सूत्रार्थरत्नावली/चतुर्थोऽध्यायः/प्रथमः पादः
सूत्रार्थरत्नावली प्रथमः पादः [[लेखकः :|]] |
द्वितीयः पादः → |
॥ श्रीः ॥
॥ हरिः ॥
॥ अथ चतुर्थाध्यायः ॥
ब्रह्मदर्शनजन्यमोक्षरूपाख्यफलं निगद्यतेऽस्मिन्नध्याये।
॥ अथ प्रथमः पादः ॥
मोक्षलक्षणज्ञानफलस्य कर्मक्षयोत्क्रांतिमार्गभोगभेदेन चातुर्विध्याद्दर्शनपूर्वकालीनसंचितकर्मनाशाख्यफलं निगद्यतेऽस्मिन्पादे।
1.अधिकरणं ॥
अत्र नित्यशः कार्यं सर्वथाभाव्यं साधनमुच्यते। प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः।
<4-1-1>
(1) ॥ आवृत्तिरसकृदुपदेशात् ॥
ननु सकृदेव श्रवणादिकमनुष्ठेयं। तावतैव विधिपर्यवसानात्। अन्यथा सकृदेव ज्योतिष्टोमादिकमनुष्ठाय कृती न स्यात्। एवं च विहितश्रवणाद्यनुष्ठानेन ज्ञानदर्शनात्। विधेरप्रामाण्यात्। प्रमाणांतरस्याप्यभावात्। न श्रवणादिज्ञानसाधनमिति प्राप्ते सूत्रितं ॥
॥ आवृत्तिसकृदुपदेशादिति ॥ अस्यार्थः ॥ ज्ञानार्थं श्रवणादीनामावृत्तिः कार्याः। कुतः। असकृदुपदेशात्। बहुवारं श्वेतकेतुं प्रति उद्दालकेन परतत्त्वस्येपदिष्टत्वादित्यर्थः ॥
एवंचावृत्तेरेव श्रवणादीनां फलहेतुत्वात्। अपरोक्षज्ञानसिद्धयेऽसकृदनुष्ठानस्योद्दालकेनोपदेशात् ततश्च श्रवणाद्यावर्तौ नियमेन फलोपलंभेन तद्विधेः प्रामाण्याच्छ्रवणादिकं ज्ञानसाधनमिति सिद्धं ॥
</4-1-1>
<4-1-2>
(2) ॥ लिंगाच्च ॥
हेत्वंतरेण श्रवणाद्यावृत्तिं साधयत्सूत्रमुपन्यस्यति ॥
॥ लिंगाच्चेति ॥ अस्यार्थः ॥ भृगुणा श्रुतस्य पुनरालोचनेनापरोक्षितत्वरूपलिंगदर्शनाच्चावृत्तिः कर्तव्येत्यर्थः ॥
एवंच स तपो तप्यतेत्याद्यावर्तनलिंगश्रवणात् [तै. 3-2-1.]। ततश्च श्रवणाद्यावृत्तिः कार्येति सिद्धं ॥
</4-1-2>
॥ इति आवृत्यधिकरणं ॥
2.अधिकरणं ॥
अत्रात्मत्वोपास्तेर्नित्यशः कार्यत्वं समर्थ्यते ॥
<4-1-3>
(3) ॥ आत्मेति तूपगच्छंति ग्राहयंति च ॥
ननु न नित्यश आत्मत्वस्योपदेश उपासनं च कार्यं। अतिप्रसिद्धत्वात्। किंत्वप्रसिद्धस्यैव। कस्यचिद्गुणस्य। ततश्च न तत्र वेदस्य महातात्पर्यं युक्तमिति प्राप्ते सूत्रितं ॥
॥ आत्मेति तूपगच्छंति ग्राहयंति चेति ॥ अस्यार्थः ॥ तु शब्द एवार्थे। आत्मा विष्णुः। आत्मेति मम स्वामीति। उपास्य एव। कुतः। यस्मात्ज्ञानिनः। तथोपगच्छंति जानंति उपासते च। शिष्यान्प्रति ग्राहयंति उपदिशंति च। तस्मादित्यर्थः ॥
