इति ॥ अस्यार्थः ॥ तद्भूतस्य तु देवभूतस्यैव। तद्भावः देवताभावः एवमसुरस्यैवासुरभावः जैमिनेराचार्यस्यापि सिद्ध एव। कुतः। नियमात्तद्रूपाभावेभ्यः। नासुरा इति च शब्दसूचितश्रुतेः नासुराणामिति अतद्रूपत्वश्रुतेः। अभावः अभूतिः देवासुराणां। तं। भूरिति (ऐ.आ. 2-18.) भाव शब्दितश्रुतेरित्यर्थः ॥
एवंच निर्दिष्टश्रुतिभिरसुरजातेरेवासुरत्वं देवजातेरेव देवत्वमिति जैमिनेराचार्यस्यापि सिद्धं ॥ स्वरपतो देवानां प्रल्हादादीनां ब्रह्मादिशापेन तिरोहितस्वभावत्त्वात्। तेषां पुनर्निजस्वरूपत्वमुपपन्नं। कारणांतरादुक्तस्यान्यथाभावाभावात्। अतो भगवत्ज्ञानस्य योग्यैकसाध्यत्वेन योग्यानामेव मोक्ष इति सिद्धं ॥
</3-4-40>
॥ इति उभयलिंगाधिकरणं ॥
6.अधिकरणं ॥
अत्र ब्रह्मज्ञानस्य देवतापदाकांक्षाशून्यैरेव प्राप्यत्वमहिमा वर्ण्यते।
<3-4-41>
(41) ॥ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥
ननु देवतापदमन्यैः प्राप्यं। स्वधर्मनिष्ठेत्यादेः। अतो देवत्वादिकमस्वाभाविकं। अपि तु प्रयत्नाधीनं। ततश्चायोग्यैरपि ज्ञानं प्राप्यमिति प्राप्ते सूत्रमाह ॥
॥ न चाधिकारिकमपि पतनानुमानात्तदयोगादिति ॥ अस्यार्थः ॥ च शब्दः ज्ञानार्थिनां अयोग्याकांक्षा वर्जनरूपेतिकर्तव्यतांतरसूचकः। आधिकारिकमपि देवतापदमपीतरैर्नकांक्ष्यं। भगवदैश्वर्यादिकं तु सुतरामिति सूचयितुमपि शब्दः। कुतः। पतनानुमानात्। अयोग्येच्छात्वतः पतनस्य स्मार्तयुक्तिसिद्धत्वात्। अत एव तदयोगात्। अयोग्याकांक्षायाः कर्तुमयुक्तत्वादित्यर्थः ॥
एवंच न देवपदमन्यैः प्राप्यं। तदाकांक्षामात्रस्य पातहेतुत्वात्। ब्रह्मादिपदाकांक्षावान्पतति अयोग्यवृत्तिमत्त्वात्। अयोग्यवृक्षारोहाय प्रयतमानवदिंति प्रयोगसंभवात्। देवासुरेति वचनाद्योग्यत्वविशेषणसिद्धेः। न च प्रयत्नस्य पतनकारणत्वेऽपि नेच्छामात्रं पतनकारणमिति। स्वकीयमिच्छमानमिति वचनात्। अतो ब्रह्मादिपदस्य तद्योग्यैकलभ्यत्वेनोक्तं युक्तमिति सिद्धं ॥
</3-4-41>
<3-4-42>
(42) ॥ उपपूर्वमपीत्येके भावशमनवत्तदुक्तं ॥
कैमुत्येनापि देवतापदाकांक्षाऽयोगं साधनयत्सूत्रं पठति ॥
॥ उपपूर्वमपीत्येके भावशमनवत्तदुक्तमिति ॥ अस्यार्थः ॥ भावशमनवत्। भावे चित्ते। शमनं भगवननिष्ठा येषां ते भावशमनः। ऋषयः। तत्पदं यथा नाकांक्ष्यं। तथा उपपूर्वमपि उपशब्दपूर्वकोपदेवशब्दोक्तगंधर्वपदमपि ज्ञानिभिर्ना कांक्ष्यं। किमुत सुतरां देवादिपदमिति सूचयितुमपि शब्दः। इत्येके शाखिनः मन्यंते। कुतः। यतो ज्ञानार्थिना यथेतींद्रद्युम्नश्रुतौ। तदुक्तं तथोक्तं। अत इत्यर्थः ॥