एवंच मोक्षसाधनाभिज्ञैर्विष्णोरात्मेत्युपदेशस्योपासनस्य च नित्यशोऽनुष्ठीयमानत्वात्। नान्यमिति श्रुतेः। आत्मेतीति स्मृतेश्च। [भ.प.] उपासनस्य फलहेतुतायाः प्रामाणिकत्वेन प्रसिद्धेरप्रयोजकत्वात्। न हि राजप्रीतिसाधनमिति प्रसिद्धत्वेन राजा प्रीत्यर्थिभिर्न वर्ण्यते। येनेह तथा स्यात्। अतो विष्णोः स्वामित्वस्य सदा सर्वतोपास्यत्वाद्युक्तं तत्र वेदानां तात्पर्यमिति सिद्धं ॥
</4-1-3>
॥ इति आत्माधिकरणं ॥
3.अधिकरणं ॥
अत्र ब्रह्मज्ञानार्थिनो विष्णुप्रतीकैक्योपासनवर्जनमावश्यकमिति प्रतिपाद्यते।
<4-1-4>
(4) ॥ न प्रतीके न हि सः ॥
ननु प्रतीकं ब्रह्मतयोपास्यं। नामोपास्वेत्यादिविधीनां स यो मनो ब्रह्मेति पर्यालोचनया नाम ब्रह्मेत्युपासीतेति [छां. 7-1-5.] शाखांतरपर्यालोचनया च प्रतीके ब्रह्मदृष्टिरिति तात्पर्यावगमात्। न च प्रतीकब्रह्मणोर्भेदेन तथोपासना संभवः। उपासनायां फलस्यैव प्रयोजकत्वेन वस्तुतथात्वस्याप्रयोजकत्वात्। ततश्च प्रतीके ब्रह्मत्वेनोपासनस्य कर्तव्यत्वात्। उक्तं स्वामित्वोपासनमयुक्तमिति प्राप्ते सूत्रमाह ॥
॥ न प्रतीके न हि स इति ॥ अस्यार्थः ॥ प्रतीके नामाद्यधिष्ठानविषये। आत्मेत्युपास्तिर्न कार्या। किंतु तद्गततया। कुतः सविष्णुः। हि यस्मात्। नामादिप्रतीकं। न भवति। तस्मादित्यर्थः ॥
एवंचोक्तविधीनां प्रतीके ब्रह्मदृष्ट्यभिधायकत्वात्। प्रतीकस्याब्रह्मत्वेन मिथ्योपासाप्रसंगाच्च। न हि मिथ्योपासा फलहेतुः। मिथ्योपासाया अनर्थहेतुत्वेन प्रमाणसिद्धत्वात्। कथं तर्ह्युपासना कार्येति चेत्। तत्स्थत्वेनेति ग्रहणाद्द्वितीयाश्रवणात्। महाव्याकरणमूलकसुपां सुपो भवतीति कात्यायनवचनेन द्वितीयायाः सप्तम्यर्थत्वात्। ततश्च प्रतीकस्थत्वेनैव ब्रह्मोपासनं कार्यमिति सिद्धं ॥
</4-1-4>
॥ इति न प्रतीकाधिकरणं ॥
4.अधिकरणं ॥
अत्र ब्रह्मत्वोपास्तेरावश्यकत्वं समर्थ्यते।
<4-1-5>
(5) ॥ ब्रह्मदृष्टिरुत्कर्षात् ॥
ननु ब्रह्मत्वं सदा सर्वथा नोपास्यं। उपासनं तु भगवत्प्रसादार्थं। स च नित्यहं विविधगुणोपासनेनैव भवेदिति व्यर्थं ब्रह्मत्वोपासनं। अतो ब्रह्मत्वस्य सदोपास्यत्वाभावादुक्तमयुक्तमिति प्राप्ते सूत्रं पठति ॥
॥ ब्रह्मदृष्टिरुत्कर्षादिति ॥ अस्यार्थः ॥ ब्रह्मणि परमेश्वरे। ब्रह्मदृष्टिः पूर्णत्वोपास्तिः कार्या। कुतः। उत्कर्षात् पूर्णस्योत्कृष्टतया तथोपास्तेरप्युत्कृष्टत्वादित्यर्थः ॥
एवंच कार्यमेव सदा सर्वथा ब्रह्मत्वोपासनं। भगवत उत्कृष्टत्वात्। तथोपास्तेस्तत्प्रसादजनकत्वात्। ब्रह्मत्वोपासकातिरिक्तचतुर्गुणोपासकैरप्यात्मत्वादिविशेषणतया ब्रह्मत्वोपासनस्यात्मेत्येवेति [व्र.त.] वचनात्कार्यत्वात्। तथा च ब्रह्मणो विशिष्योपास्यत्वादुक्तं युक्तमिति सिद्धं ॥
</4-1-5>
॥ इति ब्रह्माधिकरणं ॥
5.अधिकरणं ॥
अत्र विष्ण्वंगाश्रितत्वेन देवतोपासनमावश्यकमिति साध्यते।
<4-1-6>
(6) ॥ आदित्यादिमतयश्चांग उपपत्तेः ॥
ननु न सर्वदा सर्वथा तथोपासनं देवैः कार्यं। सूर्यादिभिरितस्ततः संचरणेन सदा भगवदंगाश्रितत्वाभावात्। तथाप्युपासनेऽन्यथोपासनत्वेनानर्थप्रसंगात्। सत्स्वपि गुणांतरेषु स्वाश्रयत्वेन भगवदुपासने विशेषकारणाभावात्। अत आश्रयाश्रयिभावस्यासदातनत्वेन सर्वोपास्यत्वाभावात्तद्वत्सदातनत्वाभावेन नात्मत्वोपासनमावश्यकमिति प्राप्ते सूत्रं पठति ॥
॥ आदित्यादिमतयश्चांग उपपत्तेरिति ॥ अस्यार्थः ॥ अंगे भगवदंगे। आदित्यादिभिर्देवैः आदित्यादिमतयः आदित्याद्याश्रयांगकत्वोपासना कार्या। कुतः। उपपत्तेः तेषां तत्प्रवेशापेक्षितत्वेन तथोपासनस्य युक्तत्वादित्यर्थः ॥
एवंच चक्षोः सूर्योऽजायतेत्यादिनोक्तं [ऋ. 10-10-13.] स्वाश्रयत्वेन भगवदंगोपासनमादित्यादिदेवैः सर्वथा कार्यमेव। मुक्तौ तत्र लयस्यापेक्षितत्वात्। रूपांतरेणांगानां स्वाश्रयत्वेन मिथ्योपासनाप्रसंगाभावात्। अतस्तदुपासनस्यावश्यकत्वादुक्तमात्मत्वोपासनं युक्तमिति सिद्धं ॥
</4-1-6>
॥ इति आदित्याधिकरणं ॥
(6.अधिकरणं ॥
अत्रासनादिनियमः साध्यते ॥
<4-1-7>
(7) ॥ आसीनः संभवात् ॥
ननु नासनं सर्वापेक्षितं किंतु कृताकृतं। भगवद्दर्शनार्थं यद्युपासनाद्यन्वेष्टव्यं। उपासनादिकं च विनाऽप्यासनं सिध्यति। न च मनसः सम्यक् भगवद्विषयत्वसिध्यर्थमासनं। तेन विनाऽपि तत्सिद्धेः। कथमन्यथास्मर्तव्य इति सर्वदोपासनाभिधानं युज्यते। ततश्चासनस्यानावश्यकत्वात्तच्छास्त्रं पाक्षिकमनुपादानलक्षणमप्रामाण्यं प्राप्नोतीत्याशंकां परिहरत्सूत्रमाचष्टे ॥
॥ आसीनः संभवादिति ॥ अस्यार्थः ॥ जिज्ञासुरासीनः आसने उपविशन्नेव उपासनं कुर्यात्। कुतः। संभवात् तस्यासने सत्येवं युक्तत्वादित्यर्थः ॥
एवंचासनयुक्तेनैव जिज्ञासुना विशेषत उपासनं कार्यं। सत्येवासन उपासनस्य सम्यक् संभवात्। ध्यानार्थमेवासननियमाभिधानात्। अत आसनस्यावश्यकत्वात्तदुपदेशावैयर्थ्यमिति सिद्धं ॥