एवंच ब्रह्मादिपदस्य तद्योग्यैकलभ्यत्वादुक्तं युक्तमिति सिद्धं ॥
</3-4-42>
<3-4-43>
(43) ॥ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॥
ज्ञानार्थिना यथा देवादिपदं नाकांक्ष्यमेवं ज्ञानभक्त्यादिकमाकांक्ष्यं न वेति संदेहमपाकुर्वत्सूत्रं पठति ॥
॥ बहिस्तुभयथाऽपि स्मृतेराचाराच्चेति ॥ अस्यार्थः ॥ बहिस्तु देवादिपदेभ्योऽन्यत्र। ज्ञाने भक्त्यादिविषये। उभयथाकांक्षायामनाकांक्षायामपि न दोषः। कुतः। देवर्षीति स्मृतेराचाराच्च नानात्वमिति शुभाचारविधायकशब्दाच्चेत्यर्थः
एवंच न तु देवपदादिकमिव स्वर्गादिकमपि नाकांक्ष्यमुच्यते। देवर्षिगंधर्वादिपदादिभ्योऽन्यत्र शुभविषये आकांक्षायामपि पतनाभावात्। देवर्षिगंधर्वाणां पदाकांक्षिणः पतनं नेत्युभयथा श्रुतेः। अतोऽविरुद्धकामः स्यादित्याचाराभिधानात्। ततो ब्रह्मादिपदस्य तद्योग्यैकलभ्यत्वेनोक्तं युक्तमिति सिद्धं ॥
</3-4-43>
॥ इति आधिकारिकाधिकरणं ॥
7.अधिकरणं ॥
अत्र ब्रह्मज्ञानस्य संनिधिमात्रेणास्वामिनोऽपि पराधीनस्य ज्ञानिनः कर्तुः फलदातृत्वमहिमा वर्ण्यते।
<3-4-44>
(44) ॥ स्वामिनः फलश्रुतेरित्यात्रेयः ॥
ननु ब्रह्मज्ञानफलं देवानामेव न मनुष्याणामिंद्रियादिप्रवर्तकत्वेन तेषामेव ज्ञानस्वामित्वात्। लोके च स्वामिन एव फलदर्शनात्। यदुकिंचेति [माध्यंदिनायन.] श्रुतेः। न च कर्तृत्वेनाख्यामिनामपि फलं। कर्तृत्वस्याप्रयोजकत्वात्। न च स्वामित्वात्फलं। असिद्धेः। किंचैवमाप्ततम आत्रेयो मन्यत इति। ततश्च ज्ञानिनां मोक्षनियमोऽयुक्त इति प्राप्ते सूत्रितं ॥
॥ स्वामिनः फलश्रुतेरित्यात्रेय इति ॥ अस्यार्थः ॥ समुदायविवक्षया स्वामिन इत्येकवचनं। तथा च स्वामिनां देवानामेव। ज्ञानफलं भवति। न प्रजानां। कस्मात्। तेषामेव ज्ञानस्वामित्वात्। यदुकिंचेति तेषामेव फलश्रुतेश्चेत्येवमात्रेयाचार्यो मन्यत इत्यर्थः ॥
एवंच देवानामेवेंद्रियप्रेरकत्वेन स्वामित्वात्। लोके च स्वामिन एव फलदर्शनात्। यदु किंचेति (माध्यंदिनायन) श्रुतेश्च। अतो देवानामेव ज्ञानफलमित्यात्रेयेणोक्तं युक्तमिति सिद्धं ॥
</3-4-44>
<3-4-45>
(45) ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते ॥
नन्वात्रेयमतविरोधो भवेदिति तन्मतावलंबेन पूर्वपक्षिते सिद्धांतयत्सूत्रं पठति ॥
॥ आर्त्विज्यमित्वौडुलोमिस्तस्मै हि परिक्रियत इति ॥ अस्यार्थः ॥ हि यस्मात्। तस्मै प्रजार्थं देवैः परिक्रियते प्रजाद्वारा ज्ञानं संपाद्यते। तस्मादार्त्विज्यं आर्त्विज्यमिवेति शेषः। ऋत्विजां यज्ञफलमिव प्रजानामप्यल्पज्ञानफलमस्तीत्यौडुलोमिराचार्यो मन्यत इत्यर्थ ॥