</4-1-7>
<4-1-8>
(8) ॥ ध्यानाच्च ॥
ननु सर्वदोपासनं कार्यमासनं चापेक्षितमित्युक्तमनुपपन्नं। विरुद्धत्वेनोभयोरेकदा समावेशायोगात्। तत्रान्यतरस्मिन् त्याज्ये श्रुतिविहितत्वात्सर्वदोपासनमुपादायासनमेव त्यज्यते। तद्विधायकश्रुत्यभावादतो नासनमावश्यकमिति प्राप्ते सूत्रितं ॥
॥ ध्यानाच्चेति ॥ अस्यार्थः ॥ अविच्छिन्नस्मृतिरूपोपासनस्यैव ध्यानत्वात्तदपेक्षयैवासननियमाभ्युपगमान्न स्मरणोपासनमादाय व्यभिचार इत्यर्थः ॥
एवंच स्मरणात्मकत्वं ध्यानात्मकत्वं चेत्युपासनस्य द्वैविध्यात्। आद्यस्य सार्वकालिकत्वेनासननियमाभावेऽपि द्वितीयस्य योग्यविज्ञेयध्यानत्वेनासनस्यावश्यकत्वमिति सिद्धं ॥
</4-1-8>
<4-1-9>
(9) ॥ अचलत्वं चापेक्ष्य ॥
ननु ध्यानार्थमासननियमः तत्साध्यस्य चित्तविक्षेपपरिहारस्य प्रत्याहारादिनाऽपि संभवादिति प्राप्ते समादधत्सूत्रमाह ॥
॥ अचलत्वं चापेक्षेति ॥ अस्यार्थः ॥ न केवलं प्रत्याहारादिना मनोविक्षेपाभावो भवति। किंत्वचलत्वं चापेक्ष्य शरीराचलत्वं चापेक्ष्य। अतस्तदर्थं आसीन एव ध्यायेदित्यर्थः ॥
एवंच चित्तविक्षेपपरिहारस्यासनसाध्यशरीराचलत्वमपेक्ष्यैव प्रत्याहारादिना साध्यत्वात्। अचलं चेच्छरीरमिति [ब्रह्यांडे.] स्मृतेः। तथा चासनस्यावश्यकत्वमिति सिद्धं ॥
</4-1-9>
<4-1-10>
(10) ॥ स्मरंति च ॥
स्मृतिभिरप्यासनस्यावश्यकत्वं समर्थयत्सूत्रमुपन्यस्यति ॥
॥ स्मरंति चेति ॥ अस्यार्थः ॥ स्मृति कर्तारः कृष्णादयः। आसनानियममावश्यकमित्येतमर्थं समं कायशिरोग्रीवमिति स्मरंतीत्यर्थः ॥
एवंच समं कायं शिरोग्रीवमिति [गीता 6-13.] वचनादासनस्यावश्यकत्वमिति सिद्धं ॥
</4-1-10>
<4-1-11>
(11) ॥ यत्रैकाग्रता तत्राविशेषात् ॥
नन्वेवं तर्हि पर्वताग्रे नदीतीर इत्यादि मनुस्मृतिवचनात्। देशकालादिनियमोऽप्यंगीकार्यः स्यादित्यशंकां परिहरत्सूत्रमुपन्यस्यति ॥
॥ यत्रैकाग्रता तत्राविशेषादिति ॥ अस्यार्थः ॥ यत्र यस्मिन्देशे काले। आसने च एकाग्रता ध्यानस्यैकनिष्ठता भवति। तत्रैव तस्मिन्देशे काले आसन एव ध्यानं कुर्यात्। कुतः। अविशेषात्। देशकालादिना ध्यानज्ञानयोर्विशेषाभावादित्यर्थः ॥
एवंच देशकालादिनियमस्य मनःप्रसादार्थत्वात्। तस्य यत्रैकाग्रता तत्रैव स्थातव्यत्वात्। तमेवदश सेवेतेति [वाराहे.] वचनात्। ततश्चासनस्यावश्यकत्वादुपदेशावैयर्थ्यमिति सिद्धं ॥