एवंच न केवलं देवानामेव फलं किंतु प्रजानामपि। तासां देवैः क्रियमाणे ज्ञानयज्ञे ऋत्विक्तेन सत्रयागे ऋत्विजां याजमान्यमिव देवाधीनत्वस्वामित्वसद्भावात्। तदर्थं देवैः क्रियमाणत्वाच्च। अतात्रेयाचार्यमताविरोधात्। प्रजानामप्यल्पफलाभ्युपगमात्तदुपपत्तेः। श्रुत्यादेस्तदभिप्रायकत्वादित्यौडुलोमिराचार्यो मन्यत इत्यर्थः ॥
</3-4-45>
<3-4-46>
(46) ॥ सहकार्यंतरविधिः पक्षेणतृतीयं तद्वतो विध्यादिवत् ॥
ननु यदि देवैः प्रजार्थं ज्ञानादि साध्यते तर्हि तत्फलं प्रजानमेव भवेत्। न किंचिद्देवानामित्याशंकां पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ सहकार्यंतरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवदिति ॥ अस्यार्थः ॥ तद्वतो प्रजावतो राज्ञः शिष्यवतो गुरोश्च। विध्यादिवत् विधानफलयोरिव। यथा प्रजानां शिष्यानां पालनव्याख्यानयोः राजगुरुसहकारित्वेन विधानं फलं च तयोरेव मुख्यतया स्वविहित ज्ञानदाने प्रजानां सह कार्यंतरविधिः देवैरनुग्राह्यरूपविशेषसहकार्यंतरत्वेन करणं। पक्षेण पक्षत्वेन। तृतीयं आत्रेयौडुलोमिपक्षापेक्षया तृतीयः। अयमेव बादरायणीयपक्षः इत्यर्थः ॥
एवंच प्रजार्थं देवैः क्रियमाणत्वेऽपि देवानां मुख्यस्वामित्वेन मुख्यं फलं। प्रजानां सहकारिमात्रत्वेनाल्पं फलमित्यंगीकारात्। प्रजानामपि ज्ञानफलसद्भावात्। पूर्वोक्तमतद्वयाविरोधेनोक्तं युक्तमिति सिद्धं ॥
</3-4-46>
॥ इति फलश्रुत्यधिकरणं ॥
8.अधिकरणं ॥
अत्र ब्रह्मज्ञाने विशेषाधिकारिणां यतीनां सर्वाश्रमिभ्योऽतिशयसमर्थनेन ज्ञानमहिमा वर्ण्यते।
<3-4-47>
(47) ॥ कृत्स्नभावात्तु गृहिणोपसहारः ॥
ननु मुक्तौ यतिभ्यो गृहस्थ एवोत्तमः। तस्य ज्योतिष्टोमादिसर्वकर्माधिकारित्वात्। सर्वकर्मानुष्ठानं च चिरकालसाध्यं। चिरकालसाध्य एव हि मोक्ष उत्तमः। किंच छंदोग आचार्यकुलाद्वेदमधीत्येति गृहस्थस्य मोक्षमुक्त्वोपसंहारः क्रियते। न च गृहस्थादुत्तमसद्भावे तदनुक्तोपसंहारो युज्यते। अतः कर्मिणामेवोत्तत्वेन न ज्ञानमतिशयमिति प्राप्ते सूत्रमाह ॥
॥ कृत्स्नभावात्तु गृहिणोपसंहार इति ॥ अस्यार्थः ॥ यतः कुटुंब इति (छां. 8-15-1.) श्रुतौ गृहीणो गृहस्थस्यैव मोक्षफलोक्त्या पर्यवस्यति। कृत्स्नभावात् संपूर्णगृहस्थधर्मवतो देवानपेक्ष्यैव। अतः श्रुत्यविरोधाच्च यतेरेव सर्वाश्रमिषूत्तमत्वमित्यर्थः ॥