</4-1-11>
॥ इति आसानीधिकरणं ॥
7.अधिकरणं ॥
अत्र ध्यानस्य प्रायणांतत्वं समर्थ्यते ॥
<4-1-12>
(12) ॥ आ प्रायणात्तत्रापि हि दृष्टं ॥
ननु मुमुक्षुणा न मोक्षपर्यंतं ध्यानं कार्यं। ध्यानस्य ज्ञानसाधनत्वेनाभिहितत्वात्। न चानंदातिशयार्थं तदिति वाच्यं। तस्य तद्धेतुत्वाभावात्। भावेऽपि न नियमेनाकार्यं। श्रवणादिनाऽपि तत्संभवात्। ततश्च शुकादीनां ज्ञानिनां तदाग्रहवैयर्थ्यमिति प्राप्ते सूत्रमाह ॥
॥ आ प्रायणात्तत्रापि हि दृष्टमिति ॥ अस्यार्थः ॥ मुमुक्षुणा आ प्रायणात् मोक्षपर्यंतं। ध्यानं कर्तव्यमेव। कुतः। हि यस्मात्। तत्रापि मोक्षेऽपि। दृष्टं ज्ञानं श्रुतं स्मृतं च। तस्मादित्यर्थः ॥
एवंच ध्यानस्य ज्ञान इवानंदातिशयेऽपि प्रधानसाधनत्वात्। स यो हवै इति श्रुतेः [प्र. 5-1.]। शृणुयादित्यादिस्मृतेश्च [ब्रह्मांडे.]। अतो मोक्षपर्यंत ध्यानस्य कर्तव्यत्वेन ज्ञानिनामपि तद्विचित्रफलेन मुक्तौ तारतम्यसत्वेन च ध्यानं कार्यमिति सिद्धं ॥
</4-1-12>
॥ इति आ प्रायमाधिकरणं ॥
8.अधिकरणं ॥
अत्र प्रासंगिकं समाप्य कर्मक्षयाख्यफलसिद्धिः समर्थ्यते।
<4-1-13>
(13) ॥ तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥
ननु न ज्ञाने मोक्षो नापि द्वेषेण तमः। प्रागापादित कर्मणां भावात्। न तानि ज्ञानविद्वेषजन्मनि भुज्यंते। विभिन्नानेकशरीरभोग्यफलत्वात्। न च कायव्यूहेन युगपद्भोगः। विभिन्नदेशकालविभागत्वात्। किं तर्हि क्रमेण भोगः। न च क्रमेण सर्वकर्मणां भोगेन क्षयानंतरं सदसन्मोक्षावुपपद्येते। बहुकालांतरितयोर्ज्ञानविद्वेषयोर्जीर्णधान्यवत्क्षीणशक्तित्वेन मोक्षजनकत्वासंभवात्। तद्भोगसमये पुनरनंतकर्मानुष्ठानेन कर्मावसानासंभवाच्च। न च ज्ञानद्वेषाभ्यामेवाभुक्तानामेव पुण्यपापानां क्षयः। नाभुक्तमिति स्मृतिविरोधात्। न च प्रायश्चित्तेन वा भुक्तकर्मणमेव ज्ञानेन क्षयः संभवः। विप्रतिपत्तेः। सृहदाहे दग्धदेहेष्वधिकारवत्कृतपापानामेव द्वादशाद्बादिकर्माधिकारित्वाभिप्रायेण ब्रह्महा द्वादशाद्बमित्यादिवचनानां प्रवृत्तत्वेन कर्मक्षयार्थमप्रवृत्तत्वात्। अतो ज्ञानद्वेषाभ्यां सदसन्मोक्षासिद्धेरुक्तमयुक्तमिति प्राप्ते सूत्रितं ॥