एवंच मनुष्येषु यतेरेव सर्वापेक्षयोत्तमत्वं न गृहिणः। गृहिमोक्षाद्यतिमोक्षस्य चिरकालसाध्यत्वात्। गृहिणां बहुकर्माधिकारभावोऽपि तैः सर्वेषामननुष्ठानेन कतिपयानुष्ठानेनैव तदपरोक्षज्ञानसिद्धेः। न चैवं गृहिणोपसंहारविरोधः। तस्य देवताविषयत्वात्। अतो धर्माधिकारिषु ज्ञानप्रचुराणां यतीनामेवोत्तमत्वेन युक्तं ज्ञानस्यातिशयितत्वमिति सिद्धं ॥
</3-4-47>
<3-4-48>
(48) ॥ मौनवदितरेषामप्युपदेशात् ॥
युक्त्यंतरेण मानुषयतिभ्यो देवानामुत्तमत्त्वं समर्थयत्सूत्रमुपन्यस्यति ॥
॥ मौनवादितरेषामप्युपदेशादिति ॥ अस्यार्थः ॥ मौनवत् यतित्वस्येव। इतरेषां अन्याश्रमधर्माणामपि। उपदेशात् देवा एव ब्रह्मचारिण इति (कौंठरव्य.) श्रतावुक्तत्वात्। सर्वाश्रमिभ्यो देवानामुत्तमत्वमित्यर्थः ॥
एवंच देवेषु संपूर्ण यतिधर्मस्य सद्भावेन तेषां यत्युत्तमत्वात्। न च देवानां यतित्वाभावः। कृत्स्ना ह्येत इति [पौत्रायण.] श्रुत्या देवानां यतित्वसद्भावस्य प्रतिपादितत्वात्। अपि च यथा ह्येते मुनय इति [कौठरव्य.] श्रुतेर्यतित्वदृष्टांतेव सर्ववर्णाश्रमित्वाभिधानात्। अतो ज्ञानप्रचुराणां यतीनामेवोत्तमत्वाद्युक्तं ज्ञानस्यातिशयत्त्वमिति सिद्धं ॥
</3-4-48>
॥ इति कृत्स्नभावाधिकरणं ॥
9.अधिकरणं ॥
अत्रापरोक्षज्ञानसंगतपरोक्षज्ञानस्यातिगोप्यत्वमहिमा वर्ण्यते ॥
<3-4-49>
(49) ॥ अनाविष्कुर्वन्नत्वयात् ॥
अपरोक्ष ज्ञानहेतुपरोक्षज्ञानसिद्धये आविष्कारेणैव वेदविद्योपदेष्टव्या। सभाचत्वरादावुपविश्यविद्योपदेशेऽप्यशेषज्ञानयोग्यानां ज्ञानलाभसिद्धेः। आवश्यकश्च बहूपदेशः। यथा यथेति [माठर.] श्रुतेः। अत आविष्कारेणैवोपदेष्टव्यत्वात्तस्य रहस्यत्वातिशयो न सिध्येदिति प्राप्ते सूत्रमाह ॥
॥ अनाविष्कुर्वन्नन्वयादिति ॥ अस्यार्थः ॥ गुरुः अनाविष्कुर्वन्सभादिषु आविष्कारमकुर्वन्नेव। शिष्येभ्यो विद्यामुपदिशेत्। कुतः। अन्वयात् अयोग्यानामपि ज्ञानप्राप्तिप्रसंगरूपयुक्तेरित्यर्थः ॥
एवंचानाविष्कारेण स्वविद्योपदेशः कार्यः। आविष्कारेणोपदेशेऽयोग्यानामपि ज्ञानप्रसंगात्। न च तदिष्टं। विद्या हवै ब्राह्मणमाजगामेति [मुक्ति उ. 1-51.] तन्निषेधात्। अतोऽल्पाविष्कारेण ज्ञानस्योपदेष्टव्यत्वेन युक्तस्तस्यातिशय इति सिद्धं ॥
</3-4-49>
॥ इति अन्वयाधिकरणं ॥
10.अधिकरणं ॥
अत्रापरोक्षज्ञानस्य प्रतिबंधभावे साधनसंपत्तिजन्मन्येवोत्पत्तिः समर्थ्यते।
<3-4-50>
(50) ॥ ऐहिकमप्रस्तुतप्रतिबंधे तद्दर्शनात् ॥
ननु ज्ञानसाधनं कृष्यादिवदैहिकफलस्यैव हेतुः। ततः साधनसंपूर्तिजन्मन्येवापरोक्षज्ञानं। कस्यचित्प्रतिबंधकवशात्साधने दुष्टे नैकदापि फलोदयः। षंडबीजावापिना कदापि फलानुदयदर्शनात्। न हि दुष्टं बीजं कालांतरे फलहेतुरिति दृष्टं। न च यागादिवदुपपत्तिः। तस्यैहिकफलहेतुत्वाभावेन वैषम्यात्। अतो ज्ञानस्यैवैहिकत्वेन प्राप्तत्वात्कस्यचित्प्रतिबंधकेन तदनुदयेजन्मांतरेप्यनुदय एवेति प्राप्ते सूत्रमाह ॥