॥ तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशादिति ॥ अस्यार्थः ॥ तदधिगमे तस्य ब्रह्मणः। अधिगमे अपरोक्षज्ञाने सति। उत्तरपुर्वाघयोः अपरोक्षज्ञानोत्तरपूर्वकालीनाघयोः। अश्लेषविनाशौ उत्तरस्याश्लेषः पुर्वस्य विनाशश्च। भवतीति ज्ञायते। कुतः। तद्वयपदेशात्। तयोः अश्लेषविनाशयोः तद्यथेति (छां. 4-14-3.) श्रुतावुक्तत्वादित्यर्थः ॥
एवंच निर्दिष्ठश्रुत्या ज्ञानद्वेषाभ्यां सदसन्मोक्षौ भवत इति सिद्धं ॥
</4-1-13>
<4-1-14>
(14) ॥ इतरस्याप्येवमसंश्लेषः पाते तु ॥
एवं ब्रह्मज्ञानिनो मुक्तिसिध्यर्थं ज्ञानादेवाघविनाशाश्लेषावुकत्वा तत्समानन्यायत्वाद्भगवद्वेषिपुम्यस्यापिमिथ्याज्ञानादेव विनाशाश्लेषौ तमःसिध्यर्थं वदत्सूत्रं पठति ॥
॥ इतरस्याप्येवमसंश्लेषः पाते त्विति ॥ अस्यार्थः ॥ तु शब्दोऽनुत्थानवाची। इतरस्य भगवत्ज्ञानीतरद्वेषिणः। पाते तु अनुत्थानतमःपाते प्रत्यासन्ने। तदर्थमितरस्य पापेतर पुण्यस्यापि। एवं ज्ञानिपापवत्। असंश्लेषः उत्तरस्यासंश्लेषः पूर्वस्य विनाशश्च भवतीत्यर्थः ॥
एवंचैवं सुकर्मणश्चापि पततस्तमसि ध्रुवमिति [आग्नेये.] द्वेषिकृत पूर्वोत्तरपुण्ययोर्द्वेषेण विनाशाश्लेषौ भवत इति श्रवणादुक्तं युक्तमिति सिद्धं ॥
</4-1-14>
<4-1-15>
(15) ॥ अनारब्धकार्ये एव तु पूर्वें तदवधेः ॥
ननु ब्रह्मज्ञानिद्वेषिणोर्ज्ञानादिनैव पापपुण्यक्षये ज्ञानाद्युदय एव सद्यो मोक्षादिप्रसंग इत्याशंकां परिहरत्सूत्रं पठति ॥
॥ अनारब्धकार्ये एव तु पूर्वे तदवधेरिति ॥ अस्यार्थः ॥ तु शब्दश्चार्थः। पूर्वे विष्णुद्वेषज्ञानपूर्वकालीने। अनारब्धकार्ये एव पुण्यपापे विनश्यतः। कुतः। तदवधेः। तस्य मोक्षस्य प्रारब्धकर्मनिवृत्यवधित्वश्रुतेः स्मृतेश्चेत्यर्थः ॥
एवंच ज्ञानद्वेषोदयानंतरमेव मोक्षापत्तेरभावात्। अप्रारब्धानामेव प्राचीनपुण्यपापानां विनाशांगीकारेण प्रारब्धभोगाय विलंबस्य भाव्यत्वादुक्तं युक्तमेवेति सिद्धं ॥
</4-1-15>
<4-1-16>
(16) ॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥
ननु ज्ञानिकृतपूर्वोत्तरपुण्ययोरश्लेषविनाशौ विद्येते न वा। नाद्यः। इष्टविघातिनो ज्ञानस्यापुरुषार्थत्वप्रसंगात्। द्वितीये मोक्षभावप्रसंगः। प्राचीनबहुपुण्यबोगसमये पुनः पुनः पुण्यानुष्ठानसंभवेनापर्यवसानादिति प्राप्ते समादधत्सूत्रमाह ॥
॥ अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनादिति ॥ अस्यार्थः ॥ तु शब्दो विशेषद्योतकः। अग्निहोत्रादिजिज्ञासुब्रह्मज्ञानिकृताग्निहोत्राद्यकाम्यकर्मतत्कार्यायैव ज्ञानमोक्षोभयकार्ययैव भवति। कुतः। तद्दर्शनात्। तथा न हास्येति (बृ. 3-4-15.) श्रुतावुक्तत्वादित्य्रथः ॥