॥ ऐहिकमप्रस्तुतमप्रतिबंधे तद्दर्शनादिति ॥ अस्यार्थः ॥ अप्रस्तुतप्रतिबंधे प्रस्तुतप्रतिबंधशब्दोक्तप्रारब्धकर्माभावे। अपरोक्षज्ञानमैहिकं श्रवणादीनां संपूर्तिजन्मन्येव भवति। प्रतिबंधे तु जन्मांतरे भवति। कुतः। तद्दर्शनात्। श्रुत्वेति (सौपर्ण.) श्रतौ तथा प्रतिपादनादित्यर्थः ॥
एवंच श्रवणादिकमैहिकहेतुरिति सत्यं। तथाऽपि श्रवणादिसंपूर्तिजन्मन्येव भवतीति न नियमः। किंतु प्रतिबंधकसद्भावे जन्मांतरेऽपि भवति। अतः प्रतिबंधकाभावे ज्ञानस्यैहिकत्वान्नोक्तानुपपत्तिरिति सिद्धं ॥
</3-4-50>
॥ इति ऐहिकाधिकरणं ॥
11.एधिकरणं ॥
अत्र ब्रह्मज्ञानस्य स्वोत्पत्तिजन्मानंतरमेव प्रतिबंधकाभावे मुक्तिसाधनत्वमहिमा वर्ण्यते।
<3-4-51>
(51) ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥
नन्वपरोक्षज्ञानोदये देहपातानंतरमेव मोक्षो भवतीत्यंगीकारो युक्तः। न तु विलंबांगीकारः। विलंबे कारणाभावात्। एवमेव कस्यचिन्मोक्षविलंबांगीकारे तस्य कदाऽपि मोक्षो न स्यात्। तत्साधनानां गतवीर्यत्वात्। न हि जीर्णानां धान्यानामंकुरकार्यकारिता। ततश्चानियम इत्युक्तव्याघात इति प्राप्ते सूत्रमाह ॥
॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेरिति ॥ अस्यार्थः ॥ एवं यथा ज्ञानेऽनियमः तथा मुक्तिफलानियमः। मोक्षाख्यफलेऽपि ज्ञानिनः तच्छरीरपातानंतरमेव मोक्ष इति नियमो नास्ति। किंतु असति प्रारब्धे तद्देहपातानंतरमेव। सति तु तद्देहांतरावसाने मोक्षो भवति। ननु कुत एवं कल्प्यते। ज्ञानजन्मानंतरं मुक्त्यभावे कदाऽपि मुक्तिर्नेत्येवं कुतो न कल्प्यत इत्यत उक्तं। तदिति। तस्यां ब्रह्मसंस्थित इति श्रतौ तस्मिन्ब्रह्मणि अवस्थितस्य तत्ज्ञानिन इति यावत्। अवधृतेः अमृतत्वमेतीत्येवेति मोक्षफलावधारणादित्यर्थः। अतः प्रतिबंधककल्पनेति भावः। उक्तस्य सर्वस्यैतद्यायार्थस्य प्रसिद्धत्वसूचनार्था द्विरुक्तिः ॥
एवंच ज्ञानोदये देहपातानंतरमेव मोक्ष इति न नियमः। किंतु प्रतिबंधकाभावे तद्देहपातानंतरं। अन्यथ तु जन्मांतरं प्राप्येत्यनियमः। धर्मो स्वर्गमिति श्रुतेः। विद्वानममृतमिति [नारायणाध्यात्म.] स्मृतेश्च। अतो ज्ञानिनां प्रतिबंधकाभावे मोक्षस्यादूरत्वेनोक्तं युक्तमिति सिद्धं ॥
</3-4-51>
॥ इति मुक्तफलाधिकरणं ॥
॥ इति तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ॥
॥ इति तृतीयाध्यायः समाप्तः ॥