एवंचाकाम्यानां पुण्यानामश्लेषविनाशाभावात्। तावता मोक्षस्यासंभवाभावात्। प्राचीनपुण्यस्य ज्ञानजन्मन्युपयोगात्। उत्तरस्य तु ज्ञानकार्यमोक्षानुप्रवेशादुक्तं योग्यमिति सिद्धं ॥
</4-1-16>
<4-1-17>
(17) ॥ अतोऽन्यदपीत्येकेषामुभयोः ॥
काम्यपुण्यविषय इति द्वितीयपक्षं पराकुर्वत्सूत्रमुपन्यस्यति ॥
॥ अतोऽन्यदपीत्येकेषामुभयोरिति ॥ अस्यार्थः ॥ अतः प्रारब्धकर्मादन्यत् भिन्नं ज्ञानात्पुर्वोत्तरकाम्यं पुण्यं अनिष्टं अप्रारब्धं च विनाशाश्लेषौ प्राप्नोति। कुतः। यत इत्येवं प्रकारेणैकेषां शाखिनां शाखासूभयोर्ज्ञानोत्तरपूर्वयोरप्रारब्धानभीष्टयोः काम्यपुण्ययोः परित्यागेन पाठोऽस्ति। अत इत्यर्थः ॥
एवंच मुक्तावनुभवकारणादन्यदप्रारब्धमनभीष्टं काम्यं पुण्यं यत्तस्य विनाशत्वादलेपश्च ज्ञानोत्तरं क्रियमाणस्येति तस्य पुत्रा दायमुपयंतीति [शाट्यायन.] वचनादुक्तं योग्यमिति सिद्धं ॥
</4-1-17>
<4-1-18>
(18) ॥ यदेव विद्ययेति हि ॥
ननु यदुक्तं ज्ञानिकृतोत्तरकालीनाकाम्यपुण्यस्य कथं मोक्षानुप्रवेशः। कर्मणो नाशशिरस्काल्पफलर्त्वोदित्याशंकां परिहरत्सूत्रं पठति ॥
॥ यदेव विद्ययेति हीति ॥ अस्यार्थः ॥ ज्ञानिकृतमल्पमपि पुण्यमक्षयफलं भवति। कुतः। हि यस्मात्। यदेव विद्ययेति (छां. 1-1-10.) श्रुतिरस्ति। अत इत्यर्थः ॥
एवंच ज्ञानिकृतस्यानंतफलप्रतिपादकनिर्दिष्टश्रुतिसद्भावात्। तथा च ज्ञानिकृतकर्मणो मोक्षानुप्रवेश इति सिद्धं ॥
</4-1-18>
<4-1-19>
(19) ॥ भोगेन त्वितरे क्षपयित्वाऽथसंपत्स्यते ॥
नन्वेवमपि द्वेषिज्ञानिनोर्न मोक्षतमसी सिध्यतः। प्रारब्धप्रतिबंधसद्भावादिति प्राप्ते सूत्रं पठति ॥
॥ भोगेन त्वितरे क्षपयित्वाऽथ संपत्स्यत इति ॥ अस्यार्थः ॥ तु शब्दो ज्ञानिनः प्रारब्धभोगोपमर्दरूपविशेषद्योतकः। ज्ञानी भोगेन भोगानुवेन। इतरे प्रारब्धपुण्यपापे। क्षपयित्वा विनाश्य। अथ अनंतरं। नियमेन संपत्स्यते ब्रह्म प्राप्नोति। एवं ब्रह्मद्विद् तमः प्राप्नोतीत्यर्थः ॥
एवंचोभावपि ज्ञानिद्वेषिणौ भोगेन प्रारब्धकर्मणि क्षपयित्वा ब्रह्मतमसी प्राप्नुवतः। आरब्धेति स्मृतेः [ना.तं.] अत उक्तं युक्तमिति सिद्धं ॥
</4-1-19>
॥ इति तदधिगमाधिकरणं ॥
॥ इति चतुर्थाध्यायस्य प्रथमः पादः ॥